670 स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षे यत्स्वयं दूषणं दत्तं तस्याभ्यु
पगमाद् वादिनोऽपि समानो दोष इति जातिवादिनो वचनं षष्ठे पक्षे स्थितस्य ।
तदेवं 2401विस्तीर्णं संकलय्याह—तत्र खलु स्थापनाहेतुवादिन इति । सेयं षट्पक्षी
समानदोषापादनेनानिर्णायकत्वात् पौनरुक्त्याच्च न तत्त्वनिर्णयाय पर्याप्ता । तस्मात्
समाधानाभासेन जातिवादिनं प्रति साधनवादिना न प्रत्यवस्थेयम्, किं तु सम्यक्
साधनेन । तथा चेयमुपहता षट्पक्षी नावतरति । तत्त्वनिर्णयपर्यवसाना च कथा
भवति । यदि त्वस्य कथंचित् सम्यक्साधनवादिनोऽपि प्रतिभाक्षयात् समाधानं न
स्फुरति, ततोऽत्यन्तपराजयाद् वरं संशयोऽपीति न्यायेन समाधानाभासेनापि
प्रत्यवस्थेयमेवेत्याशयवानाह—तेषां साध्वसाधुतायामिति । भाष्यव्याख्यया
वार्त्तिकमपि व्याख्यातम् । एतास्तु जातयो न तत्त्वविवेकमुपकुर्वन्ति
प्रयुज्यमानतया, निराकरणीयतया त्वासामप्युपकार इति ॥ ४३ ॥


॥ षट्पक्षीरूपकथाभासप्रकरणम् ॥

॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां
पञ्चमाध्याये प्रथमाह्निकम् ॥

  1. विस्तीर्य C