622

बाह्यार्थभङ्गनिराकरणप्रकरणम्


बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे
पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ॥ ४ । २ । २६ ॥


विज्ञानवाद्याह—यदिदं भवान् बुद्धीरिति । यदि पटस्तन्तुभ्यो भिन्नो भवेत्
तन्त्वतिरेकेण गौरिवाश्वातिरेकेणोपलभ्येत । न चोपलभ्यते । तस्मात् पट इति
मिथ्याबुद्धिरियम् । एवं तन्तुरित्यपि मिथ्याबुद्धिरंशुभ्यो भेदेनानुपलम्भात् ।
एवमंशुरित्यपि । तदनेन क्रमेण परमाणुष्वपि बुद्ध्या विविच्यमानेषु याथात्म्यानुपलब्धेर्न
बाह्यं वस्तु स्थूलं वा क्षोदीयो वास्तीति सर्वा एव बुद्धयः स्वाकारमबाह्यं बाह्यतया
आलम्बमाना मिथ्याभूता इति ।


बुद्ध्या…तदनुपलब्धिः ॥ ननु पटादयः सावयवा भवन्ति, एवं परमाणूनां
त्वनवयवत्वाद् बुद्ध्या 2270विवेचनाद् भावानां याथात्म्योपलब्धिरित्यत आह—
परमाणवोऽपि भागशो विभज्यमानास्तावद् यावत् प्रलय इति ॥ २६ ॥


व्याहतत्वादहेतुः ॥ ४ । २ । २७ ॥


भवन्तु परमाणवोऽनवयवाः संयोगेभ्यस्त्वस्य षङ्भ्यो बुद्ध्या विविच्यमानस्य
याथात्म्यमुपलभ्यत इति । तदेतद् दूषयति—व्याहतत्वादहेतुः ॥ यस्य विविच्य
मानस्य याथात्म्यानुपलब्धिः, तत् कुतश्चिद् विवेचनीयम् । अवध्यभावे तदनु
पपत्तेः । तथा च तेनावधिना क्वचिदवस्थातव्यम् । अनवस्थायां त्रुटेरमेयत्व
प्रसङ्गादित्युक्तम् । तस्मात् परमाणुषु वा तत्संयोगेषु वा तेनावस्थातव्यम् । तथा च
यतो विविच्यते भावः स एवास्यावधिर्याथात्म्येनोपलभ्यत इति बुद्ध्या
623 विवेचनस्य2271 सर्वभावानुपपत्त्या व्याघात इति सिद्धम् । दूषणान्तरमाह—सर्वभावा
नुपपत्तिरिति चेति ।
प्रमाणस्यापि 2272भावान्तर्गतत्वेन तदनुपपत्तौ 2273सर्वभावानुप
पत्तेरनुपपत्तिरित्यर्थः ॥ २७ ॥


तदाश्रयत्वादपृथग्ग्रहणम् ॥ ४ । २ । २८ ॥


तदा…पृथग्ग्रहणम् ॥ अपृथग्ग्रहणादिति ब्रुवाणः प्रष्टव्यो जायते किं
विलक्षणबुद्धिबोध्यत्वाभाव2274 उत देशभेदाभावः उत तन्तुव्यतिरेकेण देशान्तरेऽनुपलम्भ
इति । न तावदाद्यः कल्पः, तन्तवो हि भिन्नाभबुद्धिबोध्याः पटस्त्वभिन्नाभबुद्धिबोध्य
इति । नापि द्वितीयः, तन्तूनामंशुदेशत्वात् पटस्य च तन्तुदेशत्वात् । तस्मात्
तन्तुभ्योऽन्यत्रादर्शनमपृथग्ग्रहणम् । तच्च भेदेऽपि तदाश्रितत्वेनोपपद्यमानं नाभेदं
गमयितुमर्हतीत्यर्थः ।


भाष्यं—बुद्ध्या विवेचनात्तु भावानां पृथग्ग्रहणमतीन्द्रियेष्वणुषु । यत्र
खल्ववयवावयविनावैन्द्रियकौ तत्र पृथग्ग्रहणमविवेचकानामस्फुटतरमतीन्द्रिये
भ्यस्त्वणुभ्य आनुमानिकेभ्यः प्रत्यक्षदृश्यानां तदाश्रितानामवयविनां पृथग्ग्रहण
मित्यतिस्फुटमित्यर्थः ॥ २८ ॥


प्रमाणतश्चार्थप्रतिपत्तेः ॥ ४ । २ । २९ ॥


संप्रत्यैन्द्रियकेऽप्यवयवेऽवयविनो विविच्यमानस्य याथात्म्येन पृथग्ग्रहण
माह—प्रमाणतश्चार्थप्रतिपत्तेः ॥ इति । यदस्ति पटादिकमवयविद्रव्यम्; यथा च
स्वावयवसमवेतत्वेन गुणाधारतया च, यन्नास्ति शशविषाणादि, यथा च
624 कार्यकारणभावेन, तत्सर्वं प्रमाणत उपलब्ध्या सिध्यति । सुगमं भाष्यम् ॥ २९ ॥


