शरीरव्यतिरेक्यात्मप्रकरणम्


शरीरदाहे पातकाभावात् ॥ ३ । १ । ४ ॥


सूत्रान्तरमवतारयति भाष्यकारः—इतश्च व्यतिरिक्त आत्मा न
देहादिसंघातमात्रमिति ।


शरी…वात् । प्राणातिपाते पातकाभावप्रसङ्गादिति । अयं च यद्यपि
भूतचैतनानिकानां नानिष्टप्रसङ्गस्तथापि शाक्यान् प्रति द्रष्टव्यः । ते हि प्राणातिपातकृतं
पातकमिच्छन्ति । एवं च न बुद्धिरात्मेति वक्तव्ये देहादिग्रहणं विचित्राभिसन्धित्वात्
पुंसाम् । यदि कश्चिद् भूतचैतनिकोऽपि प्राणातिपातकृतं पातकं नेच्छेत् तमपि प्रति
दूषणं 1847भविष्यतीत्येवमर्थमिति मन्तव्यम् ।


462

वार्त्तिकम्—अकृतकृताभ्यागमनाशदोष इति । येनाकृतं कर्म प्राणातिपातः
तस्य पातकाभ्यागमो येन च कृतं तस्य नाश इत्यर्थः ।
शास्त्रचोदितं फलमनुष्ठातरि1848


इत्ययमुत्सर्गो यत्र पुनः शास्त्रमन्यस्य फलमाह यथा श्राद्धे वैश्वानरीयेष्ट्यादौ
तत्र भवतु पुत्रकृतस्य श्राद्धस्य पितृगामि फलम्, पितृकृताया वा जातेष्टेः पुत्रगामि
फलमिति । भावना स्मृतिहेतुः संस्कारः । यत्कायेति । येन कायेनोपलक्षितः
कश्चिच्चित्तसन्तानः1849 स कायान्तरवर्त्यपि फलं भुङ्क्त इत्यर्थः । एकनिमित्तानां
प्रत्ययानां प्रतिसंधानाद्
इति । उक्तमेतद् यथा नर्तकीभ्रूलताभङ्ग एकस्मिन् बहूनां
प्रतिसंधानमिति । सर्वावस्थोपलब्धेरिति । सर्वास्ववस्थासु बीजावयवानामुपलब्धेः
परमाण्ववस्थत्वे त्वनुपलब्धिः स्यात् । तस्मान्न बीजावयवाः पच्यमाना अङ्कुरोत्पत्तौ
परमाण्ववस्था भवन्ति, अपि त्ववयविन एव पच्यन्त इत्यर्थः । परमाण्ववस्था
बीजावयवा न बीजत्वादिजातिविशेषवन्तमारब्धुमर्हन्तीत्युक्तं सिद्धान्तिनेति मत्वा
देशयति—यदि तर्हीति । परिहरति—नानेनैवोक्तोत्तरत्वादिति । प्रतिसंधानाय
बीजत्वजातीयानवयवान् लक्षयितुमस्माभिर्बीजावयवानां परमाण्वन्तो विभागो
निषिद्धः । कल्पादौ त्वारम्भे परमाणूनां न प्रतिसन्धानमस्ति । न हि पूर्वसर्गे ये
बीजमारेभिरे सांप्रतमपि त एवारभन्ते नान्य इति प्रतिसंधाननियमः, अपि त्वन्येभ्योऽपि
भवन्तीति भावः । पैलुकण्ठः शङ्कते—आ मध्यात् पाकानुपपत्तिरिति चेत् ?
परिहरति—नाप्रतिबन्धादिति । सान्तराण्येवावयविद्रव्याणीत्यर्थः । अथायमवय
वानुप्रवेशो द्रव्यस्य विनाशकः कस्मान्न भवतीत्यत आह—यदि चायमवयवानुप्रवेश
इति । भाजनगतानामपां भाजनविनाशे अवस्थानमेव न स्यात् । सान्तरत्वे तु
तावत्य एवापो भाजने स्यन्दन्ते यावतीभिर्बहिः शीतस्पर्शोपलब्धिर्भवति, मात्रया च
तत्र कालपरिपाकवशादनवस्थानमपि । विनाशे तु सहसानवस्थानमपां भाजनगतानां
463 भवेदित्यर्थः । व्यवहिते चाव्यवहिते च स्फटिभाजने न द्रव्ये तुल्योपलब्धिरिति1850


