593 सत्त्वनिकाया इति । 2195उपपत्तिः सुखदुःखहेतुभूता विषयसम्पत्तिः तस्याः स्थानानि
भुवनानि । आ सत्यलोकादा चावीचेरिति । एतदुक्तं भवति, यदि दुःखवर्जनेन शक्येत
सुखमादातुम्, ततस्तादृशं सुखमनुकूलवेदनीयं कः प्रज्ञावान् प्रजह्यात् ? न तु
तादृशमस्ति सुखं क्वचिदपि, सर्वस्य तस्य दुःखाविनाभाविनः केवलस्यो
पादानाशक्यत्वात् । न हि मधुविषसंपृक्तमन्नं विषमपनीय शक्यं मधुमात्र
युतमुपादातुमिति । तस्मान्नेदं सुखस्य प्रत्याख्यानमपि तु सुख एव दुःख संज्ञाभावन
मुपदिश्यते 2196ऋषिणा । अत्र हेतुरुपादीयते2197विविध…त्पत्तिः ॥ जन्मन
उत्पत्तिर्जन्मोत्पत्तिः । सा दुःखमेव भावयितव्या विविधबाधनायोगादिति ॥ ५५ ॥


न सुखस्याप्यन्तरालनिष्पत्तेः ॥ ४ । १ । ५६ ॥


कस्मात् पुनर्दुःखमेव स्वरूपतो न भवतीत्यत आह—न सुखस्याप्य
न्तरालनिष्पत्तेः ॥
न खल्वयं दुःखोद्देशो दुःखस्य कथनम्, सुखस्य प्रत्या
ख्यानम् ॥ ५६ ॥


बाधनानिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः ॥ ४ । १ । ५७ ॥


इतश्च दुःखसंज्ञाभावनम् न तु सुखस्य प्रतिषेधो दुःखोद्देशेनेत्याह—बाधना…
अप्रतिषेधः ॥
यस्मादिदं मे सुखसाधनमिति वेदयन् प्रार्थयते सुखसाधनम्,
तच्चोक्ताद् बहुप्रकाराद् दोषाद् बाधनाहेतुरिति दुःखभावनोपदेशनमिति । कामं
काम्यं कामयमानस्य यदा कामः समृध्यति संपन्नो भवति, अथानन्तरमेनं पुरुषमपरः
काम इच्छा क्षिप्रं प्रबाधते स्वर्गादिप्राप्तावपि स्वाराज्यादि कामयते । एवं तत्प्राप्तौ
प्राजापत्यादीति । अस्येच्छा तदुपायप्रार्थनादिना दुःखेन प्रबाधत इत्यर्थः । समन्ताद्

  1. उत्पत्तिःC

  2. ऋषिणाJ

  3. °ते ऋषिणाC