प्रमेयलक्षणप्रकरणम्


आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखाप
वर्गास्तु प्रमेयम् ॥ १ । १ । ९ ॥


इह प्रमेयं हेयोपादेयभावेनावस्थितं मुमुक्षुणा प्रतिपित्सितम् । तच्च
परीक्षितस्वप्रमाणविशेषाधीनप्रतिपत्ति । लक्षणं चास्य प्रमाणविशेषः । न चावान्तर
प्रमाणसामान्यप्रत्यक्षादिलक्षणमन्तरेणात्मादिप्रमाणावतारः कर्तुं शक्यः, तस्य प्रत्यक्षा
दिसामान्यविशेषत्वात् । अतः प्रत्यक्षादिलक्षणानन्तरं तदवतारः । अपरीक्षितं च न
तत्त्वनिर्णयाय पर्याप्तमिति परीक्षा विधायिष्यते797 । तत्परिकरश्च संशयादय इति युक्तं
तेषां पश्चाल्लक्षणम् । तदिह प्रमेयलक्षणाय तद्विभागोद्देशसूत्रमवतारयितुं भाष्यकारः
पृच्छति स्म—किं पुनरनेन प्रमाणेनेति । जात्यभिप्रायमेकवचनम्, प्रकृते प्रमेये
यथायथं प्रमाणानामुपयोगात् । तदेतद् भाष्यम् अनूद्य वार्त्तिककार आक्षिपति—किं
पुनरिति ।
प्रमेयनान्तरीयकत्वं प्रमाणानां सामर्थ्यम् । समाधत्ते—नेति । प्रत्यक्षा
दिलक्षणसामर्थ्यात् प्रमेयमात्रं सिद्धम्, विशिष्टं तु प्रमेयमद्यापि न सिध्यतीति तदर्थं
प्रश्नः । स च विशेषो यथावदिति798 दर्शित इति । अयमेव च सूत्रार्थ इति । येषां
तत्त्वातत्त्वज्ञानाभ्यामपवर्गसंसारौ भवतः, त एतावन्त799 एव न न्यूना नाधिका
इत्यर्थः । प्रथमसूत्रव्यवस्थानमतिदिशति—अत्रापीति । उक्तमर्थमनाकलयन्नाक्षि
पति—उभयेति । दिगादीनामिति । द्रव्येषु दिक्कालपरमाणूनामनभिधानात् ।
वृक्षस्तिष्ठतीति । इतिशब्द आद्यर्थे । तेन वृक्षं 800पश्यति, वृक्षेण चन्द्रमसं पश्यतीत्या
173 दयो वेदितव्याः । समाधत्ते—न सूत्रार्थापरिज्ञानादिति । न प्रमेयपदं प्रमेयमात्रे
प्रवर्तते, किं तु यत् तत्त्वतो ज्ञायमानमपवर्गसाधनं तस्मिन्, तच्चात्माद्येव नान्यदिति
युक्तोऽन्ययोगव्यवच्छेद इत्यर्थः । अयेगव्यवच्छेदेऽपि न दोष इत्याह—प्रमेयमेवेति ।
नन्वस्मिन् पक्षे न कदाचिदपि प्रमाणता स्यादित्यस्ति दोष इत्यत आह—किमुक्तं
भवतीति ।
नास्य पुरुषमात्रं प्रति प्रमेयत्वं विधीयते, अपि तु मोक्षमाणशिष्यं प्रति
विधीयते । अनूद्यत इति प्रमाणान्तरमूलकत्वेन विधानस्य दार्ढ्यं दर्शयति ।
उपसंहरति—तस्मादिति । कौशलमात्रमात्मनः ख्यापयितुमभ्युपेत्य समाधानान्तर
माह—उपेत्येति । प्रवृत्तिसंस्कारकत्वमस्ति दिक्कालयोः,

प्राङ्मुखोऽन्नानि भुञ्जीत ।

प्राचीनप्रवणे वैश्वदेवेन यजेत ।

पौर्णमास्यां पौर्णमास्या यजेत ।

अमावास्यायाममावास्यया यजेत ।

इत्येवमादिश्रवणात् । कौशलमात्रमिदं न तु समाधानमित्याह—न पुनरिदमिति ।
विहितविधानादिति ।
प्रमाणविधानसामर्थ्येन विहितमित्यर्थः । न केवलं प्रमाण
विधानाक्षिप्तम्, अपि त्वाद्यसूत्रगतप्रमेयपदादपि लब्धमित्याह—आद्येन चेति ।
801एतस्मिंश्चार्थे सूत्रकारस्य अनुमतिमाह—एन चार्थमिति । भाष्यम् सर्वस्य
सुखदुःखसाधनस्य द्रष्टा, सर्वस्य सुखदुःखस्य भोक्ता, यतः सुखदुःखसाधनं
सर्वम्, सर्वं च सुखदुःखं जानाति, अतः सर्वज्ञः । न चाप्राप्तान्येतानि जानातीत्यत
आह—सर्वानुभावी । अनुभवः प्राप्तिः । तदेतद् वैराग्योत्पादायोक्तम्, एवमुत्तरत्रापि
बोद्धव्यम् । आत्मन्ययं विशेषो यदनेन रूपेण हेयः, कैवल्येन802 चोपादेयः । शरीरा
दीनि तु हेयान्येव । अपवर्गस्तूपादेय एवेति । अविद्यमानं पूर्वं शरीरं यस्य तदपूर्वं
शरीरम् । तन्निषेधति—नास्येदमिति । प्रमेयतत्त्वमविदुष आत्मन अविद्यमानमुत्तरं
शरीरं यस्य तद् अनुत्तरम् । तदपि निषिद्धं 803चेन, नेत्यनुकर्षणात् । ननु यथा पूर्वेषां
174 शरीराणाम् अनादिता 804एवमुत्तरेषामप्यनन्तता, तथा च मोक्षमाणानां प्रवृत्तयश्च
तदर्थानि शास्त्राणि चानर्थकानि प्रसज्येरन्नित्यत आह—उत्तरेषामिति ।
प्रमेयतत्त्वावगमादित्यर्थः । ननु सुखेऽप्युपदेष्टव्ये दुःखमात्रोद्देशः किं सुखं प्रत्याचष्टे ?
तथा चानुभवविरोध इत्यत आह—नेदमिति । तदेतद् भाष्यं वार्त्तिककार
आक्षेपसमाधानाभ्यां व्याचष्टे—सुखं पुनरिति । न चान्यत आत्मादिपदात्, उप
लब्धिः, अस्मादेव
आत्मादिभ्यो भेदेन प्रत्यात्ममुपलभ्यमानत्वादेव । निर्विद्यते
इत्यस्य व्याख्यानम्—अनभिरतिसंज्ञेति उपेक्षाबुद्धिः । निर्विण्णस्य वैराग्यम्
इत्यस्य व्याख्यानम्—तां चोपासीनस्य तथैव विरोधिगुणेन तृष्णा विच्छिद्यते ।
सुखानभिधानेन दुःखपक्षनिःक्षेपं सूचयति । तथा च सुखेऽस्य वैराग्यं भवतीति
तात्पर्यार्थः ॥ ९ ॥


इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥ १ । १ । १० ॥


अपवर्गस्याप्यात्मार्थत्वेन805 प्रमेयेष्वात्मनः प्राधान्यात् प्रथममात्मलक्षणसूत्रम्
इच्छे
त्यादि । तदवतारार्थं भाष्यम्—तत्रात्मेति । अहमिति ज्ञानं गौराद्याकारं
शरीरावभासं806 न शक्यं घटादिज्ञानवद् द्रागात्मनि प्रमाणयितुमित्यभिप्रायः,
परदेहवर्त्यात्माभिप्रायं वा । 807तदत्र वार्त्तिककारः सूत्रतात्पर्यमाह—समानेति ।
समानजातीयं शरीरादि, असमानजातीयं प्रमाणसंशयादि । सत्येवास्मिन् प्रयोजने
प्रयोजनमन्वाचिनोति—आगमस्येति । ततश्चाप्तोक्तत्वानुमानसिद्धमपि प्रामाण्यं
शब्दस्य अनेन तदर्थसंवादकेनानुमानेन दृढतरं भवतीत्यर्थः । प्रयोजनान्तरं
चान्वाचिनोति—प्रमाणसंप्लवस्येति । द्वावपि वाशब्दौ चार्थेऽन्वाचये द्रष्टव्यौ ।
तदनेन वार्त्तिकेन अनुमानाच्च प्रतिपत्तव्य इति भाष्यं व्याख्यातम् । इच्छाया
आत्मलिङ्गत्वकथनपरं भाष्यं यज्जातीयस्येति, यज्जातीयस्येति व्याप्तिस्मृतिकथनम् ।
175 तज्जातीयं पश्यन्निति पक्षधर्मोपनयः । तस्मादयं सुखहेतुरित्यनुमायादातुमिच्छति ।
सेयमीदृशीच्छा व्याप्तिग्रहणतत्स्मरणपक्षधर्मताग्रहणानुमानेच्छादीनामेककर्तृत्वं
सूचयति, भेदे प्रतिसन्धानाभावेन तदनुपपत्तेः । तदिदमुक्तम् एकस्येति ।
यश्चासावेकोऽनुभविता च स्मर्ता चानुमाता चैषिता च स आत्मा । न च शरीरमेवं
भवितुमर्हति, 808तस्यापि बाल्यकौमारयौवनवार्द्धकभेदेनान्यत्वात् । नेन्द्रियम्
इन्द्रियान्तरगृहीत इन्द्रियान्तरेणाप्रतिसन्धानप्रसङ्गात् 809यमहमस्प्राक्षं तं पश्यामीति ।
नापि मनः, मनसः करणत्वेनैवानुमानात् । वक्ष्यति ह्येतत् सर्वं

ज्ञातुर्ज्ञानसाधनोपपत्तेः ।

३॑१॑१७ इत्यत्र सूत्रे ।


स्यादेतत् । असत्यपि आत्मनि 810ज्ञातरि सत्यपि च बुद्ध्यादीनां भेदे,
तत्सन्तानाभेदेन प्रतिसन्धानव्यवस्थोपपत्स्यत इत्यत आह—नियतविषये इति ।
नियतविषय इति बुद्धिभेदस्य प्रतिसन्धानमपाकरोति । मात्रग्रहणेन च संतानं
संतानिव्यतिरिक्तमपाकरोति । तदभ्युपगमे वा स एवात्मेति सिद्धं नः समीहितम् ।
तदेतद् भाष्यम् अनुभाष्य वार्त्तिककारस्तात्पर्यमस्याह—यज्जातीयस्येति । तत्र
विचारमारभते—तत्रेति । पूर्वपक्षमाह—कथमिच्छादीति । परिहरति—स्मृत्येति ।
नन्वेकविषयाणां स्मृत्यादीनां नानाकर्तृकत्वे को विरोध इत्यत आह—न हीति ।
नानाविषयत्व उदाहरणमाह—811न हि भवति यद्रूपमिति । नानानिमित्तत्व
उदाहरणमाह—नापि भवतीति । यद् यस्मात् निमित्तात् त्वगिन्द्रियात् स्पर्शमहमस्पार्क्षं
तत् तस्मात् निमित्तात् चक्षुषो रूपं पश्यामीति । नानाकर्तृकत्व उदाहरणमाह—न हि
भवति देवदत्त
इति । तदेतत् किल प्रतिसन्धानं कर्तृभेदाद् देवदत्तयज्ञदत्ता
देर्व्यतिरेकबलेनैककर्तृकत्वं साधयतीत्युक्तम् ।


तदेतदनुपपन्नम्, भिन्नकर्तृकत्वाद् व्यतिरेकस्योपाधिसंभवेन स्वाभाविक
प्रतिबन्धविज्ञानवैकल्यात् । अस्ति हि देवदत्तयज्ञदत्तविज्ञानानां भिन्नकर्तृकत्वम
176 कार्यकारणभावश्च । तत्र किमकार्यकारणभावात् प्रतिसन्धानस्य व्यतिरेक उत
भिन्नकर्तृकत्वादिति सन्दिग्धव्यतिरेकत्वादसाधनाङ्गं प्रतिसन्धानमित्याशय
वांश्चोदयति—कार्यकारणभावादिति । तदिदमुक्तम्—तदिदंप्रतिसन्धानमन्यथा
भवदिति ।
गूढाभिप्रायः परिहरति—812न नानात्वस्येति । चोदक आह—अकार्येति ।
गूढाभिप्राय एव परिहारवाद्याह—तदयुक्तमिति । अनैकान्तिकत्वं सन्दिग्ध
व्यतिरेकिता । चोदक आह—तुल्यं भवतोऽपीति । सिद्धान्ती गूढाभिप्राय एवाह—
अभ्युपगमादिति । चोदक आह—नासाधनादिति । असिद्धार्थता अन्यथासिद्धार्थता
हेतोः हेतुवचनस्येत्यर्थः । संप्रति समाधाता स्वाभिप्रायमाविष्करोति—न,
हेत्वर्थापरिज्ञानात् । 813तदेव विभजते—न भवतेति । कः पुनरसौ हेतुविशेष इत्यत
आह—विशेषितं चैतत्प्रतिसंधानम् । तत् कथयति—स्मृत्या सह पूर्वा
परप्रत्यययोरेकविषयत्वेन प्रतिसंधानम्
यज्जातीयं 814चन्दनवनितादि सुखहेतुं
प्रतीतं स्मरामि तज्जातीयमिमं प्रत्येमीति प्रतिसन्धानम् । तदनेन शालिबीजाङ्कुरस्य
परम्परया शालिबीजान्तरजननलक्षणात् प्रतिसंधानात् कार्यकारणभावनियमाद्
व्यवच्छिनत्ति ।


