595

अपवर्गपरीक्षाप्रकारणम्


ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ॥ ४ । १ । ५९ ॥


दुःखोद्देशानन्तरमपवर्गः उद्दिष्टो लक्षितश्चेति शेषः । स प्रत्याख्यायते—
ऋणः………वर्गाभावः ॥ तद् व्याचष्टे भाष्यकारः । ऋणानुबन्धादिति । अस्ति
हि

ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।

अनपाकृत्य मोहेन मोक्षमिच्छन् व्रजत्यधः ॥

तत्र ऋणत्रयापाकरणेनैव वयःसमाप्तेर्मोक्षनिवेशक्षणो नास्तीत्यपवर्गाभाव
इत्यर्थः । क्लेशानुबन्धान्नास्त्यपवर्गः । नानुच्छिन्ननिदानः संसारः शक्य
उच्छेत्तुमित्यर्थः । प्रवृत्त्यनुबन्धादित्यस्यापीयमेव व्याख्या ॥ ५९ ॥


प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ॥
४ । १ । ६० ॥


एवं पूर्वपक्षयित्वा सिद्धान्तमुपक्रमते—अत्राभिधीयते यत् तावद्
ऋणानुबन्धादिति ।
जायमान इत्यस्य प्रधानार्थतानुपपत्त्या गुणशब्दत्वं साधयितुं
दृष्टान्तलाभाय ऋणशब्दस्य प्रथमं गुणशब्दत्वमाह—प्रधानशब्दानुपपत्तेरिति ।
प्रधा…पपत्तेः ॥
तद् व्याचष्टे—ऋणैरिति । नायं प्रधानशब्द इति । ऋणवानिव
परतन्त्रस्तेषु तेषु कर्मसु नाधिकारीति निन्दा । तदभावे तु स्वतन्त्र इति प्रशंसा । एवं
जायमान इति गुण शब्दो न मुख्य इति । कस्मात् पुनर्न मुख्य इत्यत आह—मातृतो
2201जातमात्रस्य
बालकस्यानधिकारात् । कस्मादनधिकार इत्यत आह—अर्थिनः
596 शक्तस्य चाधिकारात् ।
कस्मादर्थिन इत्यत आह—कर्मविधौ अग्निहोत्रं जुहुयात्
स्वर्गकाम इत्यादौ कामसंप्रयोगश्रुतेः । न च बालकः सुखदुःखाप्तिपरिहारकामोऽपि
विवेकेन स्वर्गपुत्रपश्वन्नादि कामयत इति । शक्तस्य च प्रवृत्तीति । न ह्यशक
नीयमर्थमशक्तं प्रति वेद आप्तोपदेशरूपो विधातुमर्हति । न च बालकः शक्तोऽ
विद्वत्त्वादिना । अत+एव तिर्यग्देवर्षिपङ्गुशूद्रत्र्यार्षेयाणामनधिकारः सामर्थ्याभावात् । न
केवलं वैदिकोऽयमीदृशो व्यवहारोऽपि तु लौकिकोऽपीत्याह—न भिद्यते च
लौकिकात् ।
तद् व्याचष्टे—लौकिकस्तावदिति । उपपन्नानवद्यवादीति । उपपन्नं
प्रमाणेन अनवद्यं पुनरुक्तदोषेण अनपेक्षितमुपदेष्टव्यस्य यन्न भवति तदित्यर्थः ।
न्यायप्राप्तमिममर्थं लिङ्गदर्शनमुपोद्बलयतीत्याह—गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं
कर्माभिवदतीति ।
गार्हस्थ्यस्य लिङ्गं पत्नी यस्मिन् कर्मणि तत् तथोक्तम् ।
पत्न्यवेक्षितमाज्यं भवति
पत्न्य उद्गायन्ति
क्षौमे वसानावग्नी आदधीयाताम्
इत्येवमादि ।


