609

प्रासङ्गिकमवयवावयविप्रकरणम्


विद्याविद्याद्वैविध्यात् संशयः । ४ । २ । ४ ॥


तदेवं स्वमतेन प्रसंख्यानोपदेशमुक्त्वा पराभिमतप्रसंख्यानं निराकर्तु
मुपन्यस्यति—अथेदानीमर्थं निराकरिष्यता विज्ञानवादिना अवयविनि
निराकरणमुपपाद्यते ।
अर्थविषये2231 खल्ववयव्यनुव्यञ्जनसंज्ञे । तत्रार्थमात्रस्याभावात्
कुतोऽवयव्यनुव्यञ्जनसंज्ञे2232 ? तन्निराकरणाय प्रथममवयवी निराक्रियते, पश्चात्
परमाणुः । ततश्च ज्ञानमात्रमर्थरहितं सिद्धं भवतीत्यभिप्रायः ।


तत्र संशयपूर्वकत्वादुपपादनस्य विचारस्य संशयं प्रथममाह—विद्या…
संशयः ॥
उपलब्धिर्विद्या अनुपलब्धिरविद्या । सच्चोपलभ्यते यथा तडागे तोयम्,
असच्चोपलभ्यते यथा मरुमरीचिकायामुदकम् । सच्च नोपलभ्यते, यथा चिरनिखातं
भूमौ निध्यादि । असच्च नोपलभ्यते, यथा भूतले दृश्यमाने तत्तुल्योपलभ्मनयोग्यतो
घटादिः । तदेवं विद्याविद्याद्वैविध्यादवयविनि संशयः । यद्यवयव्युपलभ्यते तथापि
संशयः, अथ नोपलभ्यते तथापि संशय इत्यर्थः ॥ ४ ॥


तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥ ४ । २ । ५ ॥


अत्र सिद्धान्ती वक्ष्यमाणमप्यवयविनिराकरणहेतुं निराकरिष्यामीत्या
शयवानाह—तदसंशयः…त्वात् ॥ अवयविनः । वार्त्तिककारस्तु स्वयं संशयं
निराकरोति, न विद्याविद्याद्वैविध्यं संशयस्य कारणमिति2233 ॥ ५ ॥


610

वृत्त्यनुपपत्तेरपि न संशयः ॥ ४ । २ । ६ ॥


पूर्वपक्षवाद्याह—वृत्त्यनुपपत्तेरपीति ॥ ६ ॥


कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ॥ ४ । २ । ७ ॥


वृक्षस्तिष्ठति शाखादिषु शाखादयो वा वृक्ष इति लौकिकीं प्रतिपत्तिमनुरुध्यमानो
विकल्पयति वार्त्तिककारः—अवयवा अवयविनि इति । एकद्रव्यश्चावयवः
प्राप्नोति ।
कुतः ? एकावयविवृत्तित्वात् । भवतु को दोष इत्यत आह—
चैकद्रव्यं द्रव्यमविनश्यदाधारमस्ति ।
कृतकस्य नित्यत्वप्रसङ्गादिति शेषः ।
अवयव्येकदेशेनेति । अवयविनो य 2234एकदेशस्तेनावयवोऽवयविनि वर्तत
इत्यर्थः । न ह्यस्यावयविनोऽन्येऽवयवेभ्य2235 एकदेशावयवाः सन्तीति ॥ ७ ॥


तेषु चावृत्तेरवयव्यभावः ॥ ४ । २ । ८ ॥


एकेनावयवेनारभ्यत इति सततोत्पत्तिप्रसङ्गः । संयोगाय किल चरमभाविने
अवयवव्यापारस्तन्निमित्तानि चापेक्ष्यन्ते । एकद्रव्यस्य तूत्पत्तिं प्रति न संयोगापेक्षेति
यावदवयवमवयव्युत्पद्येतेत्यवयव्यनवरुद्धो न कदाचिदवयवो दृश्येतेत्यर्थः ॥ ८ ॥


पृथक् चावयवेभ्योऽवृत्तेः ॥ ४ । २ । ९ ॥


अवयवव्यतिरेकेण वर्तमानोऽवयव्युपलभ्येत, न चास्याधारान्तरमुपलभ्यते ।
दृश्यमानाश्चावयवा नाधिकरणमस्येति 2236भवतैवंवादिना अभ्युपगतमित्यभिप्राये
णाह—नित्यश्च स्यात् ॥ ९ ॥


