चक्षुरद्वैतप्रकरणम्


सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥ ३ । १ । ७ ॥


इतश्च देहादिव्यतिरिक्त आत्मा कुतः ? सव्य…नात् ॥ तत्र
मानसमनुव्यवसायलक्षणं प्रत्यभिज्ञानं भाष्यकारो दर्शयति—तमेवैतर्हीति । व्यवसायं
बाह्येन्द्रियजं प्रत्यभिज्ञानमाह—स एवायमर्थ इति । अस्यैव चानुव्यवसायः पूर्वः ।


तदेतत् प्रकरणं वार्त्तिककारो दूषयति—सिद्धत्वादनारम्भ इति । युक्तोऽन्यः
समुच्चयः
शास्त्रे । अयमभिसन्धिः । काणस्तथा न पश्यति पिहितैकलोचनो वा यथा
अविकलेन्द्रियः । तत्र यदि सव्यदक्षिणाधिष्ठानभेदभिन्नं चक्षुः, न चैतद् द्वयमणुना
मनसा युगपदधिष्ठातुं शक्यमित्यन्यतरदधिष्ठेयम् । तथा च सर्व एवैकैकेन चक्षुषा
466 पश्यतीति पिहितैकलोचनेन तुल्योपाम्भोऽविकलाक्षस्य स्यात्, न चैवमस्ति ।
एकत्वे तु तदुभाभ्यामधिष्ठानाभ्यां विनिर्यत् क्वचिदपि मनसाधिष्ठितमेवेत्यविकलाक्षस्य
न विकलाक्षवदुपलम्भप्रसङ्गः । तस्मादेकमनेकाघिष्ठानं चक्षुरिति । प्रकरणविरोध
श्चेन्द्रियपञ्चत्वादिति ।
न चैतदेकस्मिन् शरीरे जात्यभिप्रायं घ्राणादीनां व्यक्तीनां
चतसॄणां व्यक्त्यन्तरेण समभिव्याहारोपपत्तेर्न तु जात्या । न हि भवति ब्राह्मण
युधिष्ठिरावागताविति किं तु ब्राह्मणराजन्याविति वा वसिष्ठयुधिष्ठिराविति वेति ॥ ७ ॥


नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ॥ ३ । १ । ८ ॥


तदेतच्चक्षुरैक्येनाक्षिपति—नैक…त् ॥ ८ ॥


एकविनाशे द्वितीयाविनाशान्नैकत्वम् ॥ ३ । १ । ९ ॥


समाधत्ते—एक…त्वम् ॥ विनाशाविनाशलक्षणविरुद्धधर्मसंसर्गात्1857
नानात्वमित्यर्थः । विनष्टेऽप्येकस्मिन्नधिष्ठाने योऽविनष्टोऽवशिष्यते तेन प्रत्ययमात्रं
काणस्येव भवति ॥ ९ ॥


अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः ॥ ३ । १ । १० ॥


आक्षेप्ताह—अव…तुः ॥ १० ॥


दृष्टान्तविरोधादप्रतिषेधः ॥ ३ । १ । ११ ॥


467

समाधाता आह—दृष्टा…धः ॥ तृतीयं व्याख्यानमाह—अथ वा
एकविनाशस्यानियमादिति ।
एकत्वे चक्षुषो विनाशनियमो न स्यात् । सव्यस्यैव
चक्षुषो न दक्षिणस्यैव वेति1858 । एकत्वात् सव्यविनाशे दक्षिणस्यापि विनाशप्रसङ्गात् ।
दृश्यते चायं नियमः । तस्माद् द्वावर्थौ पृथगावरणौ पृथगुपघातौ चेति । अपि च यदि
चक्षुरेकं मध्येन नासावंशेनावपीडितम्, ततोऽङ्गुल्यावपीडितं यथैकमर्थं भिन्न
मिवावभासयति अवपीडने च निवर्तमाने भिन्नावभासितावर्थौ1859 संदधातीव तथा
नासावंशावपीडितं भिन्नमिव दर्शयेत्, तन्निवृत्तौ संदध्यादिवेत्याह—अव
पीडनाच्चैकस्य चक्षुष
इति । रश्मिभेदाद् विषयसन्निकर्षस्य भेद इत्यर्थः ।
अङ्गुल्यवपीडितेन चक्षुषा दृष्टान्तेन विरोधादित्यर्थः । एकविनाशे इतराविनाशो वा
दृष्टान्तः । तेन विरोधादिति । स खलु दृश्यमानश्च एकान्तावधारणाद् अन्तश्चेति
दृष्टान्त इति सूत्रार्थः ।


