641

पञ्चमाध्यायः

पञ्चमाध्याये प्रथमाह्निकम्


सत्प्रतिपक्षदेशनाभासप्रकरणम्


साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्रा
प्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोप
पत्त्युपलब्ध्यनुपलब्ध्यनित्यनित्यकार्यसमाः ॥ ५ । १ । १ ॥


अथ प्रमाणादयः पदार्था उद्दिष्टा लक्षिता परीक्षिताश्च । तत् किम् अपरमवशिष्यते
यदर्थं पञ्चमोऽध्याय आरभ्यत इत्यत आह—साधर्म्यवैधर्म्याम्यां प्रत्यस्थानस्य
विकल्पाज्जातिबहुत्वमिति भाष्यम् ।
तस्यार्थमाह वार्त्तिककारः जातेः
संक्षेपेणोक्ताया
इत्यादि । यद्यपि जातिनिग्रहस्थानभेदा जातिनिग्रहस्थानसामान्य
लक्षणानन्तरं प्रथमेऽध्याये युक्ता लक्षयितुम्, तथाप्येषां बहुतरत्वात् प्रमेयपरीक्षायां
विलम्बो मा भूत्, अपेक्षिता चासौ शिष्यैः, संशयादिपरीक्षां तु विना प्रमेयपरीक्षा
न शक्यते, तस्मान् मुनिः शिष्यानुरोधेन परीक्षां तावद् वर्तयांबभूव । तदनन्तरमवशिष्टं
जातिनिग्रहस्थानविशेषलक्षणं वर्तयति । जल्पवितण्डापरीक्षा चानन्तरं प्रवृत्ता । तदङ्गं
च जातिनिग्रहस्थाने इत्यवान्तरसंगतिरप्यस्तीति सर्वमवदातम् ।


साध…समाः ॥ विशेषोपयोगि सामान्यलक्षणमाह—तत्र जातिर्नामेति
प्रतिषेधबुद्ध्या प्रयुक्त इति शेषः । आह्निकारम्भमाक्षिपति—जातेः प्रयोगप्रतिषेधा
दिति ।
परिवर्जनं तु सामान्यमात्रज्ञानादपि भवन्न विशेषज्ञानमपेक्षत इति भावः ।
समाधत्ते—न आरम्भप्रयोजनस्योक्तत्वात् इति । एतदेव स्मारयति—स्वयं च
सुकरः प्रयोग
इति, प्राश्निकैः कतमा जातिरित्युक्ते स्वयं सुकरः प्रयोग इति ।
अथवा सद्विद्याविद्विषा अधिक्षिप्ते तत्त्वे अह्नाय च तन्निरासहेतावस्फुरति साक्षिणां
पुरत एकान्तपराजयाद् वरं सन्देहोऽप्यस्तु कथंचित् परपराजयो वेति बुद्ध्या
642 जल्पवितण्डयोः2335 पांशुभिरिवावकिरन् जातिं प्रयुङ्क्ते । तेन हि लोके तत्त्वमवस्थापितं
भवति । 2336अन्यथासन्मार्गप्रवृत्तो लोकः स्यात् । न च 2337खटचपेटादिभिर्विद्याविद्वेषिणो
निराकरणे तदुत्थापितकुहेतुनिराकरणधीरस्ति लौकिकानाम् । तस्मान्न खटचपेटादय
उपदेष्टव्याः शास्त्रकृतेत्यभिप्रायवानाह—साधुसाधननिराकरणार्थं चेति ।
अतत्त्वविषयत्वेन परमार्थतोऽसाध्वपि साधनमह्नाय दूषणस्याप्रतिभासनात्
साध्वित्युक्तम् । लाभपूजाख्यातिकामश्चेति अन्वाचये चकारः । प्रसिद्धं तावत्
तत्त्वपरिपालनं प्रयोजनम् । तस्मिन् सत्येवैतदप्यन्वाचीयत इत्यर्थः ।


मतान्तरं निराकर्तुमुपन्यस्यति—असाधुसाधनेति । तत्त्वविषयमपि
साधनमसाध्विति विदितवान् वादकाले चाप्रतिभयास्यासाधुत्वोपपादनं न परिस्फुरति ।
असाध्वेतदिति तु स्मरन्नेवासौ जातिं प्रयुङ्क्ते । तदिदमुक्तम्—अनभिज्ञतया
साधनदोषस्येति ।
अथवा जानन्नपि जातिं प्रयुङ्क्ते—तस्य साधनस्य दोषप्रदर्शनार्थं
प्रसङ्गव्याजेन
मदीयं तावद् दूषणाभासमेव । एवं त्वदीयमपि साधनाभासम् । यदि
तु तत् सम्यक् साधनं ततो मदीयमपि सम्यग् दूषणं स्यादिति प्रसङ्गः । तद्व्याजेन
साधनं दूषयतीत्यर्थः । तदेतत् परमतं दूषयति—एतत्त्विति । जात्यभिधाने हि
पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगश्चेति द्वयं निग्रहस्थानं तस्माद् बुद्ध्वेत्ययुक्तम्2338
अथ न बुध्यते तत् किमिति जातिं प्रयुञ्जीतेति । यो हि सभादर्शनमात्रात्
पूर्वाभ्यस्तमपि विस्मरति तस्य कैव कथा अननुसंहितपूर्वजात्युद्भावनस्येति
भावः । एतेन बुद्ध्वा चाबुद्ध्वा वेति विकल्पासंभवेन अनैकान्तिके साधने प्रयुक्ते
पञ्चानां साधर्म्यसमवैधर्म्यसमविकल्पसमसाध्यसमसंशयसमानां जातीनां
प्रयोगः प्रत्युक्तः । पूर्वापरभाव इति । पूर्वस्य युक्तस्य साधनस्य पूर्वं युक्तमुत्तरम् ।
अपरस्यायुक्तस्य साधनस्यापरमयुक्तमुत्तरमिति ।


ननु साधर्म्यसमादीत्युच्यते, न च वस्तुतः साधर्म्यसमादीनां साम्यमस्ति
643 स्थापनया, तथा सत्यजातित्वप्रसङ्गादित्यत आह—समीकरणार्थः प्रयोग इति ।
आभिमानिकं साम्यं न वास्तवमित्यर्थः । साधर्म्यमेव समं यस्मिन् प्रयोग इति
शेषः । तदिदमुक्तं समार्थः सादर्म्यसमार्थः समीकरणार्थः प्रयोगो द्रष्टव्य इति । एवं
2339साधर्म्यमेव सममित्यत्र विग्रहे स्वरूपेण साम्यमुक्त्वा विशेषहेत्वभावेन
साम्यमाह—विशेषहेत्वभावो वेति । ये त्वाहुः सर्वेष्वेवापदेशेषु सर्वासामेव
जातीनां प्रयोग इति, तान् प्रत्याह—न सर्वापदेशव्याप्तिः सर्वजातिप्रयोगस्य ।
अपदेशो हेतुवचनम् । ये पुनः साधर्म्यसम इत्यादौ समशब्दस्तस्य साधनवादिजाति
वादिनोस्तुल्यार्थत्वाद् यादृशो 2340जातिवादी तादृशः 2341वाद्यपि साधर्म्येण द्वौ समाविति
मन्यन्ते, तान् प्रत्याह—न च वादिप्रतिवादिनोस्तुल्यता समार्थः । प्रतिवादी
जातिवादी विवक्षितः ॥ १ ॥


साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्य
वैधर्म्यसमौ ॥ ५ । १ । २ ॥


प्रतिषेधाविति सूत्रपूरणेन पुंलिङ्गं समर्थयते, अन्यथा जातेः प्रकृतत्वात्
सामानाधिकरण्येन साधर्म्यवैधर्म्यसमे इति स्यात् । तद्धर्मविपर्ययोपपत्तेः कृते
साध्यविपर्ययोपपत्त्यर्थमित्यर्थः । भाष्यम्—निदर्शनं, क्रियावानात्मा द्रव्यस्य
क्रियाहेतुगुणयोगादिति ।
अस्ति खल्वात्मनः क्रियाहेतुर्गुणः प्रयत्नो वा, अदृष्टं
वा, लोष्टस्यापि क्रियाहेतुर्गुणः स्पर्शवद्वेगवद्द्रव्यान्तरसंयोग इति । एवमुपसंहृते
परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा
विभुत्वात् आकाशवदिति । अत्र
च साधनाभासमुत्तरं च न जातिः । विभुत्त्वस्याक्रियावत्त्वेन स्वभावतः प्रतिबन्धात् ।
तेनैतदुपेक्ष्य वार्त्तिककार उदाहरणान्तरमाह—यथा अनित्यः शब्द
उत्पत्तिधर्मकत्वात् ।
इदं हि सम्यक् साधनम्, उत्तरं त्वस्याभासमिति । साधर्म्योक्ते
644 साधर्म्यसमः, वैधर्म्योक्ते वैधर्म्यसमः । एवं साधर्म्योक्ते हेतौ वैधर्म्यसमः । एवं
वैधर्म्योक्ते हेतौ साधर्म्यसम इति ॥ २ ॥