नन्वियं पूर्वापरप्रत्ययसंहिता815 स्मृतिरपि कार्यकारणभावादेवोपपत्स्यते,
कृतमेकेन कर्त्रेत्यत आह—सा च स्मृतिर्भवत्पक्षेऽनुपपन्ना । पृच्छति—कस्मात् ?
उत्तरम्—अन्येन निमित्तेन अनुभूतस्य अन्येन निमित्तेन अस्मरणात् । न हि भवति
येनैव चक्षुषा घटमद्राक्षम्, तेनैव त्वगिन्द्रियेण तं स्पृर्शामीति । निमित्तभेदे
प्रतिसंधानाभावमुक्त्वा विषयभेदेऽप्याह—न ह्यन्येन स्वभावेन घटत्वादिनानु
भूतस्यान्येन वृक्षत्वादिना स्मरणम् । न हि भवति यमहं घटमद्राक्षं सोऽयं वृक्ष इति ।
कर्तृभेदे प्रतिसंधानाभावमाह—न ह्यन्येन देवदत्तेन अनुभूतमन्यो यज्ञदत्तः स्मरति ।
न हि भवति योऽहं देवदत्तोऽद्राक्षं सोऽहं यज्ञदत्तः 816पश्यामीति । न चेदं सत्यपि भेदे
कार्यकारणभावात् प्रतिसंधानं भवितुमर्हति । न हि यत्र स्फुटतरः कार्यकारणभावः
177 तन्तुपटयोर्घटकपालयोर्वा दृश्यते तत्र प्रतिसंधानं भवति, ये तन्तवः स एव पट इति
वा, यो घटक्षणः स एव कपालक्षण इति वा । वस्तुतः कार्यकारणभूतानामगृहीत
भेदानां प्रतिसंधानहेतुभावः सभागेषु क्षणेषु तथा दर्शनादिति चेत् ? तन्न,
आमलकफलस्यैकस्यापनयने तत्रैव स्थाने आमलकान्तरावस्थापने भवति प्रति
संधानम् । न च तयोरामलकयोरस्ति कार्यकारणभावः । पूर्वापरप्रत्यययोः स्मृत्या
सहैकविषयत्वं कर्तरि कार्यकारणभावनिबन्धनं न कर्मणीति चेत् ? हन्त
नैरात्म्यसाक्षात्कारसात्मीभावेऽप्यस्ति विज्ञानानां कार्यकारणभाव इति तन्निबन्धनं
प्रतिसंधानं पूर्ववदेव प्रसज्येत । सैव चात्मदृष्टिर्दोषाणां निदानं परमिति व्यर्थो
नैरात्म्यसाक्षात्कारसात्मीभावप्रयासः । अथासदपि प्रतिसंधानं 817कार्यवशादाहरति
तथागतो नट इव रामत्वमात्मनः, यदि तत् कार्यकारणभावनिबन्धनम्, कथमसत्818,
कथमाहार्यम् ? अथ कार्यकारणभावोऽप्यवस्तु सन् कल्पनामात्रनिबन्धनः, स तर्हि
तादृशः शालिबीजस्योत्पादं वास्तवं न नियन्तुमर्हति, न जातु कल्पितवह्निभावो
माणवको दहनपाकयोरुपयुज्यते । न च प्रत्ययानां भेदाग्रहात् प्रतिसंधानमिति
सांप्रतम्, प्रवृत्तिविज्ञानानां रूपादिविषयाणां भेदेन पृथग्जनैरपि प्रतीयमानत्वात्,
आलयविज्ञानस्य च प्रवृत्तिविज्ञानातिरिक्तस्यानुपलब्धेः । अहमिति च सत्त्वदृष्टेः
क्षणिकत्वनिराकृतावसति बाधके स्थिरवस्तुविषयत्वात् । तस्मात् स्मृत्या सह
पूर्वापरप्रत्यययोः एकविषयत्वलक्षणस्य प्रतिसन्धानस्यानेककर्तृकत्वाद् व्यतिरेको
निरुपाधिरेककर्तृकत्वं साधयति । स चैकः कर्ता शरीरेन्द्रियबुद्धिभ्यो भिन्न आत्मेति
सिद्धम् ।


तदनेनाशयेनोक्तम्—अस्ति च स्मृतिः उक्तरूपा । तस्माद् यस्मिन् पक्षे
स्मृतिः संभवति तत्र प्रतिसंधानं
न्याय्यमिति । स च कर्त्रेकत्वपक्ष इति भावः ।
आशयमविद्वान् पुनः परः प्रत्यवतिष्ठते—भवानिति । पर एवैकग्रन्थेनाह—कथमिति ।
कथं न संभवतीत्यर्थः । स्यादेतत् योगिचित्तमपि सार्वज्ञ्यस्य चेतस आलम्बनप्रत्यय
178 इति तस्यापि योगिचित्तेन प्रतिसन्धानं स्यादित्यत आह—यत्कायेति । एतदुक्तं
भवति, उपादानोपादेयभावेनावस्थितः चित्तप्रवाहः सन्तानः । न च योगिचित्तमुपा
दानं सार्वज्ञ्यस्य चेतसः । आलम्बनप्रत्ययो हि तदिति । कायग्रहणं च एकसन्तानोप
लक्षणपरम् । तेन जन्मान्तरेऽपि स्मृतिरुपपन्नेति । तमिममस्मदभिप्रायानभिज्ञं परम
न्यथापि बोधयितुं विभवाम इति सिद्धान्ती अन्यथा स्मृत्यनुपपत्तिमाह—न,
अस्थिरत्वाद् बुद्धीनाम् ।
न ह्यजातानन्वयध्वस्तयोरस्ति कश्चिद् विशेष इति
पूर्वोत्पन्नोऽनुभवः काञ्चन वासनामाधाय ध्वंसते, यया कालान्तरे स्मृतिराधीयते
इत्यभ्युपगन्तव्यम् । न चास्थिरा बुद्धिः शक्या वासयितुमित्यात्मा स्थिरोऽभ्युपेय
इत्यर्थः । युक्त्यन्तरमाह—असंबन्धाच्चेति । न च बुद्धीनामसमानकालानामस्ति
संबन्ध इत्यर्थः । पुनः परः प्रत्यवतिष्ठते—शक्तीति । नास्माकं क्षणिकवस्तु
वादिना
मस्ति तज्जगति यदवस्थितं वासकेन वास्यमानं दृष्टमिति भावः । ननु
तथाप्यसमानकालतया संबन्धरहितमशक्यं वासयितुमिति ग्रहणकवाक्यविवरण
व्याजेनापाकरोति—अथापीति । पूर्वचित्तं प्रवृत्तिविज्ञानं यत्तत् षड्विधम्, पञ्च
रूपादिज्ञानान्यविकल्पकानि, षष्ठं च विकल्पविज्ञानम् । तेन सह जातः समानकालः
चेतनाविशेषः तदालयविज्ञानमित्युच्यते । अहङ्कारास्पदं स्मृतिशक्तिः । सा च न
शक्तात् तज्ज्ञानादतिरिच्यते । तेन कथञ्चिद् भेदविवक्षया शक्तिविशिष्टमित्युच्यते ।
सिद्धान्तवाद्याह—अत्रोक्तमिति । उपपादयिष्यते हि भावानां सर्वजनप्रतीतिसिद्धा
स्थिरता क्षणभङ्गनिराकरणेन । तथा च स्थिरस्य संबद्धस्य च वस्त्रादेर्मृगमदादिना
वास्यत्वं दृष्टमिति नास्थिरेऽसंबद्धे च भवितुमर्हतीत्यर्थः ।


स्यादेतत् । अस्थिरयोरपि ज्ञानयोः समानकालतया अस्ति संबन्ध इति
कस्मादन्यतरचित्तवासितमन्यतरच्चित्तं स्मृतिं नाधत्ते इत्यत आह—यश्चासाविति ।
वक्ष्यमाणापेक्षोऽपि शब्दः । ननु वर्तमाने चेतसि मा कार्षीदुपकारम्, अनागते तु
करिष्यतीत्यत आह—नापीति । पृच्छति—कथमिति । उत्तरम्—वर्तमानं तावदिति ।
प्रकृतमुपसंहरति—तस्मादिति । इतोऽप्यसत्यात्मनि विज्ञानमात्रात् कार्यकारण
179 भावेन819 स्मृतिर्नोत्पद्यते इत्याह—इतश्चेति । कस्मात् ? भावस्य भवित्रपेक्षत्वात् ।
भाव उत्पत्तिमान् धर्मः । भविता धर्मी पाको विक्लित्तिः संयोगभेदः । स च
तण्डुलावयवसमवेतोऽप्यवयवावयविनोरभेदोपचारात् तण्डुलानामित्युक्तम् ।
गतिः तु820 परिस्पन्दो देवदत्ते कर्तरीति सिद्धान्ती क्षणिकवादिनमुत्थाप्या
क्षणिकत्वाभिप्रायेण दूषयति—अनाधारैवेति । पूर्वपक्षी क्षणिकत्वाभिप्राये
णाह—कार्येति । सिद्धान्तवाद्यक्षणिकत्वाभिप्रायेण परिहरति—तच्च नेति । समान
कालयोराधाराधेयभावो दृष्टः । यथा कुण्डवदरयोः स्थिरमेव हि कुण्डं स्थिरस्यैव
वदरस्य गुरुत्वेन पततो गुरुत्वं प्रतिबध्नदधःपतनं निवारयदाधारो भवति । यद्युच्येत
न स्मृतिर्भावः किं तु भवित्री । उत्पत्तिरस्या भावः । न तु भवितुर्भवित्रन्तरापेक्षा युक्ता
अनवस्थापातादिति आशङ्कते—अथापीदमिति । निराकरोति—तच्च नेति ।
विरोधादिति
विवृणोति—यदीति । कस्माद् व्याहतमित्यत आह—स्वरूपं चेति ।
चो
हेत्वर्थे । स्वरूपमुत्पत्तेरुच्यमानं स्वतन्त्रं बाधते यतः, तस्माद् विरोध इत्यर्थः ।
अनभ्युपगमादिति विवृणोति—न हि भवन्त इति । विरोधादिति स्फोरयति—
व्यतिरिक्तां चेति । तन्त्रं शास्त्रम् । शङ्कते—अथेति । तथा च न विरोधो नाप्यनभ्युप
गम इत्यर्थः । निराकरोति—किं क्वेति । अभिधानस्वरूपमाह—उत्पत्तिरिति । अपि
चोत्पत्तेर्भावत्वेऽपि न स्मृतिर्न भावः, भावत्वस्य कार्यमात्रानुबन्धित्वात् स्मृतेश्च
कार्यत्वात् । न चानवस्था, नित्ये व्यवस्थानात् । तथा च स्मृतेर्भावस्य भविता आत्मैव
नित्यः परिशिष्यते इत्याशयवानाह—यदा चोत्पत्तिरिति । प्रकृतमुपसंहरति—
तस्मादिति । तत् सिद्धमेतत्, स्मृतिः पूर्वापरप्रत्ययाभ्यामेककर्तृका 821ताभ्यां सहैक
विषयत्वेन प्रतिसन्धीयमानत्वात् । या पुनर्नाभ्यामेककर्तृका सा 822नाभ्यां तथा
प्रतिसन्धीयते, यथा देवदत्तस्य 823स्मृतिर्न यज्ञदत्तप्रत्ययाभ्याम् । न 824चेयं तथा825 । तस्मात्
तथेति ।


180

तदेवं व्यतिरेकिसमर्थनं कृत्वा अन्वयव्यतिरेकिणमत्रार्थे प्रमाणयति—अथ
वेति ।
अनेकग्रहणमनेकनिमित्तप्रतिषेधशङ्कानिवृत्त्यर्थं826 येन मया827 रूपादयोऽनु
भूताः तेनैव गन्ध उपलभ्यते इति खलु मयेति स्मृत्या सह828 प्रतिसन्धानं तस्माद्
भरतमताभ्यासेनाभिनये ये कृतसङ्केताः, तेषाम् । यच्चोक्तं परैः,