प्रमाणानुपपत्त्युपपत्तिभ्याम् ॥ ४ । २ । ३० ॥


स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ॥ ४ । २ । ३१ ॥


यदुक्तं प्रमाणोपपत्त्यनुपपत्तिभ्यां न सर्वभावानुपपत्तिरिति तत्र प्रत्यवतिष्ठते
विज्ञानवादी—स्वप्नविषयामिमान…मानः ॥ न खलु वास्तवः प्रमाणप्रमेय
भावः, किं त्वनादिवासनानिबन्धनकल्पनाधीनः । यथा हि परमार्थतो2275 न स्वप्ने सन्ति
विषयाः, अथ च प्रतिभान्ति कल्पनामात्रेण । तथा च2276 सांवृतेनैवापरमार्थसता
प्रमाणप्रमेयभावेन बाह्यार्थशून्यता साध्यते2277 परमार्थसती प्रत्ययानाम् । दृष्टा च
मिथ्याप्रत्ययानामपि2278 तत्त्वप्रतिपत्तिहेतुतेत्यावेदितं पुरस्तादित्यर्थः । तदेतद् व्याचष्टे
वार्त्तिककारः—यथा स्वप्ने न विषयाः सन्तीति ॥ ३१ ॥


मायागन्धर्वनगरमृगतृष्णिकावद्वा ॥ ४ । २ । ३२ ॥


ननु स्वप्नप्रत्ययानामस्त्व्येवंधर्मकत्वम्, ये पुनरमी जाग्रत्प्रत्ययाः स्तम्भ इति
वा कुड्यमिति2279 वा, किमायातं तेषामत्यन्तवैलक्षण्यादित्य आह—मायागन्धर्वेति ।
माया…वा ॥
जाग्रत्प्रत्यया अप्येवंविधा सहस्रशो दृश्यन्ते । न चैते
स्तम्भकुड्यादिप्रत्ययास्ततो विलक्षणा इत्यर्थः ॥ ३२ ॥


हेत्वभावादसिद्धिः ॥ ४ । २ । ३३ ॥


तदेतद् दूषयति—हेत्वभावादसिद्धिः ॥ ३३ ॥


625

स्मृतिसङ्कल्पवच्च स्वप्नविषयाभिमानः ॥ ४ । २ । ३४ ॥


तद्व्याचष्टे भाष्यकारः—स्वप्नान्ते विषयाभिमानवदिति । अन्तशब्दोऽ
वयववचनोऽप्याश्रितत्वमात्रेणावस्थायां प्रयुक्तः । तेन स्वप्नावस्थायां
जागरितावस्थायामित्यर्थः । एतदुक्तं भवति, स्वप्नविज्ञानस्य मिथ्यात्वमिच्छता2280
बाधकमन्तरेण तदनुपपत्तेर्जाग्रत्प्रत्ययोऽस्य बाधको वक्तव्यः । न चासावसमीचीनस्तद्
बाधितुमुत्सहत इति समीचीनत्वं जाग्रत्प्रत्ययस्याभ्युपगन्तव्यम् । तथा च जागरितान्ते
विषयोपलब्धिवदित्यनुपपन्नम् ।


वार्त्तिकम्—ख्यातिरिति चेत् । प्रत्ययत्वमेव स्वप्नोदाहरणसहितं
प्रमाणप्रमेयाभिमानमिथ्यात्वे हेतुरित्यर्थः । विपर्यये च सामर्थ्याभावादिति । पूर्वं
प्रतिबुद्धेनेति विशेषणं विवक्षित्वोक्तम् । अधुना त्वनुपलब्धेरिति विवक्षित्वोच्यत
इत्यपौनरुक्त्यम् । अत्र विज्ञानवादी स्वपक्षे प्रमाणमाह—न चित्तव्यतिरेकिणो
विषयाः ग्राह्यत्वाद् वेदनावदिति ।