न च नासावंशावपीडनेन सर्वेषां सर्वदा सर्वत्र द्विचन्द्रवद्विभ्रमप्रसङ्गः,
आगन्तुकमवपीडनं भ्रमहेतुर्नौत्पत्तिकमिति कार्यदर्शनात् कल्प्यते ॥ ११ ॥


इन्द्रियान्तरविकारात् ॥ ३ । १ । १२ ॥


तदेवं प्रतिसन्धानद्वारेणात्मनि प्रत्यक्षं प्रमाणयित्वा अनुमानमिदानीं प्रमाणयति—
अनुमीयते चायमिति । विप्रतिपन्नं हि प्रति प्रतिसन्धानमनुमानमुक्तम् । परमार्थतस्तु
अनुभवानुसारमार्गोऽसाविति मन्तव्यम् । इन्द्रि…त् ॥ कस्यचित् फलस्य
चिरविल्वादेरम्लस्याम्लेन रसेन सहचरितं रूपं वा गन्धं वानुभवति । अथ तत्सहचरितं
रसमनुस्मरति । स्मृत्वा चेच्छति । इच्छातोऽस्य रसनेन्द्रियविकारो दन्तोदकसंप्लव
लक्षणः प्रवर्तते । तद्दर्शनाच्चास्येच्छानुमीयते । इच्छया च स्मृतिः । सेयं स्मृतिरसत्या
त्मनि सर्वेन्द्रियविषयवेदिनि न भवितुमर्हतीति ॥ १२ ॥


468

न स्मृतेः स्मर्तव्यविषयत्वात् ॥ ३ । १ । १३ ॥


अस्याक्षेपसूत्रम्—न स्मृ…त् ॥ स्मृतिरात्मानं कारणत्वेनावगमयेत्, विषयत्वेन
वा ? न तावत् कारणत्वेन तस्याः संस्कारकारणत्वात् । न विषयत्वेन स्मर्तव्यविषयत्वात् ।
स्मृताच्च तस्मादिन्द्रियान्तरविकारोत्पत्तिरित्यर्थः ॥ १३ ॥