गोत्वाद् गोसिद्धिवत्तत्सिद्धिः ॥ ५ । १ । ३ ॥


कथं पुनरियं जातिः ? अथ प्रकरणसमोद्भावनं सम्यगुत्तरमेव कस्मात् न
भवतीत्यत आह—अनयोः साधर्म्यवैधर्म्यसमयोः उत्तरम्—गोत्वाद्…सिद्धिः ॥
भवेदेतदेवं यद्यन्वयव्यतिरेकमात्राद्धेतोर्गमकत्वं स्यात्, ततो विशेषग्रहणाभावात्
प्रकरणसमत्वं भवेत् । न त्वेवं भवति, स्वाभाविकसंबन्धभाजो गमकत्वात् ।
स्वभावसंबद्धं च कृतकत्वमनित्यत्वेन, न त्वमूर्तस्य नित्यत्वेन स्वाभाविकः
संबन्धः, बुद्धिकर्मादौ व्यभिचारात् । तस्माद् गृह्यमाणविशेषत्वान्न प्रकरणसमः ।
यथा गोत्वाद् गौः सिध्यति स्वाभाविकप्रतिबन्धात्, न तु सास्नादिसंबन्धादिति
भाष्यम् ।
सास्नादीत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन व्यभिचारिणः शृङ्गादयो
गृह्यन्ते ।


वार्त्तिकम्—एकस्यानन्वयादेकस्याव्यावृत्तेः । एकस्य सत्त्वस्य
गवाऽनन्वयाद् अश्वादौ चाव्यभिचारादनन्वयः । एकस्य चैकशफत्वादेर्वैधर्म्यस्य
गोष्वेवाव्यावृत्तेर्महिष्यादावपि व्यावृत्तेरित्यर्थः ॥ ३ ॥


॥ इति सत्प्रतिपक्षदेशनाभासप्रकरणम् ॥

साध्यदृष्टान्तधर्मविकल्पप्रभवोत्कर्षसमादिजातिषट्कप्रकरणम्


साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष
वर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥ ५ । १ । ४ ॥


उभयसाध्यत्वाच्च साध्यसमः । पञ्चानां जातीनां साध्यदृष्टान्तयोर्धर्मविकल्पात्
645 इत्यनेन पञ्चैव लक्षणानि सूचितानि । तानि च जातिसमाख्याभिर्मिथो विशिष्यन्ते ।
अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयुक्ते यदैवं प्रतिवादी प्रसङ्गेन प्रत्यव
तिष्ठते—यदि घटसाधर्म्यात् कृतकत्वादनित्य शब्दः, हन्तास्मादेव 2342घटसाधर्म्यात्
कृतकत्वाद् रूपादिमतापि शब्देन भवितव्यम् । न चेद् रूपादिमान्, मा भूत्तथा
अनित्योऽपि । न चास्ति विशेषहेतुः । कृतकत्वादनित्येन भवितव्यम् । न पुना
रूपादिमतेति । सोऽयं साध्यदृष्टान्तयोर्धर्मविकल्पाद् वैचित्र्याद् यत्रोत्कर्षं प्रसञ्जयति
स उत्कर्षसमः प्रतिषेधः ।


एवं तदेव साध्यदृष्टान्तयोर्धर्मवैचित्र्यमपकर्षेण विशिष्यमाणमपकर्षसमस्य
लक्षणम् ।


साध्यदृष्टान्तयोर्धर्मवैचित्र्यात् स्वरूपेण साध्यासाधनत्वप्रसङ्गजनने वर्ण्या
वर्ण्यसमौ ।


साध्यदृष्टान्तधर्मविकल्पहेतुकवर्ण्यत्वनिबन्धनं तु हेत्वाद्यवयवयोगित्वप्रसञ्जनं
साध्यसमः । अत+एवोभयसाध्यत्वादिति साध्यत्वं हेतुमाह साध्यसमस्य सूत्र
कारः । भाष्यकारो
ऽपि हेत्वाद्यवयवसामर्थयोगीति ब्रुवाणस्तत्प्रसञ्जनं साध्यसमं
मन्यते । तदेतद् वार्त्तिककृद् आह—घटो वानित्य इत्यत्र को हेतुरिति ? न च यदि
समाख्याभेदेन विशिष्यमाणं लक्षणपदं भिन्नार्थं तर्हि समाख्यापदान्येव लक्षणानि
सन्तु, कृतं लक्षणपदेनेति वाच्यम्, लक्षणपदसहितानामेव तेषां लक्ष्यभेदप्रति
पादकत्वादिति ॥ ४ ॥


किञ्चित्साधम्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ॥ ५ । १ । ५ ॥


आसां षण्णां जातीनां प्रत्याख्यानम्—किञ्चि…षेधः ॥ यस्य धर्मिणः
साध्यधर्मेण स्वाभाविकसंबन्धयुक्तः2343 साधको धर्म उपपद्यते उपपन्नो भवति
646 धर्मस्तस्य साध्यधर्मस्य साधनं 2344तत्र साध्यधर्मिण्युपसंह्नियते । तथाच शब्देनेति ।
उपनयपदेनेत्यर्थः । यत् पुनरेतद्विभागजाविभागजविकल्पवन्नित्यानित्यविकल्प
इति,
तत्राह—यथोत्पत्तिधर्मकत्वमन्वयव्यतिरेकि नैवं विभागजत्वम् । अयमर्थः
विकल्पसममुत्तरं वदता हि यथा सत्युत्पत्तिमत्त्वे घटो न विभागजः, शब्दस्तु
विभागज इति व्यवस्थितो विकल्पः, एवं तस्मिन्2345 उत्पत्तिमत्त्वे सत्यपि
विभागजवच्छब्दो नित्यो भविष्यति घटस्त्वनित्य इत्युक्तम् । अत्र तावदुत्पत्तिधर्मकत्वं
यथा सत्यनित्यत्वे घटादौ दृष्टम्, आकाशादिषु चासत्यनित्यत्वे न दृष्टम्, तेनानित्यत्वेन
स्वभावप्रतिबद्धमवधारितम्, नैवमुत्पत्तिधर्मकत्वस्य विभागजत्वेनाविभागजत्वेन
वा स्वाभाविकः संबन्धो गृहीतो येनोत्पत्तिमत्किञ्चिद्विभागजं किञ्चिदविभागजं न
भवेत् । तस्माद् विकल्पसमं जात्युत्तरं वदता ह्यतिनिर्बन्धेन विभागजत्वेन शब्दस्य
नित्यत्वं वक्तव्यम् । तत्रेदमुपतिष्ठते—यथोत्पत्तिधर्मकत्वमन्वयव्यतिरेकि
अनित्यत्वं प्रति नैवं विभागजत्वं शब्दनित्यत्वं प्रत्यन्वयव्यतिरेकि, किं तर्ह्य
साधारणमित्यर्थः2346 । असाधारण्यमाह—न हि किञ्चित् शब्दादन्यद् विभागाज्जाय
मानं नित्यमनित्यं वा दृष्टम् ।
ननु विभागजो विभागोऽनित्यो दृष्ट इत्यत आह—
यथोक्तविशेषणमिति कारणमात्रविभागपूर्वकः शब्दो विभागजस्तु विभागः
कारणाकारणविभागपूर्वक इति सिद्धं कारणमात्रविभागपूर्वकत्वमसाधारण्य
मित्यर्थः ॥ ५ ॥


साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ ५ । १ । ६ ॥


षण्णां जातीनां प्रत्याख्यानमुक्त्वा वर्ण्यावर्ण्यसाध्यसमानामपरं
प्रत्याख्यानमाह—साध्य…पत्तेः । इति, तद् व्याचष्टे—दृष्टान्तः साध्य इति ब्रुवतेति ।
चतुर्दशविधजातिवादिनामिह दूषणमुपन्यस्यति—यत् त्वत्रोक्तं जातीनां
पौनरुक्त्यमिति ।
लक्षणभेदाभेदाभ्यां किल लक्ष्यभेदाभेदौ लक्षणं चेदमेकमिति न2347
647 षड्जातयः । तस्माद् विकल्पसमायामेवोत्कर्षसमादीनामन्तर्भाव इत्यर्थः । दूषयति—
पौनरुक्त्यम् ।
तत्तल्लक्ष्यपदसहितानि पञ्च लक्षणानि उभयसाध्यत्वाच्चेत्यनेन सह
षडिति । न केवलं लक्ष्यभेदात्, प्रयोगभेददर्शनाच्च । शङ्कते—यदि तत्तल्लक्ष्यभेदाज्
जातिभेदः, तत आनन्त्यमिति चेत् ? निराकरोति—न, अनवधारणादिति ।
लक्ष्याणामवधारणमस्त्येषामानन्त्यात्2348 । लक्षणोपग्रहेण चतुर्विंशातिर्जातय इत्यर्थः ।
लक्ष्याणां लक्षणाभेदेऽपि भेदे निदर्शनमाह—तथा हि प्रकरणसमैकेति । सुगम
मितरत् ॥ ६ ॥


॥ इति जातिषट्कप्रकरणम् ॥

प्राप्त्यप्राप्तियुगनद्धवाहिविकल्पोपक्रमजातिद्वयप्रकरणम्


प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्या
साधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥ ५ । १ । ७ ॥


प्राप्त्यप्राप्तिसमाविति लक्ष्यपदम् । शेषं तु लक्षणम् । असत् साध्यते, न तु सत् । प्राप्तं
च सत्, असतः प्राप्त्यसंभवात् तस्मान्न साध्यम् । अपि च यत्र यस्य प्राप्तिः, तेन
संभिन्नस्यैक्यमेव2349 । यथा गङ्गा सागरं प्राप्ता सागरेणाभिन्ना, तद्वदेव अभिन्ने चेत्
साध्यसाधने, नास्ति साध्यसाधनभावः, तस्य भेदाधिष्ठानत्वादित्यपि द्रष्टव्यम् ।
अप्राप्तिसमस्तु स्फुट एवेति । ननु प्राप्त्यप्राप्तिसमयोर्मिलितयोः साधनप्रतिषेधस्यैक
त्वात् कथं प्राप्त्यप्राप्तिसमौ भिन्नावित्यत आह—अनयोर्भेदोपदेशो विवक्षात
इति । साधनप्रतिषेधस्यैकत्वेऽपि प्राप्य वा अप्राप्य वेति विकल्पभेदाद् भेदविवक्षे
त्यर्थः । अभेदविवक्षायां त्वेकमेवोत्तरम्, यथा वृक्षाणां बहुत्वं विवक्षित्वा बहु
648 वचनप्रयोगो वृक्षा इति । तद्बहुत्वस्य संख्याया एकत्वं विवक्षित्वैकवचनम् एकं
वनमिति ।


