तत्त्वज्ञानविवृद्धिप्रकरणम्


समाधिविशेषाभ्यासात् ॥ ४ । २ । ३८ ॥


दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिरित्युक्तम्, अथ तत्त्वज्ञानं
कथमुत्पद्यत
इति । न तावदागमत उपपत्तितो वा तत्त्वज्ञानमहङ्कारनिवृत्तिं कर्तुमुत्सहते
दोषनिमित्तेषूत्पन्नतथाभूतज्ञानानामपि2314 पूर्ववदहङ्कारदोषानुवृत्तेः । साक्षात्कारस्तूपाया
भावादयुक्त इति ।


अस्योत्तरं सूत्रम्—समा…सात् ॥ समाधिपदं व्याचष्टे भाष्यकारः, स तु
प्रत्याहृतस्येन्द्रियेभ्यो मनस
इति । अनेन विक्षेपं निवर्तयति । इन्द्रियेभ्यः प्रतीपमाहृतस्य
मनसः क्वचित् हृत्पुण्डरीकादिप्रदेशे2315 आत्मनो निजौकसि विधारकेण प्रयत्नेन
धार्यमाणस्यात्मना संयोगो
यः2316 स खलु 2317प्रलयावस्थायामप्यस्तीत्यत
उक्तं—तत्त्वबुभूत्साविशिष्ट इति । तदभ्यासश्च तद्विषयविधारकप्रयत्नोत्पाद
पौनःपुन्यम् । तद्वशादादरनैरन्तर्यदीर्घकालताविशिष्टात् तत्त्वबुद्धिरुत्पद्यते ॥ ३८ ॥


नार्थविशेषप्राबल्यात् ॥ ४ । २ । ३९ ॥


एतदाक्षेपसूत्रमवतारयति—यदुक्तं सति हि तस्मिन्निति ॥ ३९ ॥


635

क्षुदादिभिः प्रवर्तनाच्च ॥ ४ । २ । ४० ॥


इन्द्रियविषयैरपहृतमनसो न धारणा । तथा च तदभ्यासाभावान्न तत्त्वासाक्षात्कार
इति सूत्रार्थः ॥ ४० ॥


पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥ ४ । २ । ४१ ॥


समाधानसूत्रमवतारयति—अस्त्ये तत्समाधिव्युत्थाननिमित्तमिति ।
सूत्रम्—पूर्व…त्पत्तिः ॥
पूर्वकृतः समाधिः । तस्य फलं संस्कारः । तस्यानुबन्धः
स्थेमा । तस्मादिति सूत्रार्थः । तद् व्याचष्टे भाष्यकारः—पूर्वकृत इति । प्रविविच्यते
विशिष्यतेऽनेनेति प्रविवेकः । धर्मश्चासौ प्रविवेकश्चेति धर्मप्रविवेकः प्रकृष्टः
संस्कारः, स ह्यात्मधर्म इति । कस्मात् पुनरदृश्यमानः संस्कारः कल्प्यत इत्यत
आह—निष्फले हीति । प्रयत्नविशेषा हि विशरारवो बहवोऽपि परस्परमसहभवन्तो2318
न तत्त्वसाक्षात्काराय पर्याप्ता इति तज्जनिताः संस्काराः कल्प्यन्ते । तेषां स्थेम्ना
संभवति संभूयकारितेत्यर्थः ॥ ४१ ॥


अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥ ४ । २ । ४२ ॥


प्रचयकाष्ठा प्रचयावधिः, यतः परमपरः प्रचयो नास्ति । तत्सहकारिशालितया
प्रकृष्टायां समाधिभावनायां समाधिप्रयत्नः समाधिभावना तस्यामित्यर्थः ॥ ४२ ॥


अपवर्गेऽप्येवं प्रसङ्गः ॥ ४ । २ । ४३ ॥


636

पूर्वपक्षवाद्याह—यद्यर्थविशेषप्राबल्यादिति । अप…प्रसङ्गः ॥ स खल्वय
मीदृशो बाह्यार्थप्रकर्षस्य2319 महिमा यतः इन्द्रियाद्यनपेक्षादेवात्मनो बुद्धिर्जनिष्यत
इत्यभिमानः पूर्वपक्षिणः ॥ ४३ ॥


न निष्पन्नावश्यम्भावित्वात् ॥ ४ । २ । ४४ ॥


सिद्धान्तसूत्रम्—न, निष्पन्नावश्यम्भावित्वात् ॥ तद् व्याख्यातम् । न खलु
तण्डुला अत्यन्तं फलीकृता अपि पिठरोदकदहनसंयोगप्रचयमन्तरेण पुलाकी
भवन्तीति भावः ॥ ४४ ॥


