672 इति न कश्चिद् विशेषः । अत्र विचारयति—कर्तृकर्मकरणानामिति ।


तत्रैके वर्णयन्ति—पक्षस्येति । यथा पक्षोद्देशेन साधनं प्रवर्तमानं पक्षस्य, एवं
तदुद्देशेन दूषणानि प्रवर्तमानानि पक्षस्यैवेति । एवं चाहुर्दूषणानीति । न्यूनतादयो हि
सर्वे पक्षोद्देशेन प्रवर्तमानाः पक्षस्यैवेत्यर्थः । दूषयति—एतत्तु न सम्यगिति ।
पक्षोद्देशेन प्रवृत्तेः पक्षविषयतां नापजानीमः, साक्षात्तु तद्विषयतां निराकुर्मः, तस्य
वस्तुसतस्तादवस्थ्यात् । एवं साधनमपि यत्रासमर्थं तत्र नियुज्यमानं न स्वतो दुष्यति,
यत्र तु समर्थं तत् साधयत्येव । तस्मात् कर्तुरेव दोष इत्याह—तस्मादसमर्थयोरिति ।
न केवलं स्वातन्त्र्यात् कर्तुर्निग्रहः, अपि तु तदाधारत्वाद् विप्रतिपत्त्यप्रतिपत्त्योरि
त्याह—विप्रतिपत्त्यप्रतिपत्त्योश्चेति । ननु वाक्ये न्यूनतादयो दोषाः, न पुरुषाश्रया
इत्यत आह—विप्रतिपत्त्यप्रतिपत्ती चेति । न स्वरूपेण वाक्यं दुष्टं तस्य
तादवस्थ्यादित्युक्तम्, किं तु पुरुषस्य विप्रतिपत्त्यप्रतिपत्तिभ्यां तथा प्रतिभाति । तेन
वाक्यगतन्यूनतादिदर्शनात् पुरुषे विप्रतिपत्त्यप्रतिपत्ती प्रतीयेते । तेन तद्द्वारेण पुरुषो
निगृह्यते, न तु वाक्यम् ।


एतावता च प्रतिज्ञादिदोष इत्युच्यते । न चायमपि नियमो यद् वाक्यद्वारेणैव
पुरुषो निगृह्यते, अज्ञानादिषु तदभावादित्याह—कानिचिन्निग्रहस्थानानीति ।


शङ्कते—द्वैविध्यानुपपत्तिरिति । सामान्यं वा विवक्ष्येत विशेषो वा ?
सामान्यविवक्षायां निग्रहस्थानमित्येवास्तु, तस्य सर्वत्राविशेषात् कुतो द्वैविध्यम् ?
विशेषविवक्षायां तु प्रतिज्ञाहान्यादीनि बहूनीत्ययुक्तं द्वैविध्याभिधानमुभयथा
पीत्यर्थः । निराकरोति—न, सामान्यभेदविस्तरस्य विवक्षातः प्रवृत्तेरिति ।
सामान्यविवक्षायामपि निग्रहस्थानमिति नोक्तम्, उद्देशादविशेषप्रसङ्गात् । तस्माल्लक्षणं
प्रणयतान्यथा तदसंभवादवान्तरसामान्यद्वैविध्यविवक्षया सामान्यं लक्षितम् । भेदानां
तु विस्तरविवक्षया प्रतिज्ञाहान्यादयो विप्रपञ्चिता इत्यर्थः । आन्तर्गणिकानां तु
भेदानामानन्त्यमित्याह—उदाहरणमात्रत्वाच्चेति । द्वाविंशतिसंख्यावच्छिन्नो भेद
उदाहरणमात्रम् । आन्तर्गणिकभेदस्य तद्भेदविवक्षायां त्वानन्त्यमित्यर्थः ।