उदाहरणेन साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानमिति जातिसामान्यलक्षणं मन्वानो
देशयति—जातिलक्षणाभावादिति । परिहरति—न, सूत्रार्थापरिज्ञानात् इति ।
सूत्रे नोदाहरणसाधर्म्यं विवक्षितम्, अपि तु येन केनचित् साधर्म्यं विवक्षितम् । अत्र
च येन केनचिद् विद्यमानेनासाध्येन साध्यस्य साधर्म्यम्, अप्राप्तेन वा हेतुना
साधर्म्यमिति न सामान्यलक्षणायोग इति ॥ ७ ॥


घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ॥ ५ । १ । ८ ॥


तस्य प्रत्याख्यानम्—घटादि…अप्रतिषेधः ॥ घटादिनिष्पत्तिदर्शनादित्यादि
सूत्रम् । तद् व्याचष्टे—मृत्प्राप्तानां दण्डादीनां न गङ्गासागरवद् अविशेषः ।
मृदवयवाः पूर्वव्यूहपरित्यागेनेति ।
साध्यं कर्म । तच्च मृदवयवाः । ते च सिद्धा
एवेत्यव्यभिचारः । घटस्तु फलं न साध्य इति भावः । कोऽप्राप्त्यर्थ इति । अप्राप्तस्य
साधकत्वेऽतिप्रसङ्ग इति भावः । उत्तरम्—परस्परोपश्लेषमन्तरेण साधकत्वमिति ।
अन्यथा तूद्देशेनासौ प्राप्त एव ।
यदुद्देशेनाभिचारः श्येनादिना क्रियते तस्यैव प्रत्य
वायो भवति, नान्यस्येति नियमः । अत्रापि संयुक्तसंयोगादिः संबन्ध उपेयः ।
तस्यापि च हेतुत्वं क्रियां प्रति दृष्टम् । यथा पङ्काख्यायां पृथिव्यामिति । सुगममन्यत् ॥ ८ ॥


॥ इति प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम् ॥

प्रसङ्गप्रतिदृष्टान्तसमजातिद्वयप्रकरणम्


दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन
प्रसङ्गप्रतिदृष्टान्तसमौ ॥ ५ । १ । ९ ॥


649

दृष्टान्तस्य कारणं प्रमाणं तस्यानपदेशात् प्रसङ्गसमः । साध्यसमो हि दृष्टान्ते
साध्यवद्धेत्वाद्यवयवं प्रसञ्जयति—पञ्चावयवप्रयोगसाध्यतां दृष्टान्तगतस्यानित्यत्वस्य
प्रसञ्जयतीत्यर्थः । प्रसङ्गसमस्तु दृष्टान्तगतस्यानित्यत्यस्य प्रमाणमात्रसाध्यता
मित्यपौनरुक्तम् । भाष्यम्—साधनस्यापि । दृष्टान्तगतस्य अनित्यत्वस्य साधनं
प्रमाणं वाच्यमिति । वार्त्तिकम्—घट एव तावदनित्य इत्यत्र को हेतुरिति । अत्र
किं प्रमाणम् इत्यर्थः । भाष्यं—प्रतिद्रष्टान्त उपादीयते । क्रियाहेतुगुणयुक्तमाकाशम्
अक्रियं दृष्टम् । तस्मादनेन प्रतिदृष्टान्तेन कस्मात् क्रियाहेतुगुणयोगो निष्क्रियत्वमेव
न साधयत्यात्मन इति शेषः । यदि पुनरियमनैकान्तिकदेशना स्यात्, क्रियाहेतु
गुणयुक्तस्याप्यक्रियत्वं दृष्टम्, यथाकाशस्येति, तत्र तत्2350, सदुत्तरं स्यात् । न
त्वेवमेतदिति जातिः ।


शङ्कते—वाय्वाकाशसंयोगस्येति । निराकरोति—न, तत्समानधर्मो
पपत्तेः ।
तत्समानधर्मणो धर्मिणः क्रियावत्वोपपत्तेः । यदि तथाभूत एव आकाशेऽपि
कस्मान्न करोतीत्यत आह—यस्त्वसाविति । यस्तु मन्यते कार्योत्पादैक्यव्यङ्ग्यमेव
कारणं न दृष्टकार्यकारणसाधर्म्यव्यङ्ग्यमपीति, तस्य दूषणान्याह—यदि चेति ॥ ९ ॥


प्रदीपोपादानप्रसङ्गविनिवृत्तिवत् तद्विनिवृत्तिः ॥ ५ । १ । १० ॥


यदि प्रज्ञापनार्थम् ? उत्तरम्—नाप्रज्ञातो दृष्टान्तः । तत्र लौकिकपरीक्षकाणां
बुद्धिसाम्यादिति शेषः ॥ १० ॥


प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥ ५ । १ । ११ ॥


स च कथमहेतुर्न स्यादिति । कथं हेतुः स्यादिति । अभ्युपगमादिति ।
650 मदीयस्य च दृष्टान्तस्याभ्युपगमात् न त्वदीयो दृष्टान्त इत्यर्थः । अथैवं प्रयुंक्ते यथा
मदीयो न दृष्टान्तस्तथा त्वदीय इति, तथापि व्याघातान्न दृष्टान्तः । मदीयस्यादृष्टान्तत्वे
साध्ये प्रतिदृष्टान्तेन हि तेन मदीयस्यादृष्टान्तता साधनीया । स चेन्न दृष्टान्तः,
मदीयस्यादृष्टान्तता साध्येति व्याहतमित्यर्थः ॥ ११ ॥


॥ इति प्रसङ्गप्रतिदृष्टान्तसमजातिद्वयप्रकरणम् ॥

अनुत्पत्तिसमप्रकरणम्


प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ ५ । १ । १२ ॥


उदाहरणपुरःसरं भाष्यकारो व्याचष्टे—अनित्यः शब्दः प्रयत्नानन्तरीय
कत्वाद् घटवदित्युक्त
इति । तदभावात् कारणाभावात् अनित्यत्वस्य कार्यस्याभावे
नित्यत्वं प्राप्तम्, नित्यत्वानित्यत्वाभ्यां राश्यन्तराभावादिति ॥ १२ ॥


तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥ ५ । १ । १३ ॥


अस्य प्रत्याख्यानम्—तथा…षेधः ॥ नित्यत्वेन हि शब्दस्य धर्मिणोऽनुपपत्त्या2351
प्रत्यवस्थेयम्, न चानुत्पन्नः शब्द इति च नित्य इति चानुत्पत्तिधर्मेति च संभवति ।
उत्पन्नस्तूत्पत्तिधर्मा च शब्दश्चानित्यश्चेति नानुत्पत्त्या शक्यं प्रत्यवस्थातु
मित्यर्थः । कारणोपपत्तेरिति । प्रयत्नानन्तरीयकत्वस्य ज्ञापकस्योपपत्तेर्न कारणस्य
प्रयत्नानन्तरीयकत्वस्य प्रतिषेध इत्यर्थः । यदुक्तं कारणाभावादनित्यत्वस्य
कार्यस्याभावे नित्यत्वं प्राप्तमिति, तत्राह वार्त्तिककारः—ज्ञापकश्चायं हेतुर्न
651 कारक
इति । कारको हि हेतुर्निवर्तमानः स्वकार्यं निवर्तयति न तु ज्ञापकः,
तदभावेऽपि भूमौ चिरनिखातानां निध्यादीनामनिवृत्तेरित्यर्थः ।


ततश्च विशेषणमनर्थकं प्रागुत्पत्तेरिति । प्रागसतो हि सत्तासंबन्ध
उत्पत्तिः, प्रागपि चेदसावभ्युपगतः प्रागुत्पत्तेरिति विशेषणमनर्थकम् । उत्पत्तेरभावे
सदैवानुत्पत्तिधर्मकत्वादित्यर्थः ।


अपरे तु प्रागुत्पत्तेः कारणाभावादित्युक्ते अर्थापत्तिसमैवेयं जातिरिति
मत्वास्या उत्तरमाहुः । यदैवमुच्येत प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति तदा
अर्थादप्रयत्नानन्तरीयकत्वे नित्यत्वमुक्तं भवतीत्यर्थापत्तितः प्रतिपक्षसिद्धेरर्था
पत्तिसमैवेयं जातिरित्यभिमानः । एवं कृते त एवास्यां जातावुत्तरं ब्रुवते—नायं
नियम
इति । तदेतत् परेषां मतं दूषयति—एतत्त्विति । शङ्कते—जातिलक्षणाभावान्नेयं
जातिरिति चेत् ?
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः । न चानुत्पत्तिसमायाः
साधर्म्यं वैधर्म्यं वास्ति केनचिदित्यर्थः । निराकरोति—नानुत्पन्नैरहेतुभिरिति2352
यथा अनुत्पन्नास्तन्तवो न पटस्य कारणं तथा शब्दोत्पत्तेः प्रागनुत्पन्नं प्रयत्नानन्तरीयकत्वं
नानित्यत्वस्य कारणमिति साधर्म्येण प्रत्यवस्थानमस्ति2353 सामान्यलक्षणमित्यर्थः ।
एतावता चार्थापत्तिसमात अनुत्पत्तिसमाया2354 भेदो दर्शितः । इहानुत्पन्नैरहेतुभिः
साम्येन कार्यप्रतिषेधात्, अर्थापत्तिसमायां 2355वाक्यार्थविपरीतार्थान्तरारोपेण
प्रतिषेधादिति ॥ १३ ॥