तदनेन गार्हस्थ्यात् पूर्वावस्था तावदृणानुबद्ध न भवतीत्युक्तम् । संप्रत्युत्त
रावस्थापि न ऋणानुबद्धेत्याह—यदा चार्थिनोऽधिकारस्तदा अर्थित्वस्याविपरिणामे
जरामर्यवादोपपत्तिः ।
तेन यदुक्तमृणापाकरणेन वयःपर्यवसानान्नास्ति 2202मोक्षे
निवेशस्यावसर इति अपाकृतं भवतीति । अविपरिणामपदार्थव्याख्यानं न निवर्तत
इति । तुरीयस्येत्यस्य व्याख्यानं चतुर्थस्येति । प्रायेण पञ्चसप्ततौ वत्सरेष्वतिवाहितेषु
विषयतृष्णा तनूभवति । अत्यन्तसंयोगे तु जरया ह वा एष इत्यनर्थकम् । मृत्युना
वेत्यनेनैव सिद्धेरिति शेषः । यद्युच्यते अशक्ततोपलक्षणपरमेतत् जरया ह वा मृत्युना
वेति । तेन कस्यानर्थक्यमित्यत आह—अशक्तो हि विमुच्यत इत्येतदपि नोप
पद्यते
इति ।


597

वार्त्तिकम्—यावज्जीवसंयोगे हि जरया ह वेत्यनर्थकमिति । मृत्युना ह
वेत्यनेनैव गतार्थत्वादित्यनुक्त्वा भाष्योक्ता द्वितीया युक्तिरुक्ता वार्त्तिककृता
यस्मात् स्वयमशक्तस्य
इत्यनेन ।


यज्ञसाधनत्वादिति । यज्ञकर्तृत्वादित्यर्थ । एतदेव स्फुटयति—यस्माद्यजमानो
यज्ञाङ्गं भवति ।
यथाह भगवान् जैमिनिः पुरुषकर्मार्थत्वात्2203 इति ।


स्यादेतत् । यद्यपि गृहस्थस्य यज्ञादिविधानान्तराणि सन्ति तथापि जायमान
स्त्रिभिरृणैरिति वाक्यं बालस्यापि यज्ञादि विधास्यतीत्येतां शङ्कां विमर्शपूर्वमपा
करोति—अथापि विहितं वानूद्येत कामाद् वार्थः परिकल्प्येतेति । न तावत्
जायमानो ह वै
इति वाक्ये विधिविभक्तिरस्ति । तेन सिद्धान्तानुवादः स्वरसतः प्रतीयते । यदि तु
तस्यार्थस्य सिद्धिर्वाक्यान्तराद् वा प्रमाणान्तराद् वा कथमपि न कल्पेत, ततो
वचनानि त्वपूर्वत्वात्
इति न्यायाद् विधित्वमस्य कल्प्येत । सन्ति तु शतशस्तदर्थविधायकानि वाक्यानि
विधिविभक्तिमन्तीति को जातमात्रस्य2204 स्वेच्छामात्रेण विध्यर्थतां2205 कल्पयेत् ?
तस्माद् विहितानुवचनमेव न्याय्यमिति जायमानशब्दो जघन्यवृत्तिरिति युक्त
मुत्पश्यामः ।