611

न चावयव्यवयवाः ॥ ४ । २ । १० ॥


यस्तु मन्येत अवयवानां धर्ममात्रमवयवी न त्ववयवेभ्योऽत्यन्तं भिन्नोऽभिन्नो
वा, भिन्नत्वे गवाश्ववद्धर्मधर्मिभावानुपपत्तेः । अभेदेऽपि धर्मरूपवत् तदनुपपत्तेश्च ।
तस्मात् कथंचिद् भिन्नः कथंचिदभिन्नो धर्ममात्रमवयवानामवयवीति, तं प्रत्याह—
चा…यवाः ॥
न तावद् भेदाभेदौ परस्पराभावात्मानावेकत्र समाविशत2237 इत्युक्तम् ।
नाप्यात्यन्तिके अभेदे धर्मधर्मिभावः । तस्माद् यथा आत्यन्तिकभेदेऽपि केषाञ्चिदेव
कार्यकारणभावः, तथा केषांचिदेव धर्मधर्मिभाव इत्येषितव्यम् । तथा च दूषणमि
त्यर्थः । अवयवी चैकदेशेनावयवेषु वर्तते इत्यवयवसमूहमात्रमवयवी प्राप्नोति
इति ।
अस्यायमर्थः । अवयवे हि वर्तमानोऽवयवीत्युच्यते । अवयव्येकदेशाश्चेदवयवेषु
वर्तन्ते, एकदेशा एव तर्ह्यवयविनः । ते च नानेत्यवयवसमूहमात्रमवयवी प्राप्नोति ।
एकस्मिंश्चावयवे एकदेशेन वर्तमानोऽवयवीति न तावदवयवी क्वचिदवयवे वर्तते
इति तदेकदेशानां तत्र तत्रावयवे वृत्तेः तावन्मात्रेण चावयविनो ग्रहणमिति
यत्रैवास्यैकदेशो वर्तते तत्रैव ग्रहीतव्यः । तथा चैकस्मिन् तन्तौ पटैकदेशो वर्तते इति
तन्तावेकस्मिन् पटो दृश्येतेत्यर्थः ॥ १० ॥


एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥ ४ । २ । ११ ॥


सिद्धान्तवाद्याह—एकस्मिन्…अप्रश्नः ॥ ११ ॥


अववयवान्तरभावेऽप्यवृत्तेरहेतुः ॥ ४ । २ । १२ ॥


एकदेशेन चावयवी न स्वावयवेषु वर्तत इत्यत्र प्रतिज्ञार्थे अवयवान्तरा
भावादित्यहेतुः । कस्मात् ? यद्यप्यवयवान्तरमवयविनो भवति, तथाप्यवयवा
612 न्तराण्येवावयविनोऽवयवान्तरेषु वर्तन्ते किमायतमवयविवृत्तेरिति । एकश्चानेकत्र
वर्तत इति प्रतिजानानः किं कार्त्स्न्येन किमेकदेशेनेति नानुयोक्तव्यः । कस्मात् ?
उभयेन कार्त्स्न्येन एकदेशेन वा नानात्वैकार्थसमवायिना एकस्यावयविनो व्याघातात् ।
एतदुपजीव्याह—यद्यवयवी नैकदेशेन वर्तते न कार्त्स्न्येन, अथ कथं वर्तत
इति ?


शङ्कते—रूपाद्यन्तरानिर्देशादिति चेत् ? सोपहासं दृष्टान्तमाह—यथा
अचित्रास्तन्तव पटं चित्रमारभन्त
इति । नैयायिकैः किलाचित्रैस्तन्तुभिश्चित्रः
पट आरभ्यत इत्यभ्युपेयते । तच्चैतदयुक्तम् । न तावच्चित्रं रूपमेकं पटसमवेतं
स्ववचनविरोधात् । नाना हि चित्रमुच्यते, तत् कथमेकमिति । तेन यदुक्तं नानैकमिति,
तदुक्तं भवति चित्रमेकमिति । यदाहुः

चित्रं तदेकमिति चेदिदं चित्रतरं महत्2238

इति ।


न च नीलपीतादयो बहवोऽव्याप्यवृत्तयश्चित्रपदास्पदमिति साम्प्रतम्, रूपादीनां
व्याप्यवृत्तित्वात् । तेऽमी विवादाध्यासिता नीलपीतसितादयो व्यापनीया आश्रयवृत्तयो
रूपजातीयत्वात् शुक्लपटगतरूपवदिति । उपपन्न उपहासो यथा अचित्रास्तन्तवः
पटं चित्रमारभन्त इति । निराकरोति—नोपलभ्यमानरूपाधारत्वात् । अवयविनो
रूपं निर्दिश्यतामित्येवं ब्रुवाणेनेति ।
अवयवोऽस्यास्तीत्यवयवी, अवयवश्च
कारणम्, तद्वांश्चावयवी कार्यमिति कार्यकारणभावाभ्युपगमः 2239कृतो भवति, न च
प्रसङ्गसाधनं नाम किंचिदस्ति प्रमाणम्, तर्कस्तु भवेत् । न चायं प्रमाणेनेतिकर्तव्यतां
विना प्रमाणमर्थं साधयितुमर्हतीत्यभिप्रायः2240 । यदपि त्वयोपहासाभिप्रायेण पटरूपं
चित्रं दृष्टान्तीकृतं तत्राभिप्रायस्तावद् भवतु2241 यादृशस्तादृशो वा, वचनात् तावदयं
दृष्टान्तः प्रतिभाति । दृष्टान्तश्च वादिप्रतिवादिनोरविवादविषय इति तत्साधनं व्यर्थम् ।
तथापि उपेत्य चित्रविवादं ब्रूमः त्वां प्रति चित्रं रूपं पटसंबन्धितया साधयामः
613 त्वदभिप्रायप्राप्तोपहासनिराकरणायेत्यर्थः । पटस्य चित्रं रूपमित्यनुभव एवात्रा
बाधितः प्रमाणमिति भावः ।


