हेत्वाभासलक्षणप्रकरणम्


सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वा
भासाः ॥ १ । २ । ४ ॥


उद्देशक्रमानुरोधेन वितण्डानन्तरं हेत्वाभासेषु लक्षयितव्येषु अर्थाक्षिप्त
सामान्यलक्षणमेषां विभागोद्देशपरं सूत्रम्—सव्य-साः ।


तद्व्याख्यानपरं भाष्यं समाख्यानिरुक्तिवशेन सामान्यलक्षणं प्रतिपादयन्1345
वार्त्तिककारः पठति—हेतुलक्षणाभावादिति । पृच्छति—किं पुनरिति ।
ह्यन्यस्यान्यत्वमात्रेण सादृश्यम्, मा भूत् सर्वस्य सर्वेण सादृश्यमिति भावः । उत्तरम्
प्रतिज्ञेति । प्रयोगगतं सामान्यमुक्त्वा प्रयोज्यगतमाह—अन्यतमेति । अबाधितविषयता
सत्प्रतिपक्षत्वे1346 सती अप्यविवक्षित्वा त्रैलक्षण्यद्वैलक्षण्याभिधानं द्रष्टव्यम् । शेष
मतिरोहितम् ।


षट्सप्ततं शतं गणयति—तत्र साध्यव्यापकेति । एतस्यां त्रिषोडश्यां
साध्यव्यापकसाध्यैकदेशवृत्तिधर्मभेदात् षोडशीद्वयं विशेषणविशेष्यासिद्धिभेदात्
चतुःषष्टिः । एवं समर्थासमर्थविशेषणविशेष्यभेदात्1347 चतुःषष्टिः । तदेतत् चतुः
षष्टिद्वितयमष्टाविंशं शतं पूर्वया त्रिषोडश्या सह षट्सप्ततं शतम् । साध्यव्यापकानां
धर्मविशेषाणामुदाहरणान्याह—तत्रेति । विपक्षव्याप्त्यव्याप्तिभ्यां प्रथमद्वितीयौ
साधारणौ, तृतीयोऽन्वयव्यतिरेकी साध्यतज्जातीयव्यापको हेतुरेव । विपक्ष
व्याप्त्यव्याप्तिभ्यां चतुर्थपञ्चमौ विरुद्धौ हेत्वाभासौ । यत्र विपक्षे न वृत्तिस्तं
दर्शयति—द्व्यणुकवदिति । षष्ठोऽविद्यमानसपक्षविपक्षोऽसाधारणः, अत एवाह1348
घटादिवदिति । सप्तमाष्टमौ 1349विपक्षव्याप्त्यव्याप्तिभ्यां साधारणौ । नवमः सपक्षैक
287 देशवृत्तिरन्वयव्यतिरेकी हेतुरेव । दशमैकादशौ सपक्षव्याप्त्यव्याप्तिभ्यामन्वयिनौ
हेतू । द्वादशस्तु अविद्यमानाविपक्षोऽसाधारणः । त्रयोदशचतुर्दशौ त्वविद्यमानसपक्षौ
विपक्षव्याप्त्यव्याप्तिभ्यां विरुद्धौ । पञ्चदशोऽपि व्यतिरेकी हेतुरेव । षोडशस्तु
1350अविद्यमानसपक्षविपक्षोऽसाधारणः ।


यदि बाह्यकरणप्रत्यक्षे वाङ्मनसे इति साध्येत 1351तदा नानित्यत्वं सपक्षव्यापकं
स्यात्, सामान्ये बाह्यकरणप्रत्यक्षेऽभावात् । अतः साध्यधर्मं विशिनष्टि—सामान्य
विशेषवदिति । अनित्ये रूपविज्ञाने अमूर्तत्वादिति ।
1352रूपविज्ञानस्कन्धातिरिक्तानां
वेदनासंज्ञासंस्कारस्कन्धानामनित्यतया सपक्षाणां व्यापकममूर्तत्वमिति1353
तज्जातीयैकदेशवृत्तित्वममूर्तत्वस्य दर्शयितुं यत्र न वर्तते तत्पुरःसरमुदाहरणं
रूपादिवदिति ।


अनित्यः शब्दोऽश्रावणत्वात् इति नित्ये शब्दत्वे न वर्तते । अर्थः शब्द इति,
शब्दो धर्मी । अर्थ इति साध्यो1354 धर्मः, द्रव्यगुणकर्मणामन्यतम इत्यर्थः । यद्यश्रोत्र
ग्राह्यत्वादित्युच्येत, ततः सामान्यादिष्वनर्थेषु विपक्षेष्वपि वर्तेत । अत उक्तम्—
अश्रोत्रग्राह्यसामान्यवत्त्वादिति । अश्रोत्रग्राह्यं च तत् सामान्यवच्वेति विग्रहः । ननु
1355चाक्षुषत्वं विपक्षवृत्ति समवायस्यानाश्रितस्य चाक्षुषत्वादित्यत उक्तम्—
औलूक्यपक्षे इति । सिद्धान्तभेद इति, सौत्रान्तिकानाम् इत्यर्थः । असमर्थ
विशेष्यस्योदाहरणम्—कृतकत्वे सति प्रमेयत्वादिति । असमर्थविशेषण
स्योदाहरणम्—प्रमेयत्वे सति कृतकत्वादिति । निरपेक्षं खलु कृतकत्वमनित्यत्वे
साध्ये समर्थम्, प्रमेयत्वं त्वन्यापेक्षमसमर्थमित्यर्थः । तदेवं त्रिषोडश्या प्रकृत्याष्ट
चत्वारिंशद् भवन्ति हेतुहेत्वाभासाः1356 । व्यापकाव्यापकभेदेन तु द्विषोडशी यदा
विशेषणविशेष्यासिद्ध्या चोभयसंप्रतिपन्नया असमर्थविशेषणविशेष्यतया1357
सन्दिग्धविशेषणविशेष्यतया चोभयभसंप्रतिपन्नया विक्रियते तदा चतुःषष्टित्रयेण
288 द्वानवतं शतं भवति । वाद्यसिद्धप्रतिवाद्यसिद्धतया उभयान्यतरसन्दिग्धतया च
चतुःषष्टिद्वयेनाष्टाविशंकं शतमपरम् । तदिदम् अन्यतरासिद्धा इत्यनेन वार्त्तिककृता
सूचितम् । द्वाभ्यामूना त्रिंशद् द्वात्रिंशदिति कथञ्चिद् व्युत्पत्त्या । ते पुनर्व्यापकाव्यापका
व्यधिकरणविशेषणविशेष्यव्यधिकरणसन्दिग्धविशेषणविशेष्यव्यधिकरणासमर्थ
विशेषणविशेष्यभेदेन चतुःषष्टित्रयेण द्वानवतं शतम् अपरम् ।