स्यादेतत् । जायमानशब्दोऽनुपचरितार्थः स्वभावतो मातुरुदराद् विभागमाह ।
स कथंचिदनुवादत्वानुरोधेन जघन्यवृत्तिः कल्पनीयः । तद् वरं मुख्यार्थानुरोधेन
विधानमेव कल्प्यताम् । एवं सति श्रुतिरनुरोधिता भवति । अस्ति च बालकस्यापि
फलोत्पादनयोग्यता, तदात्मनः फलं प्रति समवायिकारणत्वात् । तेन यद्यपि
जातमात्रस्य फलसाधनानुष्ठानयोग्यता नास्ति, तथापि फलोत्पादं प्रति योग्यतास्ति ।
फलेन च प्रयोजनं न तत्साधनेनेत्यत आह—फलस्य साधनानि हि प्रयत्नविषयो
न फलमिति ।
अयमभिसन्धिः2206, विधिर्हि स्वव्यापारे कर्तृतया पुरुषं नियुङ्क्ते,
598 प्रयत्नश्चास्य व्यापारः स च निर्विषयो2207 न शक्यो निवर्तयितुमिति स्वविषयमपेक्षते ।
न चास्य साक्षात्फलं विषयो भवितुमर्हति, उद्देश्यतामात्रेण तु भवेत् । न चैतावता
प्रयत्नोऽस्य निर्वृणोति यावदयं साक्षादभिनिर्वर्तनीयं न प्राप्नोति । तदुपायश्चास्य
साक्षादभिनिर्वर्तनीय इति फलोद्देशप्रवृत्तस्य 2208पुरुषप्रयत्नस्य तदुपायो विषयः । न च
बालकस्य तदुपायमविदुषस्तत्र सामर्थ्यमस्ति । असमर्थश्चाकर्ता कथमात्मानं2209
प्रयत्नेन व्याप्नुयात् ? तदव्याप्नुवंश्च कथमधिकारीति जायमानशब्दो जघन्यवृत्तिरेव
न्याय्य इति सिद्धम् । विहितं च 2210याजमानमिति ऋणवाक्यात् प्राक्, विधीयते च
ऋणवाक्यादूर्ध्वमित्यर्थः ।


यदुक्तं तत्र हि प्रव्रज्या विधीयते इति तदमृष्यमाण आह—
प्रत्यक्षविधानाभावादिति चेत् ? शङ्कां निराकरोति—न, प्रतिषेधस्य प्रत्यक्ष
विधानाभावात् ।
शङ्कां विभजते—प्रत्यक्षत इति । परमाप्तो भगवानीश्वरोऽनुकम्पया
भूतोपदेशाय प्रवृत्तो यद् गार्हस्थ्यमेवाश्रममुपदिशति ततोऽवगच्छामो न
सन्त्याश्रमान्तराणि भूतेभ्यो हितानीत्यर्थः । अत एवाहुः
ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद् गार्हस्थ्यस्येति2211
निराकरणं विभजते—न प्रतिषेधस्येति । स्मृतीतिहासपुराणानि तावदविवादं विदधति
चातुराश्रम्यमुपलभ्यन्ते, यदि तु प्रत्यक्षया श्रुत्या 2212चातुराश्रम्यं निषेध्येत, ततस्तद्वि
रोधेनौदुम्बरीसर्ववेष्टनवत् तत्राप्रमाणानि स्युः । न च तत्प्रतिषेधः श्रुतेः साक्षादव
गम्यते । तस्मात् स्मृत्यादिविहितं चातुराश्रम्यमप्रतिषिद्धं श्रुत्या न शक्यं परित्यक्तु
मित्यर्थः ।


न चाविधानेन तत्प्रतिषेधानुमानमित्याह—अधिकाराच्चेति । गार्हस्थ्योपदेश
स्याधिकारात्तस्यैव विधानं नाश्रमान्तरस्य, न त्वाश्रमान्तराभावात् । न हि व्याकरणं
शब्दं व्युत्पादयत् प्रमाणाद्यभावमाक्षिपति ।


599

अपि च मा भूत् प्रत्यक्षविधानम्, श्रुतौ ससाधनापवर्गाभिधानानि च
चातुराश्रम्याभिधानानि च प्रत्यक्षाण्युपलभ्यन्ते वचनानि । तान्यपूर्वत्वाद् विधानानि
अपवर्गस्य ससाधनस्य चातुराश्रम्यस्य च भविष्यन्तीत्याह—ऋग्ब्राह्यणं चा
पवर्गाभिधाय्यभिधीयत
इति । मृत्युमिति प्रेत्यभावमित्यर्थः । परं कर्मभ्य इति
कर्मपरित्यागमपवर्गसाधनं सूचयति । अमृतत्वमिति चापवर्गो दर्शितः । सूचितं
कर्मत्यागमपवर्गसाधनं श्रुत्यन्तरेण विशदयति—न कर्मणा न प्रजयेति । परेण
नाकमिति ।
नाकमित्यविद्यामुपलक्षयति । अविद्यातः परमित्यर्थः । निहितं गुहायाम्
इति लौकिकप्रमाणागोचरत्वं दर्शयति । तमसः परस्ताद् इति । अविद्या तमः तस्य
परस्तात् । आदित्यवर्णमिति नित्यप्रकाशमित्यर्थः । तदनेनेश्वरप्रणिधानस्याप
वर्गोपायत्वमुक्तम् ।