नर्तकीभ्रूलताक्षेपो न ह्येकः पारमार्थिकः829

परमाणुसमूहत्वादेकत्वं तस्य कल्पितम्830

इति । तत्राह—भ्रूक्षेपस्यैकत्वात् । न भ्रूः परमाणुसमूहोऽपि तु अवयविद्रव्यमेकम् ।
तद्गतं च रेचितमपि क्रियैकैव । भवतु वा परमाणुसमूह एव भ्रूक्षेपः, तथापि
समूहस्य समूहिभ्योऽनन्यत्वात् परमाणव एव, तेषां च प्रत्येकमेकता
चानेकभरतमतनिपुणप्रतिपत्तृसाधारणता च । अस्ति च तेषामपि 831स्वगोचरा
विकल्पोत्पादनद्वारेण परंपरया मयेति प्रतिसन्धानहेतुभाव इति 832यत्किञ्चिदेतदेकत्वं
तस्य कल्पितमिति । तदेवं प्रतिसन्धानद्वारेणेच्छादीनामात्मलिङ्गत्वमुक्त्वा संप्रति
गुणतया लिङ्गतां वार्त्तिककृद् आह—अथ वेति । गुणत्वेनेच्छादीनां पारतन्त्र्यं
रूपादिवत् साधनीयम् । तच्चानित्यत्वेनैव सामान्यविशेषसमवायेभ्यो व्यावर्तकेन
सिद्धम् । न ह्यनित्यो भावो द्रव्यात् स्वतन्त्रो भवति । तस्माद् गुणत्वप्रसाधकादेव हेतोः
पारतन्त्र्यसिद्धेः कृतं गुणत्वेन पारतन्त्र्यसाधकेनेति हृदि निधाय वार्त्तिककारः
तदपि पूर्वमुक्तमिति सिद्धेन पारतन्त्र्येण गुणत्वमपि साधयति । न चैतदनित्यस्य
833पारतन्त्र्यमात्रेण सिध्यति, द्रव्यकर्मणोरप्यनित्ययोः पारतन्त्र्यात् । तस्मादनित्यत्वसिद्धेन
द्रव्यपारतन्त्र्येण द्रव्यकर्मभ्यां व्यतिरेचयति834न द्रव्यं कर्म वा इच्छादयः
व्यापकद्रव्यसमवायात् शब्दवद् इत्यादि । यद्यप्यनित्यत्वेन द्रव्यसमवायमात्रं
सिध्यति, तथापि द्रव्यकल्पनमात्रेणैवोपपत्तौ तदवयवकल्पनायां प्रमाणाभावेन तद्
181 द्रव्यमनवयवं तावत् सिद्धम् । अनवयवं च द्रव्यं द्वेधा, व्यापकम् अणु च । न तावदणु,
तत्रेच्छादीनामुपलब्धेः । क्वचिदन्यतरकर्मणा क्वचित् स्वभावतस्तत्संयोगोपपत्तौ
तद्गतिकल्पनायां प्रमाणाभावात् सिद्धमस्य व्यापकत्वम् । तदेतदादिग्रहणव्याख्यानम् ।
तदनया वक्रोक्त्या नित्यत्वं परममहत्त्वं चात्मनो दर्शितं भवति । एतच्च सामान्यतो
दृष्टमनुमानं सूत्रयता सर्वं दर्शितमित्याह—सामान्यत इति । 835यत् तत्पूर्वं हृदि
स्थितमिच्छादीनां 836द्रव्यपारतन्त्र्ये साध्येऽनित्यत्वानुमानम्837, तदुद्धाटयति कार्यत्वमपि
हेतुं समुच्चिनोति—एतेनेति । नन्वस्तु द्रव्यपारतन्त्र्यं तथापि शरीरपारतन्त्र्यमस्तु,
कृतमनुपलब्धचरेणात्मना इत्यत आह—अयावदिति । सर्वपुरुषसाधारण्यप्रसङ्गाच्च
न पृथिव्यादिगुणाः । तदुत्पत्तौ करणत्वेन कल्पनाच्च नाकर्तुर्मनसः । तस्माद्
अष्टद्रव्यातिरिक्तं द्रव्यान्तरम् । तत्रेच्छादयः, स चात्मेति सिद्धमित्याह—तत्प्रतिषेधा
दिति
॥ १० ॥


चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ १ । १ । ११ ॥


आत्मानं लक्षयित्वात्मनो दुःखनिदानानामिन्द्रियादीनां सर्वेषां साक्षात् पारम्प
र्येण 838च शरीरमाश्रित्य तन्निदानत्वमिति तदेवास्य दुःखमूलकारणमित्यनन्तरं शरीरं
लक्षयितुं सूत्रम्—चेष्टेत्यादि । तदवताराय भाष्यम्—तस्येति । तस्येत्यात्मानं
परामृशति । भोगः सुखदुःखसंवित् । तदधिष्ठानं शरीरम् । तदनेन सर्वस्यास्यानर्थ
संभारस्य परमनिदानं शरीरम् । अतस्तदेवेन्द्रियादिभ्यः पूर्वं लक्षणीयमित्युक्तम् ।
अत्र चेष्टाश्रयत्वेनेन्द्रियाश्रयत्वेन च प्रत्येकं समानजातीयेभ्य आत्मेन्द्रिया
दिभ्योऽसमानजातीयेभ्यः प्रमाणसंशयादिभ्यः शरीरं व्यवच्छिद्यते ।


कथं चेष्टाश्रय इति भाष्यम् । तस्यार्थं व्याचष्टे—का पुनरिति । चेष्टा व्या
पारः । स चातिव्यापकतया अव्यापकतया च न लक्षणम्, वृक्षादिषु भावात्,
182 अभावाच्च पाषाणमध्यवर्तिमण्डूकादिशरीरे इति भावः । अत्रोत्तरभाष्यम्—
ईप्सितमित्यादि ।
तद् व्याचष्टे—हिताहितेति । प्रयुक्तस्य उत्पादितप्रयत्नस्य । न
च व्यापारमात्रं चेष्टा अभिमता, 839अपि तु विशिष्टो व्यापारः । स च न वृक्षादिष्वस्तीति
नातिव्यापकता । यद्यपि च दारुयन्त्रादिषु ईदृशो व्यापारोऽस्ति, तथापि मूर्तान्तराप्रयोगे
सतीति विशेषणात् न व्यभिचारः, तेषां 840शरीरेण मूर्तेन प्रयोगात् । शरीरस्य तु
मूर्तान्तराप्रयुक्तस्य ईदृशव्यापाराश्रयत्वम्, पाषाणमध्यवर्तिनश्च मण्डूकदेहस्य
तद्व्यापारायोगेऽपि तद्योग्यत्वात्, पाटिते पाषाणे तादृशस्य तद्व्यापारस्य दर्शनादिति
भावः ।


कथमिन्द्रियाश्रय इति भाष्यं व्याचष्टे—कथमिति । संयोगितया त्विन्द्रिया
श्रयत्वे घटादीनामपि शरीरत्वप्रसङ्गः, तेषामपीन्द्रियसंयोगित्वादिति भावः । यस्येत्यादि
परिहारभाष्यं व्याचष्टे—शरीरेति ।


एतेनेति । तद्वृत्तित्वेनानुपपत्त्या अर्थानामप्यन्यादृश आश्रयार्थो व्याख्येयः ।
यद्यपि गन्धादयो विषया न स्वरूपेण शरीरमाश्रयन्ते तथापि यदेषां सुखाद्युपलम्भ
हेतुत्वं कार्यं प्रयोजनं तदर्थमाश्रयन्ते इत्यर्थः । तदनेन यस्मिन्नित्यादि भाष्यं
व्याख्यातम् । चोदयति—कथं पुनरिति । परिहरति—सामान्येति । विशेषेण
बुभुत्सितत्वादिना प्रकरणापन्नं नियन्त्रितं सामर्थ्यम् । 841प्रकरणादीत्यत्रा
दिपदसंगृहीतमपरमपि सामर्थ्यशब्दार्थमाह—सामर्थ्यं चेति । अपरमप्याह—
प्रमाणेति । अत्र प्रथमे पक्षे चेष्टाशब्दो व्यापारविशेषे स्पन्दादिवन्मुख्यार्थः । तदेतत्
लोकस्तावदित्यादिना तथा चायं चेष्टाशब्द इत्यन्तेन दर्शितम् । प्रमाणासंभवो
वेति
द्वितीयं पक्षं विवृणोति—सामान्यवाच्यपीति । अपिरभ्युपगमे । प्रमाणा
संभवोऽनुपपत्तिः । सा च842 न क्रियामात्र इत्यनेन दर्शिता843 । एवं चेष्टापदव्याख्याने न
घटादिषु शरीरत्वप्रसङ्गः ।


183

एवं भाष्यानुसारेण स्वमतेन 844च प्रत्येकं चेष्टाश्रयत्वादि शरीरस्य लक्षणमिति
वर्णयित्वा समस्तमेवेदं शरीरलक्षणमिति ये 845वर्णयांबभूवुः, 846तन्मतं निराकरोति—
यैरपीति । यद्याद्यं पदं लक्षणं चेष्टाश्रय इति, तदा घटेन व्यभिचारः । तदर्थं
द्वितीयपदोपादानम् इन्द्रियाश्रय इति, इन्द्रियसंयोगीत्यर्थः । तथापि तेनैव घटादिना
व्यभिचारः, प्राप्यकारित्वेनेन्द्रियाणां घटादीनामपि इन्द्रियसंयोगित्वात् । अत
आह—अर्थाश्रय इति । एवमपि व्यभिचारस्तदवस्थ एव, घटादीनामपि रूपाद्यर्थ
समवायेनार्थाश्रयत्वात् । अथ समवायाभिप्रायेणाश्रयत्वम्, तथापि न समवाय
इन्द्रियाणां शरीरे । घ्राणस्य पार्थिवत्वेन समवायो न विरुद्ध इति चेत्—न, तस्य
शरीरावयवसमवायित्वेन शरीरासमवायात् । यदि नासिकाग्रमेव घ्राणम्, अथ
तदाधारमतीन्द्रियम्, तथापि न तत्समवेतं शरीरम्, प्रत्यक्षाप्रत्यक्षवृत्तेर्वायु
वनस्पतिसंयोगवदप्रत्यक्षत्वप्रसङ्गाद्देहस्य । अपि च यदा चेन्द्रियार्थस्य समवायेन
शरीरत्वम्, हन्त भो इन्द्रियसमवायिकारणेषु परमाणुषु समस्तमेतदस्तीति तेषामपि
शरीरत्वप्रसङ्ग इत्याह—समस्तेति । स्यादेतत् । भवन्मतेऽपि चक्षुरादिभिरि
न्द्रियैर्व्यभिचारः, तेषामपि यथोक्तव्यापाराधारत्वादित्यत847 आह—यथा त्विति ।
मूर्तान्तराप्रयोगे सतीति विशेषितम् । चक्षुरादयस्तु उन्मीलनान्मूर्तेन शरीरेण प्रयुज्यन्ते
इति न प्रसङ्गः । श्रोत्रं तु चेष्टाधार एव न भवति । तदेतदुपलक्षणं शरीरं भावयन्निर्विद्यते
इति सिद्धम् ॥ ११ ॥


घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥ १ । १ । १२ ॥


इन्द्रियस्योपनायकत्वेनार्थादिभ्यो विशेषादिन्द्रियाणामर्थादिभ्यः पूर्वं लक्षणम् ।
न च विशेषलक्षणमकृते सामान्यलक्षणे शक्यमिति भाष्यकारः प्रथममिन्द्रियाणां
सामान्यलक्षणं निर्वेदोपयुक्तमाह—भोगसाधनानीति । अनेन यच्छरीरसंयुक्तं
184 848संस्कारकदोषव्यतिरिक्तं साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति सामान्यलक्षणं
सूचितम् । साक्षात्प्रतीतिसाधनमिन्द्रियमिति वक्तव्ये भोगसाधनाभिधानं
निर्वेदोपयोगीति । पारम्पर्येण च 849भोगसाधनत्वं घ्राणादीनाम्, साक्षान्मनस एव
तत्साधनत्वात्, सुखदुःखसाक्षात्कारस्य भोगत्वात् ।