एवमप्रसिद्धाश्रयविशेषणविशेष्या उभयान्यतरपक्षाप्रसिद्ध्या अष्टाविंशकं
शतम् । अत्रापि द्वात्रिंशकमिति पूर्ववद् व्याख्येयम् । अन्यतरमात्रमत्र विवक्षितं न तु
वादिप्रतिवादिभेदः । ते पुनरप्रसिद्धाश्रयाः पूर्ववद्भेदेन व्यधिकरणविशेषणविशेष्य
सन्दिग्धविशेषणविशेष्यासमर्थविशेषणविशेष्यभेदेन चतुःषष्टित्रये सति द्वानवतं
शतम् । तदेवमनन्तराभ्यां द्वानवतशताभ्यां शतत्रयं चतुरशीतं यत् 1358तदेवाष्टाविंशक
शताभ्यां द्वानवतेन च शतेन संपिण्डितं द्वात्रिंशदुत्तराष्टशती विकारभूता भवति ।
अष्टाचत्वारिशत् प्रकृतयः पश्चात् निवेशनीया इति । उभयाप्रसिद्धाश्रयविशेष्य
मुदाहरति—यथा अग्निमान् देशो धूमवत्त्वात् । उक्तं हि प्राग् यथा न देशोऽग्निमत्तया
साध्योऽपि तु धूमविशेष एवेति । 1359अन्यतरासिद्धाश्रयोदाहरणमाह—अस्ति चात्मा
इच्छादिगुणत्वादिति ।
आश्रयासिद्धविशेषणादयोऽप्यूहनीयाः । असमर्थाव्यापका
सिद्धविशेषणानामुदाहरणम् ।
असमर्थाश्च तेऽव्यापकाश्च, ते व्यधिकरणतया
असिद्धाश्चेति विग्रहः । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वे सति कृतकत्वादिति,
कृतकत्वस्यैव विशेष्यस्य सामर्थ्यादसमर्थमनित्यत्वे प्रयत्नानन्तरीयकत्वम्, अव्यापकं
च स्तनयित्नुशब्दानामव्यापकत्वात् । व्यधिकरणतया असिद्धं च कोष्ठवायुताल्वा
दिक्रियाया एव प्रयत्नानन्तरीयकत्वं, न 1360त्वाद्यस्यापि शब्दस्य, प्रागेव तु श्रोत्रसमवायिन
इति । कृतकत्वे सति प्रयत्नानन्तरीयकत्वादिति चासमर्थाव्यापकासिद्ध
विशेष्याणामुदाहरणं द्रष्टव्यम् ।


289

वैभवेन त्वसिद्धतावर्जमुदाहरति—अव्यापकासमर्थविशेष्याणामु
दाहरणम्—अनित्यः शब्दः प्रत्ययभेदभेदित्वेनोपलभ्यमानत्वात्1361
उपलभ्य
मानत्वं हि नित्येऽप्यस्तीति व्यभिचारादसमर्थम् । कारणभेदभेदित्वमेव तु विशेषणं
समर्थमव्यभिचारादिति । केवलव्यधिकरणविशेष्याणामुदाहरणम् अस्ति प्रधानं
भेदानां गोघटादीनां सुखदुःखमोहात्मकत्वेनान्वयदर्शनादिति । अन्वयदर्शनं हि
भेदाधिकरणतया न प्रधानाधिकरणमिति, व्यधिकरणमिति व्यधिकरणं विशेष्यम् ।
केवलव्यधिकरणविशेषणानामुदाहरणम्—रूपरसगन्धस्पर्शशब्दाः चन्दन
शब्दादत्यन्तं विभिन्नार्थाः समुदायसमुदाय्यसंभवे सति
रूपादीनामर्थानां
रूपादिशब्दानां च तेन चन्दनशब्देन व्यपदिश्यमानत्वात् । चन्दनस्य रूपादय इति
समुदायसमुदाय्यसंभवो रूपादिषु व्यपदेशश्च रूपादिशब्देष्विति व्यधिकरणं
विशेषणमित्यर्थः । तदनेन प्रपञ्चेन द्वात्रिंशदुत्तराष्टशती दर्शिता ।


संप्रति द्वानवतशतयुग्मान्तरं दर्शयितुमुदाहरणमाह—अन्यथासिद्धोदारहणं
नित्यः शब्दोऽभ्यासात् ।
सेयं क्रियाभ्यावृत्तिर्यथा शब्दानित्यत्वेऽप्युपपद्यते तथा
द्वितीये दर्शयिष्यते1362 । सिंहावलोकितन्यायेन व्यधिकरणविशेष्यं सन्दिग्धविशेषण
मुदाहरति—सन्दिग्धाप्रसिद्धेति । विशेषणशब्दः तन्त्रेण विशेषणे विशेष्ये च
कर्मकरणसाधनतया प्रयुक्तो वर्तते । तेन सन्दिग्धं विशेषणम् । अप्रसिद्धं व्यधिकरणतया
विशेष्यं येषां तेषामुदाहरणमित्यर्थः । यथा सन्दिह्यमाने धूमादिभावेऽग्निमान् देशो
धूमवत्त्वे सति प्रकाशकत्वात्, धूमवत्त्वं विशेषणं सन्दिग्धम् । प्रकाशकत्वं च
विशेष्यं व्यधिकरणम् । तत् खलु वह्नेर्धर्मो न देशस्येति । अप्रसिद्धविशेषण
सन्दिग्धविशेष्याणामुदाहरणं1363 दर्शयति—विपर्ययेणेति । अप्रसिद्धेत्यपि द्रष्टव्यम् ।
अग्निमान् देशः प्रकाशकत्वे सति धूमवत्त्वादिति ।


संप्रति द्वानवतशतयुग्मान्तरं दर्शयितुं भूमिरचनां करोति—एवमिति । ये
सन्दिग्धासिद्धा व्यापकाव्यापकभेदेन द्वात्रिंशत् त एवोभयान्यतरासिद्ध्या चतुः
290 षष्टिर्भवन्ति । ततः किमित्यत आह—ते चतुःषष्टितामापन्नाः पूर्ववद्भेदेन
व्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यासमर्थविशेषणविशेष्यभेदेन1364
तावच्चतुःषष्टित्रयमित्येकं द्वानवतं शतम् । अपरं चाश्रयासिद्धव्यधिकरणविशेषण
विशेष्यसन्दिग्धविशेषणविशेष्यासमर्थविशेषणविशेष्यभेदेन1365 द्वानवतं शतम् । तदिदं
चतुरशीतं शतत्रयं सन्दिग्धासिद्धमाश्रित्य । अपरमपि द्वानवतशतयुग्मान्तरमन्यथासिद्ध
माश्रित्याह—एवमन्यथासिद्धभेदो द्रष्टव्यः ।


