न्यायपूर्वाङ्गलक्षणप्रकरणम्


समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च
विशेषापेक्षो विमर्शः संशयः ॥ १ । १ । २३ ॥


संशयलक्षणावतारणपरं भाष्यं स्थानवत एतर्हि इति । तस्यार्थः । स्थानं
क्रमः । तद्वतः । एतर्हि इदानीमिति । क्वचित् पाठः स्थानवत एव तर्हीति । तर्हि
तदानीमुद्देशसमये, क्रमवतः संशयस्य प्रमेयानन्तरमुद्दिष्टस्य, प्रमेयलक्षणानन्तरं
स्थानं क्रमो लक्षणस्येत्यर्थः । तदेतद् वार्त्तिककारो व्याचष्टे—प्रमेयेति । एतदेव
स्फुटयति—येति । स्थानं क्रमग्रहणेन व्याख्यातं मतुबर्थश्च प्राप्तिग्रहणेन ।


समा—यः ॥ अत्र च विमर्शः संशय इति संशयसामान्यलक्षणम् । तत्र957 संशय
इति लक्ष्यनिर्देशः, विमर्श इति लक्षणपदम् । एकस्मिन् धर्मिणि विरोधिनानार्था
वमर्शो विमर्शः, किं स्विदिति ज्ञानम् । तदनेनासमानजातीयेभ्यः प्रमाणादिभ्यः
समानजातीयेभ्यश्च विपर्ययादिभ्यः संशयो निवर्तितो भवति । समानेत्यादीनि तु
त्रीणि विशेषलक्षणानि । तेषु च विमर्शः संशय इत्येतदनुवर्तनीयम् । अत्र विशिष्टोऽ
वमर्शो 958विमर्शविशिष्टः संशय इति लक्ष्यपदम् । समानधर्मोपपत्तेरनेक
धर्मोपपत्तेर्विप्रतिपत्तेरिति त्रीणि प्रत्येकं शेषैः पदैरुपेतानि लक्षणानीति । तदेतदाह
वार्त्तिककारः—तत्र समानेति । त्रिविध एवेति ये पञ्चविधमाचक्षते ते निरा
205 कृताः । तदनवधारणज्ञानं संशय इति । संशयसामान्यलक्षणपरं भाष्यं
व्याचष्टे—तत्र विषयस्वरूपेति प्रत्ययोऽनवधारणात्मकश्चेति । आक्षेपपरिहारौ
प्रथमसूत्र एव व्याख्यातौ959 । प्रत्ययशब्दस्य निश्चयवचनत्वमभ्युपेत्य व्याख्यानं
प्रतीयत इति । परमार्थतस्तु प्रत्ययशब्दो ज्ञानपर्यायः । ज्ञानत्वं च960 सामान्यं
संशयादिष्वप्यस्तीति न विरोध इति ।


समानधर्मोपपत्तेरिति व्याचष्टे—समानेति । विकल्प्याक्षिपति—किं पुनरिति ।
कस्मादिति ।
मा कार्षीद् द्रव्ये संशयम्, गुण एव कस्मात् न करोतीति प्रश्नार्थः ।
समाधत्ते—न, साधारणेति । यादृशं संख्याप्रचयपरिमाणभेदयोनि961 परिमाणं स्थाणु
पुरुषयोः, तादृशमस्यापि पुरोवर्तिनो द्रव्यस्य परिमाणम् । तस्मात् सदृशपरिमाणधर्मस्य
धर्मिण 962उपपत्तेरित्यर्थः । महत्त्वदीर्घत्वसामान्यधर्मयोगस्तु963 सन्नपि न संशयकारणम्,
असादृश्ये तद्योगेऽपि संशयाभावादिति भावः । स्यादेतत् । उपपत्तिः सत्ता । न च
सदृशो धर्मः सत्तामात्रेण संशयहेतुः अपि तूपलब्धः । न चोपलब्धिवाचकमत्रास्ति
पदमित्यत आह—तस्योपपत्तिरध्यवसाय इति । यद्यप्ययमुपपत्तिशब्दः
सत्तावचनस्तत्परश्च, तथापि पदान्तरसमभिव्याहारादवगम्यते सत्तामात्राभिधानेऽपि
तदुपलब्धिर्विवक्षितेति । विषयविषयिणोरभेदविवक्षया सामानाधिकरण्यमुपपत्ति
रुपलब्धिरिति । पृच्छति—कस्मादिति । अस्मदायत्ते हि शब्दप्रयोगे किमित्यवाचकं
प्रयोक्ष्यामह इत्यर्थः । उत्तरम्—अनुक्तमपीति । विशेषापेक्ष इति वचनेन विशेषस्यापेक्षा
उच्यते । अपेक्षाशब्दश्च यद्यपीच्छायां वर्तते, तथापीह जिघृक्षायां वाक्यसामर्थ्यात् ।
न च सा संशयस्य हेतुः, तस्याः संशये सति भावात् । तस्माद् विशेषापेक्षया जिघृक्षा
लक्षणयेह विशेषयोः 964पुरोवर्तिवस्तुसादृश्यात् स्मरणे सत्यग्रहणं लक्षणीयम्, यथा
गङ्गाशब्दस्तीरसंबद्धमेव लक्षयति, न तु तीरमात्रम् । एवं बुभुत्सयापि स्मर्यमाण
मेवागृह्यमाणं संबद्धं लक्षणीयम्, न त्वगृह्यमाणमात्रम् । अनेनैवाभिप्रायेण वक्ष्यति
206 भाष्यकारः विशेषस्मृत्यपेक्ष इति । तस्माद् विशेषग्रहणप्रतिषेधात् 965सामान्य
ग्रहणमभ्यनुज्ञातं भवतीत्यर्थः । परिहारान्तरमाह—अथ वेति । स्यादेतत्, उपपत्तिशब्दः
सत्तावचनश्चोपलब्धिवचनश्च । तथा च विनिगमनायां को हेतुरित्यत आह—यः
पुनरिति ।
नन्वभावः प्रमाणालम्बनमुक्तः, तत् 966कुतो न विरोध इत्यत
उक्तम्—स्वतन्त्रमिति । अथ वा सत्तावाचकोऽप्ययमुपपत्तिशब्दः स्वाभिधेय
विषयामुपलब्धिं लक्षयतीत्याह—विषयशब्देनेति । न चेयमलौकिकी लक्षणेत्याह—
लौकिकमिति । यथा च धूमो न सत्तामात्रेण हेतुस्तथोक्तं प्रागिति ।