इदमत्राकूतम्, विज्ञानस्य हि बाह्यार्थो ग्राह्यो भवन् निराकारस्य सत्तामात्रेण वा
भवेत् कारणत्वेन वा, एकसामग्र्यधीनत्वेन वा विज्ञानाहितफलाधारतया वा ? न
तावत् सत्तामात्रेणान्यस्यान्यो विषयः, सत्तामात्रस्य विषयान्तरेष्वपि भावेन सर्वेऽर्थाः
सर्वस्य ज्ञानस्य विषया2281 इति सर्वसर्वज्ञतापत्तिः । न च सत्तामात्रमपि विषय
व्यवस्थापकम्2282, असतोऽपि विषयत्वात् । अत+एव न कारणत्वेन विषयभावः । अपि
च चक्षुरादयोऽपि विज्ञानस्य कारणमिति विषया रूपविज्ञानस्य प्रसज्येरन् । वर्तमाना
वमासि च विज्ञानं न भवेत्, क्षणिकत्वेनोत्पादकस्यार्थक्षणस्योत्पाद्यविज्ञानसमयेऽ
तिपातात्2283 । एकसामग्र्यधीनत्वेन तु विषयत्वे वर्तमानावभासितोपपद्यते । सा तु
नोपपद्यते असतोरप्यतीतानागतयोर्ग्रहणेनाव्यापकत्वादतिव्यापकत्वाच्च विज्ञान
कालस्य2284 इन्द्रियादिक्षणस्यैकसामग्र्यधीनस्यालम्बनत्वप्रसङ्गात् । विज्ञानाहित
626 फलाधार आलम्बनमिति चेत्, किं पुनर्विज्ञानेनार्थे जन्यते ? प्राकट्यम् । न
चैतदर्थधर्मोऽपि शुक्लादिवत् सर्वपुरुषसाधारणं ज्ञानाहितस्यार्थधर्मस्यापि ज्ञानवन्तं
प्रत्यसाधारणत्वदर्शनात् । यथा यस्यापेक्षाबुद्धिजनितं द्वित्वमर्थधर्मः, सोऽपेक्षा
बुद्धिमन्तमेव पुरुषं प्रत्यसाधारण इति । तन्न, अव्यापकत्वात् । सन्ति खल्वतीताना
गतविषयाणि सहस्रशो विज्ञानानि शब्दानुमानजानि सर्वज्ञज्ञानानि2285 च, न चैतान्यर्थे
फलमाधातुमुत्सहन्ते, अर्थस्य तदानीमभावात्2286 । न खल्वस्तिसंभवः अप्रत्युत्पन्नो2287
धर्मी धर्मश्चास्याविनश्यन् प्रत्युत्पन्नरूप इति । स्वकारणादात्मानात्मप्रकाशन
शक्तियुक्तमुत्पद्यते ज्ञानं तादृशं येन कश्चिदेवास्य विषयो न सर्व इति चेत् ? हन्त
भोः शक्तेः शक्यनिष्ठत्वात् किमस्य शक्यमिति वक्तव्यम् । अर्थ इति चेत् ? न । न
तावदयमस्य निर्वर्त्यः, अर्थस्यैव ज्ञाननिर्वर्तकत्वात् । न चार्थाधारं फलमाधत्त
इत्युक्तम् । न चासति शक्ये शक्तिसंभवः । तस्मान्निराकारं विज्ञानं बाह्यं गोचरयतीति
मनोरथमात्रम् ।


अस्तु तर्हि साकारमेव बाह्यगोचरम् । तथा हि नीलाद्याकारं विज्ञानं
नीलाद्यर्थगोचरम्, नीलमस्य स्वरूपं2288 यतः । अत्रैवं वक्तव्यम्, किं सर्वात्मना
सारूप्याद् विषय आहो कथंचित् सारूप्यात् ? न तावदर्थस्य जडात्मनो ज्ञानेन
प्रकाशात्मना2289 सर्वथा सारूप्यम्, सारूप्ये वा ज्ञानमपि जडं भवेदिति ज्ञानत्वहानिः
एकदेशेन च सारूप्ये तत् क्व नाम नास्तीति सर्वं ज्ञानं सर्वं वेदयेत् । अपि च नील
ज्ञानात् समनन्तरप्रत्ययादुत्पन्नं ज्ञानं न तथा नीलार्थसरूपं यथा नीलज्ञानसरूपमिति
समनन्तरप्रत्यय एवास्योत्पत्तिसारूप्याभ्यां2290 विषयः स्यात्, न चैतदस्ति । तस्मान्न
सारूप्यसमुत्पत्ती अपि विषयलक्षणम् । स्तामस्य सारूप्यसमुत्पत्ती मनस्कारे
न्द्रियादिभिस्तथापि यमध्यवस्यति सोऽस्य विषयः । अर्थं चाध्यवस्यतीति अर्थ
एवास्य विषयो न मनस्कारादीति चेत् ?