1366अन्यथासिद्धभेदोऽपि हि व्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषण
विशेष्यभेदात् चतुःषष्टित्रयमिति । पुनश्च स एवान्यथासिद्ध आश्रयासिद्ध
व्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदात् चतुःषष्टित्रयमिति
द्वानवतशतयुग्मेन शतत्रयं चतुरशीतम् । अपरमपि द्वानवतशतयुग्ममाह—एवं
1367विरुद्धविशेषणाविरुद्धविशेष्याश्चेति ।
विरुद्धविशेषणविशेष्या1368 अपि हि
व्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदाच्च आश्रयासिद्ध
व्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदाच्च शतत्रयं चतुरशीतम् ।
तदेवमेभिस्रिभिश्चतुरशीतैः शतत्रयैर्द्विपञ्चाशच्छतोत्तरं सहस्रमेकम् । द्वात्रिंशदुत्तरया
अष्टशत्या सहस्रमेकं चतुरशीतिसहिता च नवशती । तदेवं प्रकृतिभूताष्टा
चत्वारिंशत्प्रक्षेपेण संपिण्डितं द्वात्रिंशे द्वे सहस्रे भवत इति ।


तन्न असत्त्वादिति । पञ्चानां चतुर्णां वा रूपाणां संपत्तिरव्यभिचारः । स चैक
स्मिन् विषये विरुद्धयोर्न संभवति, अन्ततोऽसत्प्रतिपक्षस्यैव रूपस्याभावादि
त्यर्थः । पञ्चानां हेतूनामिति । सपक्षव्याप्त्यव्याप्तिभ्यां द्वेधा, व्यतिरेक्येकः,
अन्वयव्यतिरेक्यपि सपक्षव्याप्त्यव्याप्तिभ्यां द्वेधेति पञ्च हेतवः । पञ्चानां हेतूनां
सरूपासरूपप्रतिबन्धात् पञ्च पञ्चका भवन्ति ।
सरूपः अन्वयिनोऽन्वयी,
व्यतिरेकिणो व्यतिरेकी, अन्वयव्यतिरेकिणोऽन्वयव्यतिरेकी । असरूपश्च
291 अन्वय्यादेर्व्यतिरेक्यादिः, तेन प्रतिबन्धः । एतदुक्तं भवति, अन्वय्यादावेकैकस्मिन्
सरूपासरूपाः पञ्च हेतवः प्रतिबन्धका इति पञ्चभिः पञ्चकैः पञ्चविंशतिर्विरुद्धा
व्यभिचारिण इति । चोदयति—लक्षणत एवेति । परिहरति—नानर्थकमिति । यत्परो
हि शब्दस्तत्रासौ प्रमाणम्, समानासमानजातीयव्यवच्छेदकं च लक्षणसूत्रमिति
तत्रैव प्रमाणम्, न त्वियत्तायामतत्परत्वात् । न चासावर्थी सतोऽप्यनुपयोगाद्
अलक्ष्यमाणत्वोपपत्तेः प्रमेयान्तरवदिति ॥ ४ ॥


अनैकान्तिकः सव्यभिचारः ॥ १ । २ । ५ ॥


तदेवमर्थाक्षिप्तसामान्यलक्षणं विभागं दर्शयित्वा विशेषलक्षणमवतारयति
भाष्यकारः, तेषां हेत्वाभासानां मध्ये—अनै—रः ।


अत्र चानैकान्तिकसव्यभिचारशब्दौ पर्यायौ पुरुषभेदापेक्षया लक्ष्यलक्षण
त्वेनावस्थितौ । यस्यानैकान्तिकपदार्थोऽप्रसिद्धः प्रसिद्धश्च सव्यभिचारपदार्थः, तं
प्रत्यनैकान्त इति लक्ष्यनिर्देशः, सव्यभिचार इति लक्षणम् । यस्य तु सव्यभिचार
पदार्थोऽप्रसिद्धः प्रसिद्धश्चानैकान्तिकपदार्थस्तं प्रति सव्यभिचार इति लक्ष्य
निर्देशः, अनैकान्तिक इति लक्षणम् । तत्र सव्यभिचार इति लक्षणपदं कक्षीकृत्याह
भाष्यकारः व्यभिचार एकत्राव्यवस्थितिः । एतदुक्तं भवति । सव्यभिचारपदं
निर्वचनसामर्थ्यात् लक्षणपदमिति1369 । अनैकान्तिकपदलक्षणपक्षे भाष्यकारोक्तम्
अनित्यत्वमप्येकोऽन्त
इत्यादि । तद् वार्त्तिककारः पर्युदासाभिप्रायेण
व्याचष्टे—एकस्मिन्नन्ते नियत ऐकान्तिक इति । न हेतुरैकान्तिको येन तदन्यत्वेन
हेत्वाभासमात्रसंग्रहादेकजातीयत्वेन1370 हेत्वाभासानां विभागसूत्रविरोधः स्यात्, किं
त्वेकस्मिन्नन्ते यो नियतः स ऐकान्तिकः, तद्विपर्ययादनैकान्तिकोऽनियतः । अनित्यत्वे
च नित्यत्वे चान्वयेन च व्यतिरेकेण 1371चोभयपक्षगामीति यावत् । न चैवंभूता
292 विरुद्धादयो हेत्वाभासा इत्यभिप्रायः । तदेवमनैकान्तिकः सव्यभिचारः इति स्थिते
पृच्छति—कः पुनरिति । उत्तरम्—साध्यतज्जातीयेति । अवगत1372 एष व्यभिचार
इति, अनैकान्तिक पदवाच्यतास्य कथमित्यत आह—सर्वोऽयमिति । प्रमेयपदार्थस्य
तु सर्वव्यापिनो नान्तो व्यतिरेकोऽस्तीत्यत उक्तम्—अन्यत्र प्रमेयादिति ।


अत्र बौद्धैः यद् विकल्प्य दूषणमुक्तम्, तदुपन्यस्यति—अनैकान्तिक इति ।
किं पुनरयमिति । ऐकान्तिको हेतुः । ततोऽन्यः सर्व एव हेत्वाभास इत्यर्थः । द्वितीयं
1373कल्पं दूषयति—अथ प्रसज्येति । तथापि हेतोरभावोऽनैकान्तिकः । न नासौ
सव्यभिचारः । भावधर्मौ हि व्यभिचाराव्यभिचारौ नाभावे सर्वोपाख्याविरहिणि
युज्येते इत्यर्थः । तदेतत् शाक्यदूषणं निराकरोति—नायं पर्युदासपक्ष इति ।
पर्युदासपक्षस्तावदस्माकमभिमत उपपन्नतरश्च, केवलमयं प्रसज्यप्रतिषेधवल्लभ
स्तमास्थाय1374 सर्वं दूषयतीति तमेवाङ्गीकृत्य सर्वत्र ब्रूम इत्याशयवतः समाधानम् ।
न पुनरब्राह्मणादावपि वार्त्तिककारस्य प्रसज्यप्रतिषेधोऽभिमतः, किं तु पर्युदास
एवेति । अभ्युपेत्य तु तत्रापि प्रसज्यप्रतिषेधाभिधानम् । न हि प्रसज्यप्रतिषेधोऽपि1375
तुच्छः, अपि तु कस्यचिद् वस्तुनोऽभावेन विशिष्टं किञ्चिदेव वस्त्वित्यर्थः ।


