निरवयवत्वप्रकरणम्


आकाशव्यतिभेदात् तदनुपपत्तिः ॥ ४ । २ । १८ ॥


अथेदानीमानुलम्भिकः तस्य व्याख्यानं सर्वं नास्तीति मन्वान आह—
आकाश…पपत्तिः ॥ आकाशव्यतिभेदात् तस्य परमाणोर्निरवयवस्यानुप
पत्तिः ।
सावयवत्वे तु वृत्तिविकल्पात् तदभाव इति शून्यतैव तत्त्वं भावानाम् ।
अनाश्रयोऽपि विकल्पो यथालोकप्रतीति कल्पनामात्रनिर्मितस्तात्त्विकीं शून्यतां
गमयिष्यति, मिथ्याज्ञानानामपि तत्त्वावगमहेतुत्वदर्शनात् । यथा दूराद् वनस्पतौ
हस्तिप्रत्ययप्रवाहो वनस्पतितत्त्वप्रतिपत्तेर्हेतुः । यथा रेखागवयो वा विकल्पितो
गवयत्वप्रतिपत्तेरित्यादि बहूत्प्रेक्षितव्यमिति भावः । तदेतद् वार्त्तिककारो
दूषयति—आकाशव्यतिभेदादनित्यः परमाणुरित्यभिदधानो व्यतिभेदार्थं प्रष्टव्य
इति ॥ १८ ॥


आकाशासर्वगतत्वं वा ॥ ४ । २ । १९ ॥


अन्तर्बहिरिति कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः
॥ ४ । २ । २० ॥


अन्तर्बहिरिति2250 कार्यस्य कारणान्तरवचनमिति । कारणान्तरं कारण
617 विशेषः । तस्य वचनमित्यर्थः । उपेत्य परमाणोरवयवान्न तद्विभागस्याकाशं कारणमिति ।
आकाशव्यतिभेदादित्याकाशहेतुकं व्यतिभेदं विभागमाह । न चाकाशं विभज्य
मानयोर्द्रव्यान्तरयोर्विभागस्य कारणम्, अपि तु कर्मेत्यर्थः । सर्वतोऽव्यवहितस्य
यस्य मध्ये अवयवा न सन्तीति तत्सुषिरमिति ।
सर्वतोऽव्यवहितस्य
निरन्तरस्यावयविनः स्वावयवद्वारेण । एतदुक्तं भवति, यस्यावयवाः परितो
निरन्तरमवस्थिता मध्ये च न सन्ति तत् सुषिरमिति । यन्मूर्तिमत् तेन सर्वेण
संबध्यते ।
मूर्तिमता सर्वेण संबद्धत्वं सर्वगतत्वं वदतो वार्त्तिककारस्या
संबन्धस्याभ्युपगमः2251 प्रौढिवादतयैव लक्ष्यते ॥ २० ॥


शब्दसंयोगविभवाच्च सर्वगतम् ॥ ४ । २ । २१ ॥


अव्युहाविष्टम्भविभुत्वानि चाकाशधर्माः ॥ ४ । २ । २२ ॥


स्यादेतत् । आकाशं चेत् सर्वगतं ततो मूर्ताणां द्रव्याणां तेन प्रतिबन्धाद्
गतिविधारणं 2252व्यूहान्तरापादनं च जलौघस्येव वेगवता2253 नावादिना भवेत् । न चास्ति,
तस्मान्न सर्वगतमित्यत आह—अव्यूहाविष्टम्भ…धर्माः ॥ यत एवाव्यूहाविष्टम्भावत
एवाप्रत्यूहं विभुत्वमस्येत्यर्थः ॥ २२ ॥


मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः ॥ ४ । २ । २३ ॥


पुनः शून्यतावादी प्रत्यवतिष्ठते—मूर्तिमतां च संस्थानोपपत्तेरवयवसद्
भावः ॥
चस्त्वर्थः सिद्धान्तं निवर्तयति । यद्यपि मूर्तिमतामिति संबन्धित्वमात्रे
णोपात्तं सूत्रे, तथापि हेतुपदतया वार्त्तिककार उपादत्ते—सावयवा परमणवो
618 मूर्त्तिमत्त्वाद्
घटादिवदिति । प्रयोगान्तरमाह—संस्थानवत्त्वादिति ॥ २३ ॥