627

अथ कोऽयमध्यवसायः ? न तावद् ग्रहणम् । न खलु द्वावाकारौ गृह्येते,
नीलमित्यनुभवो न तु नीले इति । स्वाकारस्य बाह्ये समारोपोऽध्यवसाय इति चेत् ?
स किं गृह्यमाणे बाह्ये उतागृह्यमाणे ? न तावद् गृह्यमाणे । न हि नीलद्वयं प्रकाशत
इत्युक्तम् । न चारोपविषयमगृह्णन्नारोप्यमारोपयितुमर्हतीति । न ह्यननुभवन् पुरोवर्ति
शुक्लभास्वरं रजतमारोपयति । अपि चागृह्यमाणे बाह्ये प्रवृत्तिनियमो न भवेत् ।
तदितरेषामप्यगृह्यमाणत्वेनाविशेषात् तेष्वपि प्रवृत्तिप्रसंगात् । न च साकारज्ञाननये
बाह्यसद्भावे प्रमाणमस्ति अगृह्यमाणत्वात् । ननु नीलाद्याकारस्य कादाचित्कत्वमेव
प्रमाणम् । तथा हि2291 यद् यस्मिन् सत्यपि कादाचित्कवत् तत् तदितरापेक्षम् । यथा
सत्यपि स्वोपादाने2292 विच्छिन्नगमनवचनप्रतिभासाः2293 प्रत्ययाः सन्तानान्तरापेक्षाः,
तथा च सत्यप्यालयसन्ताने षडपि प्रवृत्तिप्रत्यया इति स्वभावहेतुः । वासना
परिपाकप्रत्ययकादाचित्कत्वात् कदाचिदुत्पाद इति चेत् ? नन्वेकसन्ततिपतिता
नामालयविज्ञानानां तत्तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना । तस्याश्च स्वकार्यजननं
प्रत्याभिमुख्यं परिपाकः । तस्य च प्रत्ययः स्वसन्तानवर्ती पूर्वक्षणो हेतुः सन्तानान्तरा
पेक्षानभ्युपगमात् । तथा च सर्वेऽपि आलयविज्ञानसन्तानपतिताः परिपाकहेतवः, न
वा कश्चिदपि, अविशेषात् । क्षणभेदाच्छक्तिभेदस्तस्य च कादाचित्कत्वात् कार्य
कादाचित्कत्वमिति चेत् ? नन्वेकस्यैव नीलविज्ञानजननसामर्थ्यं शक्तिप्रबोधजनन
सामर्थ्यं चेति । क्षणान्तरस्य तन्न स्यात् । सत्त्वे वा कथं क्षणभेदात् सामर्थ्यभेद
इत्यालयसन्तानवर्तिनः सर्वे समर्था इति समर्थहेतुसद्भावे कार्यक्षेपानुपपत्तेः ।
स्वसन्तानमात्राधीनत्वे तु निषेध्यस्य कादाचित्कत्वस्य विरुद्धं सदातनत्वम् ।
तस्योपलब्ध्या तु कादाचित्कत्वं निवर्तमानं हेत्वन्तरापेक्षत्वेन व्यवतिष्ठत इति
प्रतिबन्धसिद्धिः । न च सन्तानान्तरनिमित्तानि प्रवृत्तिविज्ञानानि सत्तान्तराणामपि2294
नित्यसन्निधानाद् विज्ञानानामदेशात्मकत्वेन दूरत्वानुपपत्तेर्व्यतिरिक्तस्यानभ्युपगमात् ।
नापि कालतो विप्रकर्षसंभवः अपूर्वसत्त्वप्रादुर्भावानभ्युपगमात् । तदिदमनुमानं
628 सौत्रान्तिकानां बाह्याभ्युपगम इति । तदयुक्तम्, स्वसन्तानमात्रनिमित्तत्वेऽपि
नीलादिविज्ञानानां कादाचित्कत्वोपपत्तौ संदिग्धव्यतिरेकित्वेन हेतोरनैकान्तिकत्वात् ।
ननूक्तं न क्षणभेदः कार्यभेदहेतुरिति, कल्पितस्य सन्तानस्य सर्वसामर्थ्यविरहिणो
भेदः कार्यभेदहेतुरिति न तु परमार्थसतः क्षणस्य भेदः कार्यभेदहेतुरिति2295 कोऽन्यो
भदन्ताद् वक्तुमर्हति ? ननु यदि क्षणभेदः शक्तिभेदहेतुस्ततो भिन्नानां क्षणानां नैका
शक्तिः स्यात् । तथा चैकेन केनचिन्नीलज्ञाने जनिते पुनस्तन्नीलझानं क्षणान्तरान्न
स्यात् । यदि भिन्नानां नैकं सामर्थ्यम्, अथ बाह्यार्थवादिनोऽपि कथं भिन्नानां
नीलोत्पलसन्तानानामेकनीलोत्पलाकारज्ञानधारा सामर्थ्यम्2296 । यद्युच्यते, अन्यदेव
तन्नीलोत्पलविज्ञानं यन्नीलोत्पलसंतानान्तरात् । वयमपि ब्रूमहे, अन्यदेव तन्नीलविज्ञानं
यत्क्षणान्तरादिति । तस्मात् स्वकारणभेदात् कश्चिदेव तादृशः स्वलक्षणभेदो जायते,
यः कञ्चिदेव कार्यभेदं जनयति न कार्यान्तरमिति । तस्मात् साकारस्यापि ज्ञानस्यार्थो
न गोचरो न चागोचरः शक्योऽनुमातुमिति । न च प्रत्यक्षवदनुमानमप्यर्थगोचरम् ।
तस्मात् साधूक्तं वार्त्तिककृता, न चित्तव्यतिरेकिणो विषयाः ग्राह्यत्वाद्
वेदनावदिति ।
नीलादयो हि विषया उभयवादिसिद्धास्तेषां चित्ताद् भेदाभेद
योर्विप्रतिपत्तिः । तत्रैषां ग्राह्यत्वादित्ययं चित्तव्यतिरेकः परैरभ्युपगतः प्रतिषिध्यते ।
यावांश्च प्रतिषेधः स सर्वोऽनुपलब्धेरिति ग्राह्यत्वादित्ययं हेतुर्विरुद्धव्याप्तोप
लब्धिः । प्रतिषेध्यश्चित्तव्यतिरेकः, तद्विरुद्धस्तदव्यतिरेकः । तेन व्याप्तं ग्राह्यत्वम् ।
तस्योपलब्धिरेव तन्निषेध्यस्यानुपलब्धिरिति ।