॥ अनुत्पत्तिसमप्रकरणम् ॥

652

संशयसमप्रकरणम्


सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात्
संशयसमः ॥ ५ । १ । १४ ॥


दृष्टान्तः प्रयत्नानन्तरीयकत्वस्य हेतोर्घट इति । यथा हि विशेषधर्मदर्शनं
निश्चयस्य कारणमस्तीति निश्चयोत्पत्तिः, एवं 2356सामान्यधर्मदर्शनमात्रमस्ति संशयस्य
कारणमिति संशयेनापि भवितव्यमित्यर्थः । सूत्रार्थप्रयोजनमाक्षेपसमाधानाभ्यां
स्फुटीकरोति—संशयसमा साधर्म्यसमाया इति ॥ १४ ॥


साधर्म्यात् संशये न संशयो वैधर्म्यादुभयथा वा संशये
अत्यन्तसंशयो2357 नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः
॥ १ । १ । १५ ॥


अस्य प्रत्याख्यानसूत्रम्—साध…षेधः ॥ न सामान्यदर्शनमात्रं संशयस्य
कारणमपि तु विशेषादर्शनसहितम्, विशेषदर्शने तु तद्रहितं 2358कारणमिति सूत्रार्थः ।
उभयथा वेति ।
साधर्म्यविशेषदर्शनाभ्यामित्यर्थः । नित्त्यत्वानभ्युपगमाच्च
सामान्यस्येति ।
नित्यं संशयकारणत्वानभ्युपगमात् साधर्म्यस्येत्यर्थः ॥ १५ ॥


॥ इति संशयसमप्रकरणम् ॥

प्रकरणसमप्रकरणम्


उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः ॥ ५ । १ । १६ ॥


653

उपलक्षणं चैतत् उभयसाधर्म्यादिति, उभयवैधर्म्यादित्यपि द्रष्टव्यम् । एतद्
व्याचष्टे भाष्यकारः—उभयेन नित्येन चानित्येन चेति । द्वितीयश्च नित्यसाधर्म्यात्
प्रतिपक्षं प्रवर्तयति—नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति । अथ
द्वितीयसाधनप्रवृत्तौ प्रथमस्य साधनस्य किं भवतीत्यत आह—एवं च सति
प्रयत्नानन्तरीयकत्वादिति हेतुरनित्यसाधर्म्येणोच्यमानो न प्रकरणमति
वर्तते ।
मातिवर्तिष्ट प्रकरणं को दोष इत्यत आह—प्रकरणानतिवृत्तेर्निर्णया
निर्वर्तनम्2359
निर्णयानिष्पत्तिरित्यर्थः । एवमनित्यसाधनवादिनं प्रत्युत्तरं दर्शयित्वा
नित्यसाधनवादिनं प्रत्याह—समानं चैतन्नित्यसाधर्म्येणोच्यमान इति । तदेवं
साधर्म्येण प्रकरणसमद्वयमुक्तम् । तथा वैधर्म्येण प्रकरणसमद्वयं नित्यानित्यसाधन
वादिनावेव प्रत्याह—समानं चैतदिति । उभयवैधर्म्यादिति नित्याकाशवैधर्म्यात्
कृतकत्वादनित्यघटवैधर्म्याच्चास्पर्शवत्त्वादिति । तदेवं प्रकरणसमचतुष्टयम् ।


अत्र चोद्यवार्त्तिकम्23602361संशयसाधर्म्यसमाभ्यामिति । परिहरति
नोभयपक्षसाधर्म्यात् तद्भेदोपपत्तिरिति । प्रकरणसमे हि 2362पक्षनिश्चयेन मया
वादिपक्षसाधनं दूषणीयमिति बुद्ध्या प्रवर्तते । साधर्म्यसंशयसमयोस्तु वादिसाधनेन
साम्यमात्रापादनेन तद्दूषणम्, न तु प्रतिपक्षविनिश्चयेनेति विशेषः । इह तु
साम्यमात्रापादनं न साधनेन, किं तु दूषणैरित्येतावता साम्यार्थः प्रयोगः सम इति
बोद्धप्यम् ॥ १६ ॥


प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ॥
५ । १ । १७ ॥


अस्य प्रत्याख्यानम्—प्रति…पत्तेः ॥ द्वयोः साधनयोस्तदानीमगृह्यमाण
विशेषयोः कोऽयमभिमानः प्रतिवादिनो यन्मया स्वपक्षसाधनेनैव वादिनः
654 साधनं दूषयितव्यमिति2363 । समानबलयोश्चेदयमात्मीयात् साधनात् स्वपक्ष
सिद्धिमिच्छति, ततोऽनिच्छन्नपि वादिनोऽपि साधनबलात् साध्यसिद्धि
मभ्युपगमयितव्यः । अन्यथा स्वसाधनात् साध्यसिद्धिमुपजीव्य प्रतिपक्षसाधनं
दूषयति, न तु तस्मात् प्रतिपक्षसिद्धिमभ्युपगच्छतीति व्यक्तमियं राजकुलस्थितिरिति ।
एवं व्यवस्थिते सूत्रभाष्ये योजयितव्ये, प्रतिपक्षात् प्रतिपक्षसाधनात् प्रकरणस्य
प्रक्रियमाणस्य साध्यस्येति यावत्, सिद्धेः, समानात् स्वसाधनात् प्रतिषेधस्य
प्रतिवादिसाधनस्य स्वसाध्यसिद्धिद्वारेण परकीयसाधनप्रतिषेधस्यानुपपत्तिः ।
कस्मात् प्रतिषेधानुपपत्तिरित्यत उक्तं—प्रतिपक्षोपपत्तेः । फलतः परकीयसाधनस्य
समानात् स्वसाधनात् प्रक्रियासिद्धिं स्वसाध्यसिद्धिं ब्रुवता प्रतिपक्षात्
प्रक्रियासिद्धिरुक्ता भवति प्रतिवादिना ।


नन्वेवं प्रकरणसमाह्वयो हेत्वामासो नोद्भावनीयः प्रतिवादिना, जात्युत्तर
प्रसङ्गादित्यत आह—तत्त्वानवधारणाच्च प्रक्रियासिद्धिः । स्वसाध्यनिर्णयेन
2364परसाध्यविघटनबुद्ध्या प्रतिवादिना साधनं प्रयुज्यमानं प्रकरणसमं जात्युत्तरं
भवति । सत्प्रतिपक्षतया वादिनः साधनमनिश्चायकं करोमीति तु बुद्ध्या प्रतिपक्षसाधनं
प्रयुञ्जानो न जातिवादी सदुत्तरवादित्वात्2365 । सत्प्रतिपक्षतया वादिनो न साधन
मितिवादित्वात्2366 । सत्प्रतिपक्षताया हेतुदोषस्यानैकान्तिकादिवदुपपादितत्वात् ।
तत्त्वानवधारणादित्यनेन प्रकरणसमोदाहरणं दर्शितम् ।


वार्त्तिकम्—विरुद्धाव्यभिचार्येष उक्तेत्तर इति । तुल्यबलयोरेकतरस्मात्
स्वसाध्यसिद्धिमभ्युपगच्छतोर्द्वयोरपि फलतोऽव्यभिचारः सिध्यति । न च
विरुद्धाव्यभिचारी संभवति । अव्यभिचारो ह्यविनाभावः । स च पञ्चरूपसंपत्तिः,
चतूरूपसंपत्तिर्वा । न च विरुद्धाव्यभिचारिणि सास्तीत्यर्थः ॥ १७ ॥


॥ इति प्रकरणसमप्रकरणम् ॥

655

अहेतुसमप्रकरणम्


2367त्रैकाल्यासिद्धेर्हेतोरहेतुसमः ॥ ५ । १ । १८ ॥


सूत्रभाष्यवार्त्तिकानि प्रमाणसामान्यपरीक्षाव्याख्यानेन व्याख्यातानि ॥ १८ ॥


न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः ॥ ५ । १ । १९ ॥


प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥ ५ । १ । २० ॥


॥ इति अहेतुसमप्रकरणम् ॥

अर्थापत्तिसमप्रकरणम्


अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ॥ ५ । १ । २१ ॥


उदाहरणपुरःसरं सूत्रं योजयति—अनित्यः शब्द इति । अनित्यसाधर्म्यादनित्यं
शब्दं ब्रुवाणो भवाननक्षरं नित्यसाधर्म्यान्नित्यत्वं शब्दस्य ब्रूत इत्यर्थः । न साधर्म्यसमादौ
वाद्यभिप्रायवर्णनमित्येतावता भेदः ॥ २१ ॥


अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वाद् अनैकान्ति
कत्वाच्चार्थापत्तेः ॥ ५ । १ । २२ ॥