अत्र भाष्यम्—निदर्शनम्, नित्यः शब्दोऽस्पर्शत्वात् इति । वैधर्म्ये
दृष्टान्तमाह—स्पर्शवानिति । अनित्यः कुम्भः स्पर्शवान् दृष्ट इति योजना । वैधर्म्ये
व्याप्यव्यापकभावस्य वैपरीत्यादिति1376 वैधर्म्यव्यभिचारमाह—दृष्टान्ते स्पर्श
वत्त्वमनित्यत्वं च धर्मौ न साध्यसाधनभूतौ गृह्येते ।
न हि यदनित्यं तत् सर्वं
स्पर्शवद् बुद्ध्यादिभिर्व्यभिचारात् । साधर्म्येऽपि चैभिरेव1377 व्यभिचारो वक्ष्यत इतीह
नोक्तः । ननु1378 मा भून्नित्यत्वं साध्यम्, अस्पर्शत्वमेवास्तु नित्यत्वस्य साध्यमित्यत
आह—स्पर्शवांश्चाणुर्नित्यश्चेति । तथापि यदस्पर्शवन्न भवति तन्नित्यमपि न
293 भवतीति वैधर्म्यं व्यभिचरति, स्पर्शवतोऽप्यणोर्नित्यत्वादित्यर्थः । साधर्म्य
व्यभिचारमाह—आत्मादौ चेति ।


अत्र वार्त्तिककारोऽस्पर्शवत्त्वस्य हेतोः प्रश्नपूर्वकं स्वरूपं निष्कर्षति—किं
पुनस्तत्
अस्पर्शत्वं शब्दाद् भिन्नत्वमित्यर्थः । सत्ताविशेषणो वा समवायः, समवाय
विशेषणा वा सत्ता, अन्वयव्यतिरेकाभ्यामित्यर्थः । वाक्यार्थे च पदप्रयोगः अस्पर्श
इति श्रोत्रियपदवदित्याह—वाक्यार्थेति । अनैकान्तिक इति लक्षणमिति पक्षे
चोदयति—अतिदेशेति । यदि हि क्वचित् शास्त्रप्रदेशे अनैकान्तिकः कथितः,
तद्देशातिलङ्घनेनात्रातिदिश्यमानो विदितरूप इह सव्यभिचारं लक्षयेत्, न त्वस्य
शास्त्रप्रदेशे क्वचिदपि कीर्तनमस्तीत्यर्थः । परिहरति—नेदमिति लोकप्रसिद्ध
त्वेनोक्तप्रायमित्यर्थः । अन्वयेनैवोभयान्तसन्नियतोऽनैकान्तिक इति मन्वानः
शङ्कते—अव्यापकत्वादिति । परिहरति—नेति1379 । व्यावृत्तीति । क्वचिदन्वयस्यो
भयान्तसंनियतता क्वचिद् व्यतिरकस्येत्यर्थः । एकेषां मतमुपन्यस्यति—अपरेत्विति ।
दूषयति—तैस्त्विति । नोदारहणे व्यभिचाराल्लक्षणव्यभिचारो भवत्यन्यत्वात् । नो
खलूदाहरणमाद्रियन्ते परीक्षकाः, किं तु लक्षणमित्यर्थः ॥ ५ ॥


सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥ १ । २ । ६ ॥


पृच्छति—कोऽस्य सूत्रस्येति । न खलु हेतुरचेतनः सिद्धान्तमभ्युपगच्छति ।
यश्चाभ्युपगच्छति चेतनो नासावन्यतमेन हेतुलक्षणेन युज्यते इति न हेत्वाभासः । न
च पक्षः सिद्धान्त इति तद्विरोधी न विरुद्धः स्यादिति भावः । उत्तरम्—
अभ्युपगतार्थविरोधी विरुद्धः । हेतुद्वारेण पुरुषस्याभ्युपगमो हेतावुपचरितः ।
अभ्युपगमविषयमात्रविवक्षया च1380 सिद्धान्तशब्दः प्रयुक्तो न पुनः सिद्धान्त एवेह
विवक्षितः । तेन पक्षोऽभ्युपगमविषय इति तद्विरोधी हेत्वाभासः संगृहीतो भवति ।
294 विशेषविरुद्धस्य च न हेत्वाभासतेत्युक्तं भवति । न हि विशेषोऽभ्युपगमस्य
विषयः, न खल्वयं प्रतिज्ञापदगोचरः, किन्तु प्रतिज्ञार्थस्य सिद्ध्यनुषङ्गीति नाभ्युपगम
गोचर इति भावः । ईदृशस्य सूत्रव्याख्यानस्य फलमाह—एवं चेति । ईदृशं
व्याख्यानमन्तरेणानुक्तस्य विरुद्धस्येत्यर्थः । अभ्युपगतेन वा1381 बाध्यत इति, स्वरूपेण
हेतुत्वेन वेत्यर्थः । तदनेन तं विरुणद्धीत्यादि भाष्यं व्याख्यातम् । चोदयति—
नन्वेवमिति । यदि हेतुत्वबाधाद् विरुद्ध इत्युक्तः, हन्त1382, सव्यभिचारादयोऽपि
विरुद्धाः । तेषामपि हि हेतुत्वं बाधितम् । अबाधे वा न हेत्वाभासा इति भावः ।
परिहरति—सत्यमेक एवेति । 1383ईदृशाविरुद्धत्वेन तुल्यत्वेऽप्यवान्तरभेदविवक्षया
पञ्चत्वम् । यथा प्रमाणादीनां प्रमेयत्वेन तुल्यत्वेऽपि प्रमाणप्रमेयादीनाम
वान्तरभेदविवक्षया षोडशत्वम् यथा वा तृणविशेष एवासाधारणतया तृणोलप
इत्याख्यायत1384 एवं विरुद्धविशेष एवासावनैकान्तिकादिर्विरुद्धानैकान्तिकादिपद
वाच्य इत्यर्थः ।


अत्रोदाहरणभाष्यम्-यथा सोऽयं विकार इति । महदहङ्कारपञ्चतन्मात्रैका
दशेन्द्रियभूतसूक्ष्ममहाभूतानि विकारः, तस्य व्यक्तिः धर्मलक्षणावस्थापरिणामः,
तस्मादपाय इति । अत्र हेतुः नित्यत्वप्रतिषेधादिति । तस्य व्याख्यानम्—न नित्यो
विकार उपपद्यत
इति । अपेतीऽपि विकारोऽस्ति विनाशप्रतिषेधात् । सोऽयं
नित्यत्वप्रतिषेधादिति हेतुर्व्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन
विरुध्यते ।
एतदेव प्रश्नपूर्वकं विभजते—कथमित्यादिना । विरोधस्य द्व्याश्रयत्वात्
सिद्धान्तेन विरुध्यते इत्यभिसन्धाय1385 सिद्धान्तं व्याहन्तीत्युक्तमित्यर्थः । तदेतद्
भाष्यं व्याचष्टे—उदाहरणमिति । ननु नित्यत्वप्रतिषेधादिति हेतुर्विनाशप्रतिषेधेन
सिद्धान्तेन विरुद्ध इति1386 ब्रुवाणः शास्त्रविरोधमापादयति । तथा च कालात्ययापदिष्टो
हेत्वाभासो न विरुद्ध इत्यत आह—एते1387 ते वाक्ये परस्परार्थबाधिते इति ।
295 दृढतरप्रमाणबाधितो हि हेतुः कालात्ययापदिष्टो भवति, यथा ब्राह्मणेन सुरा पेया
द्रवद्रव्यत्वात् क्षीरवदित्ययं हेतुः ।

गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।

यथैवैका तथा सर्वा न पेया ब्रह्मवादिभिः ॥

इत्यादिभिरागमैरतिदृढैर्बाधितः कालात्ययापदिष्टतया हेत्वाभासो भवति । प्रकृते तु
वाक्ये परस्परविरुद्धार्थतया न प्रतिष्ठां लभेते, न पुनरन्यतरदन्यतरेण शक्यं बाधितुं
द्वयोस्तुल्यबलत्वात् । तस्मात् नायं कालात्ययापदिष्ट इत्यर्थः ।


व्याख्यानान्तरमाह—प्रतिज्ञाहेत्वोर्वाविरोध इति । सोऽयं विकारो व्यक्तेरपैतीति
प्रतिज्ञा नित्यत्वप्रतिषेधादिति हेतुना विरुध्यते । व्यक्तिमात्रादपैति, न तु विनश्य
तीति हि प्रतिज्ञार्थः अपेतोऽप्यस्ति विनाशप्रतिषेधादित्यनेन व्याख्यातः । तथा च
व्यक्तेरपैतीत्यनेन विकारस्य नित्यत्वं प्रतिज्ञातं नित्यत्वप्रतिषेधादित्यनेन हेतुना
विरुद्धं भवति । स्वसिद्धान्तेनेति स्वपक्षेणेत्यर्थः । अत्र चार्थे सुगमं भाष्यम् । अत्र
वार्त्तिककारः चोदयति—ननुप्रतिज्ञाविरोध इति । प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोध
इत्यर्थः । परिहरति—नैष दोष इति । प्रतिज्ञाश्रितत्वं विरोधस्य विवक्षित्वा निग्रहस्थानेषु
प्रतिज्ञाविरोधस्योपादानम्, हेत्वाश्रितत्वं तु तस्यैव विरोधस्य विवक्षित्वा
हेत्वाभासेऽन्तर्भाव इति । यदा प्रतिज्ञया हेतुविरोध इति हेतोरप्यन्यतरासिद्धतया
प्रतिज्ञया तुल्यबलत्वाभिप्रायम् । यदा तु1388 हेतुरुभयसिद्धो भवति, तदा हेतोर्वा
प्रतिज्ञाविरोधकत्वमिति । उपसंहरति—अत इति । हेतोर्विरोधोदाहरणम् विरोध
कत्वं विरोधः । शब्दस्योत्पत्तिधर्मकत्वं प्रमाणविनिश्चितं नित्यत्वप्रतिज्ञां बाधत
इत्यर्थः । प्रसङ्गाद्धेत्वाभासातिरिक्तस्य प्रतिज्ञापदयोर्विरोधस्य निग्रहस्थानस्यो
दाहरणमाह—प्रतिज्ञाविरोधस्येति । तृतीयेऽध्याये चैष विरोध उपपादयिष्यते1389
हेतोरन्यतरासिद्धतया समानबलयोः प्रतिज्ञाहेत्वोर्विरोधोदाहरणं गुणेति ।
हेतुविरोधोदाहरणं नास्त्येको भाव
इति । उत्पत्तिमत्त्वं ह्यन्यतरासिद्धमपि
296 शक्यसाधनमिति प्रतिज्ञार्थं व्याहन्ति, समूहे भावशब्दप्रयोगादिति 1390तु उभयसिद्धमेव
प्रतिज्ञार्थं व्याहन्तीत्येतावता भेद इत्यर्थः ॥ ६ ॥


यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥
१ । २ । ७ ॥


प्रकरणशब्दार्थमाह भाष्यकारः—विमर्शाधिष्ठानाविति । विमर्शः संशयः ।
तस्य विषयौ । अनवसितौ अनिर्णीतौ, तादृशयोरेव पक्षप्रतिपक्षशब्दवाच्यत्वात्,
प्रक्रियते साध्यत्वेनाधिक्रियत इत्यनया1391 व्युत्पत्त्या प्रकरणम् । चिन्तापदं व्याचष्टे—तस्य
प्रकरणस्य चिन्ता विमर्शात् प्रभृति प्राग् निर्णयात् समीक्षणम् आलोचनं
जिज्ञासा । सा खलु तत्त्वानुपलब्ध्या कृता । 1392नो खल्वयं नित्यधर्मान्
नित्यत्वाविनाभाविनोऽनित्यधर्मान् वा अनित्यत्वाविनाभाविन उपलभमानस्तत्र
सन्दिग्धे तद् 1393वा जिज्ञासते । सैव नित्यधर्मानुपलब्धिरनित्यधर्मानुपलब्धिर्वा
विचित्राभिसन्धितया वादिना1394 निर्णयायापदिश्यमाना प्रकरणसमो हेत्वाभासः ।
कुतः ? उभयपक्षसाम्यात् यथा नित्यत्वपक्षेऽनित्यधर्मानुपलब्धिरेवमनित्यत्वपक्षेऽपि
नित्यधर्मानुपलब्धिः । सेयं तत्त्वानुपलब्धिमात्रविवक्षयोभयपक्षसमा, प्रकरणसमा तु
यथाप्रकरणमनिश्चायकमेवमियमपीत्यर्थः । 1395व्युत्पत्तिनिमित्तमात्रं चैतत् प्रकरण
समपदस्य, प्रवृत्तिनिमित्तं तु सत्प्रतिपक्षत्वम्, अन्यथानैकान्तिकस्यापि प्रकरण
समत्वप्रसङ्गादिति । प्रज्ञापनं प्रज्ञाप्यतेनेनेति व्युत्पत्त्या निदर्शन मुक्तम् ।


अनैकान्तिकत्वशङ्कां सत्प्रतिपक्षस्यास्य1396 व्यवच्छिनत्ति—यत्र समान इति,
संशयेन समः अनिश्चायकत्वादिति । एतदुक्तं भवति, न हि नित्यधर्मानुपलब्धि
रुभयसिद्धे नित्येऽस्ति, येन सव्यभिचारो भवेत्, नाप्यनित्यधर्मानुपलब्धिः
297 उभयसंमतेऽनित्येऽस्ति येन सव्यभिचारो भवेत् । अपि तु परस्परमनयोः
सत्प्रतिपक्षतयैव हेत्वाभासत्वमिति । यस्मात् प्रकरणचिन्तेत्युक्तं सूत्रकृता, तत्र
यस्मादर्थं प्रश्नपूर्वक दर्शयति वार्त्तिककारः—कस्मादिति । कारणत्वं तत्त्वानु
पलब्धेर्व्यतिरेकेण दर्शयति—यस्मादिति । अत एवेति तत्त्वानुपलब्धेरित्यर्थः ।
चोदयति—नन्वयमिति । पक्षप्रतिपक्षौ हि प्रकरणम् । तौ च साध्यौ । ताभ्यां च समः
साध्यसमः । तथा च साध्यसमात् हेत्वाभासात् न पृथग् निर्देश्यः प्रकरणसम1397
इत्यर्थः । परिहरति—नाविशिष्ट इति । यद्यपि प्रकरणसमशब्दो व्युत्पत्त्या साध्या
विशिष्टेन समानार्थः, तथापि प्रवृत्तिनिमित्तमस्य सत्प्रतिपक्षत्वम् । न च तत्त्वानुपलब्धिः
स्वयमसिद्धा, सा ह्युपलम्भनाभावेन सुलभेति भावः ।