अत्र तावदेतद् वक्तव्यम्, ग्राह्यत्वस्याभेदेन व्याप्तौ 2297सिद्धायां भेदं निवर्तयेत् ।
न त्वभेदेनास्य व्याप्तिः । तथा हि, यदेतन्नीलं स्थूलं विच्छिन्नमनुभूयते2298 तस्यास्य
विच्छेदः स्थौल्यं च न ज्ञानस्यात्मा । नानादिग्देशव्यापिता हि स्थौल्यम् । न चैक
मदिग्देशात्मकमनवयवं विज्ञानं नानादिग्देशव्यापि संभवति । यथाह,


629
तस्मान्नार्थेन विज्ञाने स्थूलाभासस्तदात्मनः ।

एकत्र प्रतिषिद्धत्वाद् बहुष्वपि न संभवः ॥ इति ॥

एवमर्थविच्छेदोऽपि न ज्ञानात्मकः । तस्य तथात्वे परमार्थतोऽर्थाद् विच्छिन्नं
ज्ञानं स्यात् । तस्मादयमपि न ज्ञानमित्यसन्नभ्युपगन्तव्यः । न च सदसतोरेक
त्वमित्यनात्मापि विज्ञाने प्रकाशते इत्यनिच्छताप्यभ्युपेयम् । तथा च सदपि प्रकाशिष्यते ।
नन्वनात्मन्यर्थेऽकिञ्चित्करं विज्ञानं कथमर्थप्रकाशकम् ? अथाकिञ्चित्करं ज्ञानं
स्थौल्ये कथमस्य प्रकाशकम् ? स्वभावादिति चेत्, अत्राप्यसौ न दण्डवारितः । यद्धि
यस्य स्वभावतः, तत्र तस्य2299 नान्यापेक्षा, यथा लिङ्गस्य स्वसाध्यसंबन्धे । स्वभाव
तश्चार्थस्य विज्ञानमिति न तदीयत्वे अन्यदपेक्षते । असंबन्धात् कथं विज्ञानमर्थस्येति
चेत्, अथ संबन्ध एव संबन्धिनोः कथम् ? संबन्धान्तरकल्पने चानवस्था । तस्माद्
यथा संबन्ध एव संबन्धान्तरमन्तरेण संबन्धिनोः, एवं ज्ञानमपि संबन्धान्तरमन्तरेणा
र्थस्येति समानम् । न चातिप्रसंगः । स्वकारणादुत्पन्नस्य कस्यचिद् विज्ञानस्य
कश्चिदेव विषयो नान्यः । न च भावस्वभावा नियोगं पर्यनुयोगं वार्हन्ति, एवं भवत
मा एवं भूतेति वा कस्मान्न एवमिति वा ? अकिञ्चित्करस्य रूपविज्ञानस्य कथं
रूपविषयतेति चेत् ? किं रूपविज्ञानं प्रमाणं विवक्षित्वेदमुच्यते, आहो फलं
विवक्षित्वा ? यदि प्रमाणं ततो न तदकिंचित्करं रूपे, तत्र हानोपादानोपेक्षाप्रसवहेतुत्वात् ।
अथ फलं, तदयुक्तम् । क्व नाम फलं किञ्चित्करम् ? न हि गतिजन्या नगरप्राप्तिश्चैत्रस्य
चैत्रनगरसंयोगसमवायाय किञ्चित् करोति । एवमर्थविषयत्वाय स्वाभाविकाय न
ज्ञानेन किञ्चिदपरं जनयितव्यम् । अर्थप्रतिबद्धत्वं ज्ञानस्यार्थविषयत्वम् । न हि
ज्ञानमनुव्यवसायज्ञानेन निरूप्यमाणमर्थनिरूपणेन विना शक्यं निरूपयितुमित्युक्तम् ।
कर्मण्यसमवेतं कथं कर्मण इति चेत् ? अथ फलसमवायः कर्मण्यसमवेतः कथं
कर्मणः ? तत्पारतन्त्र्यादिति चेत् ? किमिदं 2300तत्पारतन्त्र्यम् ? तन्निरूपनाधीन
निरूपणत्वमिति चेत् ? तदिहापि समानमन्यत्राभिनिवेशात् । तस्मादभेदेन
630 ग्राह्यत्वस्याव्याप्तत्वाद् ग्राह्यत्वं विरुद्धव्याप्तं न भेदं निवर्तयितुमर्हतीति दूषणे
स्थवीयसि सत्येव दूषणान्तरमाह वार्त्तिककारः—वेदना सुखदुःखे चित्तं
विज्ञानमिति ।
अभ्युपेत्याह, अथाभिन्नं विज्ञानं वेदनात इति । यथाङ्गुल्यग्रं न
तेनैवाङ्गुल्यग्रेण स्पृश्यते, एवं ज्ञानं न तेनैव ज्ञानेन ग्रहीतुं शक्यम् । ननु न
गृहीतिर्ग्राह्या, न ह्यस्याः कर्मभावो विद्यते । क्रियाफलशालि हि कर्म2301 । न
चास्यामस्ति फलान्तरम् । अपि तु स्वयमाविर्भूतस्वभावा गृहीतिरपराधीनप्रकाशा
ग्राह्येत्युच्यते । यदि चैषा स्वयं न प्रकाशेत, तन्नार्था अपि प्रकाशेरन्, तत्प्रकाशाधीन
प्रकाशा हि ते । तथा हि यद् यत्प्रकाशाधीनप्रकाशम्, तत् तस्मिन् प्रकाशमाने
प्रकाशते, यथा दण्डप्रकाशाधीनप्रकाशो दण्डिप्रकाशः, ज्ञानप्रकाशाधीनप्रकाशाश्च
विषयप्रकाशा इति2302 स्वभावहेतुः । न च ज्ञानादन्यत् स्वसंवेदनं न दृष्टमित्येतावता
स्वसंवेदनविज्ञानं न भवति । न हि दर्शनादर्शनाभ्यां हेतुर्गमकः, अपि तु स्वसाध्या
विनाभावात् । स च विपर्यये बाधकप्रमाणप्रवृत्त्या सिध्यतीति कृतं दृष्टान्तेनेत्यत
आह—न हि कर्म च क्रिया चैकं भवतीति ।