अस्य प्रत्यादेशसूत्रम्—अनुक्त…पत्तेः ॥ तद् व्याचष्टे—अनुपपाद्य
656 सामर्थ्यमिति ।
तदेव खल्वनुक्तं वचनाल्लभ्यते यत्कल्पनमन्तरेण वचनार्थो न घटते,
यथा पीनो देवदत्तो दिवा न भुङ्क्ते इत्युक्ते गम्यते रात्रौ भुङ्क्त इति । यथा वा यागेन
स्वर्गं भावयेदित्युक्ते गम्यतेऽन्तरा अपूर्वं कृत्वेति । वाक्यार्थोपपादने तस्य तस्य
सामर्थ्यात् । न त्वव्यभिचारिणः साधर्म्यात् साध्ये साध्यमानेऽर्थादुक्तं भवति
व्यभिचारिणापि साधर्म्येण साध्यं साधयितव्यमिति, तस्य वाक्यार्थोपपादनेऽसामर्थ्यात्,
तदन्तरेण वाक्यार्थस्योपपत्तेः । यदि पुनरनुपलब्धसामर्थ्यमप्यनुक्तमात्रं गम्येत,
ततस्त्वया प्रतिवादिना नित्यत्वापादने शब्दस्योच्यमानेऽनुच्यमानमनित्यत्वं प्रत्येतव्यम् ।
तथा च भवदभिमतस्य नित्यत्वस्य व्याहतिः2368 । तदिदमाह—अनित्यपक्षस्य
अनुक्तस्य सिद्धावर्थादापन्नं नित्यपक्षस्य हानिरिति । विपर्ययेणापि प्रत्यवस्थान
संभवात् । अनैकान्तिकत्वमाह—उभयपक्षसमा चेयमिति । व्यभिचाराच्चा
नैकान्तिकत्वमाह—न चेयं विपर्ययमात्रादिति । न हि भोजननिषेधादेवा
भोजनविपरीतं सर्वत्र कल्पते । घनत्वं हि ग्राव्णः 2369पतनानुगुणगुरुत्वातिशय
सूचनार्थं न त्वितरेषां पतनं वारयति । वार्त्तिकं सुबोधम् ॥ २२ ॥


॥ इति अर्थापत्तिसमप्रकरणम् ॥

अविशेषसमप्रकरणम्


एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेर
विशेषसमः ॥ ५ । १ । २३ ॥


यदि घटसाधर्म्यात् प्रयत्नानन्तरीयकत्वाद् घटेनाविशेषोऽनित्यत्वाख्यः शब्दस्य,
अथ सत्त्वात् साधर्म्यात् सर्वेषां 2370सर्वाविशेषप्रसङ्गः । न त्वेवम् । तथा
प्रयत्नानन्तरीयकत्वादपि साधर्म्यान्न शब्दघटयोरनित्यत्वमविशेष इति प्रतिषेधः
657 अविशेषसमः । अविशेष इत्यस्य विवरणम्—उभयोरनित्यत्व इति । देश्यं वार्त्तिकं
साधर्म्यसमातो न भिद्यत
इति । परिहारवार्त्तिकं—नैकसमस्तेति ॥ २३ ॥


क्वचित्तद्धर्मोपपत्तेः क्वचिच्चानुपपत्तेः प्रतिषेधाभावः ॥ ५ । १ । २४ ॥


अस्य प्रत्यादेशसूत्रम्—क्वचि…भावः ॥ क्वचित् साधर्म्ये प्रयत्नानन्तरीय
कत्वादौ सति शब्दादेर्घटादिना सह तद्धर्मस्य घटधर्मस्यानित्यत्वस्योपपत्तेः,
क्वचिच्च साधर्म्ये शब्दस्य भावमात्रेण सह सत्त्वादौ भावमात्रधर्मस्यानुपपत्तेः
प्रतिषेधाभाव इति योजना । एतदुक्तं भवति, अविनाभावसंपन्नं साधर्म्यं गमकं न तु
साधर्म्यमात्रमिति । सद्भावोपपत्तिनिमित्तमिति सद्भावव्यापकमित्यर्थः । अत्रान्तरे
वैनाशिकः सत्ताव्यापकमनित्यत्वं मन्यमानो देशयति—अथ मतमनित्यत्वमेव
धर्मान्तरमिति ।
निराकरोति—एवं खलु वै कल्प्यमाने इति । पूर्वपक्षो
त्तरपक्षनिर्वाहस्तृतीये प्रपञ्चितः । अपि च, सन्तः केचन प्रमाणावधृत—नित्यत्वाः,
यथाकाशकालदिगात्मपरमाणवः2371; केचित् प्रमाणविनिश्चितानित्यभावाः, यथा
घटादयः, तस्मात् सत्त्वमनैकान्तिकत्वादसाधकमित्याह—सतश्च नित्यानित्य
भावादिति ।
अपि च यत्प्रतिषेधाय प्रसंगापादनं2372 तदेव प्रतिषेध्यं साधयति, न तु
निषेधतीत्याह—सर्वभावानां सद्भावोपपत्तेरिति ।


वार्त्तिकं—क्वचित् साधर्म्यमुपलभ्यत इति । व्याप्यतयेति शेषः । अथ
शब्दवर्जमुच्यत इति तत्राह—व्यर्थं वा सर्वभावग्रहणम् । उक्तश्च विशेषोऽ
न्वयव्यतिरेकसंपन्नो हेतुरिति
प्रयत्नानन्तरीयकत्वम्, न तु उत्तरः,
सद्भावोपपत्तेरित्यन्वतिरेकसंपन्न इति ॥ २४ ॥


॥ अविशेषसमप्रकरणम् ॥

658

उपपत्तिसमप्रकरणम्


उभयकारणोपपत्तेरुपपत्तिसमः ॥ ५ । १ । २५ ॥


यद्यनित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते, तदस्ति शब्दस्य इत्यनित्यः
शब्द इति । प्रकरणसमायां जातौ पक्षप्रतिपक्षसाधनयोः समानबलत्वेऽपि प्रतिवादी
स्वसाधनात् स्वपक्षसिद्ध्या वादिसाधनदूषणे प्रवर्तते । उपपत्तिसमायां तु स्वसाधने
नैवेति विशेषः ॥ २५ ॥


उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥ ५ । १ । २६ ॥


अस्य प्रत्यादेशसूत्रम्—उप…षेधः ॥ वाद्यभिमतस्य साधनस्योपपत्तौ यत्कारणं
तस्य प्रतिवादिना अभ्यनुज्ञानादिति भावः । प्रकरणसमप्रत्याख्यानवदस्यापि
प्रत्याख्यानं द्रष्टव्यम् । सुगमे भाष्यवार्त्तिके ॥ २६ ॥


॥ इत्युपपत्तिसमप्रकरणम् ॥

उपलब्धिसमप्रकरणम्


निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः ॥ ५ । १ । २७ ॥


अनित्यत्वकारणस्येति । ज्ञापकस्येत्यर्थः । ननु यद्वृत्तयोगप्राथम्ययोः साधनधर्मो
विषयो न तु साध्यधर्मः । स हि तद्वृत्तयोगस्य विषयः । एवं हि प्रयुज्यते, यो यः
प्रयत्नानन्तरीयकः स सर्वोऽनित्यः । अनेन हि प्रयत्नानन्तरीयकत्वमनित्यत्वादन्यतो2373
659 व्यावर्तितम्, अनित्यत्वं त्वनियमितम्2374 । स यद्यप्रयत्नानन्तरीयके शब्दे वा अन्यत्र
वा भवेत्, कः प्रयत्नानन्तरीयकत्वस्यानित्यत्वनियमविरोधः ? एवं हि स भवेद् यदि
नित्योऽपि प्रयत्नानन्तरीयको दृश्येत, न त्वेवमस्ति । तस्मादुपलब्धिसमस्योत्थानमेव
नास्ति, बीजाभावादित्यत आह वार्त्तिककारः—2375सर्वसाध्यारोपेणाव्यापकत्वं
2376साधनस्येत्युपलब्धिसमार्थः ।
यद्यपि वर्णात्मकः शब्दोऽनित्यत्वेन साध्यतया
विवक्षितः प्रकरणात्, अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदिति, तथापि
शब्दमात्रमनेन पक्षीकृतमित्यारोप्य भागासिद्धत्वापादनं2377 साधनस्येत्युपलब्धि
संमार्थः । समारोपमेवोदाहरणान्तरेण दर्शयति—सर्वमनित्यमिति । शब्दोऽनित्य
इति प्रतिज्ञायामपि सर्वमनित्यमित्यारोप्येति योजना । भाष्यकारोदाहरणा
परितोषश्चोदाहरणान्तरप्रदर्शनबीजम् । यस्त्वनित्यः शब्द इति प्रतिज्ञायां
सर्वानित्यत्वारोपो निर्बीज इति न तुष्यति, तं प्रत्याह—श्रूयमाणेति । यद्यप्यनित्यः
शब्द इति श्रूयते, तथापि सामर्थ्यादाद्य इति विवक्षितम् । शब्दान्तरोत्पादकत्वं
सजातीयोत्पादकत्वमिति । एवं च नायोगव्यवच्छेदेनायं शब्दानित्यत्वे हेतुरव्यापक
त्वात्2378, नाप्यन्ययोगव्यवच्छेदेन, हेत्वन्तरस्यापि विद्यमानत्वादिति जातिवादिनोऽ
भिसन्धिरिति ॥ २७ ॥


कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥ ५ । १ । २८ ॥


अस्य प्रत्याख्यानसूत्रम्—कारणा…षेधः ॥ तद् व्याचष्टे, प्रयत्नानन्तरीय
कत्वादिति ब्रुवतेति । कारणतः
प्रयत्नाच्छब्दस्योत्पत्तिरियभभिधीयते2379
वर्णानामनित्यत्वं साधयितुम्, न तु कार्यस्य कारणनियमः, प्रयत्नादेव सर्वः शब्दो
जायते न तु वायुसंयोगाद् वृक्षशाखाभङ्गादिति नियम उच्यते, येनाव्यापकत्वं
660 हेतोः स्यादिति । सूत्रार्थस्तु कारणान्तरादपि ज्ञापकान्तरादपि तद्धर्मोपपत्तेः
साध्यधर्मोपपत्तेरप्रतिषेध इति ।