तदात्मगुणसद्भावादप्रतिषेधः ॥ ३ । १ । १४ ॥


समाधत्ते—तदा…धः ॥ असत्यात्मनि स्मृत्यनुत्पत्तिं दर्शयित्वा स्मर्तव्यार्थ
विषयैव स्मृतिर्नात्मादिविषयेति पूर्वपक्षिणोऽवधारणं खण्डयति—अपरिसंख्यानाच्च
स्मृतिविषयस्येति ।
मानसानुव्यवसायजनितसंस्कारकारणासु चतसृष्वपि स्मृतिषु
नार्थमात्रं विषयः । अपि तु ज्ञानज्ञातृज्ञेयानि सर्व एव विषयाः । चतुर्षु च वाक्येषु एकत्र
कारकान्निष्कृष्टा ज्ञानक्रिया, यथा अमुष्मिन् मम ज्ञानमभूदिति अगृह्यमाणोऽप्यर्थः
स्मृतिसन्निधापनामुष्मिन्नित्युच्यते । कारकादनिष्कृष्टाप्येकत्र पूर्वापरीभूतभावनाप्रधाना
ज्ञानक्रिया गम्यते, यथा अज्ञासिषमहममुमर्थमिति । अन्यत्र ज्ञानभावने कारकादनिष्कृष्टे
कर्तृप्रधाने यथा ज्ञातवानहममुमर्थमिति । अन्यत्र तु ज्ञानभावने कारकादनिष्कृष्टे
कर्मप्रधाने यथा असावर्थो मया ज्ञात इति । समानार्थमिति । ज्ञानज्ञेयज्ञातृप्रकाशनं
समानमित्यर्थः । एवं तावदगृह्यमाणेऽर्थे स्मृतिः प्रदर्शिता । अथ प्रत्यक्षेऽर्थे स्मृतिः
प्रदर्श्यते—अथ प्रत्यक्षेऽर्थ इति । स्मृतिरिति प्रत्यभिज्ञानमाह स्मृतिच्छायावाहित्वात् ।
अद्राक्षमिति 1860पूर्वानुभूतमर्थमर्थदर्शनं परामृशति । तेनार्थदर्शनानुभवः कल्प्यताम् ।
1861अनुभवानुभवकल्पना तु कुतस्त्येत्यत आह—न खल्वसंविदिते स्वे दर्शने इति ।
अपि त्वर्थदर्शनं तद्दर्शनं च संविदिते एवेत्यर्थः । कुत एतदित्यत
आह—स्यादेतदद्राक्षमिति । यस्मादनुभवानुभवपुरःसरं यत्राद्राक्षमेतदिति भवति
469 नूनं तत्रानुभवानुभवप्रथाप्यभूदिति कल्पनीयमित्यर्थः । इतोऽपि न शरीरगुणः स्मृतिः
बाल्ये अनुभूतस्य वार्धके स्मरणात् । अन्यद्धि बालशरीरमन्यच्च वृद्धशरीरमिति ।
आस्तां तावत् प्रत्यभिज्ञानं सादृश्यमपि दुर्विज्ञानम् । न च परमाणूनां चैतन्यम् । ते हि
प्रत्येकं वा चेतयेरन् मिलिता वा ? पूर्वस्मिन् कल्पे अनेकचैतन्ये एकस्मिन् शरीरे
नैकमत्यनियमो1862 भवेत् । न हि नानाचेतनानामैकमत्यनियमो दृष्टः । मिलितानां तु
चैतन्ये परमाणूनामावापोद्वापभेदेन मेलकस्य नानात्वात् स एवान्योपलब्धस्यान्येन
स्मृत्यभावप्रसङ्गः । तस्मान्न शरीराधारा चेतनेति ।


परेषां कारिकां दूषयति वार्त्तिककारः—एतेन न तच्चक्षुषि नो रूप इति
प्रत्युक्तम् ।
आत्मनः पारिशेष्यात् सिद्धेः स्मृत्याधारत्वव्युत्पादनेनेत्यर्थः । यत्राधिकरणे
तज्ज्ञानं निष्ठितं भवेत्, न तदधिकरणमस्ति न च नास्तीति व्याहतम् । स्यादेतत् । नायं
विशेषप्रतिषेधो न चक्षुषि विज्ञानं न रूप इति, किन्तु ये चक्षुराद्याश्रयं विज्ञानं मन्यन्ते
तन्मतं प्रतिषिध्यते । आधारवत्त्वं तु न प्रतिषिद्धमप्रसक्तत्वादित्यत आह—कस्य
वेति ।
अपि चैषा कारिका आत्माभावविवक्षया प्रयुक्ता आत्मसत्त्वमेव प्रतिपादयन्ती
विवक्षितविरुद्धेत्याह—अयं च विज्ञानस्येति ।


तदेवं भाष्यमतेनेन्द्रियान्तरविकारादिति सूत्रं व्याख्याय वार्त्तिककारः स्वमतेन
व्याचष्टे—अथ वा एकस्येति । उक्तमेव प्रतिसन्धानं पुनरिन्द्रियान्तरविकारद्वारेण
दर्शयति सूत्रम् । यथा च प्रतिसन्धानं देहेन्द्रियादिव्यतिरिक्तमात्मानं प्रतिपादयति
तथाधस्तादेव विवृतमित्याह—उक्तन्यायमिति ॥ १४ ॥


॥ चक्षुरद्वैतप्रकरणम् ॥

  1. धर्माध्यासात् C

  2. दक्षिणस्येति C

  3. °भासौ तावर्थौ C

  4. पूर्वार्थम°C

  5. अनुभवकल्पना°C

  6. नैकमित्य° C