ऋच उदाहृत्य ब्राह्मणमुदाहरति—अथ ब्राह्मणानीति । यज्ञ इत्यादिना
गृहस्थाश्रमो दर्शितः, तप एवेति वानप्रस्थाश्रमः, ब्रह्मचारीति ब्रह्मचर्याश्रमः । एषा
मभ्युदयलक्षणं फलमाह—सर्व एवैत इति । चतुर्थमाश्रममाह—ब्रह्मसंस्थ इति ।
तथा क्रतुरिति । क्रतुः संकल्पः । कामयमानो य आसीत् स एव अथाकामयमानो
भवति । अकामयमानः कामं परिहरन् तत्परिहारसिद्धौ । सोऽकामयं स्तस्य व्याख्यानं—
निष्काम इति । आत्मकाम इति कैवल्योपेतात्मकामः । तत्प्राप्त्याप्तकामो भवति ।
तस्य प्राणा
इति । शाश्वतो भवतीत्यर्थः । प्रकृतमुपसंरति—तत्र यदुक्तमिति ।
अपरामपि चातुराश्रम्याभिधायिनीं श्रुतिमुदाहरति—ये चत्वार इति ॥ ६० ॥


समारोपणादात्मन्यप्रतिषेधः ॥ ४ । १ । ६१ ॥


इतश्च फलार्थिन एष जरामर्यवाद इत्याह—फलार्थिनश्चेति । पृष्ट्वा सूत्रं
पठति—कथम् ? समारोप…प्रतिषेधः ॥ आत्मन्यग्नीनां समारोणाद् ऋणानुबन्धेना
पवर्गस्याप्रतिषेधः । तदनेन छलेन प्रत्यक्षविधानं प्रव्रज्याया अपि दर्शितम् ।
600 एषणाभ्यो व्युत्थितस्य विपर्यस्तबुद्धेः अलमाभिरेषणाभिरनर्थहेतुभिरिति कृत
बुद्धेः । अत एव निवृत्ते फलार्थित्वे समारोपणमात्मन्यग्नीनां विधीयत इति ।


एवं च ब्राह्मणानीति । यदैषणाभ्यो व्युत्थितस्य प्रव्रज्याविधानं तदा तदभि
धायीनि ब्राह्मणान्युपपन्नानीत्यर्थः ॥ ६१ ॥


पात्रचयान्तानुपपत्तेश्च फलाभावः ॥ ४ । १ । ६२ ॥


प्रमृते खलु यजमाने यज्ञपात्राणि यजमानस्य शरीरे यथावयवं निधायान्त्येष्टिः
क्रियते । तत्र जरामर्ये कर्मण्यविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति
प्रसज्येत । मरणपर्यन्तानि कर्माणीति प्रसज्येतेत्यर्थः । नन्विष्यत एव पात्रचयान्तत्वं
कर्मणामित्यत आह—तत्रैषणाव्युत्थानमिति । तस्मान्नाविशेषेण कर्तुः प्रयोजकं
फलं भवतीति । फलाभाव इत्यस्य सूत्रावयवस्याविशेषेण फलस्य
कर्तृप्रयोजनकत्वाभाव इत्यर्थः । तदनेनैषणाव्युत्थानश्रुतिविरोधो दर्शितः ।