एतदेव वार्त्तिककारो व्याचष्टे, अनित्यः शब्द इति ब्रुवता । प्रयत्नानन्तरीय
कत्वेन हेतुनेति शेषः । साध्यान्तराणां शाखाभङ्गजादीनां शब्दानां न
कारणान्तरमनित्यत्वज्ञापकं प्रतिषिध्यते2380 । यद्यपक्षीकृतानामपि कारणान्तराद् अनित्यत्वं
भवति, कामं भवत्वित्यर्थः । नापि शब्दस्य साध्यस्यानित्यत्वेन कारणान्तरं प्रत्यय
भेदभेदित्वादिप्रतिषिध्यते ।


एकदेशिमतमाह—अपरे तु परिहारं ब्रुवते, यदेव प्रयत्नानन्तरीयकमिति ।
तदेतद् दूषयति—एतत्तु नाविवादादिति । अयमभिसन्धिः, प्रयत्नानन्तरीयकत्वं
हि कोष्ठ्यस्य वायोः क्रियायाः । सा हि प्रयत्नवदात्मसंयोगाज्जायते । वायोः
पुनरुरःस्थानादिषु संयोगविभागादयो न प्रयत्नानन्तरीयकाः प्रागेव तु शब्दः । यदा
चाद्यस्य शब्दस्येयं गतिः, तदा कैव कथा प्रयत्नानन्तरीयकत्वेऽन्त्यस्य श्रवण
विवरसमवायिनः श्रूयमाणस्य शब्दस्य । तस्माद् यः प्रयत्नानन्तरीयकत्वं शब्दस्य
विना प्रमाणेन प्रतिपद्यते, न तं प्रति किञ्चित् साध्यते प्रमाणेन । प्रमाणानधीनस्य
प्रतिभासमात्रेण प्रमेयसिद्धेः सर्वत्र सुलभत्वादिति । तदनेनापरितोषबीजमुक्तम् ।
अभ्युपेत्य शब्दस्य प्रयत्नानन्तरीयकत्वमाह—यदा तु प्रयत्नानन्तरीयकत्वमिति ।
चोदयति—जातीति । परिहरति—नेति ॥ २८ ॥


॥ उपलब्धिसमप्रकरणम् ॥

अनुपलब्धिसमप्रकरणम्


तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुप
लब्धिसमः ॥ ५ । १ । २९ ॥


661

अनुपलब्धिसमस्य प्रतिषेधस्य लक्षणं दर्शयितुं तत्प्रतिषेध्यं तावदाह भाष्य
कारः—न प्रागुच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिरिति ।
कस्मात् ?
उदकादिवद् आवरणादिरस्यानुपलम्भकारणं भवतीत्यत आह—गृह्येत चैतदस्या
ग्रहणकारणमिति ।
प्रतिषेधमुक्त्वा प्रतिषेध्यस्य जातेर्लक्षणसूत्रमाह—तदनु……
समः ॥
व्याचष्टे—तेषामावाणादीनामनुपलब्धिर्नोपपद्यते । उपलभ्यमानत्वे
उपलब्धिरूपतया अनुपलब्धित्वानुपपत्तेः । तथा चानुपलब्धेरनुपलम्भादनु
पलब्धिर्नास्तीति आवरणाद्युपलब्धिसिद्धिरिति । आवरण इवावरणानुपलब्धावप्यनु
पलब्धिसमेत्यर्थ2381 ॥ २९ ॥


अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ ५ । १ । ३० ॥


अस्य प्रत्यादेशसूत्रम्—अनुप…हेतुः ॥ आवरणाद्यनुपलब्धिरावरणादीनाम
भावं गमयति, न त्वात्मनोऽप्यभावमावरणाद्युपलब्धिभावरूपम् । न ह्यसावनुप
लब्धिरप्यात्मनः, येनात्माभावं गमयेत् । उपलब्धिरप्युपलभ्यविषया, नात्मविषया ।
किं पुनरनुपलब्धिः ? तस्मादनुपलब्धिरुपलभ्याभावे हेतुः, नात्माभावस्य2382 । तथा
सति सैव न स्यादिति न स्यादुपलभ्याभावोऽपीत्यावरणं च तदुपलब्धिश्च
स्यातामिति । तदिदमाह भाष्यकारः—अनुपलम्भादित्ययमहेतुरिति, कस्मात् ?
अनुपलम्भात्मकत्वादनुपलब्धेः ।


एतद् व्याचष्टे—उपलम्भाभावमात्रत्वादिति । मात्रग्रहणेन जातिवाद्य
भिमतामात्माभावरूपतां व्यवच्छिनत्ति । नन्वियमनुपलब्धिर्भवतूपलम्भस्याभावो मा
च भूदुपलभ्यस्य2383, किमायातमावरणाद्यभावस्येत्यत आह—यदस्ति तदुपलब्धे
र्विषयः, उपलब्ध्या तदस्तीति प्रज्ञायते ।
न पुनरनुपलब्धेरनुपलम्भात्मतया तत्
2384प्रज्ञेयमिति भावः । अनुपलब्धेः प्रज्ञेयमाह—यन्नास्ति सोऽनुपलब्धेरिति । ननु
662 प्रज्ञायतां किमेतावताऽपीत्यत आह—सोऽयमावरणाद्यनुपलब्धेरनुपलम्भ इति ।
त्वया हि जातिवादिना आवरणाद्यनुपलब्धेरनुपलम्भेनावरणोपलम्भमावरणं च
प्रसञ्जयता अनुपलम्भस्य स्वविषयालोपेन प्रत्यवस्थेयम् । एवं चेद्
वरमस्त्वस्यावरणतदुपलम्भौ विषयौ । एवमनेन भावाभावबुद्धिव्यपदशव्यवहाराः
सकललोकयात्रावाहिनोऽनुकुलिता भवन्ति । तदिदमुक्तम्—सोऽयमावरणा
द्यनुपलब्धेरनुपलम्भः
आवरणोपलम्भस्य निषेधविषयं प्रमाणम् । उपलब्ध्य
भावेऽनुपलब्धौ स्वविषये प्रवर्तमानो न स्वविषयम्
अनुपलब्धिं प्रतिषेधति
अपि तूपलब्धिमेव । जातिवादिनस्तु निषेधात्2385 । तथा च सर्वलोकव्यवहारः
समुच्छिद्येतेति भावः । अप्रतिषिद्धा चावरणाद्यनुपलब्धिः आवरणादीनामभावं
प्रति हेतुत्वाय कल्पते । ननु च नानुपलम्भमात्रमभावग्रहहेतुः, मा भूच्चन्द्रमसः
परभागे हरिणसदसद्भावसंशय इत्यत आह—आवरणादीनि त्विति । उपलभ्यं
वोपलब्धिर्वा नानुपलम्भमात्रान्नास्तीति सिध्यति । अपि तु दर्शनयोग्यं सदिति
नातिप्रसङ्ग इत्यर्थः । ननूपलब्धेः स्वविषयस्य प्रतिपादिकाया अभावात् आवरणादयो
मा नामोलभ्यन्ताम्, अभावस्तु तेषां2386 कुतस्त्य इत्यत आह—अनुपलम्भात्
प्रतिषेधकात् प्रमाणादनुपलब्धेर्यो विषयः उपलभ्याभावः, स गम्यते, न
सन्त्यावरणादीनि शब्दस्याग्रहणकारणानि
इति । तत् किमिदानीं साक्षादेवो
पलम्भनिषेधकं प्रमाणमुपलभ्याभावं गमयति ? नेत्याह—अनुपलम्भात् तु
उपलब्धिनिषेधकात् प्रमाणात् अनुपलब्धिरावरणस्य सिध्यति । कस्मादित्यत
आह—विषयः स तस्य उपलब्धिनिषेधकस्य प्रमाणस्यानुपलब्धिः । ततश्चावरणा
द्यभावसिद्धिरिति द्रष्टव्यम् ॥ ३० ॥


ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥ ५ । १ । ३१ ॥


663

न केवलं निषेधविषयप्रमाणगम्यता अनुपलब्धेरुपपत्तिगम्या, अपि तु सर्वजन
प्रत्यात्मवेदनीयेत्याह सूत्रकारः—ज्ञान…त्मम् ॥ व्याचष्टे—अहेतुरिति वर्तते । शरीरे
शरीर
इति । प्रागुच्चारणात् शब्दस्यानुपलब्धेरसत्त्वे साध्यमानेऽनैकान्तिकत्वं स्यात् ।
यदि तु पश्चाद् विशिष्येत, आवरणाद्यसंभवे सतीति, ततो हेत्वन्तरं नाम
निग्रहस्थानं स्यादित्याशङ्क्य वार्त्तिककार आह—आवरणाद्यसंभवे
सत्त्वाभ्युपगमे च सत्यनुपलब्धेरिति प्रयोगः ।
सत्त्वाभ्युपगमे चेत्यस्योपादान
प्रयोजनमाह—आवरणाद्यसंभवे सत्त्वाभ्युपगमे2387 विपर्ययस्याव्यभिचारात्
नार्थापत्तिसमः ।
अयमर्थः । यद्यावरणाद्यसंभवे सत्यनुपलब्धेरित्युच्यमाने2388
कश्चिदर्थापत्तिसमया जात्या प्रत्यवतिष्ठते, आवरणाद्यसंभवे सत्यनुपलब्धेरित्युच्यमाने
अर्थादापतितमावरणादिसंभवे सत्युपलब्धेरिति । यदा तु सत्त्वाद्यभ्युपगम इति
विषयविपर्ययः सूच्यते, तदा आवरणाद्यसंभवे 2389सत्यनुपलब्धेरसत्त्वमित्यस्य विपर्यय
एव प्रयोक्तव्यः सत्त्वोपगमे त्वावरणाद्यसंभवे सत्युपलभ्येतेति । अस्य विपर्यय
स्याव्यभिचारान्नार्थापत्तिसम इत्यर्थः ॥ ३१ ॥