घ्राण—भ्यः ॥ अत्रेन्द्रियाणीति लक्ष्यनिर्देशः घ्राणादीनीत्यर्थः । तेषां पञ्चानां
पञ्चैव लक्षणानीति कथयति—लक्षणसूत्राणीति । आपाततः सूत्रम् । विचार्यमाणानि
850तु सूत्राणीत्यर्थः । समानजातीयं घ्राणादे रसनादि प्रतिनियतविषयत्वात् ।
असमानजातीयं तु मन आदि सर्वविषयमिति । जिघ्रतीत्यादिभाष्यनिराकरणीयां
शङ्कामाह—उद्देशेति । प्रमाणाद्युद्देशेन सामान्यादित्यर्थः । लक्षणं हि विधेयम् । लक्ष्यं
चोद्देश्यम् । ज्ञातं चोद्दिश्यते, अज्ञातं 851च विधीयते इति । न चैकस्य युगपज्ज्ञाताज्ञातत्वे
संभवतः । नापि लक्ष्यलक्षणत्वे इति भावः । परिहरति—नेदं तथा यथोद्देश
इत्यर्थः । कस्मात् ? करणभावात् स्वविषयग्रहणलक्षणत्वं यतो घ्राणादीनाम् ।
एतदुक्तं भवति, इन्द्रियाणामतीन्द्रियत्वात् सर्वदा स्वस्वविषयोपलब्धि
करणत्वेनैवानुमातव्यानि । तस्मात् स्वस्वविषयोपलब्धिसाधनत्वमेव
समानासमानजातीयव्यवच्छेदकतया लक्षणम् । तदेकार्थसमवायि 852तु घ्राणत्वादि
लक्ष्यम् । अत्र च घ्राणादिशब्दाः पङ्कजादिपदवदवयवार्थं निमित्तीकृत्य क्वचित्
क्वचित् सामान्यविशेषे वर्तन्ते, 853अवयवार्थसंबन्धस्य प्रतीयमानस्यासति बाधके
परित्यागायोगात् । अश्वकर्णादौ वृक्षविशेषवाचके वाजिकर्णायोगेन बाधकेना
वयवार्थपरित्यागात् । अवयवार्थयोगेऽपि 854च गन्धाद्युपलब्धिसाधने सन्निकर्षादौ
घ्राणादिशब्दाप्रयोगात् अवयवार्थान्वितं घ्राणत्वाद्येव घ्राणादिशब्दप्रवृत्तिनिमित्तम् ।
तथा च घ्राणादिपदमेव घ्राणत्वादिपरं लक्ष्यनिर्देशः । तच्च इन्द्रियाणीत्यनेन
सूचितम् । तदेव त्ववयवार्थपरं लक्षणनिर्देशो 855घ्राणेत्यादि । न च सन्निकर्षेण गन्धोप
185 लब्धिसाधनेन 856च व्यभिचारः, इन्द्रियसामान्यलक्षणयुक्तस्य गन्धोपलब्धि
साधनत्वं न सन्निकर्षस्यास्ति । तदनेन जिघ्रतीत्यादि स्वविषयग्रहणलक्षणानि
इत्यन्तं भाष्यं व्याख्यातम् । निर्वचनग्रहणेन पदप्रवृत्तिनिमित्तमात्रमुच्यते । तेन
त्वक्पदमपि संगृहीतं भवति । तस्यापि त्वक्स्थाने इन्द्रिये स्पर्शोपलब्धिसाधने
एवोपचार इति ।


भूतेभ्य इति 857सूत्रावयवतात्पर्यव्याख्यानपरं भाष्यं भूतेभ्य इतीति ।
नानाप्रकृतीना
मित्यादि । तद् वार्त्तिककारो व्याचष्टे—भूतेभ्य इति । पृथिव्यादीति ।
पृच्छति—कः पुनरिति ? उत्तरम्—भूतगुणविशेषग्रहणसाधनत्वम् । घ्राणेनैव
हि पृथिव्या यो गुणविशेषो गन्धः स गृह्यते, न रसनादिना । एवं रसनेनैवापां यो माधुर्यं
गुणविशेषः स गृह्यते, 858न घ्राणादिना । एवं चक्षुषैव शुक्लभास्वरं रूपं तेजसः । एवं
त्वचैवानुष्णाशीतस्पर्शोऽपाकजो वायोः । एवं श्रोत्रेणैव शब्दो नभस इति हि
नियमः । अत्र च प्रयोगः, गन्धोपलब्धिः करणसाध्या क्रियात्वात् छिदिक्रिया
वदिति । एवं सा तदन्यक्रियाकरणातिरिक्तकरणनिष्पाद्या तदन्वयव्यतिरेकाननु
विधाने सति कार्यत्वात् । या यत्क्रियाकरणान्वयव्यतिरेकाननुविधाने सति कार्या, सा
सर्वा 859तत्क्रियाकरणातिरिक्तकरणनिष्पाद्या, यथा पटादिक्रिया घटादिक्रिया
करणचक्रदण्डाद्यतिरिक्तवेमादिकरणनिष्पाद्या । तथा चेयम् । तस्मात् तथेति । तच्च
करणं चक्षुराद्यतिरिक्तं घ्राणम् । तद् द्रव्यम् संयोगाधारत्वाद् घटादिवत्860 । तच्च
पार्थिवम् । द्रव्यत्वे सति रूपादिषु मध्ये गन्धस्यैव व्यञ्जकत्वात् पार्थिवान्तरवत् ।
एवं रसनादिष्वपि योज्यम् । तदिदमुक्तम् यज्जातीयमिन्द्रियं पार्थिवं पाथसीयं
वा भवति, तस्य पृथिव्याः पाथसो वा यो गुणविशेषो गन्धो वा मधुर एव वा रस
भेदः, तेन हि पृथिवी 861अबादिभ्यः, आपो वा पृथिव्यादिभ्यो व्यवच्छिद्यन्ते इति
इतरेतरभूतव्यवच्छेदहेतुः स तेनैवेन्द्रियेण गृह्यते नान्येनेति । न चैवं रसना
186 अपामिव पृथिव्या अपि रसभेदं गृह्णातीति पार्थिवी भवति, तथात्वे तया
गन्धोऽप्युपलभ्येत । तेन तेनैवेन्द्रियेणेति नियमो गुणविशेषमवधारयति, न
त्विन्द्रियमिति । अत्र च कर्णशष्कुलीसंयोगोपाधिना श्रोत्रस्य नभसः कथञ्चिद् भेदं
विवक्षित्वा भूतेभ्य इति पञ्चम्यर्थो व्याख्येयः862


अनेन खल्वाहङ्कारिकाणीन्द्रियाणि इति यदाहुः सांख्याः तत् निराकृतम् ।
निराकरणहेतुमाह—ऐकात्म्य इति श्लिष्टं पदम् । सांख्यानां किल राद्धान्ते
कारणात्मकं कार्यम् । तच्च कारणमिन्द्रियाणामहङ्कार एक इत्यैकात्म्यमेककारण
कत्वम् । तथा चैकात्म्यमेकत्वं घ्राणादीनामित्यनियमः स्यादिति । तदेतद्
विभजते—यदि पुनरिति । शङ्कते—एकेति । विभजते—अथेति । एकः पाक्य
एकोऽग्निसंयोगः एकं चौष्ण्यमित्यर्थः । निराकरोति—न ब्रूम इति । यद्यप्यौष्ण्यं
निमित्तं साधारणम्, तथापि गन्धाद्युत्पत्तौ पूर्वगन्धादिध्वंसानां 863निमित्तानां भेदादुत्पन्नं
कार्यनानात्वमिति । तदिदमुक्तं ये पूर्वे रूपादयः तेषां स्वगतो विशेषः प्रध्वंस
इत्यर्थः । अथ रूपत्वादिसामान्यमेव कस्मात् स्वगतो विशेषो न भवतीत्यत
आह—एवं च कृत्वेति । रूपादिसामान्यानां तादवस्थ्ये न पक्वतरतमादिभेदः ।
प्रध्वंसानां तु स्तोकभूयस्त्वं निःशेषत्वे नोपपद्यते इति भावः । पुनराशङ्कते—एकं
कर्मेति ।
निराकरोति—नेति । समवायिकारणं स्वाश्रयप्रत्यासत्तिं वापेक्षत इति
भावः । शङ्कते—यदि तर्हीति । लक्षणहानिः । तथा च लक्षणहानिरित्यर्थः ।
निराकरोति—864नेति । चरमभाविनिमित्तान्तरं भावरूपमित्यर्थः । संयोगाभावं
तूत्तरसंयोगजननायापेक्षत एव । उपसंहरति—तस्मादिति ॥ १२ ॥


पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ॥ १ । १ । १३ ॥


इन्द्रियप्रकृतित्वं तु भूतलक्षणं वेदितव्यम् ॥ १३ ॥


187

गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥ १ । १ । १४ ॥


क्रमप्राप्तमर्थलक्षणमवतारयति भाष्यकारः—इमे त्विति । तुशब्देनार्थमात्राद्
व्यवच्छिनति । येषामिन्द्रियविषयत्वेन भाव्यमानानां निःश्रेयससाधकत्वम्,
मिथ्याज्ञानविषयीकृतानां तु संसारनिमित्तता, त इमे इत्यर्थः ।


गन्ध—र्थाः ॥ अत्र चोद्देशक्रमस्मारिता अर्था लक्ष्यतया प्रतिपत्तव्याः, तेषां
लक्षणं तदर्था इति । तदित्यनन्तरलक्षितानीन्द्रियाणि परामृशति, तेषामिन्द्रियाणा
मर्थाः । इन्द्रियैरर्यमाणत्वमर्थानां लक्षणम् । एतावतैव लक्षणे पर्यवसिते सुहृद्भावेन
प्रविभागाभिधानं पृथिव्यादिगुणा इति । पृथिव्यप्तेजांसि च गुणाश्च धर्माः
संख्याकर्मादयः । प्रविभागेऽप्येतावतावगते गन्धाद्यभिधानं सुहृद्भावेनेन्द्रिय
विषयनियमज्ञापनार्थम् । पृथिव्यादीनामिति भाष्यं न षष्ठीसमासज्ञापनार्थम्, अपि
त्वर्थाभिधानमात्रम् । यथाविनियोगमिति । यथाक्रमं पृथिव्यादिष्वनिलान्तेषु
गन्धादयः स्पर्शान्ताः चतुस्त्रिद्व्येकनियमेन विनियुक्ताः । शब्दश्चाकाश एवे
त्यर्थः । तदर्था इति लक्षणपदं व्याचष्टे—इन्द्रियाणामिति । येन क्रमेण घ्राणादय
इन्द्रियसूत्रे पठिताः, येन चेह गन्धादयः, तदनतिक्रमेणेत्यर्थः । अत्र वार्त्तिककारः
पृथिव्यादिगुणा इत्यत्रानेकसमासप्रतिभासनात् संशयं कृत्वा द्वन्द्वसमासम
वधारयति—पृथिव्यादिगुणा इति । षष्ठीसमासेनाभिन्नार्थत्वात् 865सप्तमीसमासस्ये
त्यसौ न दर्शितः । ननु कण्ठेकाल इतिवद् वैयधिकरण्येन बहुव्रीहिर्भविष्यति
पृथिव्यादीनां गुणा येभ्यो गन्धादिभ्यः, ते तथा । तथा हि परमाणुगता गन्धादयोऽवयविनि
गन्धाद्यारभन्ते, नभोगतश्च शब्दो नभसि समानजातीयं शब्दमित्यत आह—
चान्यथेति ।
ज्ञापकवशात् क्वचिद् व्यधिकरणानां बहुव्रीहिः । ज्ञापककृतं च न सर्वत्र ।
न च गन्धादीनां पृथिव्यादिगुणहेतुत्वप्रतिपादनं क्वचित् 866निर्वेदादावुपयुज्यत इति
188 भावः । अन्यसमासः कर्मधारयादिः । द्वन्द्वमवधारितमाक्षिपति—न द्वन्द्व इति ।
समाधत्ते—न, उभयस्यापीति । पृथिव्यादिग्रहणेनेति । यद्यादिशब्देन वाय्वादयो
गृह्येरन्, तदर्था इति लक्षणमव्यापकं स्यात्, तेषां बाह्येन्द्रियार्थत्वाभावादित्यर्थः ।
गुणग्रहणेन च सर्व इति आश्रितानाश्रितत्वाभिप्रायम्, गुणशब्दस्य धर्मवचनत्वात् ।
विशेषस्तु रेखोपरेखादिः न त्वन्त्यः, तस्यातीन्द्रियत्वात् । एतेषां च यथायोगं
मिथ्याज्ञानसम्यग्ज्ञानविषयाणां रागवैराग्यहेतुत्वमूहनीयम् । चोदयति—गन्धेति ।
परिहरति—न कर्तव्यं लघुसूत्रम् । गन्धादीनां पृथगभिधानं कर्तव्यमित्यर्थः ।
नियममाह—इन्द्रियाणीति । तत्रेत्यनियतेषु मध्ये पृथिव्यप्तेजांसि द्वीन्द्रियग्राह्याणि,
शेषश्च गुणराशिः
संख्यादिर्विशेषान्तो द्वीन्द्रियग्राह्य इत्यर्थः । तथा सर्वेन्द्रियग्राह्य
867इत्यर्थः ।