तदेवं चातुराश्रम्ये श्रुतिरुक्ता । संप्रति स्मृत्यादयोऽपि चातुराश्रम्यस्योपदेशकाः
सन्तीत्याह—चातुराश्रम्यविधानाच्चेति । शङ्कते—तदप्रमाणमिति चेत् । जग
न्निर्मातुः परमकारुणिकस्य सर्वज्ञस्यात्रभवतः परमेश्वरस्यागमो भवतु प्रमाण
माप्तोक्तत्वात् । मनुव्यासादीनां त्वाप्तत्वाविनिश्चयात् कथं तत्प्रणीतानां प्रामाण्य
विनिश्चय इत्यर्थः । उत्तरं—न, प्रमाणेनेति स्यादेतत् । भवतु वेदेनाभ्यनुज्ञानादिति
हासपुराणप्रामाण्यम्, धर्मशास्त्राणां तु मन्वादिप्रणीतानां कुतः प्रामाण्यनिश्चय
इत्यत आह—अप्रामाण्ये चेति । सर्वजनपरिग्रहात् तेषामपि प्रामाण्य—मित्यर्थः ।
बुद्धादिस्मृतयस्तु वेदनिन्दितैर्म्लेच्छादिभिः परिगृहीता न त्वार्यैरिति न ताः प्रमाणं
भवितुमर्हन्तीत्यर्थः । द्रष्टवक्तृसामान्याच्चाप्रामाण्यानुपपत्तिः । य एव वेदस्य
द्रष्टारोऽनुष्ठातारश्च तदर्थस्य, त एवेतिहासादीनां प्रवक्तारः प्राचेतसकृष्ण
द्वैपायनमनु
प्रभृतयः । अपि च वैदिकानि कर्माणि स्मार्तीमितिकर्तव्यतामपेक्षन्ते,
601 स्मार्तानि च वैदिकानि मन्त्रादीनि । सर्वमेतदप्रामाण्ये धर्मशास्त्राणां नोपपद्यते । यद्यपि
2213कृष्णद्वैपायनादयोऽपि धर्मज्ञानवैराग्यैश्वर्यसम्पन्नतया अनुभूयाप्युपदिशन्तीति
संभवति, तथापि वेदमूलकत्वमेवेतिहासपुराणादीनामिति युक्तम् । तथा हि

वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।

यः कश्चित् कस्यचिद् धर्मो मनुना परिकीर्तितः ।

स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥

इत्यादिभिः स्ववचनप्रपञ्चैः आत्मा बोद्धा2214 वेद एवार्पितस्तैरिति । अथायम् इतिहासादि
गोचरोऽर्थ कस्मात्, प्रत्यक्षप्रतीतेन वेदेन नोच्यत इति तदनभिधानादवगच्छामो
नूनमयमनभिमतोऽर्थो वेदानां कर्तुरिति निराकृतोऽप्ययं पुनर्निराक्रियते दार्ढ्यार्थं
विषयव्यवस्थानाच्चेत्यनेन ॥ ६२ ॥


सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ॥ ४ । १ । ६३ ॥


यदप्युक्तं क्लेशानुबन्धस्याविच्छदोदिति तद् दूषयति—सुषुप्तस्य…अप
वर्गः ॥
तद् व्याचष्टे—सुषुप्तस्य खल्विति । लोकसिद्धतया सुषुप्तावस्थोदाहृता ।
महाप्रलयावस्थायामपि क्लेशमुक्ता एवात्मानः, केवलमसौ न लोकसिद्धेति
नोदाहृता । एतावांस्तु मुक्तावस्थाया विशेषः यदस्यां क्लेशवासनापि नास्ति ।
सुषुप्तावस्थायां प्रलयावस्थायां च क्लेशविच्छेदेऽपि तद्वासनास्तीति ॥ ६३ ॥


न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ॥ ४ । १ । ६४ ॥


यदपि प्रवृत्त्यनुबन्धादिति तत्राह—न प्रवृत्तिः…हीनक्लेशस्य2215 तद्
व्याचष्टे—प्रक्षीणेषु रागद्वेषमोहेषु सती अपि प्रवृत्तिर्न 2216प्रतिसन्धानाय ।
602 उपपादितमेतदस्माभिर्यथा 2217क्लेशतुषावनद्धाः कर्मतण्डुला जन्माङ्कुराय कल्पन्ते, न
केवला इत्यर्थः । शङ्कते—कर्मवैफल्यप्रसङ्ग इति । वैफल्ये शास्त्रस्य कर्मणां
फलसाधनताप्रतिपादकस्याप्रामाण्यप्रसङ्ग इति भावः । निराकरोति—
कर्मविपाकेति ।
विपाकः फलं तस्य प्रतिसंवेदनं भोगः ॥ ६४ ॥