संयोगोपपत्तेश्च ॥ ४ । २ । २४ ॥


सूत्रान्तरमनुवृत्तिसहितं पठति—संयोगोपपत्तेश्च ॥ २४ ॥


अनवस्था कारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥ ४ । २ । २५ ॥


पौनरुक्त्यं देशयति—नन्विदमिति । परिहरति—न चरितार्थमिति ।
मूर्त्तिर्नामाव्यापिनो द्रव्यस्य षङ्विधं परिमाणमिति ।
परमह्रस्वत्वपरमाणुत्वे
परमसूक्ष्म एव द्रव्ये व्यवस्थिते2254 । व्यापि तु गृहीत्वा परममहत्त्वपरमदीर्घत्वाभ्यामष्टविधं
परिमाणं भवति । परममहत्त्वपरमदीर्घत्वे च सर्वगतद्रव्यवर्तिनी2255 इति न मूर्तिः ।
असर्वगतद्रव्यपरिमाणं मूर्तिरिति 2256परमर्षिवचनात् । संस्थानं नाम प्रचयाख्यः संयोगो
घटादिवृत्तिर्घटत्वादिजातिव्यक्तिहेतुरिति । संयोगः संयोगमात्रं न त्वप्राप्तिपूर्विका
प्राप्तिरिति । तस्मादपौनरुक्त्यम् । तदेतच्छून्यवादिमतमपाकरोति—यत्ताव
न्मूर्त्तिमत्त्वादिति । शून्यतावादी
प्रलयान्तत्वाभिमानेनाह—अथ तावदिति ।
सिद्धान्त्याह—अन्तो निरवयव इति । प्रलयान्तत्वमधस्तान्निराकृतमिति भावः ।
नन्वधस्तान्निराकरणान्मा भूत् प्रलयान्तो विनाशः । विभागान्तश्च भविष्यति, किं
परमाण्वन्तताग्रहेणेत्याशङ्कते—अथान्तो विभागः । निराकरोति—स न युक्त इति ।
नासति गुणिनि गुणोऽस्तीत्यर्थः । एतावन्तश्च कल्पाः संभविनः तत्र प्रथमे कल्पे
अनैकान्तिकव्याघातौ द्वितीये विभागस्यानाधारताप्रसङ्गः । तृतीये तु त्रुटेरमेयत्वप्रसङ्ग
इत्याह—एतावच्चैतत् कल्पजातं स्यादिति । परमाण्वन्ततां विभागस्य ब्रुवन्निरवयवं
च मूर्तिमन्तं च परमाणुं प्रतिपद्यसे इति । अनन्तत्वे तु त्रुटेरमेयत्वप्रसङ्गो
619 व्याघातः । प्रलयान्तत्वे च विभागस्यानाधारत्वप्रसङ्गो व्याघातः । सावयवशब्दस्यार्थः
समानजातीयारब्धं2257 । न केवलं तदारब्धमपि तु तदाश्रितम् । तन्त्वाद्यारब्धं पटादिद्रव्यं
तन्त्वाद्याश्रितं च । नन्वेवमपि कुतः सावयवत्वमित्यत आह—अवयवः तदाधारः
तस्य समानजातीयारब्धस्य कार्यद्रव्यस्याधारः । 2258तस्मात् सावयवत्वं कार्यत्वविशेष
इति । तस्मात् 2259सावयवः परमाणुरिति ब्रुवता कार्यविशेषः परमाणुरित्युक्तं भवति ।
कार्यविशेषः परमाणुश्चेति व्याहतम्, आनन्त्येन तु त्रुटेरमेयत्वप्रसङ्गात् । सा
खल्वनवयवस्य कल्पितस्य परमसूक्ष्यमतया परमाण्वाख्या । तेन परमाणुरिति
किमुक्तं भवति ? अनवयवोऽकार्यश्चेति । सावयव इति च किमुक्तं भवति ?
सावयवः कार्यश्चेति । तस्मात् प्रतिज्ञापदयोर्व्याघात इत्यर्थः । अथ मा भूत्
त्रुटेरमेयत्वमित्येकपरमाणुपूर्वकत्वं परमाणोः प्रतिपद्यसे । शेषमतिरोहितार्थम् ।