अत्र बौद्धमुत्थापयति—दर्शनस्पर्शनाभ्यामिति । तस्य पर्यनुयोगमाह—
इति । स्वसंवेदनेन वा मानसेन वा ज्ञानेन868 रूपाद्यालम्बनः प्रत्ययो रूपादिविशिष्टो
यथानुभूयते, एवं रूपाद्यतिरिक्तघटादिविशिष्टोऽनुभूयत इत्यर्थः । अत्र पर आह—
रूपादिभ्यस्तथा सन्निविष्टेभ्य इति । तथेत्याकारं निर्दिशति । सन्निवेशो व्यवस्थानम् ।
रूपादिपरमाणव एव तेन तेनाकारेण उत्पन्ना एकयोदकाहरणक्रियया व्यवच्छिन्ना
घट इत्युच्यन्ते । अनुरञ्जनादिकया तु रूपादिव्यपदेशः । यथाह घट इत्यपि च रूपादयं
एवैकार्थक्रियाकारिणस्तथा व्यपदिश्यन्ते इति । निराकरोति—न, आकारार्थेति ।
तथार्थस्य यथा पदार्थेन नित्याभिसंबन्धात् यथा घटः, तथा सन्निविष्टा रूपादय
इत्यर्थो गम्यते । तेन घटाकारेण घटसादृश्येनेत्ययमर्थः । तथा च दूषणमिति ।
दूषणान्तरमाह—रूपादिमात्रे चेति । न तावद् रूपादिक्षण एको घटः, क्षणान्तरे
तत्प्रयोगाभावप्रसङ्गात् । तस्माद् रूपादिमात्रमविवक्षितभेदम्869 तथा सत्येतद्
दूषणमित्यर्थः । शङ्कते—संस्थानभेदादिति । यथासंस्थाना 870रूपादयोऽर्था अनुभूयन्ते,
189 तथा सन्निविष्टेभ्यो घटादिप्रत्यया इत्यर्थः । निराकरोति—नैतदिति । अन्यत्वे
तदेवावयवीति संज्ञाभेदमात्रम् । अनन्यत्वे व्यर्थाभिधानम् । शङ्कते—घटादिप्रत्यया
इति । एकानेकविचारासहत्वाद् असन्त एव घटादयोऽनादिविकल्पवासनाजनित
विकल्पप्रत्ययप्रतिभासिनः871 । शब्दशब्देन विकल्पमुपलक्षयति—शब्दवासना
वशादिति ।
निराकरोति—तदयुक्तमिति । बीजं मिथ्याप्रत्ययस्य सम्यक्प्रत्यय
विषयोऽर्थः । तस्य क्वचिदभ्युपगमेऽभिमतार्थहानमित्यर्थः । यस्तु भिन्नलोकमर्या
दतया ब्रूते आदिमान् मिथ्याप्रत्ययः सम्यग्ज्ञानं निमित्तीकरोति । अयं पुनरनादिः
पूर्वपूर्वमिथ्याप्रत्ययजन्मा872 मिथ्याप्रत्ययप्रवाहः, कृतमत्र सम्यग्ज्ञानेनेति, तं प्रत्याह—
मिथ्याप्रत्ययाश्चैत इति । 873रूपाद्यव्यतिरेके अवयविन इत्यर्थः । 874परस्त्वव्यतिरेके
प्रमाणमाह—न नास्तीति । न हि मांसतोयातिरिक्तः कश्चिद्यूषो नाम । नापि
तृणराजतरुव्यतिरिक्ता पङ्क्तिर्नाम ।


दूषयति—नायं हेतुरिति । ये घटादिभावमापन्ना भवतां दर्शने इति ।
कामेऽष्टद्रव्यकोऽणुरशब्दः रूपधातुररूपाधातुः कामधातुरिति त्रैधातुकं जगत् ।
तत्र कामधातुस्वरूपमुक्तम् । कामे कामधातौ । अष्टद्रव्यकोऽणुः । रूपरसगन्धस्पर्शा
इति चत्वारि द्रव्याणि, पृथिव्यप्तेजोवायव इति चत्वारि । द्रव्यशब्दो वस्तुवचनः ।
875तेनाष्टद्रव्यकोऽणुरित्यागमः । सोऽयं रूपाद्यतिरिक्तपृथिव्याद्यनभ्युपगमे बाध्येत ।
अथ वैयात्यादुच्यते—पृथिव्यादीनामिति । ततश्च सांवृतत्वेनाष्टसंख्या
सिद्धेर्नागमविरोध876 इति भावः । उत्तरम्—तथापीति । मा भूवन् वस्तुतः, उभयेऽपि
सांवृता भविष्यन्तीत्यत आह—संहन्यमानस्येति । यो हि यत्तन्त्रः स तदभावमभ्युप
गम्याशक्याभ्युपगमः, न खलु संयुज्यमानानामभावे संयोगः शक्याभ्युपगम
इत्यर्थः । न च संवृतिः, सा हि पररूपं स्वरूपेण संवृणोति, संहन्यमानाभावे च न
संघातः, नापि संहन्यमाना इति किमनया स्वरूपेणाव्रियेतेति भावः ।


190

तदेवं तदग्रहे तद्बुद्ध्यभावादित्यस्य व्याघातदोषं दर्शयित्वा स्वसामर्थ्यालोचने
न विवक्षितलिङ्गाभिधायिता, किं त्वसंबद्धार्थता हेतुवचनस्येत्याह—तदग्रहे इति ।
एवं किलात्राभिमतम्, पृथिव्यादयो रूपादिभ्योऽभिन्ना, रूपाद्यग्रहे पृथिव्यादिबुद्ध्य
भावादिति । 877तन्न तदेतदग्रहे878 तद्बुद्ध्यभावादित्यनेन न शक्यं वक्तुम् । तदग्रह इत्यत्र
तच्छब्दः प्रधानपरामर्शी, पृथिव्यादयश्च धर्मितया प्रधानमिति परामर्ष्टव्याः879 । तथा
च पृथिव्याद्यग्रहे पृथिव्यादिबुद्ध्यभावादिति स्यात् । तथा च प्रतिज्ञातस्तेषां रूपाद्यभेदो
न सिध्येदित्यसंबद्धम् । अथ रूपादयः पक्षीक्रियन्ते, तथापि रूपाद्यग्रहे रूपादिबुद्ध्य
भावादिति स्यात् । तथापि न प्रतिज्ञातार्थसिद्धिरित्यसंबद्धार्थमित्यर्थः । एवं शब्दा
न्तरेणापि प्रतिज्ञाप्रयोगे तुल्यः प्रसङ्ग इत्याह—एवं रूपादिमात्रमिति । प्रतिज्ञादोष
माह—सर्वत्र चेति । नानात्वैकार्थसंबन्धनियताया बहुत्वसंख्याया अभेदैकार्थ
नियतैकत्वसंख्यया सामानाधिकरण्यविरोध इत्यर्थः । तदेतदनैकान्तिकमिति
चोदयति—नन्विति । निराकरोति—तन्न, अनभ्युपगमादिति । समानं धर्मसाधनम् ।
यमाः पञ्च । नियमाश्च पञ्च । ब्रह्मचारिगृहस्थवानप्रस्थयतीनामविशेषेणैव दश
धर्मसाधनम् । तेषां धर्मसाधनत्वमेकं चातुराश्रम्यमिति 880प्रकृतिगता विभक्तिराह ।
आश्रमप्रकृतिगता तु विभक्तिः प्रकृत्यर्थसमवेतामेव 881बहुत्वसंख्यामाह,
समानार्थानामपि प्रकृतीनां रूपभेदेन तत्परस्य प्रत्ययस्य सामर्थ्यभेदात् । यथाप्तोय
शब्दयोस्तुल्यार्थत्वेऽपि तोयशब्दात् परा विभक्तिस्तोयानीति तोयसमवेतामेव
बहुत्वसंख्यामाह । आप इति न तोयगताम्, अपि तु तत्संबद्धगताम् । तत्संबद्धाश्च
तदवयवाः, तद्गतरूपादयो वा बहव इत्येकस्यामपि पाथःकणिकायां बहुवचनोप
पत्तिराप इति । न च सोरस्ताडं क्रन्दतोऽपि 882लोकस्याविनिवृत्तेर्नैवमिति साम्प्रतम् ।
लोको हि दृष्टव्यवहारमात्रप्रयोजनो न विवेचयति, परीक्षकास्तु तदनुसारिणो
विवेचयन्त्येव । अन्यथा हि प्रत्यक्षादिलक्षणप्रणयनवैयर्थ्यप्रसङ्गः । एतेन दाराः
191 षण्णगरीत्यादयोऽपि व्याख्याताः । षाङ्गुण्यमिति883 षण्णां गुणानामेकं राजप्रयोजन
साधकत्वम् । वैशेषिकमित्यत्रापि विशेषाणां समानासमानजातीयव्यवच्छेद
कत्वमेकमुच्यते इति गमयितव्यम् । हेतुदोषमाह—असिद्धोऽपीति । स्फटिकस्य
धवलं रूपम् । तच्च नीलीद्रव्यानुषङ्गादभिभूतं न प्रतीयते । स्फटिकश्च प्रतीयते । न
च नीलस्य स्फटिकलक्षणस्योत्पत्तिरिति तृतीये निवेदयिष्यते884 । तस्मादसिद्धो
हेतुरित्यर्थः ।


दृष्टान्तश्च साध्यविकल इत्याह—योऽप्ययमिति । उत्पन्नपाकजानां तैले
सर्पिषि वा भृष्टमांसपिण्डावयवानाम्, द्रव्यान्तरेण तोयेन 885संपृक्तानां पाकजोत्पत्तौ
सत्याम् । न चासौ सहसेति 886अत उक्तम्—कालविशेषानुग्रहे सतीति । स च
संयोगभेद एव तोयमांसयोः, न त्ववयवी, विजातीययोरनारम्भकत्वात् । नापि
यूषजातीयं तोयसंयोगि द्रव्यं क्षीरजातीयमिवेति युक्तम् । तोयविरहे काठिन्येऽपि
क्षीरबुद्धिव्यपदेशयोस्तादवस्थ्यात् । इह तु काठिन्ये न यूषबुद्धिव्यपदेशाविति
887संयोगभेद एव तोयमांसयोर्यूष इति न्याय्यम् । स चानुभवसिद्धः संयोगि
व्यतिरिक्तः । एवं बहुत्वसंख्या संख्येयातिरिक्तानुभवसिद्धैवेति । एवं तत्र तत्र
व्याख्येयम् । अनाद्यन्तेषु अनारब्धावयविष्विति द्रष्टव्यम् । न च परकीयसाधन
दोषोद्भावनमात्रात् स्वपक्षसिद्धिरिति सिद्धान्तिनं साधनं पृच्छति—अथ रूपा
दिभ्योऽर्थान्तरे द्रव्ये किं प्रमाणमिति । यतोऽयं परो888 रूपादिभ्योऽर्थान्तरं द्रव्यं
प्रत्यक्षेण विद्वानपि स्वसिद्धान्ताभ्यासाहितव्यामोहापस्मारो न तथा व्यवहरति,
अतोऽनेनानुमानेन स व्यवहार्यते । अस्ति हि सर्वेषामेव लौकिकपरीक्षकाणां
ब्राह्मणस्य कमण्डलुरितिवत् चन्दनस्य रूपादय इति व्यपदेशः । तत्र च परो रूपा
द्युपलम्भमभ्युगपच्छति चन्दनोपलम्भमपि । अन्यथा तद्बुद्ध्यभावादित्येतावन्मात्रे
वक्तव्ये कथमाह तदग्रह इति ? 889तेनावगच्छामो रूपादिग्रहेऽस्य चन्दनबुद्धिः
192 अभिमतेति । न चासौ मनोमात्रयोनिः स्मार्तीति न्याय्यम् । उपपादितमेतस्याः 890सवि
कल्पिकाया इन्द्रियजन्यत्वं व्यवसायात्मकपदव्याख्यानावसरे891 । द्रव्यबाधकप्रमाणानि
च परीक्षापर्वणि निराकरिष्यन्ते । तस्मात् सिद्धमुपलभ्यत्वं चन्दनस्य892 । सोऽयं
चन्दनो विवादगोचरेभ्यो रूपादिभ्यो भिन्नः, स्वयमुपलभ्यस्य च समस्तैरुप
लभ्यैर्व्यपदिश्यमानत्वात् । प्रधानमपि सांख्यैर्व्यपदिश्यते, प्रधानस्य रूपादय इति ।
तन्निवृत्त्यर्थम् उपलभ्यस्येति । प्रधानं तु काल्पनिकं नोपलभ्यम्, तथापि रूपादीनां
मूलकारणं प्रधानमित्यस्ति सांख्यानां व्यपदेशः । अत उक्तम्—उपलभ्यैरिति ।
तथापि रूपादीनां परस्परभिन्नानामन्योन्यं व्यपदेश्यव्यपदेशकभाव उपपत्स्यत
इत्युक्तम्—समस्तैरिति । अतः समस्तेभ्यो व्यपदेशकेभ्यश्चन्दनं भिन्नं भवति ।
उपलभ्यस्योपलभ्येनेति वक्तव्ये प्रत्यक्षस्य प्रत्यक्षेणेति वचनं रूपावगम
समयेऽनुमेयेभ्यो रसादिभ्य एकान्ततो व्यपदेशं व्यावर्तयितुम्, न त्वस्यानुमान
उपयोग इति । अस्यानैकान्तिकत्वमुद्भाव्य निराकरोति—सेनावनादिभिरिति ।
संख्यायामसत्त्वमाशङ्क्य निराकरोति—तदसत्त्वमिति चेदिति । विधीयमानं
प्रतिषिध्यमानमिति
यथासंख्यं निषेधस्य विध्यधीननिरूपणतया निषेध्यमे
कत्वमङ्गीकार्यम्, तच्च संख्येत्यर्थः । ननु सन्त्वमी प्रत्ययाः, ते तु द्रव्यमात्रनिबन्धना893
भविष्यन्ति, कृतं संख्ययेत्यत आह—विशिष्टाश्चेति । न द्रव्यातिरिक्तनिमित्त
प्रत्याख्यानेन
इत्यर्थः । प्रयोगान्तरमाह—तत्प्रत्ययविषयनिमित्तप्रत्यय
व्यतिरेकेणेति ।
घटप्रत्ययस्य विषयश्च, निमित्तं च, घटप्रत्ययश्च तद्व्यतिरेकेणेति,
तद्विशिष्टसंख्यादिप्रत्ययस्य निमित्तान्तराकाङ्क्षित्वात् । 894तत् किमर्थमत
उक्तम्—उत्पत्ताविति ।
चर्मणि द्वीपिनं हन्ति
इतिवद् घटादिविषयनिमित्तव्यतिरेकभाज इत्यत्रापि प्रत्ययग्रहणं कर्तव्यम् ।
193 चोदयति—महत्पुष्पितेति । न संख्याया गुणस्य 895परिमाणपुष्पयोगसंभव इत्यर्थः ।
परिहरति—नैष दोष इति । स्थानशब्देन तिष्ठतीति व्युत्पत्त्या संख्योच्यते । सा
येषामस्ति ते गजवाजिपदातिप्रभृतयः स्थानिनः प्रत्येकं महान्तः । तत्र ते क्वचिच्छत
मेव, क्वचित् पुनस्तज्जातीयस्थान्यङ्गान्तरसन्निधाने सत्युपचिताः सहस्रं भवन्ति । तेन
बहुत्वसंख्योपचयोपकरणा तदेकार्थसमवेतमहत्त्वोपचारात् महती सेनेत्युच्यते । न
चैतावता यत्र शतं गजादयः यत्र च सहस्रं तयोः सेनयोर्महत्त्वाविशेषः, 896उपचया
पचयोपकरणत्वेन विशेषितत्वात् । एवं पुष्पितवनादयोऽपि897 द्रष्टव्याः । प्रत्ययभेदाद्
द्रव्यादिभ्यः संख्याया भेदमुक्त्वा व्यपदेशभेदादप्याह—अत एवेति ।