एकदेशिनामुपसंख्यानमुपन्यस्यति—अव्यवच्छेदेति । ते 967किल मन्यन्ते
व्यवच्छेदहेतुरपि धर्मः समानो भवति । यथा कृतकत्वं साध्यधर्मिणि शब्दे
दृष्टान्तधर्मिणि च घटादौ समानम्, न चासौ 968नित्यानित्यत्वसंशयहेतुः, अपि
त्वनित्यत्वस्यायोगं साध्यधर्मिणि व्यवच्छिनत्ति । 969अतोऽव्यवच्छेदहेतोरिति
वक्तव्यमित्यर्थः । तदेतद् वक्तव्यं दूषयति—न समानेति । समानो हि धर्मः
प्रतिसंबन्धिनमपेक्षते—केनेति । संशयपदेन च स्वविषयोपस्थापकेन परस्पर
विरोधिनौ तावुपस्थितौ, तेन ताभ्यां समान इति गम्यते । तेन विवक्षिततज्जातीय
वृत्तित्वे सत्यन्यजातीयवृत्तिरेव गम्यते । न चैवं कृतकत्वम् । तस्मात् न वक्तव्यम
व्यवच्छेदहेतोरिति । समानशब्दार्थः सादृश्यं तत्र नास्तीत्यर्थः । अत्रैवोपलब्धी
त्यादिपदद्वयं शङ्कापूर्वकं योजयति—सोऽयं साधारण इति । उपलब्ध्यनुपलब्धी
न व्यवतिष्ठेते इति । शिरःपाण्यादीनामुपलब्धिर्वक्रकोटरादेरनुपलब्धिः पुरुषस्य
साधकं प्रमाणम् । तद्विरुद्धस्य वा शिरःपाण्यादेरनुपलब्धिर्वक्रकोटरादेरुपलब्धिः
पुरुषस्य बाधकं प्रमाणम् । तद्धि पुरुष एवायं वा इदन्तया व्यवतिष्ठते, इदंता
निषेधेन वा नायं पुरुष इत्यनिदन्तया व्यवतिष्ठते तदभावो व्यवस्था970 । तदनेन
साधकबाधकप्रमाणाभावो दर्शितः । विशेषाकाङ्क्षायां चेति विशेषस्मृतिर्दर्शिता ।


207

विमर्शपूर्वकं समस्तमित्यवधारयति—किमिदमिति । तत्रैकपदपरिग्रहे
दोषमाह—यदि समानेति । विशेषः शिरःपाण्यादिः । विशिष्यते ह्यनेन पुरुषः
स्थाणोरिति । अनुपलब्धसामान्यस्यापि क्वचिदुपलब्ध्यनुपलब्ध्यव्यवस्थास्तीति ।
यथा सप्तमे रसे दशमे वा द्रव्ये । न हि तत्र साधकं बाधकं वास्ति प्रमाणम् । न च971
संशयः । विशेषापेक्ष इत्येतावतीति । तद् यथा हस्तिनं दृष्टा तत्संबन्धिनौ स्थूणा
हस्तिपकौ स्मरति न च तत्र सन्दिग्धे ।


द्विपदपरिग्रहे दोषमाह—एवं समानेति । नौदोलाद्यारूढो हि गच्छन् विदूरे
आरोहपरिणाहवद्वस्तुदर्शनेऽपि सत्यपि च साधकबाधकप्रमाणाभावे विशेषस्मृत्य
भावात् नग इति वा नाग इति वा न सन्दिग्धे । एवमुपलब्ध्यनुपलब्ध्यव्यवस्थातो
विशेषापेक्ष इति972 पदद्वये विधीयमानेऽन्यतः स्मर्यमाणाद् विशेषात् सदृशधर्मवति
धर्मिण्यनुपलभ्यमाने संशयः स्यात् । अस्ति हि तदा विशेषस्मृतिः
साधकबाधकप्रमाणाभावश्च, नो खल्वनुपलभ्यमाने समानधर्मे धर्मिणि तद्गता
वक्रकोटरादयो वा शिरःपाण्यादयो वा शक्यग्रहा इति । यदायं द्रष्टेति । यदा
खल्वयं द्रष्टा प्रतिपरुरङ्कुरोद्भेदपुलकिताभिर्मन्दमलयमारुतान्दोलनललितलास्य
शालिनीभिः शाखाभिर्मधुमदमुदितमधुपमालाशिञ्जितवल्लकीवाद्यमनोहराभिर्मत्त
पुंस्कोकिलकुलविपञ्च्यमानपञ्चमाभिरारब्धसङ्गीतकं सहकारतरुमनुभूयाथ973
विदूरवर्ती कुञ्जरसदृशधर्मवन्तमनुभवति, तदास्यास्ति समानधर्मोपलब्धिः । अस्ति
च करितरुरूपविशेषस्मृतिः, न तु साधकबाधकप्रमाणाभाव इति न संशेते ।
कतिपयव्यक्त्याश्रयत्वं सहकारत्वादेर्विशेषस्याल्पविषयत्वम् । आरोहपरिणाहादेस्तु
बहुव्यापित्वं महाविषयत्वम् । नानार्थावमर्शनं च विरुद्धार्थावमर्शनं द्रष्टव्यम् । तदनेन
स्थाणुपुरुषयोरित्यादि भाष्यं व्याख्यातम् । पश्यन् इत्युपपत्तिविवरणम्, विशेषं
बुभुत्समान
इति विशेषापेक्ष इत्यस्य विवरणम् । किं स्विदिति विमर्शविवरणम् ।
स्यादेतत् । संशयोत्तरकाला बुभुत्सेति, कथं बुभुत्समानः संशेत इत्यत उक्तं
208 भाष्यकृता समानमनयोरिति । विशेषापेक्षाशब्देनेच्छावाचिना अगृह्यमाण
विशेषस्मरणं लक्षितमिति भावः । सेयं साधकबाधकप्रमाणानुपपत्तौ सत्यां समान
धर्मोपलब्धिर्विनश्यदवस्था विशेषस्मृत्या सहाविनश्यदवस्था एकस्मिन् क्षणे सती
संशयज्ञानस्य हेतुरिति सिद्धम् । त्रिपदपरिग्रहमनेकधर्मोपपत्तेर्विप्रतिपत्तेरित्यत्रापि
योजयति—एतेनेति । द्वे द्वित्वेनैकीकृत्याद्यानन्तरयोरिति द्रष्टव्यम् ।