यदि द्वे द्वे द्रव्ये अधिकृत्याभिधीयत इति । मध्यस्य हि परमाणोरुपर्यधः
पार्श्ववर्तिभिः परमाणुभिर्ये संयोगास्तत्र मध्यस्य पूर्वेण परमाणुना यः संयोगो नासौ
मध्यपश्चिमपरमान्वाश्रितः । एवं मध्यपश्चिमपरमाणुसंयोगो नैव मध्यमपूर्व
परमाण्वाश्रयः । एवमन्यत्रापि द्रष्टव्यम् । षडपि संयोगा भिन्नदेशा एवेति
समानदेशत्वमसिद्धम् । अथ परमाणूनां संबन्धिनं परमाणुं मध्यमधिकृत्योच्यते
तदेकाश्रिता हि संयोगाः षडपि भवन्तीति तत्राह—न किञ्चिद् बाध्यत इति ।


स्यादेतत् । संयोगसमानदेशत्वेन परमाणवोऽपि संयुक्ताः समानदेशा इति
पिण्डस्याणुमात्रत्वप्रसङ्ग इति परोक्तमनुवदति—यत् पुनरेतदिति । तद् दूषयति—
तन्नेति । यत्र यत् समवेतं स तस्य देशो यथा रूपादीनां द्रव्यम् । न च परमाणवः क्वचित्
समवयन्ति किं तु तत्संयोगाः । तेन देशवतां संयोगानामस्तु समानदेशता, न तु
परमाणूनामदेशत्वादित्यर्थः । देशयति—ननु च कार्यकारणे इति । यथेह कुण्डे
बदरमिति यथा बदरं कुण्डदेशमेवं तदवयवास्तदवयवाः । न च समवाय एव
देशदेशिभावनिबन्धनमपि तु संयोगोऽपि । न हीह कुण्डे बदरमिह पटे शुक्लत्वमिति
620 चाधार्याधारप्रत्ययो विशिष्यते । तस्माद् बहूनां द्रव्याणां समानदेशत्वदर्शनात् नासिद्धो
दृष्टान्त इत्यर्थः । तद् दूषयति—एतदनभ्युपगमेन प्रत्युक्तम् । द्रव्याणामेकत्र समवायेन
समानदेशतां व्यासेधामो न तु संयोगेन । समवायेन हि समानदेशता स्थौल्यपरिपन्थिनी,
यथा गन्धरसरूपस्पर्शाः समानदेशा न स्थौल्यमारभन्ते । तत् कस्य हेतोः ? एषाममूर्तानां
समानदेशसमवायात् । मूर्तास्तु स्पर्शवन्तः समवायेनासमानदेशाः परस्परसंयोगिनो
यदि स्थौल्यमारभन्ते किं बाध्यते ? तस्मात् संयोगेन समानदेशता न निषिध्यते,
समवायेन तु प्रतिषिध्यते । सा हि स्थौल्यविरोधिनीति सिद्धम् । अभ्युपेत्यैवमुक्तं
संयोगाः समान देशा इति । परमार्थतस्तु कुण्डबदरसंयोगस्य कुण्डवदरे आश्रयः ।
तदवयवकुण्डसंयोगस्य2260 तु कुण्डबदरावयवा इति सिद्धं संयोगानामपि
भिन्नदेशत्वमित्याह—न च संयोगा अपीति । उपसंहरति—षण्णां समान
देशत्वादिति वाक्यमिति ।