स्थाणुशब्देनापीति । मूर्तानां समानदेशत्वाभावात् न पर्वसु खदिरश्च स्थाणुश्च
समवेतौ । न चावस्थितसंयोगेभ्यस्तरुविनाशापेक्षेभ्यः स्थाणोरुत्पत्तिरिति युक्तम् ।
यस्य द्रव्यस्य 898यावान् संयोगप्रचयोऽसमवायिकारणं स तावानुत्पन्नमात्र एव
तज्जनकः, 899तस्य क्षेपायोगात् । तस्मात् पर्वणां संस्थानविशेष एव स्थाणुरिति
गमयितव्यम् । अथावस्थितसंयोगानां द्रव्यविनाशापेक्षाणां जनकत्वम्, ततः
संयोगप्रचयपदेन स्थाणुत्वसामान्यविशेषवद् द्रव्यमुपलक्षणीयम् । तच्च खदिरतरो
र्भिन्नमिति । प्रतिमाया महारजतमय्या अवयविन्याः शरीरं संस्थानमेव, एवं
शिलापुत्रकस्य अवयविनः संस्थानमेव शरीरम् । शङ्कते—गुणसमुदायेति ।
अतादात्म्येनाग्रहणं व्यतिरेकेणाग्रहणम् पृथक्शब्दोऽप्यतादात्म्यमेव ब्रूते । दूषयति—
अग्रहणस्येति । सतामपि वस्तूनामनुपलम्भो यथा 900मूलकीलोदकादीनां प्रमाणाभावेन,
शशविषाणादीनां चानुपलम्भो ग्राह्याभावेन । तस्माद् व्यतिरेकाग्रहणमात्रं हेतु
रनेकान्त इति । शङ्कते—ग्राह्याभावादिति चेत्, ग्राह्याभावे सत्यग्रहणादिति हेतुः,
न त्वग्रहणमात्रमित्यर्थः । दूषयति—प्रतिज्ञार्थेनेति प्रतिज्ञातस्यासत्त्वेन901 तद्विशिष्टो
हेतुरसिद्ध इत्यर्थः । शङ्कते—ग्रहणेति । ग्रहणं प्रमाणम् । निराकरोति—न
194 902प्रमाणाभावमात्राद् व्यतिरेकप्रतिषेधः, यस्तु योग्यप्रमाणाभाववदिति विशेषयेत्903
तं प्रत्याह—यश्च तदग्रह इति । असिद्धता हेतोर्दोषः । दर्शनस्पर्शनाभ्यामेकार्थ
प्रतिसन्धानमेव रूपादिव्यतिरिक्तद्रव्यग्रहणम् । 904अतो गुणसमुदायव्यतिरे
केणाग्रहणादित्यसिद्धो905 हेतुरिति । एकत्र अन्यत्वे । प्रमाणानामुपपत्तेः । एकत्र
अनन्यत्वे चानुपपत्तेरिति । प्रकृतमुपसंहरति—तस्मादिति ॥ १४ ॥


बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् ॥ १ । १ । १५ ॥


आत्मादीनां बुद्धिहेतूनां लक्षणस्यानन्तरं हेतुमती बुद्धिर्लक्षणीयेत्याह
वार्त्तिककारः—अथ बुद्धेरवसरप्राप्ताया इति । लक्षणं तावत् प्रकृतत्वादपदेष्टव्य
मेव, तदपदेशद्वारेणान्यदपि किञ्चित् सूचनीयम् । अत एवोक्तम्—सूत्रमिति ।
अन्यच्च सांख्यमतनिराकरणम् । यथोक्तं भाष्यकारेण अचेतनस्य करणस्य
बुद्धेरिति । इव
कारेण नेदं प्रत्याख्यानपरम्, अपि तु लक्षणपरादयमप्यर्थः
प्रतीयमानोऽपेक्षितश्च नोपेक्षणीय इत्युक्तं भवति ।


बुद्धि—रम् ॥ सूत्रतात्पर्यमाह—एतैरिति । पृच्छति—कथमिति । समाना
समानजातीयव्यवच्छेदकं हि लक्षणमव्यभिचारितया । पयार्यशब्दाश्च संकेतमात्रा
धीनप्रवृत्तयः क्व नाम न संभवन्ति ? तस्मात् नैते लक्षणमिति भावः । उत्तरम्—
व्यवच्छेदेति । ननु व्यभिचारसंभवेन व्यवच्छेदकत्वमयुक्तमित्यत आह—एतैश्चेति ।
संकेतो हि द्वेधा, 906सर्वजनीनो यथा गौरिति गोजातीयस्य वाचकः, प्रादेशिकश्च यथा
चैत्र इति पुरुषभेदस्य । तत्र 907सर्वजनीनः शक्नोति व्यवच्छेदबुद्धिं भावयितुम्
तद्विवक्षयैवोक्तम्—एतैश्चेति । उपपत्तिसामर्थ्यादिति भाष्यावयवं व्याचष्टे—
पर्यायेति । अचेतनस्येत्यादि भाष्यम् । तद् व्याचष्टे—य आहुर्बुद्धेरिति ।
195 बुद्धिः किल त्रैगुण्यविकारः । त्रैगुण्यं चाचेतनमित्यचेतनं908 केवलमिन्द्रियप्रणालि
कया अर्थाकारेण परिणमते । चितिशक्तिश्चापरिणामिनी नित्यचैतन्यस्वभावा ।
तस्याः सन्निधानादयस्कान्तमणिकल्पा बुद्धिस्तत्प्रतिबिम्बोद्ग्राहितया चैतन्यरूप
तामापन्नेवार्थाकारपरिणतार्थं चेतयते । तेन योऽसौ नीलाकारः परिणामो बुद्धेः, स
ज्ञानलक्षणा वृत्तिरित्युच्यते । आत्मप्रतिबिम्बस्य तु बुद्धिसंक्रान्तस्य यो
बुद्ध्याकारनीलसंबन्धः, स आत्मनो व्यापार 909इवार्थोपलब्धिरात्मनो वृत्तिरित्या
ख्यायते । तदिदं बुद्धितत्त्वं जडप्रकृतितया 910इन्दुमण्डलमिव स्वयमप्रकाशं चैतन्य
मार्तण्डमण्डलच्छायापत्त्या प्रकाशते, प्रकाशयति चार्थानिति । तन्निराकरणाय पर्यायो
पन्यासः । नात्मवृत्तेरुपलब्धेरन्यास्ति बुद्धिः । नापि बुद्धिवृत्तिर्ज्ञानमन्यदिति ।
अयमभिसन्धिः । न तावद् बुद्धेरात्मच्छायापत्तिरिन्दाविव 911मार्तण्डमण्डलतेजः
संक्रान्तिः पारमार्थिकी, चितेरपरिणामितया संक्रमायोगात् । तस्माद् भ्रान्तिः । सा च
न तावद् बुद्धेः, तस्या अचैतन्यात् । नाप्यात्मनः, तस्यावृत्तिकत्वात् तथात्वे वा
परिणामापत्तेः । तस्मात् कृपणधनमिवात्मचैतन्यं न स्वपरोपकारीति बुद्धेः स्वाभाविकं
चैतन्यमास्थेयम् । तथा च उभयचैतन्ये दूषणमुक्तम्912 । प्रत्ययव्यवस्थया
यदेककर्तृत्वानुमानं तन्न स्यादित्यर्थः । अथ द्वयोश्चेतनयोरेका वृत्तिर्भेदाग्रहो वा,
तेनैककर्तृकत्वाभिमान इत्यत आह—बुद्धिवृत्त्यविशिष्टायामिति । बुद्धि
र्ज्ञानसाधनमिति ।
बुध्यतेऽनेनेति व्युत्पत्त्या मन उच्यते । गन्धादिविषयतया सुख
दुःखविषयतया चेयं बुद्धिर्भाव्यमाना निर्वेदाय कल्पत इति ॥ १५ ॥


युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ १ । १ । १६ ॥


भाष्यकारः क्रमप्राप्तं मनोलक्षणसूत्रमवतारयन् उत्सूत्रमन्यान्यपि लक्षणानि
आह—स्मृतीत्यादि । सुखादिप्रत्यक्षमित्यादिशब्देन विषयतयेच्छादयः संगृहीता ।
इच्छादय इत्यत्रादिशब्देन कार्यतया सुखादयः संगृहीताः ।


196

युग—ङ्गम् ॥ अनिन्द्रियनिमित्ता अबाह्येन्द्रियनिमित्ता इत्यर्थः । स्मृतीत्यादि
भाष्यस्य वार्त्तिककारः तात्पर्यमाह—स्मृतीति । अनिन्द्रियेत्यादिभाष्यं व्याचष्टे—
यस्मादिति । 913इन्द्रियगतरूपादिनिवृत्त्यर्थमुक्तम् इन्द्रियसंयोगीति । तथापि
आकाशादीनामपि मनस्त्वं मा भूदित्यत उक्तम्—सहकारीति । तथाप्यालोकस्य मा
भूदित्यत उक्तम्—निमित्तान्तरमिति । तथाप्यात्मनो मा भूदित्यत उक्तम्—
अव्यापीति ।


आक्षिप्य भाष्यं समाधत्ते—कथं पुनरिति । चक्षुरादिभ्योऽनुत्पतौ सत्यां
क्रियात्वात् । अत्र च य आत्मनो विशेषगुणास्ते सर्वे इन्द्रियजन्मानो यथा गन्धादि
प्रत्ययाः, तथा च विवादाध्यासिताः स्मृत्यादयः । तस्मात् तेऽपीन्द्रियजन्मानः । एवं
च संस्कारादिषु न करणत्वप्रसङ्ग इति । सौत्रं हेतुमाक्षिप्य समाधत्ते—अथायुग
पदिति । सम्बन्धिभेदादिति ।
यदा तस्यैव मनःसंयुक्तस्येन्द्रियस्य क्रमेण नीला
दयोऽर्थाः सम्बध्यन्ते तदा तत्क्रमात् क्रम इत्यर्थः । बुभुत्साक्रमं गृहीत्वा सिद्धान्तेऽपि
मनःपरित्यागो मा 914भूदिति भिया उक्तम्—सत्यां बुभुत्सायामयुगपद्ग्रहण इति ।
न हि किञ्चित्करणं सम्बद्धमपि सदिति स्यात् । यद्येवं धारावाहिकज्ञानोत्पत्तिर्न
स्यात्, द्वितीयादिज्ञानेष्वपि सैव सामग्रीति सकृदेव यावत् कर्तव्यकरणात् समर्थस्य
क्षेपायोगात् । क्षेपयोगे वा पश्चादपि न जनयेत्, अविशेषात् । न च कर्तुरप्ययं
क्रमकारिताधर्मः स ह्यनेककरणाधिष्ठानेन युगपन्नानाकार्याणि करोति । 915यथा
युगपन्माणवको गच्छति, पठति, 916पन्थानं वीक्षते, वहति चाचार्यस्य कमण्डलुमिति ।
तस्मात् सर्वमवदातम् । तदिदमपि मनः स्मृत्यादिसाधनतया भाव्यमानं निर्वेदाय
कल्पत इति सिद्धम् ॥ १६ ॥