अनेकधर्मोपपत्तेरित्यत्र भाष्यकृतो व्याख्यां ग्रहीतुमेकदेशिव्याख्यानमुप
न्यस्य दूषयति—अनेकेति । शब्दो हि संयोगजः । संयोगजत्वं हि कार्ये द्रव्ये गुणे
च रूपादौ शरीरादिक्रियायां चास्तीति द्रव्यगुणकर्मणां समानम् । तस्मादनेकस्य
धर्मश्चरितार्थः । एवं शब्दगतोऽनेकोऽपि धर्मः समानतयैव द्रव्यत्वादिसन्देह
हेतुः त्रिषु, संयोगजत्वं साधारणं सत्त्वादिना निर्भक्तस्य974, निर्गुणत्वं गुणकर्मणोः ।
एवं क्षणिकत्वं द्रव्यगुणकर्मणामिति समानधर्मोपपत्त्या गतार्थमित्यर्थः । पृच्छति—
अथेति । भाष्यकृद्व्याख्ययोत्तरम्—असाधारण इति । पुनः पृच्छति—कथमिति ।
समासपदशब्देन तदेकदेशोऽनेकशब्दो लक्ष्यते, समासगतेनानेकशब्देनेत्यर्थः ।
उत्तरम्—समानेति । एतदुक्तं भवति । यतोऽनेकस्मात् समानासमानजातीयादेष
स्वाश्रयं व्यावर्तयति, अतोऽनेकोपादानकव्यावृत्तिहेतुकत्वात् लक्षणयानेक
इत्युच्यते । तदनेन समानजातीयमसमानजातीयं चानेकमिति भाष्यं तस्माद्
विशेष इत्यध्याहृत्य व्याख्यातम् । अध्याहृतविशेषपदविवरणं विशेषको धर्म इति ।
संबन्धसामान्यविवक्षया तु षष्ठी तस्यानेकस्येति । लक्षणाबीजान्तरमाह—तस्य
चानेकस्येति ।
निवर्त्यनिवर्तकसंबन्धेनानेकशब्देन धर्मो लक्ष्यत इत्यर्थः । तदनेन
विनैवाध्याहारं समानजातीयमसमानजातीयं चानेकम् । तस्य धर्मो निवर्तकतयेति
व्याख्यातम् । न त्वत्र समासभ्रान्तिः कर्तव्या । दर्शयिष्यति हि बहुव्रीहिमिहैव975
वार्त्तिककारः । 976तदेवं लक्षणाबीजद्वयोपन्यासेन असाधारणो धर्म इति ग्रहणक
वाक्यं व्याख्यातम् । प्रकारान्तरेणानेकधर्मपदं व्याचष्टे—एकानेकेति । एकं चानेकं
209 च तदुभयमनेकं 977तस्यानेकस्य प्रत्ययहेतुर्धर्मोऽनेकधर्मः भेदाभेदप्रत्ययहेतु
रित्यर्थः । विभागजत्वं विभागजानां शब्दानामन्योन्यस्याभेदप्रत्ययहेतुः, तदितरे
भ्यश्च भेदप्रत्ययहेतुः । तदिदमाह—यतो विभागजत्वात् एष प्रत्ययो भवतीदं
विभागजं शब्दजातम् एकम् । इदं च ततोऽन्यद् अनेकं भिन्नम् । तत्र य एव
एकप्रत्ययहेतुः धर्मोऽभेदः978 स एव अनेकप्रत्ययहेतुर्विशेषः979 जात्यभिप्रायं
चैकवचनम् । सदादिर्हि धर्मो द्रव्यगुणकर्मणामभेदप्रत्ययहेतुः सामान्यादिभ्यश्च
शब्दं निर्भजति980 । तदिदमाह—यतः सदादेरेष प्रत्ययो भवतीदमेकं यतश्च
विभागजत्वादेष प्रत्ययो भवतीदमनेकमिति, तस्मात् सिद्धमेकं चानेकं च । अनेक
मिति तत्प्रत्ययहेतुरुपचारेणानेक इति । तदिदमुद्भाष्यं व्याख्यानम् । अत्रोदाहरणमाह—
यथेति । द्रव्यत्वादिकोटित्रयविषयसंशयप्रदर्शनार्थमुक्तं981 सामान्यविशेषसमवायेभ्य
इति ।


सदनित्यं द्रव्यवत्कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणाम्
अविशेषः982
तेनानेन सदादिना निर्भक्तस्य983 पृथक्कृतस्येत्यर्थः ।


स्यादेतत् । यद् येन सहचरितं दृष्टं तत् क्वचिद् दृश्यमानं तत् स्मारयत्
तद्विरुद्धेनापि च संबन्धादनिश्चाययत् संशयहेतुर्भवति, यथा समानो धर्मः ।
असाधारणस्तु धर्मो विभागजत्वं नर्ते शब्दात् क्वचित् पृथिव्यादौ वा उत्क्षेपणादौ वा
गन्धादौ वा दृष्ट इति कथं स्मारयेत्, अस्मारयद् वा कथं तत्र984 संशयं जनयेत् ?
तस्मात् कोऽयं भवेदित्यतो धर्मादिति जिज्ञासामात्रमुत्पादयेत्, न त्वयं वायं वेति
संशयमित्यत आह—न हीति । कस्मात् न दृष्टमित्यत आह—सर्वत्रासंभवात् ।
हि द्रव्यादेर्विभागतो जन्म संभवति, तदन्वयव्यतिरेकाननुविधानादित्यर्थः । नन्वत
एवोक्तं न संशयहेतुरित्यत आह—विभागजत्वं संशयं करोति सर्वतो व्यावृत्तेरिति ।
210 अयमर्थः, यद्यपि विभागजत्वं न द्रव्यादौ क्वचिद् दृष्टम्, तथापि तद्व्यतिरेकः
प्रत्येकं द्रव्यादौ दृष्ट इति विभागजत्वेन सदाद्यविशेषवान् शब्दो द्रव्यकर्मभ्यां
व्यावर्तमानः किं गुणः, गुणकर्मभ्यां व्यावर्तमानः किं द्रव्यम्, गुणद्रव्याभ्यां
व्यावर्तमानः किं कर्मेति व्यतिरेकमुखेन तत्तत् स्मारयन् असाधारणो धर्मो भवति
संशयकारणमिति । देशयति—ननु चेति ।