परमतमनुभाष्यातिप्रसङ्गापादनेन दूषयति—ये तु संशयहेतुत्वादिति ।
चोदयति—समूह इति । यस्मिन् सति भवत्येव तत् कारणम्, समूहे सति च
भवत्येव1398 नैकैकस्मिन्, तस्मात् नैकैकं कारणमिति भावः । परिहरति—समूहः
कारणमितीति ।
न ह्यकारणानां समूहः कारणं भवितुमर्हति, अतिप्रसङ्गात् । न च
समूहिवैलक्षण्यमन्तरेणाजानतः समूहस्य वैलक्षण्यम् । तस्मात् समूहिन
एवान्योन्यसमवधानवन्तः कारणम् । तथा च प्रत्यक्षस्योपपन्नं संशयकारणत्वम् । न
च यस्मिन् सति भवत्येव तत् कारणम्, अपि तु यस्मिन् सत्येव, न त्वसतीति
क्षणभङ्गे1399 वक्ष्याम इति ।


ननूभयधर्मानुपलब्धिरुभयपक्षसाधारणीति सव्यभिचार एवेत्यत आह—
उभयधर्मानुपलब्धाविति । नोभयधर्मानुपलब्धिरत्र1400 हेतुः, अपि तु एकधर्मानु
पलब्धिः । न चासौ साधारणी, किन्तु सत्प्रतिपक्षेत्यर्थः । उभयविशेषानुपलब्धेः
प्रकरणसमत्वेन अभिधानाशक्यत्वात् । प्रकरणसमस्योदाहरणान्तरं दूषयति—
शरीरादन्यत्वं त्विति । परेषां किलोदाहरणं नित्य आत्मा शरीरादन्यत्वाद्
आकाशवदिति । तत्र शरीरादन्यत्वमुपलभमानो यदा तत्त्वं नित्यत्वमात्मनः प्रत्येति
298 न हि तदा जिज्ञासितुं नित्यत्वं प्रवर्तते । यदा तु तत्त्वं नित्यत्वं नोपलभते शरीरा
दन्यत्वमुपलभमानोऽपि तदा प्रवर्तते । तस्मादन्वयव्यतिरेकाभ्यां तत्त्वानुपलब्धिरेव
प्रकरणचिन्ताप्रवर्तिका न शरीरादन्यत्वम् । तस्मात् नैतत् प्रकरणसमस्योदाहरणम् ।
अपि तु तत्त्वानुपलब्धिरेव । इतश्चैतन्न प्रकरणसमस्योदाहरणमित्याह—शरीरादन्यत्वं
चानैकान्तिकम् ।
उपसंहरति—अतश्च न सूत्रार्थःसूत्रविषयः । एवमन्यान्यपि
सत्प्रतिपक्षोदाहरणान्यूहनीयानि ॥ ७ ॥


साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥ १ । २ । ८ ॥


अत्र साध्यसम इति लक्ष्यनिर्देशः । साध्याविशिष्ट इति लक्षणम् । तदनेन
स्वरूपासिद्धैकदेशासिद्धाश्रयासिद्धान्यथासिद्धानां संग्रहः, तेषामसिद्धत्वेन साध्या
विशिष्टत्वात् । अत्र चासिद्धः साध्यसम इति वक्तव्ये साध्याविशिष्ट
ग्रहणमन्यतरासिद्धस्यापि सिद्धेः प्रागहेतुत्वज्ञापनार्थम् । अन्यथात्यन्तासिद्ध एव
साध्यसमो नान्यतरासिद्धः, तस्य कदाचित् सिद्धेरिति भ्रान्तिः स्यात् । साध्या
विशिष्टेन तु सोऽपि 1401संगृहीत इति । नन्वेवं साध्याविशिष्टत्वेनान्यतरासिद्ध एव स्यात्
नेतरे, तेषामसिद्धत्वेन साध्याविशेषाभावादित्यत उक्तं सूत्रकृता1402 साध्यत्वादिति ।
यदि हि साध्यं नासिद्धं भवेत् साध्यत्वादेव च्यवेत, न खलु सिद्धं साध्यते । तस्मात्
साध्यत्वादसिद्धता । सा च कस्यचित् सर्वदा, कादाचित्की कस्यचिदिति
सर्वेषामविशिष्टत्वमिति नाव्याप्तिः । नापि साध्यत्वस्यातिप्रसक्त्यातिव्याप्तिः
हेत्वाभाससामान्यलक्षणापेक्षत्वात् तद्विशेषलक्षणस्येति सूत्रार्थः । साधनीय
त्वादिति भाष्य
गतं न साध्यत्वादित्यस्य व्याख्यानम्, अपि तु गतिमत्त्व
स्यासिद्धत्वपरम् ।


299

अत्र वार्त्तिककारः सूत्रार्थं व्याचष्टे—साध्येनाविशिष्टो य इति । साध्येन
व्यभिचारो मा भूदित्यत आह—साधनधर्म इति । हेत्वाभाससामान्यलक्षणयोगे सति
एतल्लक्षणमिति न व्यभिचार इति भावः । अत्र भाष्यकारेण स्वरूपासिद्धा
श्रयासिद्धान्यथासिद्धानां साधारणमुदाहरणमुक्तम्—द्रव्यं छाया गतिमत्त्वादिति ।
तद्विभजते वार्त्तिककारः द्रव्यं छायेति । अत्र स्वरूपासिद्धतां तावदाह—यथैवेति ।
आश्रयासिद्धतामवतारयितुं गतिमत्त्वं छायायाः पञ्चावयवेन वाक्येन साधयति—
गतिमत्त्वमिति । आश्रयासिद्धतामाह1403नाश्रयासिद्धत्वादिति । सत्या एव छायाया
देशान्तरे दर्शनाद् योऽस्या गतिमत्त्वमनुमिनोति तं प्रत्याश्रयासिद्धं देशान्तरे दर्शनम्,
तदाश्रयस्यासिद्धत्वात्1404 । तदिदमुक्तम्—सति द्रव्याभाव इति, सति सत्त्व
इत्यर्थः । न तावत् छाया सामान्यविशेषसमवायान्तर्भूता तस्यानित्यताभावात्1405 । नापि
कर्म, संयोगविभागासमवायिकारणत्वाभावात् । न गुणो द्रव्यासमवायात् । न मनो
दिक्कालगुणः, तद्गुणानामप्रत्यक्षत्वात् । नाप्यात्मगुणो बाह्मेन्द्रियप्रत्यक्षत्वात् । नापि
नभोनभस्वतोः, तद्गुणानामचाक्षुषत्वात् । नापि तेजसः, तद्विरोधित्वात् तत्सह
चरितगुणान्तरानुपलब्धेश्च । अत एव न पृथिवीपाथसोरपि । अपि च तद्गुणश्चाक्षुषो
नालोकमन्तरेण शक्यग्रहः । छाया तु तमन्तरेण गृह्यते, तस्मिंस्तु सति न गृह्यते इति
दुर्घटम् । नापि द्रव्यम्, तद्धि पृथिव्यादीनामन्यतमम् भवेद् अन्यद् वा दशमम् । न
तावदन्यतमम्, तद्गुणानामनुपलब्धेः, नाप्यन्यद् रूपवदिति युज्यते, तस्याद्रव्यस्य
प्रत्यक्षत्वानुपपत्तेः, अस्पर्शवत्वादनारम्भकत्वेनानेकद्रव्यत्त्वाभावात् । तस्माद् भाभाव
एव छाया न तु सतीति सिद्धम् ।