197

प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ॥ १ । १ । १७ ॥


क्रमप्राप्ता त्विति भाष्यम् । प्रवृत्तिलक्षणमवतारयितुं मनसोऽपि प्रवृत्ति
र्दर्शनीया । न चाप्रतिपादिते मनसि शक्या दर्शयितुमिति मनसोऽनन्तरत्वं प्रवृतेः
इत्यर्थः ।


प्रवृ—म्भः । आरम्भः प्रवृत्तिः । सा द्विविधा ज्ञानहेतुः क्रियाहेतुश्च । तत्र
या ज्ञानोत्पादद्वारेण पुण्यपापहेतुः सा वाक्प्रवृत्तिः । वागिति च ज्ञापकहेतूपलक्षणम् ।
तेन मनसा इष्टदेवताद्यनुचिन्तनं चक्षुरादिभिश्च917 साध्वसाधुदर्शनादिसूचितं भवति ।
क्रियाहेतुर्द्वयी, कायनिमित्ता मनोनिमित्ता चेति । तदेतद् वार्त्तिककारो विभजते—
शरीरेणेति । ननु प्रवृत्तेर्जन्महेतुत्वमुक्तं द्वितीयसूत्रे । न चेयं क्षणिका सती आमुष्मिकं
जन्म साधयितुमर्हति । तस्माद् द्वितीयसूत्रव्याघात इति चोदयति—क्षणिकत्वादिति ।
परिहरति—नेति ॥ १७ ॥


प्रवर्त्तनालक्षणा दोषाः ॥ १ । १ । १८ ॥


प्रयोज्यव्यापारपूर्वकत्वेन प्रयोजनकव्यापारनिरूपणात् प्रवृत्त्यनन्तरं दोष
लक्षणम् ।


प्रव—षाः ॥ रागद्वेषौ मोहप्रभवौ पुरुषं प्रवर्तमानं प्रवर्तयतः । तयोर्धर्मः प्रवर्तना ।
सा च मोहैकार्थसमवायः । तावद्धि अयं रागादिवशः स्पन्दते, यावदस्य मोहो वर्तते
इति । प्रत्यात्मवेदनीया इत्यादि चोद्यभाष्यम् । तस्यार्थः । लक्षणं खल्वनुमानम् ।
न च प्रत्यात्मवेदनीयेषु समानासमानजातीयव्यावृत्तेषु स्फुटतरेषु तद् युक्तमिति
भावः । परिहारभाष्यम्—कर्मलक्षणा इत्यादि918 । तस्यार्थः । स्वरूपतः स्फुटत्वेऽपि
न निर्वेदविषयतया स्फुटता । तथा चेह प्रयोजनम् । प्रवर्तनावत्त्वेन चैते निर्वेद
198 विषयाः । सा च प्रवृत्त्या कार्येण लक्ष्यत इति कर्मलक्षणा इत्युक्तम् । यतः कर्मणा
प्रवृत्त्या प्रवर्तकरागादियुक्ताः पुरुषा लक्ष्यन्ते, अतो रागादीनां प्रवर्तनावत्त्वमपि
लक्षितं भवति । बहु नोक्तं भवतीति । स्वरूपमात्रं रागादीनामुक्तं भवति, न तु
919प्रवर्तनात्वमपि तेषामित्यर्थः । तदेतत् सर्वं वार्त्तिककारः प्रश्नपूर्वकं व्याचष्टे—का
पुनरिति । अवशो
ऽस्वतन्त्रः । सा पुनरियं प्रवर्तना प्रवर्तकानां दोषाणां व्यापारः
कथं गम्यते ? दोषा हि गम्यन्ते, न तु तेषां प्रवृत्तिहेतुत्वमपीत्यर्थः । उत्तरम्—प्रत्यात्म
मिति ।
स्वपरात्मनोर्यथासंख्यं प्रत्यक्षानुमानाभ्याम् । मोहैकार्थसमवायो हि रागादीनां
मानसप्रत्यक्षवेदनीय इत्यर्थः ॥ १८ ॥


पुनरुत्पत्तिः प्रेत्यभावः ॥ १ । १ । १९ ॥


उद्देशक्रमप्राप्तं प्रेत्यभावं लक्षयति—पुनः—वः ॥


सत्त्वनिकायः प्राणिनिकायः । नन्वात्मनो नोत्पत्तिः संभवति नित्यत्वादित्यत
आह भाष्यकारः—उत्पन्नस्य संबद्धस्येति । तदेतद् वार्त्तिककारो व्याचष्टे—
पूर्वेति । पुनर्ग्रहणमिति । पुनरित्यभ्यासमाह । तथा चानादिता सूचिता भवति । तदेतद्
वार्त्तिकजातं द्वितीयसूत्रे920 कृतव्याख्यानम् । पूर्वाभ्यस्तसूत्रे चायमर्थ उपपादयिष्यते921
आजरञ्जरीभाव इत्यागमभाषया अस्यार्थस्यागमिकत्वं सूचयति । क्रियामित्युप
सर्पणमपसर्पणं चेत्यर्थः ॥ १९ ॥


प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ १ । १ । २० ॥


यद्यपि 922शरीरेन्द्रियबुद्धिसुखदुःखोपभोगातिरिक्तं गौणमुख्यफलं भिन्नं नास्ति
199 ते च यथायोगं पूर्वं लक्षिताः, 923तेनापि च रूपेण ते निर्वेदोपयोगिनः, तथापि प्रवृत्ति
दोषजनितत्वेनापि रूपेणामी निर्वेदोपयोगिन इति तेन रूपेण लक्ष्यन्ते ।


प्रवृ—लम् ॥ अत्र च प्रवृत्तिजनित इति वक्तव्ये दोषग्रहणं न केवलं प्रवृत्तिं
प्रति दोषाणां हेतुभावः, अपि तु प्रवृत्तिकार्ये सुखदुःखे अपि प्रति इति दर्शनार्थम् ।
दोषसलिलावसिक्तायां खल्वात्मभूमौ धर्माधर्मबीजे सुखदुःखे जनयतः, नान्यथा ।
न चास्ति संभवो न तत्र 924तृष्यति तच्च तस्य सुखम् न च तद् द्वेष्टि तच्च तस्य
दुःखमिति । सूत्रे अर्थग्रहणं गौणमुखफलावरोधार्थम् । भाष्येनिष्ठा समाप्तिः । सा
925महाप्रलयेऽप्यस्तीत्यत उक्तम्—पर्यवसानमिति । अवसानमात्रमस्ति, न तु926
परितः पुनरपि सर्गहानोपादानयोर्भावादित्यर्थः । सुबोधं वार्त्तिकम् ॥ २० ॥


बाधनालक्षणं दुःखम् ॥ १ । १ । २१ ॥


नानुक्ते शरीरादौ तेषां दुःखत्वं शक्यं लक्षयितुमिति तल्लक्षणेभ्यः परमिदं
दुःखलक्षणम्—


बाध—खम् ॥ अत्र च बाधनेति बाधनाविषयां बुद्धिमुपलक्षयति927 । तेन बाधना
च तदनुषङ्गिणश्च शरीरादयो गौणमुख्यभावेन लक्षिता भवन्ति । सैव हि बाधना
बुद्धिर्दुःखे मुख्या, शरीरादौ गौणीति । अलमेभिरिति प्रत्ययो निर्वेदः, वशितया
योगिनः स्वयमुपलभन्ते928 स्वयमुपनीतेष्वपि929 विषयेषु औदासीन्यमुपेक्षाबुद्धिर्वैराग्यम् ।
लक्षणशब्द इति वार्त्तिकम् । अनुषङ्गश्च संबन्धः । स च बाधनायां विषयविषयिभावः
शरीरादिषूक्तः । केचिद् विरक्तंमन्या मन्यन्ते न 930सुखं नामास्ति स्वरूपत इति ।
तान्निराचिकीर्षुराह—स्वरूपतस्तु दुःखमिति । विकल्पो विशेषः । अभाव
फलत्वप्रसङ्गात्
इति । यद्यपि उपात्तदुरितक्षयहे तवोऽपि धर्माः सन्ति,
200 931तथाप्यधिकाधिकोत्कर्षफलानां दर्शपौर्णमासादीनां सहस्रसंवत्सरपर्यन्तानां विधाय
केभ्यो वचनेभ्यो भावफल एव धर्मो गम्यते भावस्यैवोत्कर्षशालित्वादिति ॥ २१ ॥


तदत्यन्तविमोक्षोऽपवर्गः ॥ १ । १ । २२ ॥


क्रमप्राप्तमपवर्गलक्षणमवतारयति भाष्यकारः—यत्र त्विति ।


तद—र्गः ॥ तदित्यनन्तरं गौणमुख्यभेदभिन्नं दुःखं परामृशतीत्याह भाष्य
कारः—तेन दुःखेनेति ।
मुख्यमेव दुःखमिति भ्रमो मा भूदत 932आह—जन्मनेति ।
अनेन जायमाना दुःखशब्देन सर्वे शरीरादय उच्यन्ते इत्युक्तं भवति । अभयमिति
पुनः संसारभयाभावमाह
अभयं वै933 ब्रह्म
इत्यसकृदभयश्रुतेः । ये तु ब्रह्मैव नामरूपप्रपञ्चात्मना परिणमत इत्याहुः, तान्
प्रत्याह—अजरमिति । सर्वात्मना वा परिणाम एकदेशेन वा । पूर्वस्मिन् कल्पे
सर्वात्मना ब्रह्मणोऽन्यथात्वाद् विनाशप्रसङ्गः । एकदेशपरिणामे तु सावयवत्वेन
घटादिवदनित्यत्वप्रसङ्गः इत सूक्तम्—अजरमिति । वैनाशिकाः प्राहुः

प्रदीपस्येव निर्वाणं विमोक्षस्तस्य चेतसः ।

इति । तान् प्रत्याह—अमृत्युपदमिति । एतदुपपादयिष्यत्यग्रे934 वार्त्तिककारः । तदेतद्
भाष्यं वार्त्तिकारो व्याचष्टे—तेनेति । आत्यन्तिकग्रहणं महाप्रलयावस्थानिवृत्त्यर्थम् ।


अत्र भाष्यं नित्यं सुखमात्मन इत्यादि । अस्यार्थः
विज्ञानमानन्दं ब्रह्म
इति सामानाधिकरण्यश्रुतेः ब्रह्मस्वभावं सुखम्, तथा च ब्रह्मणो नित्यत्वात् तदपि
नित्यमित्यर्थः । आत्मन इति च षष्ठी राहोः शिर इतिवत् मन्तव्या । तदेतद् भाष्यं
व्याचष्टे—आत्यन्तिकीति । तेषामित्यादि भाष्यं व्याचष्टे—तन्नेति । अत्रानुमानमुप
201 न्यस्यातिप्रसङ्गेन निराकरोति—935न, नेति । अथात्मनि दुःखादिकं936 नित्यं नेच्छति
तत्राह—अनैकान्तिकता वा । नित्यस्याभिव्यक्तिरित्यादि भाष्यार्थमाह937नित्य
मिति ।
अयमभिसन्धिः । सुखं तावदात्मनो गुणो नात्मा । उपपादितो हि गुणगुणिनो
र्भेदः938 । एवं विज्ञानमप्यात्मगुणः, न ह्मुदयव्ययवर्तीभ्यो विज्ञानव्यक्तिभ्योऽनु
दयव्ययधर्मा भवितुमर्हत्यभिन्न आत्मा । न चात्मैव विज्ञानस्वभावः तत्तद्विषयोप
धानेनोदयव्ययधर्मेव भवतीति939 सांप्रतम् । घटमहं जानामीति मानस्यां बुद्धौ
त्रयाणामपि ज्ञानज्ञेयज्ञातॄणां भेदेनानुव्यवसायात् । विषयतज्ज्ञानभेदेऽपि च ज्ञातुरेकस्य940
प्रतिसन्धीयमानत्वात् । न चैतद बाधके भेदज्ञानं भ्रान्तमिति युक्तम् । न चागन्तुक
ज्ञानातिरिक्तं स्वाभाविकम् आत्मनि चैतन्यमनुभूयते । न चात्मैव तत्स्वभावः,
सुषुप्तत्वानुपपत्तेः, अचेतयन्नेव हि सुषुप्त इत्युच्यते । न च तदा विषयशून्यं
स्वनिष्ठमात्मचैतन्यमिति युक्तम्941 । तदवस्थाभेदस्य सुषुप्तोत्थितेन स्वप्नान्तिकस्येव
स्मरणप्रसङ्गात् । सुखं च न ज्ञानजातीयमित्युपपादितं प्रत्यक्षसूत्रे । न च किञ्चिदपि
स्वयंप्रकाशमस्तीति चतुर्थे विज्ञानवादं निराकुर्वन् वक्ष्यति942