इदमत्राकूतम् । किं पुनरिदमर्थानां संवित्प्रकाशाधीनप्रकाशत्वं नाम ? न हि
संवित्प्रकाशेनार्थे प्रकाशान्तरं जन्यते । अपि च लिङ्गप्रकाशाधीनप्रकाशो हि
लिङ्गिप्रकाशः । न च2303 लिङ्गे प्रकाशमाने प्रकाशते, किं तु लिङ्गप्रकाशे विनष्टे ।
यद्युच्येत न ज्ञानादतिरिक्तोऽस्त्यर्थप्रकाशो ज्ञानप्रकाशश्च किं तु ज्ञानमेव
स्वसंवेदनमर्थस्य चात्मनश्चेति2304 । एवं तर्हि किमायातम् ? न ह्यात्मैवात्मायत्तः । न च
ज्ञानमेवात्मनः परस्य च प्रकाश इति सिद्धम् । अन्यो हि ज्ञानप्रकाशो मानस ऐन्द्रिय
कश्चार्थप्रकाशः । न च प्रमाणज्ञानप्रकाशाधीनोऽर्थप्रकाशः किं तु प्रमाणज्ञानसत्ता
धीनः, फलाधीनं तु न किंञ्चिदित्यावेदितम् । तत्सिद्धमेतत्, विवादाध्यासितं विज्ञानं
स्वप्रकाशाद् भिन्नं प्रकाशमानत्वात्, सत्त्वान्तरप्रकाशस्य सत्त्वान्तरविज्ञानवत्2305
तदनेनाभिसन्धिनोक्तम्—न हि कर्म च क्रिया चैकं भवतीति । एतेन
631 सहोपलम्भनियमादभेदो नीलतद्धियोः
इति परास्तं वेदितव्यम् । अर्थज्ञानयोरेकोपलम्भयोरेकोपलम्भतैव नास्ति कुतः
पुनरस्य नियम इति । अथ यथाश्रुतः सहोपलम्भो हेतुरित्युच्यते ततो विरुद्धः, अभेदे
सहार्थासंभवात् । कृतप्रपञ्चश्चायमर्थोऽस्माभिर्न्यायकणिकायाम् । इह तु विस्तरभयान्न
प्रपञ्चित इत्युपरम्यते ।