बौद्धः स्वाभिप्रायमुद्घाटयति—अनेकत्वप्रसङ्ग इति चेद् इति ।
निराकरोति—न, चित्रशब्दस्यैकानेकविषयत्वात् । यदि नानैव चित्रमुच्येत स्याद्
विरोधः, किं त्वेकस्मिन्नपि चित्रपदं प्रयुज्यते । तस्मान्नैकत्वेनास्य विरोध इत्यर्थः ।
देशक आह—न, एकस्मिन्नदृष्टत्वात् । एकस्मिंश्चित्रग्राहिणोऽनुभवस्यादृष्टत्वात् ।
पुरुषविवक्षाधीनप्रवृत्तयस्तु शब्दाः क्व नाम दुर्लभा इति भावः । परिहरति—न,
अभ्युपेतहानेरिति
न तावदनेकपदपर्यायश्चित्रशब्दोऽनेकं चित्रमित्यनेकपदेन
सामानाधिकरण्यं प्रतिपत्तुमर्हति, पर्यायशब्दानां सहप्रयोगानुपपत्तेः । दृश्यते तु
प्रयोगोऽनेकं चित्रमिति तस्माद् यथा शुक्लानि नाना तथा चित्राणि नानेत्यभ्युपेयम् ।
तथा चैकं शुक्लमनभ्युपगच्छतो यथा शुक्लनानात्वाभ्युपगमो हीयते, एवमेकैकं2242
चित्रमनभ्युपगच्छतश्चित्रनानात्वाभ्युपगमो हीयत इत्यर्थः । शङ्कान्तरमाह—अथा
नेकमचित्रमिति ।
निराकरोति—एवमपीति । शङ्कते—अथाचित्राणीति ।
निराकरोति2243एवं च न किञ्चिदिति । इष्यत एवास्माभिर्यथावयवसमवेतैः
सितहरितलोहितादिभिरसमवायिकारणैरवयविनि चित्रं रूपमारभ्यत इति ।
देशयति—पुटान्तर इति । पुटान्तरं पार्श्वान्तरम् । परिहरति—भवतैवेदमुक्तमिति ।
एकोऽपि गुण आरभत इति मत्वाशङ्कते—चित्रप्रत्ययस्तत्रेति । निराकरोति—
प्रसक्त
इति । ननु यच्चित्राचित्राभ्यामारब्धमवयविनो रूपं तदपि पीतादिवन्नि
र्दिश्यताम्, न च शक्यं निर्देष्टुम् । तस्मान्नास्तीत्यत आह—एतावदिति । अनिर्वाच्यमप्य
नुभूयमानमशक्यापह्नवम् । यथा
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत्2244


इत्यर्थः । न चावयवरूपादवयविनो ग्रहणं युक्तमिति । न द्रव्यान्तररूपेण
द्रव्यान्तरे चाक्षुषत्वं दृष्टम् । न खलु पृथिव्यादिरूपेण वायुश्चाक्षुष इत्यर्थः ।
614 प्रकृतमुपसंहरति—तस्मादिति । अविकल्पिता अविचारिता इत्यर्थः ॥ १२ ॥


केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः ॥ ४ । २ । १३ ॥


सर्वाग्रहणमवयव्यसिद्धेरित्यत्र प्रत्यवस्थितः पूर्वपक्षी अथेदमाहेति—
केशसमूहे…तदुपलब्धिः2245 इत्यादिसूत्रभाष्यवार्त्तिकानि पूर्वपक्षसिद्धान्त
योरतिरोहितार्थानि ॥ १३ ॥


स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य
तथाभावो नाविषये प्रवृत्तिः ॥ ४ । २ । १४ ॥