अयमभिसन्धिः । वंशे पाट्यमाने वंशदलयोः क्रिया, ततस्तयोर्मिथो
विभागः, ततो वंशदलावरुद्धनभोभागविभागः । सोऽयं विभागजो विभागो न वंश
दलकर्मजः । अवयवक्रिया हि तदवयवावरुद्धनभोभागविभागजनिका द्रव्यारम्भक
संयोगाप्रतिद्वन्द्विविभागजनकत्वेन व्याप्ता विकसत्कमलकुड्मलदलेषु985 दृष्टा । न हि
तत्र मुकुलिताद् विकासिकमलमन्यत् आकुञ्चितप्रसारिताङ्गुलिकरतलवत् तत्त्वेन
प्रत्यभिज्ञायमानत्वात् । वंशदलक्रियापि चेत् तादृशी, नूनमनयापि द्रव्यारम्भक
संयोगाप्रतिद्वन्द्विविभागजनिकया भवितव्यम् । तथा च द्रव्यं कार्यमपि न नश्येत् ।
तस्मात् नानया वंशदलाकाशविभागो जनयितव्यः । न चान्यदस्य कारणं संभवति ।
तस्माद् वंशदलक्रियाजनितो दलयोर्विभागः कार्यैकार्थसमवेतः तदवरुद्धाकाशप्रदेश
विभागस्यासमवायिकारणमेषितव्यः । एवं च गुणः शब्दो विभागजत्वाद्
विभागजविभागवदिति विभागजत्वं गुणत्वनिश्चयहेतुरिति सिद्धं भवतीति ।
परिहरति—अनभ्युपगतविभागजविभागस्यैतद् विभागजत्वम् एवं संशयकारणं
भवति । अनभ्युपगमबीजं च कुतः पुनरेतदेवमवगतं पद्मपत्रावयवक्रिया
विभागद्वयजनिकेति, विभागद्वयक्रमकल्पनायां प्रमाणाभावादिति चेत् ? हन्त,
वंशदलविभागयोरपि986 तुल्यम् । ननूक्तं द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनकं
स्यात् कर्म, ततश्च द्रव्यनाशो न भवेदिति । अथ विपर्ययः कस्मात् न भवतीति
वंशदलद्वयक्रियैव विभागद्वयजनिका, पद्मपत्रावयवक्रिया त्ववयवविभागजनिका,
तदवयवाकाशविभागस्त्ववयवविभागजन्मा । यदि तु987 पद्मपत्रावयवक्रिया
211 उभयजनिका भवेत् वंशदलक्रियैव द्रव्यारम्भकसंयोगप्रतिद्वन्द्विनं विभागं जनये
दिति । न चान्यतरत्र 988विभागद्वययौगपद्यनिश्चयः क्रमप्रमाणाभावश्च989 तुल्यः ।
तस्मात् पद्मपत्रावयवक्रियाविभागजनकत्वसन्देहादशक्यविनिश्चयो व्याप्यव्यापक
भावः । क्रियावैलक्षण्यात् तु स्वहेतुवैलक्षण्यजन्मनः कार्यस्य विभागस्य वैलक्षण्यं
स्यात्, यदेको द्रव्यारम्भकसंयोगप्रतिद्वन्द्वी अप्रतिद्वन्द्वी चेतरः, तथापि चैतद्वैलक्षण्यं
क्रियाया अभ्युपेतव्यम् यदेका विभागमेकं जनयति । अन्या तु विभागद्वयमिति ।
तस्मादेतदुदाहरणबलेन न विभागजविभागसिद्धिः । यस्त्वङ्गुलिकर्मानन्तरमङ्गुलितरु
विभागो हस्ततरुविभागः, शरीरतरुविभागश्च दृश्यते, तत्राङ्गुलितरुविभागमङ्गुल्या
श्रया क्रिया करोतु, हस्ततरुविभागं तु न शक्ता जनयितुम्, तस्याः स्वाश्रयसमवायात्,
स्वाश्रयसमवेतकार्यजनने च क्रियायाः सामर्थ्यावधारणात् । तस्मात् हस्तादितरुविभागः
क्रियातोऽसंभवन्नङ्गुल्यादितरुविभागमेव 990कार्यैकार्थसमवायलक्षणया प्रत्यासत्त्या
निमित्तीकरोतीति विभागजविभागसिद्धिं मन्यते, तं प्रत्याह—यः पुनरिति । अस्तु
वा विभागजो विभागः, तथापि विभागजत्वमीदृशमसाधारणमेवेत्यत आह—अस्तु
वा तस्या
भ्युपगतविभागस्यापि विभागजत्वमसाधारणं विशिष्टम् । तदेव
दर्शयति—विभागजेति । पाट्यमाने हि वंशे शब्दोत्पत्तौ वंशदलयोर्मिथो विभागो
निमित्तकारणम् । वंशदलावरुद्धाकाशविभागस्त्वस्यासमवायिकारणम्, न तु
भेर्याकाशसंयोगवत् वंशदलाकाशसंयोगोऽसमवायिकारणं भवितुमर्हति । तथा हि
प्रयोगः, योऽयं वंशदलविभागनिमित्तः शब्दः, स निमित्तसमानजातीयासमवायि
कारणजन्यः, तदसाधारणनिमित्तजन्यशब्दत्वात्991 । यो यः शब्दो यदसाधारण
निमित्तजन्मा, स सर्वस्तज्जातीयासमवायिकारणजन्यः, यथा भेरीदण्डसंयोगनिमित्तः
शब्दो भेर्याकाशसंयोगासमवायिकारणकः । तथा चायम् । तस्मात् तथेति । तदेवं
वंशदलविभागलब्धजन्मना वंशदलाकाशविभागेनासमवायिकारणेन जनितः
212 शब्दः । तदेवं विभागजविभागासमवायिकारणकत्वं शब्दस्य, तदपि यद्यप्यङ्गुल्या
काशविभागजहस्ताकाशविभागासमवायिकारणे कायाकाशविभागेऽस्ति, तथापि
कारणमात्रविभागजविभागासमवायिकारणकत्वादिति हेतुः भाष्यकारेण
विभागजत्वात्
इत्यने सूचितः । न चाङ्गुल्याकाशविभागपूर्वकः कायाकाशविभाग
एवम् । स हि कारणाकारणविभागपूर्वको, न तु कारणमात्रविभागपूर्वकः ।
तदिदमुक्तम्—विभागजविभागासमवायिकारणकः शब्दो नान्यः पदार्थ इति ।
ननु सहचरितो दृष्टः स्मारयन् विशेषसंशयहेतुर्भवति, न तु यो व्यावृत्तः 992तेन
सहास्यासाहचर्यादिति शङ्कामपनेतुं भाष्यकारीयमुत्तरमाह—तुल्यजातीयेष्विति ।
यद्यपि व्यतिरेकमुखेनासाधारणः शक्तः स्मारयितुम्, तथापि भाष्योक्तमप्युक्तम् ।
यत् खलु सदादिरूपसंपन्नं विशेषवत् तत्समानजातीयेभ्योऽसमानजातीयेभ्यश्च
व्यावृत्तम्, यथा पृथिवी द्रव्यम् । अबादिभ्यश्च द्रव्यान्तरेभ्यो गुणकर्मभ्यश्च
विजातीयेभ्यो गन्धवत्त्वेन व्यावृत्तं द्रव्यजातीयम् । एवं रूपत्वेन रूपं गुणः ।
उत्क्षेपणत्वेनोत्क्षेपणं कर्म । तथाविधः शब्दः सदादिरूपसंपन्नो विभागजत्वेन
समानासमानजातीयेभ्यो विशिष्यते । तस्माद् भवति द्रव्यं गुणः कर्म वेति संशय इति ।
पूर्वव्याख्यानतोऽनेकशब्देनासाधारणधर्मो लक्ष्यत इत्युक्तम् । संप्रति समानशब्दपर्या
लोचनयाप्यनेकपदमसाधारणे वर्तते लक्षणयैवेत्याह—समानधर्मस्य संशयकारणत्वेन
उपयोगाद् वेति । समानं हि प्रतियोगितया असमानं बुद्धौ सन्निधापयति । तत्र
द्वयस्यापि समानशब्देन श्रुत्यर्थाभ्यामुपात्तस्य समानस्य धर्मस्यासमानस्य च,
समानस्य संशयकारणत्वेनोपयोगादिति योजना । पृच्छति—कस्मादिति । अस्मदायत्ते
शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामह इति भावः । उत्तरम्—नैवमिति । असाधारणो
हि धर्मो व्यतिरेकमुखेन संशयहेतुः । स चानेकस्माद् व्यावृत्त्या सिध्यति । सा च
लाक्षणिकानेकपदाधीना नासमानपदात् लभ्यत इति प्रयोजनवल्लाक्षणिकपदोपादानम् ।
लक्षणैव चेयम् अनेकस्माद् व्यावृत्तो धर्मोऽनेकधर्म इति विग्रहेण निर्वर्ण्यते इति ।
213 अभ्युच्चयमात्रमाह—लाघवं वेति । असाधारणस्य संशयकारणत्वे व्यावृत्तिः
प्रयोजिकेति मन्वानश्चोदयति—यद्यनेकेति । परिहरति—नैष दोष इति ।
व्यभिचाराव्यभिचारौ हि संशयनिर्णययोः प्रयोजकौ, नान्वयव्यतिरेकमात्र
मित्यर्थः993 । चोदयति—यदि तर्हीति । सपक्षासपक्षसाधारण्यं हि हेतोर्व्यभिचारः । स
चेत् संशयस्य कारणम् ? हन्त, समानधर्मोपपत्तिरेव सर्वत्र संशयकारणमिति
कृतमनेकग्रहणेनेत्यर्थः । परिहरति—सत्यमिति । 994सपक्षासपक्षसाधारण्यं हि
हेतोर्व्यभिचारः । स च संशयस्य प्रयोजकः । तथाप्येकस्यान्वयः साधारणोऽपरस्य
व्यतिरेक इत्येतावतोभयोपादानमित्यर्थः ।