तदेवं व्यवस्थिते दूषणं भाष्यवार्त्तिकोक्तं द्रष्टव्यं यथायमात्मनःसंयोग
इति । संसारावस्थायां तावदयमात्ममनःसंयोगो धर्मं निमित्तमपेक्षमाणः सुखज्ञानमका
र्षीत् । यदि तु मुक्त्यवस्थायां तदनपेक्ष एव सुखज्ञानं करोति, हन्त रूपादिज्ञानेषु
इन्द्रियान्तराण्यपि नापेक्षेतेति भावः । शङ्कते—योगजेति । न वयं विषयमात्रापेक्षां
ब्रूमो येन रूपादिष्वपि ज्ञानमुत्पादयेत् अपि तु संसारावस्थायां यत् सुखज्ञानायानेना
पेक्षितं तदपेक्षते । धर्मश्च तदा तेनापेक्षित इति मुक्त्यवस्थायामपि धर्ममेवापेक्षते ।
एतावान् विशेषो यदयं योगज इति । तथा च न रूपादिविज्ञानप्रसङ्ग इति । शङ्कते—
नित्योऽसाविति । निराकरोति—योगेति । ननु त्वन्मते यथा सुखसंवेदनं जिहासितम्,
एवमस्मन्मतेऽपि सुखसंवेदनहानाय घटिष्यत इत्यत आह—न चायं सुखमिति ।
202 अस्मन्मते हि दुःखहानायैव तदनुषक्तं सुखं जिहासितम् । नित्यं तु सुखं सर्वदुः
खविनिर्मुक्तं सन्न दुःखहानाय जिहासितं संभवति इत्यर्थः । न केवलमानुकूल्यात्
प्रतिबन्धकत्वं नास्ति शरीरादीनाम्, प्रत्युत मुक्त्यवस्थायामपि कल्पनीया इत्याह—
943नित्यं944शरीरादि इति । सिद्धान्तिनो वचनमनुभाष्य देशयति—प्रमाणाभावादित्युक्तं
तच्च नेति ।
शास्त्रेण हि मोक्षसाधने लोकः प्रवर्तनीयः । अप्रवर्तमानश्च प्रवर्त
नीयः । इष्टार्थी च प्रवर्तते तत्साधने । सुखं चेष्टम् । सुखात्मको मोक्ष इत्यर्थः । सेयं
लोकप्रवृत्तिरनैकान्तिकत्वेन संशयहेतुरिति परिहरति—न, प्रवृत्तीति । स्यादेतत् ।
मुख्यासंभवे गौणमाश्रीयते । सुखशब्दश्च सुखे मुख्यः । भाक्तस्तु दुःखनिवृत्तौ ।
तस्मात् नित्यानन्द एव मोक्ष इत्यत आह—यदिपुनरिति । संचक्षाणकः संख्यानप्रवृत्तो
योगी । धर्माधर्मौ तावदात्मनि पारमार्थिकौ, न त्वविद्याकल्पितौ । तौ च वीतरागेणा
सक्तेन सता शक्यौ भोगेन क्षेतुम्, न तु945 सक्तेन । स हि सक्तस्तेषु तेषु विषयेषु
उपात्तमुपात्तं भुञ्जानः त्यक्तं त्यक्तं चोपाददानः संसारात् न मुच्येत । तस्मादयं रागो
बन्धनमिति समाज्ञातः । तन्निबन्धना च प्रवृत्तिः परिहर्तव्या । अन्यथा तु नित्य
सुखावधारणलालितेयं946 तृष्णापिशाची लब्धप्रसरा विषयसुखेष्वपि प्रत्यासन्नेषु
पुरुषं प्रवर्तयन्ती मोक्षमस्य सुदूरं प्रतिक्षिपेदिति मनागपि प्रसरोऽस्या न दातव्यः ।
तस्मात् नित्यानन्दप्रतिपादकश्रुतिरात्यन्तिके दुःखवियोगे भाक्तीति युक्तमिति
भावः । चोदयति—यद्यपीति । रागवद् द्वेषस्यापि प्रसरो न दातव्यः । तस्य च त्वया
प्रसरो दत्त इति तुल्यो दोष इति । परिहरति—न, अप्रतिकूलत्वात् । यथा नित्य
सुखोपादानं मोक्षमप्रतिकूलया सक्त्या 947सप्रतिकूलं नैवमात्यन्तिकदुःखहानं
948दुःखद्वेषानुषक्तम् । द्वेषः क्रोधो मन्युरित्यनर्थान्तरम् । ज्वलनात्मको हि स भवति ।
नैवं वैराग्यम् । अलं प्रत्ययो हि स इत्यप्रतिकूलं दुःखहानमित्यर्थः । तदनेन नित्यं
सुखमात्मनो मोक्षेऽभिव्यज्यते
इत्यादि तस्मिन् प्रहीणे नास्य नित्यसुखरागः
203 प्रतिकूलो भवती
त्येवमन्तं भाष्यजातं व्याख्यातं वेदितव्यम्949यद्येवमित्या
देर्भाष्यस्यायमर्थः । एवं वैराग्येण मोक्षमाणस्य प्रवृत्तौ सत्याम् 950मुक्तस्य यदि नित्यं
सुखं भवति
कामं भवतु मा वा भूत्, उभयोरपि पक्षयोः वीतरागस्य प्रवृत्तौ
मोक्षाधिगमो
विकल्प्यते, न सन्दिग्धो भवतीत्यर्थः ।


वैनाशिकानां मोक्षमुपन्यस्यति—चित्तं विमुच्यत इति । संसारी हि मुच्यते ।
रागादयस्तद्धेतवः । न चात्मनि नित्ये रागादयः संसारं कर्तुमुत्सहन्ते, नित्यस्या
विकार्यत्वेन तादवस्थ्यादुपनेयापनेयाभावात् । यथाहुः,

वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ।

चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः ॥

इति । चित्तं तु कार्यं रागादिवशात् संसारी, तद्वियोगाच्च मुच्यते इति युक्त
मित्यर्थः । देवमनुष्यादिजातिः गतिस्तत्रोत्पत्तिः । तदेतद् दूषयति—न, अयत्नत इति ।
क्षणिकत्वात् चित्तस्य, जन्म विनाशप्रयोजनमेव । जन्मान्तरं हि951 विनाश इति
क्षणस्याभेद्यत्वेनोपनेयापनेयाभावात् । स्वरसभङ्गित्वाच्च वैयर्थ्यमित्यर्थः । शङ्कते—
सन्ततेरिति । अनादिः खलु कार्यकारणप्रवाहरूपा बुद्धीनां सन्ततिः । सा चात्म
साक्षात्कारोन्मूलितसवासनक्लेशजालस्य निवर्तते । निवृत्तिश्चेयमेव तस्या यत्
तत्सन्तानवर्तिनश्चेतसोऽनागतस्यानुत्पाद इति भावः । निराकरोति—न, तस्या
शक्यत्वात् ।
उत्पन्नस्यानुत्पादो न शक्यः, नापि सन्ताननिवृत्तिः शक्या कर्तुम्,
अन्त्यक्षणानुपपत्तेः । स हि अन्त्यः क्षणः किञ्चिदारभते न वा ? आरम्भे नान्त्य इति
न कार्यकारणप्रवाहनिवृत्तिः । प्रवाहश्च सन्तान इति न सन्ताननिवृत्तिः । अनारम्भे
तस्यासामर्थ्येनासत्त्वम् । ततः952 पूर्वे सर्वेऽपि953 क्षणा असन्तः स्युरिति कस्योच्छेद
इति भावः । शङ्कते—अनागतानुत्पाद इति । तथा सत्यनागतानुत्पाद
लक्षणार्थक्रियाकारित्वादन्त्यक्षणोपपत्तिरिति भावः । निराकरोति—अनागतेति ।
204 प्रागभावस्यानादित्वादित्यर्थः954 । पृच्छति—तर्हि कस्येति । नित्यस्यानुपकार्यत्वादु
पनेयापनेयाभाव इति भावः । उत्तरम्—य इति । यथा चाक्षणिकस्योपकार्यत्वं955 तथा
956क्षणभङ्गभङ्गे उपपादयिष्यत इति सिद्धम् ॥ २२ ॥


॥ इति प्रमेयलक्षणप्रकरणम् ॥

  1. न्या. द. ३-४ अध्यायौ

  2. OmJ

  3. त एतेC

  4. पश्यJ

  5. स्मिन्नर्थेC

  6. केवलेनC

  7. चेत्यनुकर्षणात्C

  8. इत्येवम्C

  9. अपिOmC

  10. °भासनं नC

  11. तत्रC

  12. अपिOmC

  13. °मद्राक्षं तं पश्यामीतिC

  14. ज्ञातरिOmJ

  15. न हि रूपेतिC

  16. OmC

  17. तदेतद्C

  18. सुखहेतुचन्दन°C

  19. °संहतिःC

  20. स्मरामीतिC

  21. °दाह तथा° C, बलादाहरतिJ

  22. असत् कार्यम्C

  23. भावात् C

  24. तु J

  25. उभाभ्यां C

  26. नाभ्यां Om C

  27. Om C

  28. त्वियं C

  29. न तथा C

  30. °निरासार्थंC

  31. येन प्रागनुभूताC

  32. ममC

  33. परमार्थतःJ

  34. तत्वसंग्रहः पृः ८६

  35. स्वगोचरो विकल्पोत्पादन°C

  36. एतत्OmC

  37. पारतन्त्र्यं
    द्रव्येण
    C

  38. विवेचयतिC

  39. तत्OmC

  40. द्रव्य°OmC

  41. °त्वहेतुकानु°C

  42. OmC

  43. किं तु J

  44. शरीरे C

  45. °दित्यादि° C

  46. सा तु C

  47. वा° पृः……

  48. OmC

  49. वर्णयन्तिC

  50. °मपाकरोतिC

  51. °त्वादतC

  52. सत् कारक°C

  53. °साधनत्वेJ

  54. C

  55. OmJ

  56. तु
    OmC

  57. °संबन्ध°OmC

  58. OmC

  59. घ्राणेतिC

  60. OmJ

  61. °व्याख्यान°OmC

  62. न घ्राणादिनाOmC

  63. °वेमादि°
    OmC

  64. घटादिवत्OmC

  65. अब्वाय्वादिभ्यःC

  66. व्याख्यातः C

  67. निमित्तानां Om C

  68. नेति Om C

  69. °समासो नC

  70. निर्वेदायोप°C

  71. इत्यर्थःOmJ

  72. ज्ञानेनOmC

  73. °विवक्षितम्C

  74. अर्थाःOmJ

  75. °भासमानाः C

  76. °मिथ्याप्रत्ययजन्मा Om J

  77. रूपादिव्यतिरेके C

  78. परस्तदव्यति° J

  79. तेषामष्ट° C

  80. सिद्धिरिति ना° J

  81. तन्नOmJ

  82. तदेतत्तदग्रहेJ

  83. °म्रष्टव्याःJ

  84. °गतविभक्तिःC

  85. बहुत्वOmJ

  86. °स्य निवृत्तेःC

  87. °ण्यमपिC

  88. द्रः ३॑२॑९ वा°

  89. संयुक्तानांC

  90. अतःOmC

  91. संबन्धभेदःC

  92. परःOmJ

  93. तेनाधि°C

  94. वि°OmJ

  95. द्रः टीका १. १. ४

  96. °स्य व्यपदेश्यस्यC

  97. °मात्र
    निमित्ता
    J

  98. तत्OmJ

  99. पुष्पयोगगुणयोग°J

  100. °अपचय°OmJ

  101. अपिOmC

  102. यावत्सं°C

  103. तस्य चC

  104. °कीलका°C

  105. °स्यासिद्धत्वेनC

  106. °णमात्राभावात्J

  107. विशेषहेतुःC

  108. इतःC

  109. °ग्रहणमित्य°C

  110. सार्वजनीनःC

  111. सार्वजनीनःC

  112. °चेतना J

  113. इवोपलब्धिः C

  114. °बिम्बमिव J

  115. °मण्डल° Om J

  116. वा. पृः

  117. °दिव्यावृ° C

  118. भूदत उक्तम् C

  119. यथा Om C

  120. पन्थानं वीक्षते J

  121. OmC

  122. इति ।C

  123. °नावत्त्वम्C

  124. १. १. २

  125. ३. १. १९

  126. °दुःखभोग°C

  127. अपिOmC

  128. हृष्यतिC

  129. महा°OmC

  130. न पुनःC

  131. उप°OmC

  132. स्वय° न्तेOmC

  133. अपिOmC

  134. दुःखंC

  135. °प्यधिकोत्कर्षशालित्वादिफलानांC

  136. उक्तम्J

  137. C

  138. °ष्यतेC

  139. OmC

  140. दुःखमेकंC

  141. °ष्यं व्याचष्टेC

  142. टी १. १. १४

  143. भविष्य
    तीति
    C

  144. °कत्वेनC

  145. °मित्युक्तम्C

  146. °र्थे निवेदयिष्यते; द्रः वा° ४. २. ३४

  147. नित्य° OmJनित्यंC

  148. शरीरादितिC

  149. तुOmC

  150. °रणजनितेयंC

  151. प्रतिकूलंC

  152. दुःख°OmC

  153. बोद्ध°C

  154. प्रसक्तस्यC

  155. °न्तरमेवC

  156. °नासत्त्वात्ततःC

  157. सर्व एवC

  158. °दिति भावःC

  159. °स्यैवोप°C

  160. टी ३॑२॑१०-७