638 तत्त्वबुभुत्साप्रकाशनेन आत्मनः शरीरादिभ्यो भेदमहं बुभुत्स इत्यभिदधानः
स्वपक्षमनवस्थापयन् स्वदर्शनं गुर्वादिकृताद् विचारात् पूर्वपक्षोच्छे
दसिद्धान्तव्यवस्थापनलक्षणात्2326 परिशोधयेत् । अन्योऽन्यप्रत्यनीकानि च
प्रावादुकानां दर्शनानि ।
अयुक्तपरित्यागेन युक्तपरिग्रहणेन च परिशोधयेदिति
संबध्यते ॥ ४८ ॥


॥ इति तत्त्वज्ञानविवृद्धिप्रकरणम् ॥

तत्त्वज्ञानपरिपालनप्रकरणम्


तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं
कण्टकशाखावरणवत् ॥ ४ । २ । ५० ॥


ननु यत्र वादस्यैव दशेदृशी, तत्र तत्त्वनिर्णये दत्तजलाञ्जली तर्हि जल्पवितण्डे
इत्यत आह—स्वपक्षरागेण चैके न्यायमतिवर्तन्ते । तत्र तत्त्वा…वरणवत् ॥ इति
सूत्रम् ॥ तद् व्याचष्टे—अनुत्पन्नतत्त्वज्ञानानामिति ॥ ५० ॥


ताभ्यां विगृह्य कथनम् ॥ ४ । २ । ५१ ॥


न केवलं तदर्थं घटमानानां जल्पवितण्डे अपि तु विद्यानिर्वेदादिभिश्च
परेणावज्ञायमानस्य । ताभ्य…नम् ॥
इति सूत्रम् । 2327यश्च कुदर्शनाभ्या
साहितमिथ्याज्ञानावलेपदुर्विदग्धतया सद्विद्यावैराग्याद् वा लाभपूजाख्यात्यर्थितया
2328वा कुहेतुभिरीश्वराणां जनाधाराणां पुरतो वेदब्राह्मणपरलोकादिदूषणप्रवृत्तस्तं प्रति
वादी समीचीनदूषणमप्रतिभयापश्यन् जल्पवितण्डे अवतार्य विजिगीषया तं विगृह्य

  1. इतः परं स्वदर्शनमिति टीकायामभ्यस्तम् । तत्तु नापेक्षितमिति त्यक्तम् ।

  2. यस्तु
    स्वदर्शनविलसितमिथ्या°
    C

  3. वाJ