647 षड्जातयः । तस्माद् विकल्पसमायामेवोत्कर्षसमादीनामन्तर्भाव इत्यर्थः । दूषयति—
पौनरुक्त्यम् ।
तत्तल्लक्ष्यपदसहितानि पञ्च लक्षणानि उभयसाध्यत्वाच्चेत्यनेन सह
षडिति । न केवलं लक्ष्यभेदात्, प्रयोगभेददर्शनाच्च । शङ्कते—यदि तत्तल्लक्ष्यभेदाज्
जातिभेदः, तत आनन्त्यमिति चेत् ? निराकरोति—न, अनवधारणादिति ।
लक्ष्याणामवधारणमस्त्येषामानन्त्यात्2348 । लक्षणोपग्रहेण चतुर्विंशातिर्जातय इत्यर्थः ।
लक्ष्याणां लक्षणाभेदेऽपि भेदे निदर्शनमाह—तथा हि प्रकरणसमैकेति । सुगम
मितरत् ॥ ६ ॥


॥ इति जातिषट्कप्रकरणम् ॥

प्राप्त्यप्राप्तियुगनद्धवाहिविकल्पोपक्रमजातिद्वयप्रकरणम्


प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्या
साधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥ ५ । १ । ७ ॥


प्राप्त्यप्राप्तिसमाविति लक्ष्यपदम् । शेषं तु लक्षणम् । असत् साध्यते, न तु सत् । प्राप्तं
च सत्, असतः प्राप्त्यसंभवात् तस्मान्न साध्यम् । अपि च यत्र यस्य प्राप्तिः, तेन
संभिन्नस्यैक्यमेव2349 । यथा गङ्गा सागरं प्राप्ता सागरेणाभिन्ना, तद्वदेव अभिन्ने चेत्
साध्यसाधने, नास्ति साध्यसाधनभावः, तस्य भेदाधिष्ठानत्वादित्यपि द्रष्टव्यम् ।
अप्राप्तिसमस्तु स्फुट एवेति । ननु प्राप्त्यप्राप्तिसमयोर्मिलितयोः साधनप्रतिषेधस्यैक
त्वात् कथं प्राप्त्यप्राप्तिसमौ भिन्नावित्यत आह—अनयोर्भेदोपदेशो विवक्षात
इति । साधनप्रतिषेधस्यैकत्वेऽपि प्राप्य वा अप्राप्य वेति विकल्पभेदाद् भेदविवक्षे
त्यर्थः । अभेदविवक्षायां त्वेकमेवोत्तरम्, यथा वृक्षाणां बहुत्वं विवक्षित्वा बहु

  1. °मस्त्वेषामानन्त्यम्J

  2. येन यस्य…तेन तस्यैक्य°C