सोऽपि दृष्टं विज्ञानभेदमनुयोक्तव्य इति । न स्वसन्तानमात्रनिबन्धनो
विज्ञानभेदो भवितुमर्हति नीलपीतादिरूपः । नापि सन्तानान्तराधिपत्य
सन्निधानासन्निधाननिबन्धनः, विज्ञानानामदेशात्मकानां स्वरूपेण देशविप्रकर्षायोगात् ।
नापि कालविप्रकर्षोऽपूर्वसत्त्वप्रादुर्भावाभावादिति भावः । शङ्कते—स्वप्नवद्
विज्ञानभेदमिति ।
बाह्याभावेऽप्याध्यात्मिको विज्ञानभेदहेतुरस्तीति भावः ।
निराकरोति—सोऽपीति । स्वप्नज्ञानमपि पारम्पर्येण बाह्यनिबन्धनमित्यर्थः ।
अबाह्यनिमित्तकत्वं स्वप्नप्रत्ययस्याभ्युपेत्याह—अथ स्वप्नपक्षेऽपि इति । वर्गः
पक्षः । न चैकं विज्ञानं चिन्तनीयमपरं चिन्तकमिति वक्तव्यम्, व्यतिरिक्ता
लम्बनत्वानभ्युपगमादिति भावः । अभ्युपेत्य चाबाह्यनिमित्तत्वं स्वप्नप्रत्ययाना
मेतदुक्तम् । बाह्यनिमित्तमेव तु यदुक्तं तदेव पारमार्थिकमित्याह—ये चैते स्वप्नप्रत्यया
इति । ममापीति । अपिशब्दः संभावनायाम् । मम पक्षे संभाव्यत एतत् यत् सर्व+एव
प्रत्यया मिथ्या भवन्तीत्यर्थः । सुगममितरत् । मिद्धो2306 निद्रा विषयमन्तरेण विज्ञानस्य
स्पष्टतास्पष्टता च वक्तव्येति2307 । सामान्यविशेषतद्वतां ग्रहणं स्पष्टता2308 । सामान्यमात्रस्य
ग्रहणमस्पष्टता2309 । तच्चैतदुभयमसति विषये दुष्करं तदाकारोत्पत्तेरेवाशक्यत्वादि
त्यर्थः । शङ्कते—असत्यर्थे विज्ञानभेदो दृष्ट इति चेत् ? स्वप्नमायागन्धर्वनगर
मृगतृष्णादिविज्ञानेष्वनुवर्तमानेषु विषयेन्द्रियमनोदोषनिमित्तत्वमस्तु । ये पुनरमी
प्रेतानां सर्वेषामनुवृत्तिमन्तः पूयपूर्णनदीप्रत्यया न ते बाह्यविषया दोषवशाद्भवितुमर्हन्ति,
दोषनिबन्धनत्वे बहूनामनुवृत्तेरभावात् अदुष्टेन्द्रियार्थसन्निकर्षजत्वे वा जलरुधिराकार
632 विरोधात् । तस्मादनादिवासनावैचित्र्यलब्धजन्मतयार्थनिरपेक्षा एव विचित्राकारा
बुद्धय उदयन्ते व्ययन्ते चेति साम्प्रतमिति शङ्कार्थः । न तत्र नद्यस्तीति स्वमतदार्ढ्येनोक्तं
बौद्धेन । निराकरोति—न व्याघातादिति ।


अयममिसन्धिः । जलरुधिरयो रसवीर्यविपाकादिभेदात् तोयरसवीर्यपरिपाका
दिदर्शनात् नद्यास्तोयपूर्णत्वे निश्चिते पूयपूर्णत्वनिश्चयः प्रेतानां मिथ्येति निश्चये
तदनुवृत्तेर्दोषानुवृत्तिः कल्पनीया, दोषश्च प्रेतशरीरनिर्वर्तकं कर्मैव । यथोक्तं

तुल्पकर्मविपाकोत्पन्नाः प्रेता इति ।

कर्मणो वासनान्यत्र फलमन्यत्र कल्प्यत इति ।

फलं पुत्रपश्वन्नादि । तद् यदि ज्ञानं तदा यत्रज्ञानसन्ताने कर्मवासना तत्रैव पुत्राद्याकारं
ज्ञानं फलमिति सामानाधिकरण्यमुपपद्यते । पुत्रपश्वन्नादौ त्वर्थरूपे फले वैयधिकरण्यं
स्यात् । तथा चातिप्रसङ्ग इति भावः । निराकरोति—तन्नानभ्युपगमादिति । न पुत्रादि
स्वरूपेण फलमपि तु तन्निमित्ता प्रीतिः । तस्या एव चेतनेन काम्यमानत्वात्
तल्लक्षणत्वाच्च फलस्येति भावः । मुक्तकेनार्थं साधयित्वा प्रयोगानाह—मदीया
च्चित्तादिति ।
यदि चित्तमात्रं पक्षीक्रियेत तदा दृष्टान्तो न स्यादित्यत उक्तं
मदीयाच्चित्तादिति । मदीयाहङ्कारानास्पदत्वे सतीति विशेषणान्न स्वचित्तेन व्यभि
चारः । आरोपनिराकरणार्थत्वाच्च हेतूनां नासमर्थविशेष्यतेति ॥ ३४ ॥


मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाश
वत् प्रतिबोधे ॥ ४ । २ । ३५ ॥


अपि च मिथ्योपलब्धीनां बाह्यानालम्बनत्वमास्थाय तत्त्वबुद्धीनां बाह्या
नालम्बनत्वं साधनीयम् । तासां च बाह्यानालम्बनत्वं बाधकाधीनम् । बाधकं चार्थे
समारोपितरजताद्यभिमानं निवर्तयति, न तु पुरोऽवस्थितमर्थसामान्यं शुक्लभास्वरम् ।
तस्मान्न बाधकानुरोधादपि मिथ्याज्ञानं बाह्यानालम्बनमिति स्वप्नवदिति दृष्टान्तः
633 साध्यविकल इत्याह—एवं च सतीति । मिथ्याज्ञानस्य प्रधानाश्रयत्वे मिथ्योपलब्धे
र्विनाशः
तत्त्वज्ञानाद् बाधकात् । स्वप्नविषयाभिमानप्रणाशवत् प्रतिषेधो2310, न
त्वर्थस्य सामान्यस्यापीति शेषः । शेषं भाष्ये । भाष्यं च सुबोधम् ॥ ३५ ॥


बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ॥ ४ । २ । ३६ ॥


यस्तु माध्यमिको मिथ्याबुद्धिदृष्टान्तेन बाह्यापह्नवं कृत्वा तेनैव दृष्टान्तेन
विज्ञानापह्नवं2311 कृत्वा विचारासहत्वं तत्त्वं भावानां व्यवस्थापयां बभूव, तं
प्रत्याह—बुद्धे…म्भात् ॥ अर्थे हि निषिद्धे भवेदप्येतत् । तद्व्यवस्थापने तु तद्वदेवाप्रत्यूहं
बुद्धिसद्भावोऽपि सिध्यति । न चैवंवादिनः प्रमाणमस्ति, असता च प्रमाणेन
विचारासहत्वं भावानां व्यवस्थापयन् श्लाघनीयप्रज्ञो देवानांप्रिय इति । न च
कल्पनामात्रनिर्मित उपायस्तत्त्वज्ञानाय पर्याप्तः । न च वनस्पत्यादितत्त्वज्ञानस्य
मिथ्याहस्तिज्ञानं निबन्धनम्, अपि तु प्रणिहितमनस इन्द्रियार्थसन्निकर्षविशेषः । न
चासौ मिथ्याज्ञानसमये आसीत् । न हि मोहाभ्यासः समीचीनाय ज्ञानाय कल्पते । स
हि मोहमेव द्रढयतीति सर्वमवदातम् । सोऽयं माध्यमिकोऽनुभूयमानां मिथ्या
बुद्धिं नापह्नोतुमर्हति । तथा च मिथ्याबुद्धिं प्रतिपद्यमानेन तस्या निमित्तं
वक्तव्यमित्युक्तम् ॥ ३६ ॥


तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः ॥ ४ । २ । ३७ ॥


तत्त्व…पत्तिः ॥ मिथ्याबुद्ध्या स्वनिमित्तं लक्ष्यते । तेन मिथ्याबुद्धिनिमित्तस्य
द्वैविध्यमित्यर्थः । यत्र स्थाणौ पुरुषज्ञानं भवति तत्र तत्त्वं स्थाणुरिति, प्रधानं पुरुष
इति, 2312यः प्रत्ययः पूर्वं पुरुषेऽभूदित्यर्थः । एवं 2313तावद् रूपवद् द्रव्यविषयबुद्धीः
बाह्यालम्बनाः प्रतिपाद्य गन्धादिबुद्धीरपि प्रतिपादयति भाष्यकारः गन्धादौ च
634 प्रमेय इति । प्रकृतमुपसंहरति—तस्मादयुक्तमेतदिति ॥ ३७ ॥


॥ बाह्यार्थभङ्गनिराकरणप्रकरणम् ॥

  1. विवेचनाभावात् न याथात्म्यानुपलब्धिःJ

  2. विक्चियमानस्यC

  3. भावात् तदन्तर्गतत्वेनC

  4. सर्वभावानुपपत्तिरित्यर्थःC

  5. विलक्षणव्यवहाराभावःC

  6. परमार्थतो J

  7. तस्मात् J

  8. सिध्यति C

  9. मिथ्याज्ञानानामपि J

  10. कुम्भ इति C

  11. स्वप्नज्ञानस्यायाथार्थ्यमि°C

  12. सर्वविषयाःC

  13. विषयव्यापकम्J

  14. विनिपातात्C

  15. विज्ञानकालस्यJ

  16. सर्वज्ञज्ञानानि J

  17. असंभवात् C

  18. असन्ननुत्पन्नरूपो C

  19. सरूपवत्
    J

  20. अजडेन J

  21. प्रत्ययतत्सारूप्याभ्यां C

  22. तथापिC

  23. सोपानेC

  24. °गमनरचनप्र°C

  25. सन्तत्यधिकतराणामपिC

  26. क्षणस्य कार्यभेदहेतुत्वमि° C

  27. ज्ञानाधानसा° J

  28. सत्यां C

  29. °मुप
    लभ्यते
    C

  30. स्वभावः तस्यC

  31. तत्°OmC

  32. °शालितया कर्म भवतिC

  33. प्रकाशश्च विषय इतिC

  34. न चC

  35. स्वात्म°C

  36. °प्रकाशवत्C

  37. मिथ्याC

  38. विज्ञानस्फुटता चावक्तव्येतिC

  39. स्फुटताC

  40. अस्फुटताC

  41. प्रतिबोधःJ

  42. नाभावंC

  43. यः पूर्वं पुरुषो°C

  44. तावद् रूपबुद्धीः प्रतिपाद्यC