एवमनेकधर्मोपपत्तेरिति स्वमते व्याख्याय परमतव्याख्यानं दुषयितुमुपन्य
स्यति—नञ इति । नित्यः शब्दः श्रावणत्वात् शब्दत्ववदित्येकः पञ्चरूपोप
पन्नोऽव्यभिचारी हेतुः । अनित्यः शब्दः कृतकत्वाद् घटवदिति चायमपरः
पञ्चरूपोपपन्नोऽव्यभिचारी हेतुरिति । तदेतद् दूषयति—तदयुक्तमिति ।
ह्यव्यभिचारिणौ पञ्चरूपोपपन्नावित्यर्थः । न चायं प्रतिवादिनः प्रयोगोऽपि युक्त
इति । विरुद्धशब्दस्यार्थो विरुद्धार्थ इति, स्वरूपमनयोर्विरुद्धं परस्पराभाव
वदित्यर्थः । विशेषदर्शनादुपजात इति । संशयस्य हि विशेषादर्शनं जनकम्,
विशेषदर्शनं च निवर्तकमिति । स चेत् त्वन्मते निवर्तकादुत्पद्येत, अव्यभिचारि
हेतुजनिताद्विशेषदर्शनात् नास्य निवृत्तिः स्यादित्यर्थः । न च यदा निवर्तकत्वमस्यास्ति
तदा जनकमपीत्याह—न हि विशेषदर्शने सतीति ।


स्यादेतत् । प्रत्यक्षमेव स एवायं गकार इत्येवमाकारं प्रत्यभिज्ञासमाज्ञातं
शब्दस्य स्थेमानमाकलयत्,

तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यति995

इति नित्यत्वं परिच्छेत्स्यतीत्यत आह—नायमर्थः प्रत्यक्षस्य विषयः । तदेव हि
प्रत्यक्षं संशयस्य निवर्तकं यदनन्यथासिद्धम्, यथौष्ण्यग्राहि वह्नेः । इदं तु सादृश्ये
214 नापि संभवात् स्वयं सन्दिग्धं सन्न संशयोच्छेदायालमित्यर्थः । मा भूत् प्रत्यक्षस्य
विषयः, भवति त्वागमस्य । नो खलु क्षणिकः शब्दोऽर्थप्रत्यायने समर्थः,
तस्यान्वयव्यतिरेककालानवस्थायिनोऽशक्यसमयत्वेनार्थप्रतिपत्तेरनुपपत्तेः । तस्माद्
यद्यपि साक्षान्नित्योऽहमित्यागमो नाभिधत्ते, तथापि विदितसंगतेरर्थप्रत्ययं कुर्वन्नात्मनो
नित्यतामाक्षिपन्नित्यताविषयो भवति । यथाहुः
नित्यस्तु स्याद् दर्शनस्य परार्थत्वात् ।

मी. सू. १. १. १८ इत्यत आह—नागमविषयः । यद्यपि वर्णव्यक्तयः
क्षणिकाः, तथापि स्वस्वसामान्यविशेषगत्वाद्युपहिता गवादिव्यक्तय इव
गोत्वाद्युपधानाः शक्यसंकेता इति न नित्यतामाक्षिपत्यागम इत्यर्थः । भवतु किं नो
बाध्यत
इति । न खलु चन्द्रमसः परभागे हरिणसदसद्भावसन्देहः शक्यः
कदाचिदप्युच्छेत्तुमस्मदादीनामित्यर्थः । कथं न बाध्यत इति । सन्दिग्धनित्यानित्यभावे
शब्दे कृतकत्वं दृष्टमिति नानित्यत्त्वेन स्वभावतः प्रतिबद्धम् । तथा च न
बुद्ध्यादीनामनित्यत्वं साधयितुमर्हतीत्यर्थः । सर्वमिति । 996कृतकत्वप्रयत्ननान्तरीय
कत्वप्रत्ययभेदभेदित्वादीत्यर्थः । सर्वं चानुमानमिति । यदि च पञ्चरूपोऽपि हेतुः,
संशयकारणं 997सर्वमेवानुमानमिति सर्वमप्रमाणं स्यादित्यर्थः । वैनाशिकाः प्राहुः
नित्यासंभवादिति । न, बाधापरिज्ञानादिति । बाधाविषयापरिज्ञानादित्यर्थः । स्वदेशे
परोत्पत्तिप्रतिबन्धकत्वं सप्रतिघत्वम् । सौत्रान्तिकमते हि रूपं सप्रतिघमिष्यते मूर्तं
च, नित्य एवेति वा अनित्य एवेति वा अभिलापो नोपपद्येत, स्थाणुरेवेति वा पुरुष
एवेति वा अभिलापः । चोदयति—नैवं भविष्यतीति । मा भूदभिलाप इत्यर्थः ।
परिहरति—व्याहतमिति । स एवैकग्रन्थेनाह—ननुचेति । तदेवं पञ्चरूपयोर्हेत्वोरेकत्र
समवायाभाव998 उक्तः । यदि पुनरसत्प्रतिपक्षरूपरहितयोरेकत्र संभवोऽङ्गीक्रियते,
तथा च संशयहेतुत्वमित्यभिप्रायेण शङ्कते—अथ कृतकत्वेति । निराकरोति—
तथापीति । प्रत्येकं सत्प्रतिपक्षत्वम्, मिलितयोस्त्वसाधारणत्वम्, तादृशोरन्यत्र
215 अदर्शनादित्यर्थः । तत् किमिदानीं सत्प्रतिपक्षतया कृतकत्वमसाधनमेव शब्दा
नित्यत्वे, तथा च बहु व्याहतं भवतीत्याशयवान् पृच्छति—यदा पुनरेवंभूताविति ।
उत्तरम्—तदा तयोरिति । ननु कृतकत्वस्य साध्यत्वात् श्रावणत्वस्य च सिद्धत्वात्
प्रथमभाविना नित्यत्वानुमानेन सिद्धाङ्गकेनापहृतविषयं चरमभाविसाध्याङ्गकम
नित्यत्वानुमानमेव बाध्यतामित्यत आह—यत्नश्च क्रियमाण इति । सिद्धमपि
श्रावणत्वमनुनासिकताद्यनित्यधर्मसाधारणतया सव्यभिचारं सन्नित्यत्वस्य साधनं न
भवितुमर्हतीति । कृतकत्वस्य तु पाञ्चरूप्यम् । नित्यत्वस्य च प्रमाणबाधनमुप
पादयिष्यत999 इत्यर्थः ।


