स्वसिद्धान्तानुरूपप्रयोगाभासनिग्रहस्थान
त्रिकप्रकरणम्


अवयवविपर्यासवचनमप्राप्तकालम् ॥ ५ । २ । ११ ॥


व्याचष्टे—प्रतिज्ञादीनामवयवानां यथालक्षणमर्थवशात् क्रमः
लक्षणानतिक्रमेण क्रमः । उक्तमेतदस्माभिः प्रथम एवाध्याये—यदपेक्षिताभिधायिनो
वचनात् परे प्रतिपद्यन्ते, नान्यस्य । तत्र प्रथमं साध्यनिर्देशोऽपेक्षितः परैर्न तु साधन
निर्देशः । तद् यद्ययं प्रथमं साधनमेव प्रयुञ्जीत कथमपेक्षितं ब्रूयात् ? अनपेक्षिताभिधायी
च कथं प्रतिपादको नाम ? तदेवं सर्वाण्येव हेत्वादिवचनानि अपि क्रमवन्ति,
नाक्रमाणि प्रतिपादयितुमर्हन्ति, विपरीतक्रमेभ्योऽप्यनुक्रमानुसरणादेवार्थप्रति
पत्तेः । सोऽयं प्रतिज्ञादीनामर्थ एव वाक्यार्थः । स चैतादृशो य एषामनुक्रममन्तरेण न
शक्यो ज्ञातुमिति । अवयवविपर्यासे त्वाकाङ्क्षाया एवाभावात् तत्पूर्वकत्वाच्च
पदार्थसंबन्धस्य असंबन्धात् निग्रहस्थानमिति भाष्यार्थः ।


वार्त्तिकम्—नैवमपि सिद्धेरित्येके । यथाहुरत्रापि न कश्चित् क्रमनियम
इष्टार्थसिद्धेरुभयत्राविशेषादिति । यद्युच्येत, अर्थशब्दवदयमस्माकं समयो यदनेन
क्रमविशेषेणार्थः प्रत्येतव्यो नान्येनेति, अतस्तथैव प्रतीयते न क्रमान्तरेणेत्यत
आह—समयानभ्युपगमाच्च । पदेष्वेव समयपूर्वकः प्रत्ययो न वाक्येषु,
अभिनवकविरचितात् समयानपेक्षादेव2428 वाक्याद् अर्थप्रतीतेः ।


687

स्यादेतत् । वाक्येष्वपि क्रमनियमो दृष्टः, यथा पाचयां बभूवेति न पुनर्बभूव
पाचयामिति । अत आह—प्रयोगाच्चेति । तत्र लौकिकः प्रयोगो नियतः, इह
त्ववयवव्यत्ययस्यापि दृष्टः प्रयोग इत्यर्थः । तदेतद् दूषयति—यत् तावन्नैवमपि
सिद्धेरिति,
तत्रोत्तरम्—प्रयोगापेतशब्दवदेतत् स्यात् । एतदेव विवृणोति—यथा
गौरित्यस्य पदस्यार्थे गावीति प्रयुज्यमानं पदं ककुदादिमन्तमर्थं प्रतिपादयतीति ।

यद्यपि शब्दानामर्थप्रत्यायनं न स्वाभाविकं तथापि परमेश्वरसंकेतपूर्वकमद्यया
वदनुवर्तते । अत+एव च साधवोऽर्थभेदे शब्दभेदा येषां पारमेश्वरसंकेतः, तदसंकेतात्तु
प्रवर्तमाना अप्यर्थेष्वसाधवः शब्दा अपभ्रंशा भवन्ति । तदपेक्षाश्च साधुभिर्भाषित
व्यमित्यादयो विधयो धर्मेषु, निन्दार्थवादाश्च—
मन्त्रो हीनः स्वरतो वर्णतः
इत्यादयः । वेदानां च प्रामाण्यं प्रतिपादितं द्वितीयेऽध्याये । न चायमर्थो ये ये साधवः
शब्दास्ते सर्वे धर्महेतव इति, किं तु धर्मानुष्ठाने तदनुरूपे भाषणे प्राप्ते साधुभिरेवेति
नियम्यते । तदेवं व्यवस्थिते अविशेषेण गोगाव्यादिशब्दा आर्येण प्रयुज्यमाना
दृश्यन्ते, तत्रैते किमविशेषेणैव साधव उत कश्चिदेकः साधुः, तत्पूर्विका चेतरेभ्यः
प्रतिपत्तिः2429 । तत्रैकशब्दस्य साधुत्वकल्पनायामितरस्मात् तन्मूलतयार्थप्रतिपत्त्युपपत्तेः
न सर्वत्र साधुत्वकल्पना युक्ता । यथाह स्मात्र भगवान् जैमिनिः
अन्यायश्चानेकशब्दत्वम्2430
इति । तत्रापि कतमस्यासाधुत्वमित्येकस्यैतेष्विति जिज्ञासायाम्—
तत्र तत्त्वमभियोगविशेषात् स्यात्2431
इति । योऽभियुक्ततमैः इन्द्रपाणिनिप्रभृतिभिः साधुत्वेनाविगानतः स्मर्यते स
साधुः, असाधव इतर इति निश्चीयते । तेन यद्यपि लौकिका गाव्यादिशब्देभ्य एव
गवाद्यर्थमधिगच्छाम इति दृष्टार्थमात्रव्यवहारिणः प्रतियन्ति, तथापि परीक्षकाणां
विचारयतामेष विचारक्रमो यद् वृद्धतमेन गोशब्दे प्रयोक्तव्ये प्रमादाद् गावीशब्दः
688 प्रयुक्तः, ततश्च वृद्धतरेण गोशब्दमुन्नीय गोत्वं प्रतीयते । यथाहुः

