दोषत्रैराश्यप्रकरणम्


तत् त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ॥ ४ । १ । ३ ॥


तदेवं बहु परीक्षितं दोषाणाम् । यत्तु किञ्चिदेषामपरीक्षितमस्ति तत्
परीक्षितुमुपक्रमते—प्रवर्तनालक्षणा दोषा इत्युक्तम्, तथा च मानादय इति ।
रागद्वेषमोहा एव दोषाः । न च मानादयस्तेष्वन्तर्भवन्ति बुद्धिव्यपदेशभेदात् ।
प्रवर्तनालक्षणत्वं तु तेषामप्यस्ति । तस्मादतिव्यापकत्वात् लक्षणमेतदयुक्तम्2046
युक्तत्वे वा लक्षणसूत्रेमानादयोऽपि दोषवत् पठनीया इति पूर्वपक्षः । सिद्धान्तवाद्याह—
नोपसंख्यायन्ते संगृहीतत्वादिति । रागद्वेषमोहानां सामान्यत्रयाणां कामादयो
552 विशेषाः । तथा चोपपन्नो बुद्धिव्यपदेशभेदः संग्रहश्चेति भावः ।


तत्त्रै…भावात् ॥ अस्ववस्त्वादानेच्छा अस्वामिदानपूर्विका स्पृहा ।
पुनर्भवप्रार्थना तृष्णा । हेतुभूता प्रवृत्त्यादिद्वारेण पुनर्भवप्रतिसन्धानस्येति ।
प्रमाणविरुद्धेति अन्यायेनेत्यर्थः । परस्य ज्ञातेर्ममाप्येतदिति बुद्धिरभिनिवेशः ।
तत्प्रतिषेधाभिप्रायो 2047ज्ञातिविशेषस्येर्ष्येत्युच्यते । अमर्षलक्षणो द्वेष इति । नन्वयं2048
कृतापकारस्य या असहिष्णुता सोऽमर्ष इति द्वेषस्यैष विशेष इत्युक्तम्, कथं स एव
द्वेषसामान्यमुच्यते इत्यत आह—असहिष्णुता दुःखस्य दुःखसाधनानां चेति ।
मिथ्याप्रतिपत्तिलक्षणो मोह
इति । संशयोऽपि2049 हि वा2050 यथावस्थिते पदार्थे
अयथाभावप्रतिपत्तिर्भवति । व्यवस्थितं हि वस्तु अव्यवस्थिततया गृह्णाति संशयः ।
एवं पण्डितमानिनो मीमांसकदुर्दरूढस्याभिमान इति ॥ ३ ॥


नैकप्रत्यनीकत्वात् ॥ ४ । १ । ४ ॥


आर्यप्रज्ञेति भाष्यम् । आरात् तत्त्वाद् याता आर्या । आर्या चासौ प्रज्ञा चेति
आर्यप्रज्ञा । सम्यग् बोधः संबोधः ॥ ४ ॥


व्यभिचारादहेतुः ॥ ४ । १ । ५ ॥


एकयोनयो हि रूपादयो न चैषामेकत्वम् । यदि पुनस्तत्र रूपादीनां
परस्परभेदसिद्धये कश्चित् कारणभेद आस्थीयते, स रागादिष्वपि समान इति
भावः2051 ॥ ५ ॥


553

तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः ॥ ४ । १ । ६ ॥


नासति निदोनोच्छेदे निदानिनामुच्छेद इति रागद्वेषयोर्निदानिनोरुच्छेदाय
तन्निदानत्वं मोहस्य दर्शयति—सति चार्थान्तरभाव इति । तेषां…त्तेः ॥ तेषां
मोहः पापीयान् ।
कुतः ? नामूढस्येतरोत्पत्तेः । अमूढस्येतरोत्पत्तिर्न भवति यत
इत्यत्रार्थे नामूढस्येतरोत्पत्तेरित्युक्तम् । मोहाद् विषयस्य सुखसाधनत्वानुस्मृतिः
दुःखसाधत्वानुस्मृतिश्च । संकल्पाः रञ्जनीयाः कोपनीया इति कर्तरि कृत्यो
भव्यगेयादिपाठात्2052


वार्त्तिकम्—मूढो मुह्यतीति । मूढ इति मोहवासनावान् । भवतु
तन्निदानोच्छेदादुच्छेदो निदानिनः, निदानस्यैव तु कुत उच्छेद इत्यत आह—
तत्त्वज्ञानाच्चेति । प्रतिपक्षाभ्यासान्निदाननिवृत्तिरित्यर्थः2053 ॥ ६ ॥


निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः ॥ ४ । १ । ७ ॥


न दोषलक्षणावरोधान् मोहस्य ॥ ४ । १ । ८ ॥


दोषनिमित्तत्वादिति हेतोरप्रयोजकत्वमाह—न दोषलक्षणावरोधादिति । न
दो…स्य ॥ तथाभावः
तज्जातीयत्वम् । अतथाभावः अतज्जातीयत्वम् ॥ ८ ॥


निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥ ४ । १ । ९ ॥


अनैकान्तिकत्वमाह—निमित्तनैमित्तिकोपपत्तेश्चेति । निमि…धः ॥ ९ ॥


॥ इति दोषत्रैराश्यप्रकरणम् ॥

  1. °न्न लक्षणमेतद् युक्तम्C

  2. ज्ञानिपिशाचस्ये° C

  3. अयम् J

  4. अपि Om C

  5. वा J

  6. ४-५ सूत्रयोः मुद्रितग्रन्थस्थित टीकापाठविपर्यासः C संस्करणे विशोधितः,J मातृकापाठस्तदनु
    कूलः ।

  7. पा. सू. ३. ४. ६८

  8. निदानोच्छेद इ° C