461 प्रमाणसंशयविपर्यासस्मृतिषु योऽनुस्यूत एक उपलभ्यते स चेतनः स्वातन्त्र्ये
सत्यव्यवस्थानात् । यस्त्वचेतनो नासौ स्वातन्त्र्ये सत्यव्यवस्थितो यथा चक्षुरादीति
व्यतिरेकी हेतुः । यद्यव्यवस्थानादित्येतावन्मात्रमुच्येत, ततो मनसानैकान्तिकः
स्यादत उक्तम्—स्वातन्त्र्ये सतीति । अथ वा कृतमव्यवस्थानेन स्वातन्त्र्यमेव
केवलमस्तु चैतन्यसाधनमित्याह—नाचेतन आत्मेति । आत्मेति प्रमाणसंशय
विपर्ययस्मृतिष्वनुस्यूतमनुभूयमानमुपलक्षयति । निराकृतमप्यर्थं प्रकारान्तरेण
पुनरुपन्यस्य निराकरोति—पृथिव्यादिनित्यत्वसाधन इति ।


तदेतच्चेतनवृत्तं देहादिभ्यो व्यावर्तमानं तदतिरिक्तं चेतनं साधयतीति स्थितम् ।
नेच्छाद्याधारत्वं देहादीनामिति ॥ ३ ॥


॥ इन्द्रियभेदप्रकरणम् ॥

शरीरव्यतिरेक्यात्मप्रकरणम्


शरीरदाहे पातकाभावात् ॥ ३ । १ । ४ ॥


सूत्रान्तरमवतारयति भाष्यकारः—इतश्च व्यतिरिक्त आत्मा न
देहादिसंघातमात्रमिति ।


शरी…वात् । प्राणातिपाते पातकाभावप्रसङ्गादिति । अयं च यद्यपि
भूतचैतनानिकानां नानिष्टप्रसङ्गस्तथापि शाक्यान् प्रति द्रष्टव्यः । ते हि प्राणातिपातकृतं
पातकमिच्छन्ति । एवं च न बुद्धिरात्मेति वक्तव्ये देहादिग्रहणं विचित्राभिसन्धित्वात्
पुंसाम् । यदि कश्चिद् भूतचैतनिकोऽपि प्राणातिपातकृतं पातकं नेच्छेत् तमपि प्रति
दूषणं 1847भविष्यतीत्येवमर्थमिति मन्तव्यम् ।


  1. भवत्येवम° C