आश्रयव्यतिरेकाद्वृक्षफलोत्पत्तिवदित्यहेतुः ॥ ४ । १ । ५१ ॥
देहाद्यतिरिक्तमात्मानं नित्यं परलोकिनमसन्तं मन्यमान आह—आश्रय…
अहेतुः ॥ मूलसेकफलोत्पादयोरेकवृक्षाश्रयत्वम् । कर्मणस्तु होमादेराश्रयः शरीरम् ।
न चामुष्मिकस्य स्वर्गादेस्तच्छरीरमाश्रयः, तस्मिन्नष्टेऽस्य भावात् । तस्मादाश्रयव्य
तिरेकात् स्वर्गादेर्वृक्षफलोत्पत्तिवदित्ययं 2190दृष्टान्तः स्वर्गफलत्वे होमस्याहेतुरि
त्यर्थः ॥ ५१ ॥
प्रीतेरात्माश्रयत्वादप्रतिषेधः ॥ ४ । १ । ५२ ॥
अस्त्यात्मा 2191सर्वोपभोगसमर्थः शरीरादिव्यतिरिक्तः कर्तेत्युपपादित
मित्याशयवान् आह—प्रीते…षेधः ॥ ५२ ॥
न पुत्रस्त्रीपशुपरिच्छदहिरण्यान्नादिफलनिर्देशात् ॥ ४ । १ । ५३ ॥
अस्तु स्वर्गाद्यात्माश्रयम्, तथाप्यव्यापको हेतुः पुत्रादिफलेभ्यो निवृत्तेरिति
देशयति—न पुत्र…निर्देशात् ॥ ५३ ॥
तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ॥ ४ । १ । ५४ ॥
परिहरति—तत्संबन्धात्…पचारः ॥ स्वर्गोऽपि तावत् स्वर्गतया न काम्यते,
किं तु भोग्यतया । एवं सति कैव कथा पुत्रादिषु । तेऽपि भोग्यतयैव काम्यन्ते । न 2192च
तत्स्वरूपम् भोग्यमिति तत्साध्यं सुखं भोग्यम् । तस्मात् पुत्रादिसंबन्धात् तदुत्पत्तेः