यस्तु मन्यते मा भूत् छाया सती, भवतु भाभावः तथापि नाश्रयासिद्धता
देशान्तरदर्शनस्य भाभावाश्रयत्वादेवेति तं प्रत्यभ्युपेत्यान्यथासिद्धतया
साध्यसमत्वमापादयति—अभ्युपेत्येति । स्वाभाविको हि संबन्धो हेतोः साध्येन
सहानुमानाङ्गं नौपाधिक इति विवेचितमनुमानलक्षणे1406 । तदयमन्यथासिद्ध
300 औपाधिकसंबन्धो भवति हेत्वाभासः । सेयं हेतोरसिद्धिर्द्विधा स्वरूपतो हेतुत्वेन
च । स्वरूपतोऽपि द्वेधा, स्वत आश्रयासिद्ध्या च । न चैतावता सव्यभिचारादीनामपि
हेतुत्वासिद्धेरसिद्ध एवान्तर्भावः सव्यभिचारत्वादिविशेषणेन तेषामतो भेदात् ।
अन्यथासिद्धस्य तु तद्विशेषणत्वायोगिनो हेतुत्वासिद्धि मात्रेण साध्यसमेऽन्तर्भाव
इति सर्वमवदातम् । संकलयति—सोऽयमिति । त एतेऽसिद्धभेदा उदाहरणभेदेष्वपि
द्रष्टव्याः, यथा नित्यः1407शब्दः चाक्षुषत्वादिति 1408स्वयमसिद्धः । तनुभुवनादीनां न कर्ता
ईश्वरोऽशरीरत्वादित्याश्रयासिद्धः । स श्यामो मैत्रतनयत्वात् परिदृश्यमानमैत्रतनय
स्तोमवदित्यन्यथासिद्धः, अन्नपानपरिणतिभेदनिबन्धनत्वात् रूपभेदस्यान्यथासिद्ध
त्वमिति । अयमप्यसिद्धत्वात् इति भाष्ये अपिशब्देनाश्रयस्य छायाया 1409अपि
सत्तेनासिद्धिः सूचिता ।


अत्र भदन्तेन इदं साध्यसमलक्षणमुदाहरणान्तरं कल्पयित्वा दूषितम् । इदं
किलास्योदारहणम्, नित्यः शब्दोऽस्पर्शत्वाद् बुद्धिवदिति1410 । तदेतत् त्रिधाप्यसिद्धं
न भवतीति दूषयित्वा भदन्तेन शङ्कितम्, अथ साध्येनाविशिष्टो दृष्टान्तो यस्मिन् स
साध्याविशिष्टो हेत्वाभास इति बुद्धेर्दृष्टान्तस्य नित्यत्वेनासिद्धत्वात् इत्याशङ्क्य
बहुव्रीह्यभावेन दूषितम् । तदेतत् सर्वमनभ्युपगमेन वार्त्तिककारो दूषयति—
नित्यः शब्द इति । यद्येतत् नोदाहरणं किमुदाहरणं को वा सूत्रार्थ इत्यत
आह—यथा त्वस्माभिरिति । अयं भदन्तोक्तो दोष इत्यर्थः । कस्मादित्यत
आह—भदन्तेन सूत्रार्थो न विज्ञातः, न हि सव्यभिचारोऽनेन लक्ष्यते येन
सव्यभिचारमस्पर्शवत्त्वमस्योदाहरणं स्यात्, किं तु साध्यसमः । नापि व्यधिकरण
बहुव्रीहिदूषणेनाक्षरार्थो ज्ञातः । नापि बुद्धिवदिति दृष्टान्ताभासमेव हेत्वाभासं कुर्वता
हेत्वाभासदृष्टान्ताभासौ ज्ञातौ भदन्तेनेत्यर्थः ॥ ८ ॥


301

कालात्ययापदिष्टः कालातीतः ॥ १ । २ । ९ ॥


अत्र कालालीत इति लक्ष्यनिर्देशः कालात्ययापदिष्ट इति लक्षणम् ।
हेतोरपदेशस्य हि साध्यसन्देहविशिष्टः कालः । यथाहुः—


नानुपलब्धे न निर्णीते न्यायः प्रवर्तते, अपि तु सन्दिग्धे इति1411परेऽप्याहुः

सन्दिग्धे हेतुवचनात् ।

इति । यत्र च प्रत्यक्षानुमानागमविरोधः, अनुष्णोऽग्निर्द्रव्यत्वादिति च, अश्रावणः
शब्दो गुणत्वादिति च, शुचि नरशिरःकपालं प्राण्यङ्गत्वादिति च, स सर्वः प्रमाणतो
विपरीतनिर्णयेन सन्देहविशिष्टं कालमतिपततीति सोऽयं कालस्यात्ययेनापदिश्य
मानः कालातीत इति । तथा चोदाहृतं
यत्तु प्रत्यक्षागमविरुद्धं न्यायाभासः सः ।

इत्यत्र वार्त्तिककृता । बाधाविनाभावयोः सहासंभव इति चात्र बौद्धानामाक्षेपोऽ
स्माभिः समाहितः । एवं व्यवस्थिते भाष्यकारः सूत्रं स्वपरमतश्लिष्टं
व्याचष्टे—कालात्ययेन संशयकालात्ययेन युक्तो यस्य हेतोरपदिश्य
मानस्यार्थैकदेशः1412 धर्मविशिष्टो हि धर्मी हेतोरपदिश्यमानस्यार्थः । स 1413ह्यर्यते हेतुना,
तस्यैकदेशः साध्यधर्मः । स हि धर्मिणि बलवता प्रमाणेन तद्विपरीतधर्मनिर्णयं
कुर्वता संशयकालमतिपातितः । स तादृशो हेतुः कालात्यापदिष्टः कालातीत इति ।
स्वमतेनास्यार्थः । अत्र च पूर्वमेवोदाहृतमिति पौनरुक्त्यात् नोदाहृतम् ।