अम्बाम्बेति यदा बालः शिक्षमाणः प्रभाषते ।

अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः ॥

एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते ।

तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते2432

पार्श्वस्थस्त्वतोऽनेन मूलशब्दमुन्नीयार्थः प्रतीयते इत्यगृहीत्वैव गावीशब्दादेवायममुमर्थं
प्रतीतवान् इति तमेव गोत्वस्य वाचकत्वमवगम्यान्येषां वृद्धो बभूव । ततः
प्रभृत्यननुसृतमूलशब्दानामयं वाचकत्वभ्रमोऽपभ्रंशेऽनुवर्तते, तेन वृद्धतरस्योभय
वेदिनो मूलशब्दानुसारिणी पदार्थप्रतिपत्तिः, इदानीन्तनानां त्वपभ्रंशादेव । अत+एवा
न्वाख्यानमपि प्रयोजनवत् । असत्यस्मिन् वाचकादपभ्रंशविभागे ज्ञानाभावात्
साधुभिर्भाषितव्यमिति नियमविधेः
न म्लेच्छितवै नापभाषितवै
इति निषेधस्य च विषयसंशयेन दुरधिगमत्वेन धर्मानुष्ठानस्याशक्यत्वप्रसङ्गात् ।
यत्रार्थे यस्य शब्दस्य भगवतेश्वरेण संकेतः कृतः स तत्र साधुरसाधुरन्यत्र । यथा य
एवाश्वशब्दो दरिद्रेऽसाधुः, स एव साधुर्वाजिनि प्रयुज्यमानः । यथा नकुलदन्ताग्रस्पृष्टा
या काचिदोषधिरसौ सर्पविषं हन्ति, एवमीश्वरेण कृतसंकेतः शब्दः साधुर्धर्म
उपयुज्यते नान्य इति । यववराहादिशब्दानां चार्यम्लेच्छयोरर्थविवादे वैदिकाद्
वाक्यशेषादार्यसंमतोऽर्थो ग्रहीतव्यो न म्लेच्छसंमतः, तत्र वैदिकवाक्यशेषविरोधात् ।
येषां तु शब्दानामार्येषु न दृष्टचरः प्रयोगः, केवलैम्लेच्छैरेवार्थभेदे प्रयुज्यन्ते, यथा
पिकनेमतामरसादयः, वेदे च प्रयुक्तास्तेषां म्लेच्छव्यवहारादेवार्थोऽवधारणीयः,
तत्र तेषामभियोगादिति, आर्यव्यवहारापरिपन्थित्वाच्च । तदेवं व्यवस्थिते
न्यायमीमांसापरिशीलनविकलानां बाह्यतराः प्रलापा उपेक्षणीयाः । तस्मात्
सुष्ठूक्तं—प्रयोगापेतशब्दवदिति । न च शब्दान्वाख्यानं व्यर्थमिति चेति ।
689 प्रतिज्ञादीनां क्रमनियमकारणं प्रश्नपूर्वकं दर्शयति—एतत् कथम् ? पूर्वं तावदिति ।
द्वितीयं देश्यमनुभाष्य परिहरति—यत् पुनरेतत् समयानभ्युपगमादिति ।
सोऽयमर्थस्यानुपूर्वीं
प्रतीतिबलप्रवृत्ताम् अन्वाचक्षाणो नाभ्याख्येय इति
नोपालभ्यः । शास्त्रे वाक्यान्यर्थसंग्रहार्थमुपादीयन्ते इति । न हि शास्त्रे कृ तृ रा
स दिवा दर भूत दिवा2433 इत्यर्थसंग्रहो यथा कथञ्चित् क्रियत इति कथायामपि तथा
क्रियतामिति युक्तम्, वादादिषु पक्षप्रतिपक्षवद् वक्त्रोरपि परीक्ष्यमाणत्वात्, परीक्षतस्य
च शास्त्रितत्वादिति ॥ ११ ॥


हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥ ५ । २ । १२ ॥


प्रतिज्ञादीनां पञ्चावयवानां मिलितानां साधनत्वमुपपादितम् । न्यूनत्वे तु साधनत्वं
नास्ति । तदभावे न साध्यसिद्धिः । न हि सामग्रीनिष्पाद्यं कार्यं सामग्र्येकदेशाद्
भवतीत्यर्थः । परेषां मतमुपन्यस्यति—एके त्विति । एके तु प्रतिज्ञान्यूनं नाम
निग्रहस्थानं नास्तीति ब्रुवते । दूषयति—एतत्तु न युक्तमिति । किं प्रतिज्ञान्यूनं
निग्रहस्थानान्तरं न भवति, अथ निग्रहस्थानमेव न भवतीति ? एतदेव आह—किमयं
निगृह्यते अथ नेति ।
प्रथमकल्पे दोषमाह—यदीति । द्वितीये पक्षे दोषमाह—अथ
न निग्रह
इति । प्रतिज्ञायाः साधनाङ्गत्वमुक्तमित्यर्थः । यच्च ब्रवीषि दिग्नाग,
सिद्धान्तपरिग्रह एवेति ।
एतत्तु दूषयति—एतदपि इति । सिद्धसाध्यार्थयोः
सिद्धान्तप्रतिज्ञयोर्महान् भेद इत्यर्थः ॥ १२ ॥


हेतूदाहरणाधिकमधिकम् ॥ ५ । २ । १३ ॥


690

तदेतन्नियमाभ्युगम इति भाष्यम् । यत्र कथमेतत् साध्यं सिध्यत्विति
जिज्ञासा, तत्रैकेनैव साधनेन साध्यसिद्धेः साधनान्तराभिधानमनर्थकम् । निष्पादितक्रिये
कर्मणि अविशेषाभिधायिनः साधनस्य साधनन्यायातिपातात् । यत्र तु प्रतिवादिनः
परिषदो वा जिज्ञासा भवति, कति साधनानि संभवन्त्यस्मिन् साध्य इति, तत्र यावन्ति
साधनानि संभवन्ति तानि सर्वाण्येव वाच्यानि, 2434अन्यतमानभिधानेन निग्रहप्रसङ्गादिति ।


नाधिकं निग्रहस्थानमिति य आहुः तन्मतमुपन्यस्यति—तच्च न, दार्ढ्यात्
इति । दूषयति—न, दार्ढ्यार्थेति । यदि निश्चयो दार्ढ्यं तदेकस्मादेव प्रमाणाद्
भवति, अनिश्चायकस्याप्रमाणत्वात् । अथ स्फुटत्वम्, तदपि चेन्निश्चयः स
दत्तोत्तरः । अथ सामान्यविशेषतद्वतां ग्रहणम्, न तदनुमानसहस्रैरपि, तेषां
सामान्यवद्द्रव्यमात्रविषयत्वात् । शङ्कते—अथ ब्रवीषि, द्वे अपि ते ज्ञापके इति ।
नास्माकमनधिगतार्थगन्तृ प्रमाणम्, येनैकेनाधिगते प्रमाणान्तरमप्रमाणं स्यात्, अपि
तु गन्तृमात्रं प्रमाणम् । तच्च द्वितीयस्याप्यविशिष्टमिति शङ्कार्थः । निराकरोति—सत्यं
द्वे अपि ज्ञापके
इति । पुरुषोऽत्रापराध्यति यो ज्ञातमर्थमजिज्ञासितं ज्ञापयति, न तु
प्रमाणम् । तद्धि सामर्थ्येन मेये प्रवर्तते एव । यदि जिज्ञासायां सत्यां प्रवर्तते
प्रतिपादयति ज्ञेयम्, नास्य कश्चिदपराध इति । न हि धान्येष्वलूनेषु दात्रमव्रश्चनं
भवति । तस्मादनपेक्षितकरणादनवस्थानप्रसङ्गाच्च पुरुषस्य निग्रह इति स्थितम् ॥ १३ ॥


॥ इति स्वसिद्धान्तानुरूपप्रयोगाभासनिग्रहस्थानत्रिकप्रकरणम् ॥

  1. °रचिततत्समया° C

  2. प्रतीतिःC

  3. मीमांसादर्शन १॑३॑२६

  4. तत्रैव १॑३॑२७

  5. वाक्यपदीये १॑१५३,…नुमीयतेJ

  6. सन्दर्भस्यास्य पाठोऽर्थश्च न्यायालङ्कारभूमिकायां pp. XXVI-XXIX सविस्तरं
    विमृष्टौ; कृत्स्नासदिवा°
    C

  7. अन्यतराभिधाने C