तदभावश्चापवर्गे ॥ ४ । २ । ४५ ॥


तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः
॥ ४ । २ । ४६ ॥


किं समाधिविशेष एव तत्त्वज्ञानसाधनम् ? मैवम्, किं तु तदर्थं यमनियमा
भ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ॥ समानमाश्रमिणां धर्म
साधनम् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमपरिग्रह इति यमः । नियमो यस्याश्रमिणो
योऽसाधारणो धर्मोपायः । योग इति विषयेण योगशास्त्रं पातञ्जलादि2320 लक्षयति ।
योगाचारः एकाकिता आहारविशेषः एकत्रानवस्थानमित्यादिः यतिधर्मोक्तः2321
एतेऽपि 2322तत्त्वज्ञानोत्पादक्रमेणापवर्गसाधनमित्यर्थः ॥ ४६ ॥


ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ॥ ४ । २ । ४७ ॥


637

ननु यद्येते तत्त्वज्ञानविधानक्रमेणोपायाः2323, कृतं तर्ह्यान्वीक्षिक्येत्यत आह—ज्ञान
…संवादः ॥
तद् व्याचष्टे—तदर्थमिति प्रकृतम् । आत्मविद्या आन्वीक्षिकी । अभ्यासः
सततक्रिया प्रयत्न इत्यर्थः2324 । प्रयोजनमाह—प्रज्ञापरिपाकार्थम् । परिपाकस्तु
संशयच्छेदनम् ।
किं देहाद्यतिरिक्त आत्मा उत नेति संशयः । तस्य च्छेदनं
लौकिकस्य त्वज्ञानमात्मनि तदवबोधः2325अध्यवसितं प्रमाणेन, तस्य अभ्यनुज्ञानं
तर्केण ॥ ४७ ॥


तंशिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयात्
॥ ४ । २ । ४८ ॥


सब्रह्यचारी सहाध्यायी । गुरुशिष्यसहाध्यायिभ्योऽन्यः शास्त्रेणानुशिष्टः
शिष्टः । श्रेयोऽर्थिनश्च श्रेयसि मोक्षलक्षणे श्राद्धाः । तेषामपवर्गे श्रद्धादर्शनादस्ति
तदुपायाभ्यासः प्राग्भवीय इत्यनुमीत्यते । तेन तेषामपि प्राग्भवीयसंस्कारवशात्
प्रतिभोपासनीयेति । अभ्युपेयात् अभिमुखमुपेत्य जानीयात् गुर्वादिभिः
सहेत्यर्थः । नीतार्थम् गतार्थम् ॥ ४८ ॥


प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥ ४ । २ । ४९ ॥


तदनेन गुर्वादिभिर्वादं कृत्वा तत्त्वनिश्चय उक्तः । यदि च मन्येत पक्ष
प्रतिपक्षपरिग्रहः प्रतिकूलः परस्य
गुर्वादेः । तस्मान्न वादोऽप्युचित इति, तत्रेदं
सूत्रमुपतिष्ठते—प्रति…र्थित्वे ॥


व्याचष्टे—तमभ्युपेयादिति वर्तते । परतो गुर्वादेः प्रज्ञामुपादित्समानः
638 तत्त्वबुभुत्साप्रकाशनेन
आत्मनः शरीरादिभ्यो भेदमहं बुभुत्स इत्यभिदधानः
स्वपक्षमनवस्थापयन् स्वदर्शनं गुर्वादिकृताद् विचारात् पूर्वपक्षोच्छे
दसिद्धान्तव्यवस्थापनलक्षणात्2326 परिशोधयेत् । अन्योऽन्यप्रत्यनीकानि च
प्रावादुकानां दर्शनानि ।
अयुक्तपरित्यागेन युक्तपरिग्रहणेन च परिशोधयेदिति
संबध्यते ॥ ४८ ॥


॥ इति तत्त्वज्ञानविवृद्धिप्रकरणम् ॥

  1. °तथाभूत° J

  2. °आदि° J

  3. °गोऽयम् । C

  4. सुप्तावस्थायाम° C

  5. °मसंभवन्तो Alaṅkāra

  6. बाह्यार्थस्य C

  7. पातञ्जलं C

  8. °त्यादि यतिधर्मोक्तम् C

  9. ज्ञानक्रमो
    त्पाद°
    C

  10. तत्त्वज्ञानोत्पादक्रमेणापवर्गोपायःC

  11. तत्क्रिया तत्र प्रयत्न इत्यर्थःJ

  12. लोकस्य
    तत्त्वज्ञानमात्मनि तदवरोधः ।
    C

  13. इतः परं स्वदर्शनमिति टीकायामभ्यस्तम् । तत्तु नापेक्षितमिति त्यक्तम् ।