परमते 1414च कालात्ययेन युक्तो यस्य हेतोरर्थरूप1415 एकदेशो हेतुविशेषणमिति
यावत् स कालात्ययापदिष्ट इति योजना । परमतेनैव निदर्शनमाह—निदर्शनमिति ।
नित्यत्वं चात्रावस्थानमात्रमभिमतमिति, न1416 घटादिभिरालोकसंयोगव्यङ्ग्यै
र्व्यभिचारः । तदेतत् पञ्चावयवं वाक्यमुपन्यस्य संयोगव्यङ्ग्यत्वस्य हेतोरेकदेशस्य
302 विशेषणस्य संयोगस्य व्यक्तिकालात्ययेन हेत्वाभासतामाह—अयमहेतुरिति ।
पुनरयमसिद्धविशेषणतया हेत्वाभासः साध्यसम एवेति न पृथग्वाच्य इति स्थूलतया
एष दोषो भाष्यकारेण नोद्भावितः ।


यत् पुनः भदन्तेन कालातीतस्य व्याख्यानं कृतं प्रतिज्ञानन्तरं हि हेतोः
कालः । तमतीत्य हेतुः पश्चादपदिश्यमानः कालातीतो भवति । तद् यथा, अनित्यः
शब्दः घटादिवदित्युक्ते कस्मादित्यनुयुक्तो 1417हेतुं ब्रूते कृतकत्वादिति स कालातीत
इति । तच्चैवं तेन दूषितम्—किं 1418निराकाङ्क्षे वादिनि एष प्रतिवादिनः प्रश्नः, आहो
साकाङ्क्षे ? यदि निराकाङ्क्षे तदा न्यूनमेवास्य निग्रहस्थानम्, न हेत्वाभास
स्तस्याप्रयोगात् । प्रयुक्तो हि हेतुस्तदाभासो वा स्यात् नाप्रयुक्तः । अथ साकाङ्क्ष
एव वादिनि प्रतिवादिनः प्रश्नः, तथापि पश्चादप्यसौ हेतुः प्रयुक्तो हेतुरेव, न
ह्यसौ तदा न स्वसाध्याविनाभूतोऽपक्षधर्मो वेति । तस्मात् न कालातीतो नामास्ति
हेत्वाभास इति । तदेतद् भदन्तदूषण मेतद्व्याख्यानानभ्युपगमेन परिहरति—अवयव
विपर्यासवचनं त्विति ।
अनभ्युपगमहेतुं पृच्छति—कस्मादिति । उत्तरम्—यस्येति ।
अर्थेन सामर्थ्येन संबन्धोऽर्थसंबन्धः । अपि च पौनरुक्त्यादपि नाभ्युपगम्यत
इत्याह—अवयवेति ।


यस्यापदिश्यमानस्य इत्यादि पुनरुच्यत इत्यन्तं वार्त्तिकं भाष्य
व्याख्यानेनैव व्याख्यातम् । शङ्कते—समीकृतेऽभिधानादिति । अयमर्थः,
नैतदप्राप्तकालेन निग्रहस्थानेन पुनरुक्तम्, अपि तु हेत्वाभास एव । स ह्यवयव
विपर्यास उच्यते यत्रैकग्रन्थेनैव वादी प्रतिज्ञोदाहरणादि प्रयुज्य पश्चात् हेतुं
प्रयुङ्क्ते, एष तु प्रतिज्ञोदारहणे प्रयुज्य विरतः प्रतिवादिनानुयुक्तः पश्चात् हेतुं
प्रयुङ्क्ते । तस्मात् न्यूनतादूषणेन पक्षे समीकृते पक्षमात्रतां नीते सिद्ध्यवस्थातः
प्रच्याविते पश्चादभिधानात् हेतोरेष कालातीतो हेत्वाभासः, न पुनरप्राप्तकालम् ।
निग्रहस्थानमिति चेदिति । निराकरोति—केनेति यदि हेत्वनभिधानेन न्यूनतया
303 समीकृतः पक्षः किमत्र हेतोरसामर्थ्यम् ? न ह्यन्यदोषेणान्यो युज्यत इत्यर्थः ।
शङ्किता ब्रूते—एतदस्येति । निराकरोति—नैतदिति । न्यूनतया निगृहीतो यदि
पश्चादभिधानेन निग्रहीतव्यः, ततो वाद्येव निगृह्यतां न त्वयं पश्चादभिहित इति
समर्थः शक्यो हेतुर्निग्रहीतुमिति नायं समीकृताभिहितत्वेनापि हेत्वाभास इत्यर्थः ।
उभयनिराकरणमुसंहरति—तस्मादिति ॥ ९ ॥


  1. °णप्रतिपादकंC

  2. °त्वासत्प्रतिपक्षितत्वेC

  3. °विशेषणभे°C

  4. आह
    OmJ

  5. असपक्ष°C

  6. °सपक्षOmC

  7. तदाOmJ

  8. °विज्ञान°OmJ

  9. °त्वादितिJ

  10. साध्यतेJ

  11. न विपक्षावृ°C

  12. हेतु°OmC

  13. °तया उभयसम्प्रतिपन्नयाC

  14. °ष्टाचत्वारिंशक° C

  15. °तरप्र° C

  16. ह्याद्य° J

  17. भेदभेदेनो°J

  18. द्रः २॑२॑३०

  19. °षणं °ष्यमुदाJ

  20. °सन्दिग्धासमर्थ°J

  21. °सन्दिग्धासमर्थ°C

  22. सिद्धोऽपिJ

  23. °विशेषणवि°
    C

  24. °द्धविशेष्याC

  25. °पद°OmJ

  26. मात्रOmC

  27. वोभय°C

  28. अवगतम्C

  29. पक्षंC

  30. आदायC

  31. अपिOmC

  32. °व्यापकवैप°C

  33. अप्येषC

  34. ननु चC

  35. नेतिOmC

  36. °मात्र° & चOmC

  37. वाOmC

  38. विरुद्धो हेतुःC

  39. तादृश°C

  40. °लपतया
    व्याख्या°
    C

  41. इत्यभिसंधायOmJ

  42. विरुध्यत इत्येवंC

  43. एते तेC

  44. यदिC

  45. द्रः टी. ३ । १ । १

  46. तुOmC

  47. अनयाOmC

  48. नैव खल्व°C

  49. तच्चC

  50. वादिनांC

  51. °निमित्त°J

  52. अस्यOmC

  53. निर्देशः प्रकरणसमस्यC

  54. °त्येवेतिC

  55. ३॑२॑१०-१७

  56. अत्रOmC

  57. गृह्यते C

  58. सूत्रकृता J

  59. °सिद्धमाहC

  60. °श्रयासिद्ध°C

  61. अनित्यत्वात् तस्याःC

  62. पृः १३३. २०

  63. अनित्यः J

  64. अयम् C

  65. अपि Om C

  66. इति Om C

  67. द्रः भा. १. १. १.

  68. यस्यार्थैक°C

  69. अर्थ्यतेC

  70. तुC

  71. अनुरूपः
    C

  72. अन्यथा forC

  73. हेतुंOmC

  74. विरतेJ