न क्लेशसन्ततेः स्वाभाविकत्वात् ॥ ४ । १ । ६५ ॥


पूर्वपक्षवाद्याह—न क्लेश…त्वात् ॥ ६५ ॥


प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविकेऽप्यनित्यत्वम् ॥ ४ । १ ।
६६ ॥


सिद्धान्त्येकदेशी ब्रूते—प्रागु…त्वम् ॥ दध्यादेरुत्पत्तेः प्राक् क्षीरादिषु
योऽभावस्तस्यानित्यत्ववदिति योजना ॥ ६६ ॥


अणुश्यामतानित्यत्ववद्वा ॥ ४ । १ । ६७ ॥


अपरस्त्वेकदेशी भावमेव दृष्टान्तयतीत्याह—अणुश्यामतानित्यत्ववद् वा ॥
यदेतच्छ्यामं रूपं तदन्नस्य2218 इत्यागमः । पार्थिवानां परमाणूनां श्यामतामनादिमाह,
अन्नपदेन मृदोऽभिधानादिति भावः । अत्र प्रथममेकदेशिनं दूषयति—सतः
खल्विति ।
द्वितीयमेकदेशिनं दूषयति—अनादिरणुश्यामतेति हेत्वभावाद
युक्तम् ।
अणुश्यामता कार्या पृथिवीरूपत्वात् लोहितादिवदिति प्रत्युतानित्यता
हेतुरस्ति । पुरुषप्रयत्नजन्यलोहितादिरूपवैलक्षण्येन त्वस्याप्रयत्न—पूर्वकत्वमात्रे
णानादित्वाभिधानमिति नागमविरोधः ॥ ६७ ॥


603

न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् ॥ ४ । १ । ६८ ॥


तदेवमेकदेशिनौ दूषयित्वा परमसमाधिमाह—अयं तु समाधिरिति । न
संकल्प…रागादीनाम् ॥
चकारमनुक्तसमुच्चयार्थं व्याचष्टे—कर्मनिमित्तत्वादित
रेतरनिमित्त त्वाच्च ।
समुच्चयोऽनुक्तस्येति शेषः । तत्र संकल्पनिमित्तत्वादिति
विभजते—मिथ्यासंकल्पेभ्य इति । यद्यप्यनुभूतविषयप्रार्थना संकल्पः, तथापि
तस्य पूर्वो भागोऽनुभवोऽत्र ग्राह्यः, प्रार्थनाया रागत्वात् । तेन मिथ्यानुभवः संकल्प
इत्यर्थः ।


