465

वैकल्यं वा प्रमापणं वेति । यथा शरीरमुपघ्नन् हिनस्त्येवं चक्षुराद्युत्पाटयन्
हिनस्त्येवेति । पृच्छति—कुत एतदिति । स्वरूपतो हिंसासंभवे भाक्ती हिंसा न
युक्तेति वैनाशिकस्याभिसन्धिः । उत्तरम्—हिंसाफलोपभोगस्येति । वैनाशिक
स्यापि विशरारूणां भावानां न स्वरूपतो हिंसा कारणजन्येति विलक्षणोत्पादो
हिंसेति वक्तव्यं तत्र कारणव्यापारसंभवात्, तथा च तत्रापि हिंसा भाक्तीति
भाक्त्वस्योभयत्राप्यविशेषाद् यतरस्मिन् पक्षे कृतविप्रणाशाकृताभ्यागमदोषो नास्ति
स पक्षोऽभ्युपेतव्यः । स च नित्यात्मपक्षः । तस्मात् पारिशेष्यात् तत्सिद्धिरिति ।


ज्ञानचिकीर्षाप्रयत्नानां समवायः कर्तृत्वमिति । उपायतद्व्यापाराणामनभिज्ञो
हि चिकीर्षन्नपि न कर्ता । एवमभिज्ञोऽप्यचिकीर्षन्नकर्ता । तथा चिकीर्षन्नप्यलसतया
अप्रयतमानो न कर्तेति । सुखदुःखसंवित्समवाय इति । स्वसुखदुःखेति द्रष्टव्यम् ।
अस्ति हि परकीयसुखदुःखसाक्षात्कारो योगिनां न चैते भोगिनः ॥ ६ ॥


॥ इति शरीरव्यतिरेक्यात्मप्रकरणम् ॥

चक्षुरद्वैतप्रकरणम्


सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥ ३ । १ । ७ ॥


इतश्च देहादिव्यतिरिक्त आत्मा कुतः ? सव्य…नात् ॥ तत्र
मानसमनुव्यवसायलक्षणं प्रत्यभिज्ञानं भाष्यकारो दर्शयति—तमेवैतर्हीति । व्यवसायं
बाह्येन्द्रियजं प्रत्यभिज्ञानमाह—स एवायमर्थ इति । अस्यैव चानुव्यवसायः पूर्वः ।


तदेतत् प्रकरणं वार्त्तिककारो दूषयति—सिद्धत्वादनारम्भ इति । युक्तोऽन्यः
समुच्चयः
शास्त्रे । अयमभिसन्धिः । काणस्तथा न पश्यति पिहितैकलोचनो वा यथा
अविकलेन्द्रियः । तत्र यदि सव्यदक्षिणाधिष्ठानभेदभिन्नं चक्षुः, न चैतद् द्वयमणुना
मनसा युगपदधिष्ठातुं शक्यमित्यन्यतरदधिष्ठेयम् । तथा च सर्व एवैकैकेन चक्षुषा