592 सुखोत्पत्तेः तेषु फलेषु यथा फलशब्दप्रयोगस्तथा तेषु पुत्रादिष्वित्यर्थः ।
सूत्रार्थकथनेनैव भाष्यवार्त्तिके व्याख्याते ॥ ५४ ॥


॥ इति फलपरीक्षाप्रकरणम् ॥

दुःखपरीक्षाप्रकरणम्


विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ॥ ४ । १ । ५५ ॥


फलानन्तरं दुःखं परीक्षणीयम्2193 । तत्रयं परीक्षा । भवतु दुःखं बाधना
लक्षणमनुभूयमानम् । यत् पुनरिदं सुखं प्रत्यात्ममनुकूलवेदनीयम्, तत्कथं दुःखम्,
अनुभवविरोधात् । शरीरेन्द्रियविषयबुद्धयश्च यदि दुःखहेतुतया दुःखं, कस्मात्
सुखहेतुतया सुखमेव न भवन्ति ? सेयमतिभीरुता सकललोकयात्राविरोधिनी ।
यथाहुः न हि मृगाः सन्तीति शालयो नोप्यन्ते । न च भिक्षवः सन्तीति स्थाल्यो
नाधिश्रीयन्त इति । तस्मान् मांसार्थीव कण्टकानुद्धृत्य मांसमश्नन्नानर्थं
कण्टकजन्यमाप्नोतीति, एवं प्रेक्षावान् दुःखमुद्धृत्येन्द्रियादिसाधनं सुखं भोक्ष्यते ।
सन्ति च त्रिविधदुःखपरिवर्जनहेतवो दृष्टाः परिदृष्टसामर्थ्या अन्वयव्यतिरेका
भ्यामित्यभिप्रायवान् पूर्वपक्षी गुडजिह्विकया संशयान इव पृच्छति—तत्
किमिदमिति ?
सिद्धान्तिन उत्तरम्—अन्य इत्याह सूत्रकार इति । तेनैवाभिप्रायेण
पूर्वपक्षी पृच्छति—कथम् ? उत्तरं—न वै सर्वलोकसाक्षिकमिति । अयं तु दुःख
भावनोपदेशः किमर्थमित्यत आह भाष्यकारः—दुःखहानार्थः । किं भूतस्य
2194दुःखभावनमित्यत आह—जन्ममरणप्रबन्धस्य अनुभवः प्राप्तिः । तन्निमित्ताद्
दुःखोपदेशपरिशीलनेन निर्विण्णस्यालंप्रत्ययवतः, अत एव दुःखं जिहासत इति
योजनीयम् । स्वाभिप्रायेण पूर्वपक्षी पृच्छति—कया युक्त्या ? उत्तरम्—सर्वे खलु

  1. दुःखपरीक्षणम्C

  2. दुःखहानमि°C