अवयवावयविप्रसङ्गश्चैवमा प्रलयात् ॥ ४ । २ । १५ ॥


अपि चायं वृत्तिविकल्प आश्रयव्याघातादयुक्त इत्याह—अवय……
यात्
॥ १५ ॥ अत्र त्रयः कल्पाः2246 संभवन्ति । योऽयमवयवेषु अवयवि
वृत्तिविकल्पानुपपत्त्या अवयविनोऽभावप्रसङ्ग आपाद्यते, स आ प्रलयाद् वा
निवर्तेत आ परमाणोर्वा, न वा क्वचिदपि निवर्तत इति । तत्र प्रथमद्वितीय
विकल्पावाश्रित्येदं सूत्रम् । यथैव वृत्तिविकल्पः स्थूले घटादावेवं तदवयवेषु
तदवयवेष्विति तत्तदभावात् प्रलये व्यवतिष्ठेत । न च तदा प्रलयः सर्वोपाख्याविरहितो
दर्शनविषयः संभवतीति दर्शनविषयाभावादनाश्रयो विकल्प आत्मानमेव न लभते ।
उपलक्षणं चैतद् आ प्रलयादिति । आ परमाणोरित्यपि द्रष्टव्यम् । परमाणूनाम
प्यतीन्द्रियत्वेन दर्शनविषयत्वाभावादनाश्रयता विकल्पस्य तदवस्थैव । तदिदमुक्तं—
निरवयवाद् वा परमाणुतो निवर्तेत इति ॥ १५ ॥


615

न प्रलयोऽणुसद्भावात् ॥ ४ । २ । १६ ॥


अथापीति अपि चेत्यर्थः । अपि च प्रलयमभ्युपेत्येदमुक्तम् आ प्रलयादिति ।
2247परमार्थतस्तु—न प्रलयोऽणुसद्भावात् ॥ निरवयवत्वे प्रमाणमाह—निरवयवत्वं
तु परमाणोरिति
॥ १६ ॥


परं वा त्रुटेः ॥ ४ । २ । १७ ॥


अथानन्त एवायमवयवावयविविभागः कस्मान्न भवतीत्यत आह—परं वा
त्रुटेः ॥
त्रुटिस्त्रसरेणुरित्यनर्थान्तरम् ।

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।

यदि त्रुटेः परं द्वित्रिपदकेऽवयवविभागो नावतिष्ठेत ततोऽवयवविभागस्यानवस्थानाद्
द्रव्याणामसंख्येयत्वात् त्रुटित्वनिवृत्तिः, त्रुटिरपि हि सुमेरुणा तुल्यपरिमाणः स्यात् ।
न खल्वनन्तावयवत्वे कश्चिद् विशेष इत्यर्थः ।


वार्त्तिकम्2248—यावद् वा प्रलयोऽनिवृत्तिर्वेति । प्रलयपरमाणुपक्षे विकल्प
निवृत्तिर्नास्ति2249 दर्शनविषयस्तु नास्तीत्यनाश्रयो विकल्पः । अनन्तावयवत्वे तु सर्वस्य
विकल्पाघ्रातत्वे दर्शनविषयाभाव इत्यनाश्रयो विकल्प इत्यर्थः ।


संख्योदाहरणम्—इयन्तश्च परमाणवः संहतास्त्रुटिभावमापद्यन्त इति ।
सावयवत्वे च परमाणुशब्दस्यार्थो वक्तव्यः किमुक्तं भवति परमाणुरिति ?
परमत्वविशिष्टो ह्यणुः परमाणुः यतः क्षोदीयो नापरमस्तीति यावत् । तस्मादपि
चेत् क्षोदीयोऽन्यदस्ति, नैष परमत्वविशिष्टोऽणुरित्यर्थः । अथ भिन्नपरिमाणाः
परमाणोरवयवास्ततो न्यूनपरिमाणा इति यावत् । ततो न परमाणुः प्रतिषिध्यते
परमाण्ववयवा एव परमाणवः । ते चानवयवत्वादकार्याः । त्वया च परमाण्वारब्धं
616 कार्यं परमाणुरिति कृत्वा आरोप्य वृत्तिविकल्पेन प्रतिषिध्यत इति ॥ १७ ॥


॥ अवयवावयविप्रकरणम् ॥

  1. अर्थविशेषे C

  2. अवयवानु° J

  3. वृत्यनुपपत्तेरपि न संशयः इति
    सूत्रान्तरमिति केचन ।

  4. एकदेशाः C एकदेशः J

  5. अवयवेषु C

  6. भवतैव वादिना C

  7. समवेतःC

  8. प्रमाणवार्त्तिकम् २. २००

  9. कुतोC

  10. °तीत्यर्थःC

  11. तावत् तवC

  12. मेवैकंC

  13. परिहरतिC

  14. काव्यादर्शे १. १०२

  15. उपलब्धेः C

  16. पक्षाः C

  17. वस्तुतस्तुC

  18. ४. २. १५ सूत्रीयमिति शेषः

  19. अस्ति for नास्तिJ