270

प्रथमाध्याये द्वितीयाह्निकम्


कथालक्षणप्रकरणम्


प्रमाणतर्कसाधनोपालम्भः सिद्धाताविरुद्धः पञ्चवयवोपपन्नः
पक्षप्रतिपक्षपरिग्रहो वादः ॥ १ । २ । १ ॥


नितान्तदक्षिणश्लक्ष्णधियो गृह्णन्त्वमत्सराः ।

वाचस्पतिगिरामर्थतत्त्वानि विबुधा इव ॥

उद्देशक्रमप्राप्तं 1254वादलक्षणपरं सूत्रमवतारयितुं भाष्यम्-तिस्रः कथा भवन्तीति ।
तदयुक्तम्, बृहत्कथादीनां तिसृषु कथासु अनन्तर्भावात् । न च
सामान्यलक्षणाभिधानमन्तरेण विशेषलक्षणावसरोऽस्ति, वादादयश्च कथाविशेषा
इत्यत आह वार्त्तिककारः-तिस्रः कथा भवन्तीति । नायं कथामात्रनियमो येन
बृहत्कथादीनामकथात्वं स्यात्, अपि तु यन्नानाप्रवक्तृके विचारे वसति तद्
विचारवस्तु । विचारविषया1255 वाक्यसंदृब्धिः1256 कथेति यावत् । तस्याः कथाया1257 एष
नियमः तिस्र एवेति । तथा च नानाप्रवक्तृकविचारविषया वाक्यसंदृब्धिः कथेति
सामान्यलक्षणं पक्षप्रतिपक्षपरिग्रह इति सूत्रावयवेन सूचितमित्येतदप्यर्थादुक्तं
भवतीति द्रष्टव्यम् । यद् वस्तु विचार्यते इत्यर्थाभिधानमात्रम्, न तु विचारवस्त्वित्यस्य
विवरणम् । वादादिष्वधिकारिणः पुरुषानाह—तत्र गुर्वादिभिरिति । वादलक्षण
स्यानन्तर्ये हेतुमाह—तत्र यथोद्देशमिति ।


सूत्रमिति । सामान्यलक्षणमप्यनेन सूच्यत इत्युक्तं भवति । एकाधिकरण
स्थावित्यादि भाष्यं
प्रश्नपूर्वकं व्याचष्टे—काविति । वस्तुधर्माविति । विभजते

  1. °लक्षणसूत्रंC °तारोऽस्ति K

  2. विचार वस्तु विषयाC

  3. वाक्यसंदृब्धिः
    OmJ

  4. तस्यां कथायांC