648 वचनप्रयोगो वृक्षा इति । तद्बहुत्वस्य संख्याया एकत्वं विवक्षित्वैकवचनम् एकं
वनमिति ।


उदाहरणेन साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानमिति जातिसामान्यलक्षणं मन्वानो
देशयति—जातिलक्षणाभावादिति । परिहरति—न, सूत्रार्थापरिज्ञानात् इति ।
सूत्रे नोदाहरणसाधर्म्यं विवक्षितम्, अपि तु येन केनचित् साधर्म्यं विवक्षितम् । अत्र
च येन केनचिद् विद्यमानेनासाध्येन साध्यस्य साधर्म्यम्, अप्राप्तेन वा हेतुना
साधर्म्यमिति न सामान्यलक्षणायोग इति ॥ ७ ॥


घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ॥ ५ । १ । ८ ॥


तस्य प्रत्याख्यानम्—घटादि…अप्रतिषेधः ॥ घटादिनिष्पत्तिदर्शनादित्यादि
सूत्रम् । तद् व्याचष्टे—मृत्प्राप्तानां दण्डादीनां न गङ्गासागरवद् अविशेषः ।
मृदवयवाः पूर्वव्यूहपरित्यागेनेति ।
साध्यं कर्म । तच्च मृदवयवाः । ते च सिद्धा
एवेत्यव्यभिचारः । घटस्तु फलं न साध्य इति भावः । कोऽप्राप्त्यर्थ इति । अप्राप्तस्य
साधकत्वेऽतिप्रसङ्ग इति भावः । उत्तरम्—परस्परोपश्लेषमन्तरेण साधकत्वमिति ।
अन्यथा तूद्देशेनासौ प्राप्त एव ।
यदुद्देशेनाभिचारः श्येनादिना क्रियते तस्यैव प्रत्य
वायो भवति, नान्यस्येति नियमः । अत्रापि संयुक्तसंयोगादिः संबन्ध उपेयः ।
तस्यापि च हेतुत्वं क्रियां प्रति दृष्टम् । यथा पङ्काख्यायां पृथिव्यामिति । सुगममन्यत् ॥ ८ ॥


॥ इति प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम् ॥

प्रसङ्गप्रतिदृष्टान्तसमजातिद्वयप्रकरणम्


दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन
प्रसङ्गप्रतिदृष्टान्तसमौ ॥ ५ । १ । ९ ॥