शङ्कते—सुखी स्यामिति तत्क्रियेति चेत् ? यद्यपि विशरारवः स्कन्धाः
तथाप्यनाद्यविद्यावासनावशोऽयमेकमहङ्कारास्पदं सत्त्वं नित्यमभिमन्यमानः1851
सुखी भवेयं दुःखी मा भूवमिति तृष्णक्1852
प्रवर्तते इत्यर्थः । निराकरोति—तन्न, अननुभूतत्वादिति । यथा च क्षणिकानां
विज्ञानानां परस्परवार्तानभिज्ञतया न प्रतिसन्धानक्षमत्वं तथोपपादितमस्माभिरात्म
लक्षणावसर इति । न अनागतानामनुत्पत्तेः सत्त्वादिति । न च ब्रह्मचर्यादि
परिपाकसहितेन ज्ञानक्षणेनासमर्थो ज्ञानक्षणो जन्यते, स च न ज्ञानान्तरं1853 प्रसूत
इत्यनागतानुत्पत्तिरसमर्थस्य च क्षणस्य स्वभावतो विनाश इति युक्तम्,
असमर्थक्षणस्योत्पादस्यैव केवलात् सहकारिसापेक्षाद् वानुपपत्तेः1854 । यथा चैतत्
तथा क्षणभङ्गभङ्गावसरे उपपादयिष्यते ॥ ४ ॥


तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् ॥ ३ । १ । ५ ॥


वैनाशिको नैयायिकपक्षवत् सांख्यपक्षेऽपि हिंसातत्फलानुपपत्तिमापा
दयितुं हिंसा तत्फलसंभवं पूर्वपक्षयति—इयं तु हिंसेति । व्यक्तेरिति । सदेव हि
कार्यं कारणेन व्यज्यते, न त्वसत् क्रियते इत्यर्थः । परिहरति—नेति । त्रिविधोऽप्ययं
धर्मलक्षणावस्थारूपः परिणामो नित्याद् धर्मिणो न भिद्यते इति परिणामानित्यत्वं
धर्मिनित्यत्वेन विरुध्यते । अविरोधाय वा धर्मिणोऽप्यनित्यत्वाभ्युपगमे
वैनाशिकपक्षोक्तदोषप्रसङ्ग इत्यर्थः । गुण इति । ऋजुत्ववक्रत्वे खलु
अङ्गुल्यवयवसंयोगविशेषौ1855 सत्येव द्रव्यारम्भकसंयोगे उदयव्ययवन्तावनुभूयेते
इति ।


464

तदेतत् नैयायिकपक्षदूषणं सांख्यपक्षेऽप्यापाद्य नैयायिकं पृच्छति—
अथात्मनो नित्यस्येति । नैयायिक आह—सुखदुःखे इति । नित्यादात्मनो व्यति
रिक्ताभ्यां पुण्यपापाभ्यामात्मधर्माभ्यामनित्याभ्यामात्मधर्मावेव सुखदुःखे जन्येते
इत्यर्थः । एतदुक्तं भवति । नित्यस्यानित्यधर्माधानमेवोपकारो न तु नित्यस्वरूपकरणं
येन तदनित्यं स्यात् । धर्मश्च धर्मिणो भिन्नो न तु धर्मिस्वभावः । यथा च भेदाविशेषे
सत्यपि 1856धामधूमयोरेव कार्यकारणभावो न वह्निक्रमेलकयोर्वस्तुस्वभावनियमात्
एवं भेदाविशेषेऽपि आत्मनः पुण्यपापयोरेव धर्मधर्मिभावो नात्माकाशयोः
पुण्याकाशयोर्वेति लेशमात्रमत्रोक्तम् । विस्तरस्तु क्षणभङ्गभङ्गे भविष्यतीति ।
नानेकान्तादिति । वाद्यभिमतपरमाणुनित्यत्वग्राहि प्रमाणदार्ढ्याभि
प्रायेणानैकान्तिकत्वमुक्तम् । न तु बौद्धराद्धान्ते नित्यः परमाणुरिति । अत एवा
परितोषेणान्यथासिद्धिमाह—चर्मणश्चानित्यत्वमिति । तद्वतां च उपलादीनाम्
अवस्थानादिति । नासति विनाशप्रत्यये विनाशेऽस्ति किञ्चित् प्रमाणम् । उपलादिषु
चावयवविभागविनाशाभ्यां प्राग् न विनाशोऽनुभूयते क्षणभङ्गश्च निषेत्स्यत इति
भावः ।