यत् पुनरुक्तम्,
दिग्देशभेदो यस्यास्ति तस्यैकत्वं न युज्यते
इति । परमाणोः किल भवदभिमतस्यैकस्य दिग्भागाः षट्, न चैकस्य
दिग्भागेऽभेदोऽस्तीति षडेव परमाणवः । एतद् दूषयति—क एवमाह,
दिग्देशभेदोऽस्तीति ?
स्वरूपेणैका दिक् सर्वगता च । नास्या भेदोऽस्तीत्यर्थः ।
यद्येकैव दिक् क्व तर्हि परमाणावस्मादयं परमाणुः पूर्वोऽयं पश्चिम इत्यादयो
बुद्धिव्यपदेशभेदा इत्यत आह—दिग्देशभेदाश्च दिशः संयोगाः । 2261एकत्वेऽपि
दिश आदित्योदयदेशप्रत्यासन्नदेशसंयुक्तो यः स इतरस्माद् विप्रकृष्टदेशसंयुक्तात्2262
परमाणोः पूर्वः । एवमादित्यास्तमयदेशप्रत्यासन्नदेशसंयुक्तो यः स इतरस्माद्
विप्रकृष्टदेशसंयुक्तात्2263 परमाणोः पश्चिमः । तौ च पूर्वपश्चिमौ परमाणू अपेक्ष्य यः
621 सूर्योदयास्तमयदेशविप्रकृष्टदेशसंयुक्तः2264 स मध्यवर्ती । एवमेतयोः पूर्वपश्चिमयो2265
र्यौ तिर्यग्देशसंबन्धिनौ मध्यस्य चार्जवेन व्यवस्थितौ पार्श्ववर्त्तिनौ तौ दक्षिणोत्तरौ
परमाणू । एवं मध्यन्दिनवर्तिसूर्यसन्निकर्षविप्रकर्षावपेक्ष्य उपर्यधोभावो द्रष्टव्यः ।
संयुक्तसंयोगाल्पत्वभूयस्त्वे च सन्निकर्षविप्रकर्षौ2266 । पूर्वसंख्यावच्छिन्नत्वं चाल्पत्वं
परसंख्यावच्छिन्नत्वं च भूयस्त्वम् । तस्मादेकस्यापि अनवयवस्यापि2267 परमाणोः
परमाण्वन्तरसंयोगा अव्याप्यवृत्तय एव भागाः । एवं दिशोऽप्येकस्या अपि संयोगा
एव भागाः । सोऽयं परमाणोः षट्केन युगपद्योगो मूर्तत्वमात्रप्रयुक्तो न सावयवत्वप्रयुक्त
इति न सावयवत्वं गमयितुमर्हतीति ।


तेन यदुच्यते प्रसङ्गसाधनं परैः, यन्निरवयवं तन्न षट्केन संयुक्तं यथा विज्ञानं
तथा च परमाणुरिति व्यापकविरुद्धोपलब्धिरिति, तन्निरस्तम्, मूर्तत्वप्रयुक्तत्वेन
षट्कसंयोगस्य सावयवत्वेन व्याप्तेरसिद्धेः । छायातपयोगोऽपि परमाणोरेकस्य
संयोगस्याव्याप्यवृत्तित्वेनोपपन्नः ।


नन्वनवस्था नोपपद्यते इत्युक्तं तत् कुत इत्यत आह भाष्यकारः—अनव
स्थायां च प्रत्यधिकरणं द्रव्यावयवानामानन्त्त्यात् ।


क्रियावत्त्वादीन् हेतून् सर्वथा विकल्प्य वार्त्तिककारो दूषयति—ये तु
क्रियावत्त्वादीति2268 । एतेन घटादिदृष्टान्त
इति2269 । एतेन असिद्धत्वेन । न हि घटादि
कमवयविनमनभ्युपगच्छतो घटादिरस्तीत्यर्थः । मतुपश्चार्थान्तरे दृष्टत्वाद् विरुद्ध
इति । क्रियां परमाणोरर्थान्तरमनिच्छतो मतुप्प्रयोगो विरुद्ध इत्यर्थः ॥ २५ ॥


॥ इति निरवयवत्वप्रकरणम् ॥

  1. °ति वचनंC

  2. अजसंयोस्यC

  3. गतेरावरणम्C

  4. वेगवताJ

  5. व्यवतिष्ठेतेC

  6. सर्वगतव्यापिनीC

  7. पारमर्ष°C

  8. जातीयावयवंC

  9. यस्मा…कार्यविशेषःC

  10. सावयवाः परमाणव इत्यति°C

  11. °कुण्डबदर सं°C

  12. इत ऊर्ध्वंCपुस्तके पंक्तिविपर्यासो जातःJपुस्तकानुसारेण
    Vपुस्तकदृष्ट्या च पाठशोधनं कृतम्V पुस्तकेऽपि ग्रन्थपातः परत्र शोधितः ।

  13. °सयोगात्
    C

  14. °सयोगात्
    C

  15. संयोगः C

  16. पूर्वपश्चिमयोः J

  17. अपेक्ष्य…विप्रकर्षौ omitted inV.

  18. अनवयवस्यापि J

  19. °दिभिः N. Var.

  20. एतेन…इति J