विप्रतिपत्तेरित्यस्य व्याख्यानम्—विप्रतिपत्तेरिति । यद्यपि विरुद्धा प्रतिपत्ति
र्ज्ञानं विप्रतिपत्तिः, तथापि तस्या वादिप्रतिवादिगताया अत्यन्तपरोक्षत्वात् संशयकारण
त्वानुपपत्तेः स्वकार्यं प्रवादं लक्षयतीत्यर्थः । अत्र भाष्यकारः उपलब्ध्यव्यवस्थाया
अनुपलब्ध्यव्यवस्थायाश्च पृथक् संशयकारणत्वं मत्वा समानधर्मोपपत्तेरित्यनेन
गतार्थतां परिहरन्नाह स्म—पूर्वः समानोऽनेकश्चेत्यादि । तदुपन्यस्य वार्त्तिककारो
दूषयति—तत्रेति । नो खलु समानानेकधर्मोपलब्धौ सत्याम्, सत्यां च विशेषस्मृतौ
1000साधकबाधकप्रमाणासद्भावे संशयो भवतीत्युक्तम् । तस्मात् नोपलब्ध्यनुपलब्ध्य
व्यवस्थे पृथक् संशयकारणे इति । विशेषमपि दूषयति—समान इति । ननु यदि
नास्ति भेदः, तत् किमिदानीं सर्वेषां ज्ञातृस्थत्वाविशेषेण त्रयाणामपि संशयकारणानां
समानानेकविप्रतिपत्तीनामभेदः, तथा च पृथगुपादानवैयर्थ्यमित्यत आह—समानाने
कधर्मयोरिति ।
पुनश्चोदयति—समानधर्मः सर्व एवायमिति । अयमभिसन्धिः ।
असाधारणो ह्यदृष्टपूर्वः क्वचिदपि न संशयं कर्तुमुत्सहते । यत् पुनरसाधारणवत्त्वं
संशयहेतुत्वेनोपवर्णितं भाष्यकृता तत् समानमेव, न त्वसाधारणम्, यथाहुः,


अन्योऽसाधारणो धर्मस्तद्वत्तान्या च दृश्यते ।

सर्वसाधारणी सा चेदिष्टा संशयकारणम् ।

216
ततः साधारणस्यैव सिद्धा संशयहेतुता ॥

यच्च वार्त्तिककारेण सर्वतोव्यावृत्त्या असाधारणस्य संशयकारणत्वमुक्तम्,
तत्रापि तदभावस्य साधारणस्य संशयहेतुत्वे किमायातमसाधारणस्य ? यथाहुः,

सर्वतोऽस्य निवृत्तत्वादभावात् संशयो यदि ।

अनन्यवृत्तिरूपस्य ततोऽसाधारणस्य किम् ॥

इति ।


विप्रतिपत्तिरपि विरुद्धहेतुद्वयसमुत्था एकस्मिन् संशयकारणम्
विरुद्धहेतुसमवायश्चासाधारण1001 एव । स च साधारणे निविशते इति सूक्तम् सर्व
एवायं समानधर्म एवाभिधीयत
इति । परिहरति—न, सूत्रार्थापरिज्ञानादिति ।
वयं सर्वत्र साधारणमपजानीमहे अन्वयव्यतिरेकव्यभिचारवक्तृगतत्वभेदमात्र
माद्रियमाणाः कारणभेदेन त्रिविधं संशयमाचक्ष्महे इत्यर्थः ।


वार्त्तिककारो भाष्यकारमतमुपन्यस्य दूषयति—अपरे पुनरिति । साधक
बाधकप्रमाणाभावरहितं त्रयमपि न संशयकारणमित्युक्तमित्यर्थः । अपि चैतयोः
पृथक् 1002संशयकारणत्वेऽतिप्रसङ्गात् निश्चयपूर्वं न प्रवर्तेत लोकः, तथा च लोक
विरोध इति दर्शयति—उपलब्ध्यनुपलब्ध्योर्द्वैविध्याच्चेति । न चास्य क्वचिदा
श्वासो निःशङ्कता, न चानभ्यासदशापन्ने उपलब्ध्यनुपलब्ध्यव्यवस्थायां1003 संशय
इति वाच्यम्, अनभ्यासदशापन्ने हि दूराद् वह्निज्ञाने उपलब्ध्यव्यवस्थाया अपि न
नागो वा नगो वेति संशेरते1004, किं तु किंशुककुसुमनिचयो वा उषर्बुधो वेति, तत्र
समानधर्मोपपत्तिरेव कारणमितरसहिता । एवमयोग्यानुपलब्धिमात्रादपि न संशयो
विना समानधर्मादिदर्शनमित्युक्तम् । विकल्प्य दूषणान्तरमाह—येषां चेति ।
सामग्रीभेदेन भेदे त्रैविध्यं संशयस्य सामग्रीनिवेशिकारणभेदेन तु न पञ्चविधः, अपि
त्वनेकविध इत्यर्थः ॥


217

समानानेकधर्मोपपत्तेरित्यत्र षष्ठीतत्पुरुषं मत्त्वा आक्षिपति—न समानधर्म
ग्रहणादिति ।
बहुव्रीहिं मत्त्वा समाधत्ते—अयं परिहार इति । अथेति । कश्चासौ
विशेषश्चेति किंविशेषः अनुपलब्धपूर्वो विशेषोऽस्येत्यर्थः । उपलब्धपूर्वायां
व्यक्तौ संशये तद्गता विशेषाः सुस्मूर्षिताः तज्जातीयव्यक्त्यन्तरसंशये त्वन्यगतास्ते
सामान्यद्वारेणोपलब्धा एवेति—सामान्यप्रत्यक्षादिति । सामान्यवानेव सामान्यः ।
यथा
सामान्योऽयं धर्मसेतुर्नृपाणाम्
इति । सामान्यश्चासौ प्रत्यक्षश्चेति धर्मी तथोक्तः । अव्यवस्थितविशेषत्वं
साधकबाधकप्रमाणाभाव इत्यर्थः ॥