आरब्धकार्याणां द्रव्यान्तरानारम्भिका इति अवयव्यारम्भकात् संयोगाद्
भेद उक्तः । विक्रियायां च दृष्टान्ताभाव इति । धर्मोत्पादमन्तरेणाविनश्यतो
धर्मिस्वरूपस्य विक्रियायामित्यर्थः । शङ्कते—यद्येवमिति । यद्येवंभूतो विकारः
यादृशो घटादीनां श्यामतानिवृत्तौ लोहितोत्पादे विकारः तादृशो नात्मन इति यदि
शङ्कसे इत्यर्थः । निराकरोति—आत्मन्यपीति । न बाह्येन्द्रियग्राह्य एव विकारोऽपि
तु धर्मान्तरोत्पत्तिमात्रम् । तच्चात्मन्यप्यस्तीति ॥ ५ ॥


न कार्याश्रयकर्तृवधात् ॥ ३ । १ । ६ ॥


465

वैकल्यं वा प्रमापणं वेति । यथा शरीरमुपघ्नन् हिनस्त्येवं चक्षुराद्युत्पाटयन्
हिनस्त्येवेति । पृच्छति—कुत एतदिति । स्वरूपतो हिंसासंभवे भाक्ती हिंसा न
युक्तेति वैनाशिकस्याभिसन्धिः । उत्तरम्—हिंसाफलोपभोगस्येति । वैनाशिक
स्यापि विशरारूणां भावानां न स्वरूपतो हिंसा कारणजन्येति विलक्षणोत्पादो
हिंसेति वक्तव्यं तत्र कारणव्यापारसंभवात्, तथा च तत्रापि हिंसा भाक्तीति
भाक्त्वस्योभयत्राप्यविशेषाद् यतरस्मिन् पक्षे कृतविप्रणाशाकृताभ्यागमदोषो नास्ति
स पक्षोऽभ्युपेतव्यः । स च नित्यात्मपक्षः । तस्मात् पारिशेष्यात् तत्सिद्धिरिति ।


ज्ञानचिकीर्षाप्रयत्नानां समवायः कर्तृत्वमिति । उपायतद्व्यापाराणामनभिज्ञो
हि चिकीर्षन्नपि न कर्ता । एवमभिज्ञोऽप्यचिकीर्षन्नकर्ता । तथा चिकीर्षन्नप्यलसतया
अप्रयतमानो न कर्तेति । सुखदुःखसंवित्समवाय इति । स्वसुखदुःखेति द्रष्टव्यम् ।
अस्ति हि परकीयसुखदुःखसाक्षात्कारो योगिनां न चैते भोगिनः ॥ ६ ॥


॥ इति शरीरव्यतिरेक्यात्मप्रकरणम् ॥

  1. भवत्येवम° C

  2. द्रः पूर्वमीमांसासूत्र ३. ७. १८

  3. °सन्तानो यत्कायचित्तसन्तानः तेन कायेनोपलक्षितो
    यश्चित्तसन्तानः
    J

  4. व्यवहिते द्रव्ये स्फटिकभाजने न तुल्यो° C

  5. सत्त्वमित्यभि° C

  6. अनुत्पत्तिः
    संस्काराणाम्
    J

  7. कार्यान्तरं J

  8. °स्यैव सहकारिसापेक्षत्वानपेक्षत्वानुपपत्तेः C

  9. खलु गुणौ प्रचयसंयोगविभागविशेषौ C

  10. वह्निधूमयो° C