॥ इति अनुपलब्धिसमप्रकरणम् ॥

अनित्यसमप्रकरणम्


साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः
॥ ५ । १ । ३२ ॥


अस्ति घटनानित्येन सर्वभावानां सत्त्वं साधर्म्यमिति ॥ ३२ ॥


साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् ॥ ५ । १ । ३३ ॥


664

अस्य प्रत्याख्यानसूत्रम्—साध…र्म्यात् ॥ ३३ ॥


दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात् तस्य
चोभयथा भावान्नाविशेषः ॥ ५ । १ । ३४ ॥


तदिदं जातिवादिनां साम्यमापाद्य परमार्थप्रतिषेधमाह—दृष्टान्ते……
अविशेषः ॥
साधर्म्यमात्रं चाश्रित्य साध्याविनाभावरहितमिति । देश्यवार्त्तिकम्—
अविशेषसमात
इति । परिहरति—भिद्यत इति । यच्चाविशेषसम उत्तरमिति ।
सर्वानित्यत्वं हि प्रसञ्जयता न शब्दानित्यत्वं निषिद्धं भवतीति तत्रोक्तमित्यर्थः । अत्र
शङ्कते—नासाधनादिति चेदिति । परिहरति—न, विशेषहेतूपपत्तेरिति ।
सुगममन्यत् ॥ ३४ ॥


॥ इत्यनित्यसमप्रकरणम् ॥

नित्यसमप्रकरणम्


नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ॥ ५ । १ । ३५ ॥


धर्मस्य सर्वदा भावाद् धर्मिणोऽपि सर्वदा भावः । न ह्यस्ति संभवः
सामान्यसमवायातिरिक्तधर्मो नित्यो2390 धर्मी चानित्य इति ॥ ३५ ॥


प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेःप्रतिषेधा
भावः ॥ ५ । १ । ३६ ॥


665

अस्य प्रत्यादेशसूत्रम्—प्रति…भावः ॥ नित्यमनित्यभावादिति
हेतोरभ्युपगमेऽनभ्युपगमे च दोष इत्यर्थः । उत्पन्नस्य च निरोधादभावः
शब्दस्यानित्यत्वम् ।
तत्र च परिप्रश्नानुपपत्तिः । यदि हि निरोधकादभावोऽनित्यता
तथापि प्रश्नानुपपत्तिः । अथाप्यस्मन्मते समवायः, तथापि तदनुपपत्तिः । अनित्यत्वं
हि शब्दस्यापरान्तावच्छिन्नसत्तासमवायः । न चासौ शब्दाधेयस्तस्य स्वतन्त्रत्वादेवे
त्यर्थः ।


वार्त्तिकम्—पृथग्धर्मत्वेनानित्यत्वस्यानभ्युपगमादिति । अनात्यन्तिक
सत्तासमवायो ह्यनित्यता । न चासौ समवायात् पृथग्धर्मो न च समवायोऽपि
धर्मोऽनाश्रितत्वात्, पारतन्त्र्येण तु निरूपणात् कथञ्चिद् धर्मीत्युच्यते इति । अपि
चानात्यन्तिकसत्तायोगोऽनित्यतेत्युक्ते न युक्तः प्रश्न
इति । न हि घटमानयेति
प्रेषितः परिवृत्य पृच्छति—किं घट आनेतव्य उत पट इति । तादृशमेतदित्यर्थः । अपि
चानित्यता नित्यानित्या वेति विकल्पो नावतरति, विरोधादित्यत
आह—आत्यन्तिकानात्यन्तिकभावयोगश्चैकस्येति । शङ्कते—प्रतिषेध्येति ।
एवमभ्युपगच्छतोऽयं दोष इत्येतत्परमेतत्, न तु स्वपक्षोपवर्णनपरमेतदिति
शङ्कार्थः । निराकरोति—न, विकल्पानुपपत्तेरिति । विरोधस्य चोक्तोत्तरत्वादिति ।
परिप्रश्नानुपपत्तेरित्युत्तरं विरोधस्योक्तमित्यर्थः ॥ ३६ ॥


॥ इति नित्यसमप्रकरणम् ॥

कार्यसमप्रकरणम्


प्रयत्नकार्यानेकत्वात् कार्यसमः ॥ ५ । १ । ३७ ॥


उदाहरणपूर्वकमस्यार्थं व्याचष्टे—प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति ।
कार्यत्वानित्यत्वे च परस्परासंकीर्णे प्रथम एवाध्याये दर्शिते । उदाहृत्य
666 जातिमवतारयति—एवमवस्थिते प्रयत्नकार्यानेकत्वादिति प्रतिषेध उच्यत इति ।
प्रयत्नानन्तरीयकत्वम्—प्रयत्नानन्तरोत्पादो वा स्यात्, प्रयत्नानन्तरोपलम्भो वा ? न
तावत् पूर्वः कल्पोऽसिद्धत्वात् । तस्मात् प्रयत्नानन्तरोपलम्भ आस्थेयः । तत्र
कार्यसमं प्रतिषेधमाह—प्रयत्नानन्तरम् उपलभ्यमानानां प्रयत्नानन्तरम्
आत्मलाभश्च दृष्टो यथा घटादीनाम्, व्यवधानापोहाच्चाभिव्यक्तिर्व्यवहितानां
मूलकीलकादीनाम् । तत् किं प्रयत्नानन्तरमात्मलाभः शब्दस्य, आहोस्विद्
अभिव्यक्तिरिति विशेषो नास्ति ।
तदेवं कार्याविशेषेण प्रत्यवस्थानं
कार्यसमः ।


येन तु कार्यसमा जातिरन्यथैवोक्ता, तद् यथा—अनित्यः शब्दः कृतकत्वाद्
घटवदित्युक्ते अन्यद् मृत्पिण्डादिकार्यत्वं घटस्य, अन्यच्च विवक्षाप्रयत्नवायुप्रेरणा
भिघातकार्यत्वं शब्दस्य । तस्माच्छब्दकृतकत्वस्य घटादिकृतकत्वाद् भेदान्न साधनं
कृतकत्वमनित्यत्वस्येति । सेयं कार्यान्यत्वेन प्रत्यवस्थानात् कार्यसमेति । तदाह,

कार्यत्वान्यत्वलेशेन यत् साध्यासिद्धिदर्शनम्2391

तत् कार्यसमम्2392
इति भदन्तेनोक्तम् । कीर्तिरप्याह,
साध्येनानुगमात् कार्यसामान्येनापि साधने ।

संबन्धिभेदाद् भेदोक्तिर्दोषः कार्यसमो मतः2393

इति ।


तदनेन यदीश्वरसाधननिराकरणायोक्तम्—तनुगिरिसागरादीनामन्यत् कार्यत्वम्,
अन्यच्च प्रासादाट्टालगोपुरादीनाम् इति, तदपि जात्युत्तरभेवेति उक्तं भवति । न च
प्रत्यक्षदृश्यमानं बुद्धिमदन्वयव्यतिरेकानुविधानं सौधादीनामिव तनुभुवनादीनां
नास्तीत्येतावता भेदेन कार्यभेदे शब्दमात्राभेद इति साम्प्रतम्, अभूत्वा भावलक्षणस्य
667 कृतकत्वस्य संस्थानवत्त्वस्य वा वस्तुन एवाभेदात् । तस्मादेतदप्ययुक्तम्—


वस्तुभेदे प्रवृत्तेऽपि शब्दसाम्यादभेदिनः ।

न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने2394

न चेयं जातिरुत्कर्षापकर्षसमाभ्यां भिद्यते । साध्यदृष्टान्तयोर्धर्मविकल्पेन
प्रवर्तमानत्वात् । तस्मात् सूत्रकारोक्त एव कार्यसमोऽसंकीर्ण इति युक्तमुतप
श्यामः ॥ ३७ ॥


कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ॥ ५ । १ । ३८ ॥


अस्य प्रत्यादेशसूत्रम्—कार्या…पत्तेः ॥ कार्यस्योत्पत्तिलक्षणस्या
न्यत्वेऽभिव्यक्तिलक्षणात् कार्यात् प्रयत्नस्याभिव्यक्तिं प्रति अहेतुत्वम् ।
कस्मादभिव्यक्तिं प्रति हेतुत्वं न भवतीत्यत आह—अनुपलब्धिकारणस्यावरणादेः
उपपत्तेः अभिव्यक्तिहेतुत्वं स्यात्, 2395तदेव तु नास्तीति व्यतिरेकपरं द्रष्टव्यम् । सति
कार्यान्यत्व
इति भाष्यं सूत्रवद् योजनीयम् । यत्र प्रयत्नानन्तरमित्यत्र यत्रतत्रयो
र्व्यत्यासः, तत्र प्रयत्नानन्तरमभिव्यक्तिर्यत्रानुपलब्धिकारणं व्यवधानमुपपद्यत इति ।
कस्मादनुपलब्धिकारणोपपत्तेः प्रयत्नाभिव्यङ्ग्यत्वमित्यत आह—व्यवधानापोहाच्च
इति चो हेत्वर्थे । प्रयत्नानन्तरभाविन इति विषयेण विषयिणमुपलक्षयति ।
प्रयत्नानन्तरभाविन2396 इत्यर्थः अनुपलब्धिकारणोपपत्तेरित्यस्य व्यतिरेकप्रधानतामाह—
न तु शब्दस्यानुपलब्धीति ।


