668 हेतुः प्रयत्नानन्तरमुपलब्धिरित्यध्यारोप्य प्रतिषिध्यते । साधर्म्यसमे तु नारोपण
मित्यर्थः ॥ ३८ ॥


॥ इति कार्यसमप्रकरणम् ॥

षट्पक्षीरूपकथाभासप्रकरणम्


प्रतिषेधेऽपि समानो दोषः ॥ ५ । १ । ३९ ॥


तदेवं जात्युत्तरवादिनं प्रति साधनवादिना सर्वत्रैव सम्यक् समाधानं स्वसाधनस्य
वक्तव्यम् । एवं सति तत्त्वनिर्णये कथा पर्यवसानं भवति । यदि पुनर्वाद्यपि
जातिवादिनं प्रति साधनाभासेन प्रत्यवतिष्ठेत, ततः षट्पक्ष्यां सत्यां न तत्त्वनिर्णयावसाना
कथा भवेदिति शिष्यहितः सूत्रकारः समाधानाभासवादिनं प्रति षट्पक्षी
मवतारयति—प्रति…दोषः ॥


तदेतत्सूत्रावतारपरं भाष्यम्—हेतोश्चेदनैकान्तिकत्वमुपपाद्यते प्रतिवादिना,
अनैकान्तिकत्वादसाधकः स्यादिति यदि चानैकान्तिकत्वादसाधकं वादिनो
वचनम्, प्रतिषेधेऽपि समानो दोषः । योऽयं प्रयत्नकार्यानेकत्वादिति प्रतिषेधो
जातिवादिनः, सोऽप्यनैकान्तिकः । एवं ह्यनैकान्तिकः स्याद् यदि सर्वमेव प्रतिषेधेत्,
यतस्तु किंचित् प्रतिषेधति किंचिच्च न, तस्मादयमप्यनैकत्वादसाधक2398 इत्यर्थः ।


व्याख्यान्तरमाह—अथवा शब्दस्येति । नित्यपक्षोऽभिव्यक्तिर्नोत्पादः,
एवमनित्यपक्षे उत्पादो नाभिव्यक्तिरित्ययं विशेषो न सिध्यत्ययं प्रतिषेधेऽपि
समानो दोष इत्यर्थः ॥ ३९ ॥


सर्वत्रैवम् ॥ ५ । १ । ४० ॥


  1. °न्तिकः, अतोऽसा° C