बौद्धाभिमतं संशयलक्षणमुपन्यस्यति—अन्ये त्विति । निगूढाभिप्रायो
दूषयति—तैरपीति । अविदिताभिप्रायः शङ्कते—धर्मी चेदिति । दूषणवादी
स्वाभिप्रायमुद्धाटयति—यदि तावदिति । बौद्धानां हि राद्धान्ते न रूपादिधर्माश्रयः
कश्चिदस्ति धर्मी । ततश्च सिद्धान्तव्याकोपः । यदि त्वाह भवतु राद्धान्तव्याकोपो न
हि शास्त्राश्रयो वाद इति, तत्रापि दोषान्तरमाह—धर्मधर्मिणोश्चेति । अथाप्य
स्मद्दिशेति ।
समानानेकधर्मपदवद् बहुव्रीहिरित्यर्थः । सामान्यशब्दस्तु1005 भवितरि
दृष्टो यथा,

सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।

इति भावः । व्यर्थं चाभिधानमिति । सामान्यविशेषतद्वदभ्युपगमेऽपि तद्वतोऽश्रवणात्
साधर्म्यस्य सामान्यस्य विशेषा इति गम्येत, न च सामान्यस्य विशेषा इति
विरुद्धार्थमभिधानं स्यादित्यर्थः । वैशेषिकलक्षणे हि विशेषाप्रत्यक्षादित्यनेन
साधकबाधकप्रमाणाभावो दर्शितः । इह त्वसौ वक्तव्यः । तस्मात् न्यूनं बौद्धलक्षण
मित्याह—उपलब्धीत्यादि । यदि च साधर्म्यदर्शनादित्यनेनान्वयमात्रव्यभिचारः
218 अभिमतो बौद्धेन ततोऽनेकधर्मदर्शनादिति वक्तव्यमिति । तदेवं सामान्यलक्षणम्,
एकम्, त्रीणि च विशेषलक्षणानीति स्थितम् ॥


तदेतानि चत्वारि लक्षणानि पुञ्जीकृत्य विचारयति—समानेति । यदि तावत्
संशयसामान्यलक्षणे स्थिते त्रीणि विशेषलक्षणानि ततः संशयत्वेनोपगृहीतानां
त्रयाणां परस्परव्यवच्छेदकमात्रं लक्षणं वक्तव्यम् । ततः समानानेकधर्मोप
पत्तेर्विप्रतिपत्तेरित्येतावन्मात्रं वक्तव्यम् । कृतमत्र शेषेण, तन्मात्रादेव परस्परव्यव
च्छेदसिद्धेः । तस्मात् परस्परव्यवच्छेदमनपेक्ष्य संशयकारणकथनपरमेतत् सूत्रम् ।
तथा चान्यान्यपि संशयकारणानि सन्तीति तान्यपि वक्तव्यानि । यदा खल्वयमात्मनः
शमादौ संशेते, किमहं चन्दनवनितादिसन्निधाने रज्ये विरज्ये वेति, सोऽयमस्यात्मनः
सन्निकर्षजन्मा संशयः आन्तरस्य शमादेर्विषयस्येति समाधत्ते—अस्तु तावदिति ।
यद्यपि तावन्मात्रेण समानजातीयव्यवच्छेदसिद्धिः, तथापि विजातीयनिर्णयादिव्य
वच्छेदाय1006 सामान्यलक्षणमनुवर्तनीयम् । तथा च प्रतिपत्तिगौरवं स्यादिति तल्लाघवाय
शेषापेक्षा युक्ता । 1007आत्ममनःसन्निकर्षादयस्त्वत्यन्तसाधारणा विजातीयव्यवच्छेदायापि
नालमिति नोपात्ता इति भावः । एवं संशयकारणावधारणादर्थात् संशयभेदावधारण
मित्युक्तम् । संप्रतिकारणविशेषणत्वेन1008 संशयस्वरूपमेवोच्यते1009 इत्याह—स्वरूप
निर्देशो वेति ।
विप्रतिपन्नोऽपि पुरुषः सन्दिग्धवत् प्रतिपाद्य एवेति मन्वान
श्चोदयति—संशयवदिति । विप्रतिपन्नो न शिष्यः, किं तु जल्पवितण्डाभ्यां
शिष्यतां नीत्वा सन्दिग्ध एव प्रतिपाद्य1010 इत्यभिप्रायेण परिहरति—सत्यमिति ॥ २३ ॥


यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥ १ । १ । २४ ॥


उद्देशक्रमप्राप्तस्य प्रयोजनस्य लक्षणम्—यम—नम् । अत्रार्थशब्दो गौणमुख्य
प्रयोजनावरोधार्थः । तत्र मुख्यं सुखदुःखाप्तिपरिहारौ, गौणं तु तत्साधनम् । अत्र
219 भाष्यं—यमर्थमित्यादि । अत्राधिकृत्येत्यस्य व्याख्यानम्—व्यवसाय
विनिश्चित्येत्यर्थः । ससाधनौ च सुखदुःखाप्तिपरिहारावर्थः । न च सुखदुःखप्राप्ति
परिहारौ स्वरूपेण प्रवृत्तिनिवृत्तिगोचराविति तदुपायप्रवृत्त्यैव चेतनप्रवृत्तिगोचराविति
दर्शयति—तदाप्तिहानोपायमनुतिष्ठतीति । प्रवृत्तिहेतुत्वादिति । यद्यपि सुख
दुःखाप्तिहाने तदुपायाश्च सन्ति, तथापि सामान्येन ज्ञायमानानीच्छाद्युपहारमुखेन
प्रवृत्तिहेतवः । ननु सूत्रेऽधिकृत्येत्यस्ति भाष्येव्यवसायेति, तत् कुतो न विरोध
इत्यत आह—व्यवसायोऽर्थस्याधिकार इत्यादि । तदेतद् वार्त्तिककारो व्याचष्टे—
यमर्थमधिकृत्येति, व्यवसायेति । पृच्छति—कस्येति । सुखदुःखाप्तिपरिहारयो
र्व्यवसायस्तत्रैव प्रवर्तयेत्, न चानयोः प्रवृत्तियोग्यता । न चान्यनिश्चयोऽन्यत्र
प्रवर्तयति अतिप्रसङ्गादिति भावः । उत्तरम्—सुखदुःखसाधनानामिति । ततश्च
प्रतीतिप्रवृत्त्योः संप्रतिपत्तिरित्यर्थः । सर्वव्यापितामस्य दर्शयति—अनेन प्रयोजने
नेति ।
वितण्डाया अपि प्रयोजनमुक्तं प्रथमसूत्रे । चोद्यमानस्य प्रवर्तमानस्ये
त्यर्थः । शङ्कते—यदीति । लोक्यतेऽनेनेति लोकः प्रमाणम् । तदन्वितः तदुपपन्नः । न
च प्रमाणमीदृशम्, अनवस्थाप्रसङ्गादिति भावः । निराकरोति—अतिदोषोऽयमिति ।
यथा च प्रमाणस्य प्रमाणोपपन्नता न चानवस्था1011, तथा द्वितीये निवेदयिष्यते1012 । न च
प्रसिद्धतरतया न प्रयोजनं लक्षणीयमिति युक्तम्, कथमस्य 1013प्रयुक्तौ साधनत्वम्,
क्व च प्रयोजयति, कथं च व्यापकमिति सर्वस्य परीक्षकप्रवेदनीयत्वात् । अथान्य
इति । अप्रामाणिको लौकिक इति । यथा
वटे वटे वैश्रवणः
इति । निराकरोति—तन्न बुध्यामह इति । प्रयोजनस्य प्रामाणिकत्वादित्यर्थः । यद
प्युक्तं न्यायस्याङ्गं प्रयोजनं न भवति, तस्मात् न वक्तव्यमिति, तन्न युक्तम् । या
खलु निष्प्रयोजनेति
न ब्रूमः प्रयोजनं न्यायस्याङ्गमित्यपि1014, मुख्यं प्रयोजनमेव हि
तन्न स्याद् यदृते पुरुषादन्यार्थमिति । प्रयोजनवांस्तु न्यायो निष्प्रयोजनां तद्गतां
220 चिन्तामङ्गीकरोति, फलवत्सन्निधावफलं तदङ्गमिति न्यायात् । तस्मादनङ्गमपि
प्रयोजनं परीक्षाया मूलं स्वर्ग इव सेतिकर्तव्यताकस्य यागाद्यनुष्ठानस्येति सिद्धम्1015 ॥ २४ ॥


लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥ १ । १ । २५ ॥


क्रमप्राप्तं दृष्टान्तं लक्षयति—लौकिक—न्तः ॥ दृष्टान्त इति लक्ष्यनिर्देशः, शेषं
लक्षणम् । साध्यसाधर्म्यात् तद्धर्मभावित्वेनार्यते1016 तथा साध्यवैधर्म्यादतद्धर्मभावि
त्वेनार्यते यः सोऽर्थस्तस्मिन् । तथा च नातिव्याप्तिः । उदाहरणसूत्राच्चेदृशविशेष
प्रतिलम्भः । लोकसामान्यम् किं तदित्यत आह—नैसर्गिकमिति । शास्त्र
परिशीलनलब्धजन्मा बुद्ध्यतिशयो वैनयिकः । तद्रहिता लौकिकाः प्रतिपाद्या इति
यावत् । तद्विपरीताः तदुभयसंपन्नाश्च परीक्षकाः प्रतिपादका इति यावत् ।
कथाबहुत्त्वाच्च बहुवचनम् । तदनेन वादिप्रतिवादिनौ दर्शितौ, तयोर्बुद्धिसाम्यं
व्याचष्टे—यथा यमर्थमिति । लक्षणप्रयोजनमाह—दृष्टान्तविरोधेनेति । दृष्टान्तस्य
विरोधो विरुद्धत्वं साध्यविकलत्वादि । प्रतिपक्षा इति प्रतिपक्षासाधनानि । समाधिः
अभूतदोषारोपस्य प्रतिषेधः । लक्षितश्च दृष्टान्त उदाहरणलक्षणाय कल्पते घटते
इति भाष्यम् । अत्र वार्त्तिककारो लौकिकपरीक्षकस्वरूपमविवक्षितमिति मन्वान
आह—बुद्धिसाम्येति । अविवक्षायाः प्रयोजनमन्वयव्यतिरेकाभ्यामाह—एवं चेति ।
परेषां 1017दृष्टान्तलक्षणाक्षेपमुपन्यस्य दूषयति—सोऽयं दृष्टान्त इति । दृष्टान्तस्य
प्रयोजनमाह—दृष्टान्तः सारूप्यव्युत्पत्त्यर्थः । यथा आक्षेप्त्रोक्तं तत्तदक्षरमनूद्य
दूषयति—असिद्धसाधनार्थो वेति । न खल्वसिद्धः साध्येन साधनस्याविनाभावो
दृष्टान्तेन साध्यते इत्यर्थः ॥ २५ ॥


॥ इति न्यायपूर्वाङ्गलक्षणप्रकरणम् ॥

  1. तत्र चC

  2. विमर्श°OmJ

  3. टी ३२॑१३

  4. तुC

  5. °योगिC

  6. उपपत्ति°C

  7. °न्य
    वद्धर्म°
    C

  8. पुरोवर्तिनोस्तुC

  9. °न्यज्ञानमभ्य° C

  10. कथं C

  11. हि C

  12. नित्यत्वसं° C

  13. तस्माद° C

  14. °भावोऽव्यव° J

  15. प्रमाणानां चC

  16. इति चC

  17. आलोक्याथC

  18. निर्विभक्तस्यC

  19. वा. १. १. २३C

  20. तदनेनC

  21. तदेतस्या°C

  22. अभेदप्रत्ययहेतुःC

  23. हेतुर्धर्मोऽनेकधर्मो भेदप्रत्ययहेतुर्वि°C

  24. निर्विभजतिC

  25. °त्रयविशेषे सं°C

  26. वै. सू. १. १. ८

  27. निर्विभक्तस्यC

  28. तत्रOmC

  29. °कुट्मलेषुC

  30. °दलयोरपिC

  31. C

  32. विभागविषययौ°C

  33. °निश्चयक्रम°C

  34. °कार्यकारणैकार्थ°J

  35. °जन्य
    त्वात्
    C

  36. तेन साह°C

  37. °मात्रे इत्यर्थःJ

  38. सत्यं सपक्षा°C

  39. श्लोक वा° शब्दनित्यताधिकरणम् ३६६

  40. कृतकत्वं प्र°C

  41. सर्वमनुमानमेवमितिC

  42. समावेशाभा°C

  43. वा २॑२॑२२

  44. °प्रमाणसद्भावे J

  45. °हेतुद्वयसमावेश° C

  46. °संशयहेतुत्वे J

  47. °स्थायाः C

  48. संशयः C

  49. शब्दो हिC

  50. विजातीयव्यावर्तनायC

  51. आत्मनःC

  52. °विशेषेणC

  53. °रूप
    एवो°
    J

  54. प्रतिपाद्यतC

  55. °पन्नताऽनवस्थाC

  56. २॑१॑१८

  57. प्रवृत्तौJ

  58. °मिति किं तुJ

  59. युक्तम् J

  60. अर्थ्यते C

  61. दृष्टान्त° Om J