देश्यवार्त्तिकं—संशयसमात इति । परिहरति—उभयसाधर्म्यादिति ।
विशेषानुपलब्धौ2397 सत्यामुभयसाधर्म्यात् संशयसमः । इह तु विशेषोपलब्धि
मविवक्षित्वेति विशेषः । तदिदमुक्तम्—अयं तु न तथेति । देशयति—साधर्म्य
समात
इति । निराकरोति—न, हेत्वध्यारोपणादिति । प्रयत्नानन्तरीयकत्वादित्ययं
668 हेतुः प्रयत्नानन्तरमुपलब्धिरित्यध्यारोप्य प्रतिषिध्यते । साधर्म्यसमे तु नारोपण
मित्यर्थः ॥ ३८ ॥


॥ इति कार्यसमप्रकरणम् ॥

षट्पक्षीरूपकथाभासप्रकरणम्


प्रतिषेधेऽपि समानो दोषः ॥ ५ । १ । ३९ ॥


तदेवं जात्युत्तरवादिनं प्रति साधनवादिना सर्वत्रैव सम्यक् समाधानं स्वसाधनस्य
वक्तव्यम् । एवं सति तत्त्वनिर्णये कथा पर्यवसानं भवति । यदि पुनर्वाद्यपि
जातिवादिनं प्रति साधनाभासेन प्रत्यवतिष्ठेत, ततः षट्पक्ष्यां सत्यां न तत्त्वनिर्णयावसाना
कथा भवेदिति शिष्यहितः सूत्रकारः समाधानाभासवादिनं प्रति षट्पक्षी
मवतारयति—प्रति…दोषः ॥


तदेतत्सूत्रावतारपरं भाष्यम्—हेतोश्चेदनैकान्तिकत्वमुपपाद्यते प्रतिवादिना,
अनैकान्तिकत्वादसाधकः स्यादिति यदि चानैकान्तिकत्वादसाधकं वादिनो
वचनम्, प्रतिषेधेऽपि समानो दोषः । योऽयं प्रयत्नकार्यानेकत्वादिति प्रतिषेधो
जातिवादिनः, सोऽप्यनैकान्तिकः । एवं ह्यनैकान्तिकः स्याद् यदि सर्वमेव प्रतिषेधेत्,
यतस्तु किंचित् प्रतिषेधति किंचिच्च न, तस्मादयमप्यनैकत्वादसाधक2398 इत्यर्थः ।


व्याख्यान्तरमाह—अथवा शब्दस्येति । नित्यपक्षोऽभिव्यक्तिर्नोत्पादः,
एवमनित्यपक्षे उत्पादो नाभिव्यक्तिरित्ययं विशेषो न सिध्यत्ययं प्रतिषेधेऽपि
समानो दोष इत्यर्थः ॥ ३९ ॥


सर्वत्रैवम् ॥ ५ । १ । ४० ॥


669

न केवलमस्यां जातावयं समाधानाभासो वादिनः, अपि तु सर्वत्रैव जाताविति
शिष्यान् शिक्षयति सूत्रकारः—सर्वत्रैवम् ॥ ४० ॥


प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः ॥ ५ । १ । ४१ ॥


अस्मिन् समाधाने प्रयुक्ते वादिना पुनर्जातिवादी प्रत्यवतिष्ठते—प्रति……
दोषः ॥
प्रतिषेधो जातिवादिनस्तस्य विप्रतिषेधो मूलसाधनवादिनः । तस्मिंस्तुल्यो
दोष इति जातिवादिनः प्रत्यवस्थानमित्यर्थः ॥ ४१ ॥


प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोष
प्रसङ्गो मतानुज्ञा ॥ ५ । १ । ४२ ॥


अथ पञ्चमं पक्षं साधनवादिनश्चतुर्थपक्षवादिनं प्रति मतानुज्ञापादन
माह—प्रतिषेधं…मतानुज्ञा ॥ ४२ ॥


स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा
भ्युपगमात् समानो दोषः ॥ ५ । १ । ४३ ॥


सेयं मतानुज्ञा तृतीये पक्षे पञ्चमपक्षवादिनोऽपि साधनवादिन इति जातिवादी
षष्ठे पक्षे स्थित आह—स्वप…दोषः ॥ स्वपक्षेण लक्ष्यते तदुत्थानत्वाज्जातिः,
स्वपक्षलक्षणा अनैकान्तिकत्वोद्भावनलक्षणा । तामपेक्ष्य2399 अनुद्धृत्य प्रतिषेधेऽपि
जातिलक्षणे समानोऽनैकान्तिकत्वदोष इत्युपपद्यमानं स्वपक्षेऽपि दोषं परपक्षे
जातिवादिपक्षे साधनावाद्युपसंहरति । तत्र चानैकान्तिकं2400 हेतुं ब्रूते । तदेवं
670 स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षे यत्स्वयं दूषणं दत्तं तस्याभ्यु
पगमाद् वादिनोऽपि समानो दोष इति जातिवादिनो वचनं षष्ठे पक्षे स्थितस्य ।
तदेवं 2401विस्तीर्णं संकलय्याह—तत्र खलु स्थापनाहेतुवादिन इति । सेयं षट्पक्षी
समानदोषापादनेनानिर्णायकत्वात् पौनरुक्त्याच्च न तत्त्वनिर्णयाय पर्याप्ता । तस्मात्
समाधानाभासेन जातिवादिनं प्रति साधनवादिना न प्रत्यवस्थेयम्, किं तु सम्यक्
साधनेन । तथा चेयमुपहता षट्पक्षी नावतरति । तत्त्वनिर्णयपर्यवसाना च कथा
भवति । यदि त्वस्य कथंचित् सम्यक्साधनवादिनोऽपि प्रतिभाक्षयात् समाधानं न
स्फुरति, ततोऽत्यन्तपराजयाद् वरं संशयोऽपीति न्यायेन समाधानाभासेनापि
प्रत्यवस्थेयमेवेत्याशयवानाह—तेषां साध्वसाधुतायामिति । भाष्यव्याख्यया
वार्त्तिकमपि व्याख्यातम् । एतास्तु जातयो न तत्त्वविवेकमुपकुर्वन्ति
प्रयुज्यमानतया, निराकरणीयतया त्वासामप्युपकार इति ॥ ४३ ॥


॥ षट्पक्षीरूपकथाभासप्रकरणम् ॥

॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां
पञ्चमाध्याये प्रथमाह्निकम् ॥

  1. जल्पवितण्डयोःJ

  2. इतरथा°J

  3. नखचपेटा°C

  4. °त्यु
    क्तम्
    C

  5. वैधर्म्य°C

  6. वादीC

  7. प्रतिवाद्यपिC

  8. °साधर्म्याद्रूपा°C

  9. °संबन्धः साधको धर्मC

  10. तत्रJ

  11. एवं सतिC

  12. °रेकीति । तद्ध्यसा°C

  13. OmJ

  14. °मस्त्वेषामानन्त्यम्J

  15. येन यस्य…तेन तस्यैक्य°C

  16. तदेतत्C

  17. धर्मेनानु°C

  18. °भिः सारूप्यादिति C

  19. °नमित्यस्ति C

  20. चार्थोत्पत्तिसमातः
    अनुत्पत्तिसमायाः
    J

  21. °विपरीतारोपेण C

  22. साधर्म्यद° C

  23. °न्तसंशयप्रसङ्गो नि C

  24. तद्रहितं न का° C

  25. °नतिवर्तनम्C

  26. पूर्वपक्षवार्त्तिकंC

  27. संशयसमासाध°C

  28. स्वपक्ष°C

  29. दूषणीयमिति C

  30. परसाधन° J

  31. सदुत्तरं भवति J

  32. सत्प्रति…
    वादित्वात्
    only in J

  33. त्रैकाल्यानुपपत्तेर्हेतो°J

  34. व्यावृत्तिःC

  35. °नानुकूलगु°C

  36. सर्वथावि°J

  37. °काशदिगात्म° C °परमाण्वादयः J

  38. प्रसंगसाधनं C

  39. अनित्याद°C

  40. अनियतम्C

  41. °ध्याध्यारोपेणJ

  42. साधनस्येतिOmJ

  43. °त्वारोपणंC

  44. °देन शब्दानित्यत्वं

  45. °त्तिनियमोऽभि°C

  46. शाखाभङ्गजशब्दानां कारणमनित्यत्वज्ञापकं न C

  47. °नुपलब्धिरप्य°C

  48. °भावहेतुः न हेतुरात्मा°C

  49. मा भूत् स्वस्यJ

  50. प्रतिज्ञेयम्C

  51. निषेध्येत C

  52. तस्य J

  53. सत्त्वोपलब्धे J

  54. °त्युच्येत अतः J

  55. तदनुप° J

  56. धर्मा नित्याः C

  57. °द्धि चोदनममिति ज्ञानश्रीनिबन्धेषु पाठः ।

  58. एतत्तु त्रिधा वक्त्रभिसन्धितः इति
    तदनुसारी श्लोकशेषः ।

  59. प्र. वा १. १६

  60. प्र. वा. १. १४

  61. एवंC

  62. भासिनःJ

  63. विशेषो°J

  64. °न्तिकः, अतोऽसा° C

  65. °मभ्युपेत्यC

  66. °कत्वेJ

  67. विस्तीर्य C