नन्वेकस्मान्मिथ्याज्ञानात् कुतः कार्यवैचित्र्यमित्यत आह—रञ्जनीयकोपनीय
मोहनीयेभ्य
इति । 2219भव्यगेयादिषु पाठात् कर्तरि कृत्यः । मोहनीयः संकल्पो
मिथ्याज्ञानसंस्कारः । कर्मनिमित्तत्वं रागादीनां विभजते—कर्म चेति । निकायेन
जातिरुपलक्ष्यते । इतरेतरनिमित्तत्वं रागादीनामाह—इतरेतरेति । स्यादेतत्,
भवन्त्वनित्याः क्लेशाः । तथापि यदेषां निर्वर्तकं मिथ्याज्ञानं तस्य निवृत्तिहेतोरभावात्
स एव क्लेशानुबन्धादपवर्गाभाव इत्यत आह—सर्वमिथ्यासंकल्पानां चेति । अपि
अनादिः क्लेशसन्ततिरित्ययुक्तम् । कुतः ? सर्व इमे आध्यात्मिका भावा
इति । आत्मानमधिकृत्य प्रवर्तमानाः शरीरेन्द्रियादयो भवन्त्याध्यात्मिका इति । 2220अथ
यद्यनादीनामपि निवृत्तिः, हन्त अनुत्पत्तिधर्मकाणामपि निवृत्तिप्रसङ्ग इत्यत
आह—न चैवं सत्यनुत्पत्तिधर्मकं किञ्चिदिति । रागादिनामुत्पत्तिधर्मकाणामेव
व्ययधर्मकत्वाभ्युपगमादित्यर्थः । ननु मा भूवन् मिथ्याज्ञाननिमित्ता रागादयो
मिथ्याज्ञाननिवृत्तौ, ये पुनरमी कर्मनिमित्तास्तेषां कुतो निवृत्तिः ? न च कर्मनिवृत्तौ
रागादिनिवृत्तिः रागादिमतः कर्मनिवृत्तेरभावात् । तस्मान्न मोक्ष इत्यत आह—कर्म
च निकायनिर्वर्तकं तत्त्वज्ञानकृतान्मिथ्याज्ञानरूपसंकल्पविघातान्न रागा
द्युत्पत्तिनिमित्तं भवति ।
सर्वत्र रागादीनां मिथ्याज्ञानमेव निमित्तम् । कर्माणि तु
604 निकायनियमेन रागादीन् 2221प्रवर्तयन्तीति कर्मनिमित्तत्वमुक्तमिति भावः । ननु यथा
रागादयः सत्यपि कर्मणि मिथ्यज्ञाननिवृत्त्या निवर्तन्ते, एवं सत्यपि कर्मणि
मिथ्याज्ञाननिवृत्त्या फलमपि मा भूदित्यत आह—सुखदुःखसंवित्तिफलं तु
भवतीति ।


2222संकल्पाद्यपेक्षं कर्म रागादिकारणमिति । यज्जातीयस्य जन्मनो यत्कर्म
कारणं तत् तज्जन्मोचितामेव मिथ्याज्ञानवासनामभिव्यनक्तीति तद्द्वारेण रागादीनां
कारणं भवति । चोदयति—सुखादीनामपीति । यथा मिथ्याज्ञानसहायं कर्म रागादि
हेतुः, एवं तत्सहायं फलहेतुरिति चरमदेहस्य तत्त्वज्ञानवतः सदपि कर्म फलकारणं
न स्यादित्यर्थः । परिहरति—न निरपेक्षत्वादिति । 2223कर्माशयप्रचयं क्षेतुममूढोऽप्य
सक्तोऽप्यद्विष्टोऽपि मूढ इव सक्त इव द्विष्ट इव तत्फलं भुङ्क्ते इति रागाद्यनपेक्षं कर्म
स्वफलं जनयति । तेनासौ फलोपभोगो न बन्धहेतुः । मूढादीनां बन्धहेतुः फलोप
भोगः । स च तादृशो रागादिसहायैः कर्मभिः क्रियते, न रागादिनिरपेक्षैरित्यव
दातम् ॥ ६८ ॥


॥ इत्यपवर्गपरीक्षाप्रकरणम् ॥
  1. जातमात्रस्यैवानधि°C

  2. मोक्षावसरस्तदपाकृतं भवति C

  3. जै. सू. ३॑१॑६

  4. जात्वस्यC

  5. विधित्वंC

  6. अभिप्रायःJ

  7. संभवति विषये for स च निर्विषयो C

  8. °त्नस्य निर्वृणोति यावदुपायो C

  9. कथमेनं
    J

  10. जायमान° C

  11. गौतमधर्मसूत्रे १. ४. ३५

  12. प्रतिषिध्यन्ते for चातु…ध्येत in C

  13. मन्वादयोऽपिC

  14. बद्ध्वाJ

  15. °स्यदेहिनःC

  16. स्वप्रति°C

  17. दोषतुषा° C

  18. द्रः छान्दोग्योप° ६. ४

  19. cf पाणिनिसू° ३. ४. ६८

  20. ननुJ

  21. °र्तन्त इति J

  22. वार्त्तिकमित्यादिकर्मार्थत्वादिति सन्दर्भोऽर्थसंगत्यनुसारं ५९४-५
    पत्रयोः सन्निवेशितः ।

  23. °शयप्रपञ्चमुच्छेत्तु° C