221

न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्


तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥ १ । १ । २६ ॥


अत्र भाष्यकारः सिद्धान्तसामान्यलक्षणमपठित्वैव तात्पर्यं1018 व्याचष्टे—अथ
सिद्धान्त
इत्यादिना । तत्र इदमित्थंभूतमिति वार्त्तिककारो व्याचष्टे—इदमिति
सामान्यत
इति । भाष्ये1019 संस्थितिरित्थंभावव्यवस्थेति सामान्योपक्रमस्य
अभ्युपगमस्य प्रमाणतो विशेषपर्यन्ततापरिसमाप्तिः संस्थितिरित्यर्थः । अत्रैवार्थे
सूत्रमित्याह वार्त्तिककारः—अस्यार्थस्येति ।


तन्त्रा—न्तः । सूत्रार्थमाक्षिपति—किं पुनरिति । लक्षणार्थं चेति ।
सामान्यलक्षणार्थम्, न खलु सामान्यलक्षणमन्तेरण शक्यो विभाग इत्युक्तम् ॥ २६ ॥


स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्य
र्थान्तरभावात् ॥ १ । १ । २७ ॥


समाधत्ते—नानार्षमिति । लक्षणार्थत्वं 1020सामान्यलक्षणार्थत्वम् । तन्त्र्यन्ते
व्युत्पाद्यन्ते प्रमेयाण्यनेनेति तन्त्रं प्रमाणम् । तदेवाधिकरणम् आश्रयो ज्ञापकत्वेन
येषामर्थानां ते तथोक्ताः । अशास्त्रितः अप्रामाणिक इत्यर्थः । आभिमानिकं च
प्रामाणिकत्वम्, तेन सिद्धान्तभेदिनामर्थानां सर्वेषां न प्रामाणिकत्वप्रसङ्गः । तदेवं
भाष्यकारेण व्याख्याय सामान्यलक्षणं पठितम् । एवं व्याख्यानपूर्वकमेव विभागसूत्रं
पठति—तन्त्रार्थसंस्थितिरिति । तन्त्रग्रहणेन च सर्वतन्त्रप्रतिन्त्रयोरुपादानम् 1021उभयोरपि
तन्त्रत्वात् । तदिदमुक्तम्—तन्त्रभेदात् त्विति । अनवधारितार्थपरिग्रह इति ।
साक्षाच्छास्त्रे नोपात्तो यथा मनस इन्द्रियभाव इति ॥ २७ ॥


222

सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥ १ । १ ।
२८ ॥


सर्व—न्तः । यद्यपि घ्राणादिषु भौतिकत्वाभौतिकत्वादयो1022 विप्रतिपत्तयः,
तथापि इन्द्रियत्वे नास्ति विप्रतिपत्तिरिति । तदेतद् वार्त्तिककारो व्याचष्टे—
सर्वेषामिति । अत्र चोदयति—न दृष्टान्तादिति । परिहरति—भिद्यत इति । न चैवं
सर्वतन्त्रसिद्धान्तः । तस्य सर्वैरेव निश्चितत्वादिति । अनुमानागमयोरिति ।
संबन्धग्रहणाश्रयावनुमानागमौ, यत्र च संबन्धग्रहः स दृष्टान्त इत्यर्थः ॥ २८ ॥


समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥ १ । १ । २९ ॥


समा—न्तः ॥ समानशब्द एकपर्यायः । नैयायिकानां हि समानं तन्त्रं न्याय
शास्त्रम्,
परतन्त्रं च सांख्यादिशास्त्रम् । चेतना आत्मनः निरतिशया अपरिणामिनो
न केनचिद् धर्मेणोपजनापायधर्मेण युज्यन्ते । प्राकृतेषु च देहादिषु1023 तत्कारणेषु
महदहङ्कारपञ्चतन्मात्रभूतसूक्ष्मेषु विशेषोऽतिशय इत्यर्थः । तदेतत् सूत्रं वार्त्तिक
कृद्
व्याचष्टे—सामान्येति । योगानाम् एव, सांख्यानाम् एवेति नियमः ॥ २९ ॥


यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ॥ १ । १ । ३० ॥


यत्—न्तः ॥ यस्यार्थस्य साध्यस्य वा हेतोर्वा सिद्धौ इति विषयसप्तमी, न तु
निमित्तसप्तमी, द्वयोर्ज्ञायमानयोर्निमित्तनैमित्तिकभावायोगात्1024 । तेन यस्मिन्नर्थे ज्ञायमाने
तदनुषङ्गिणोऽर्थास्तदन्तर्भाविनो गम्यन्ते1025, सोऽर्थः साक्षादधिक्रियमाणस्तदनुषङ्गिणां
चाधारः तदाश्रयत्वात् तत्सिद्धेः, स पक्षो वा भवतु हेतुर्वा1026 अनेन रूपेण
223 अधिकरणसिद्धान्तः । पक्षस्तावद् 1027यथा विवादाध्यासितमुपलब्धिमत्कारण
मुत्पत्तिमत्त्वाद् वस्त्रादिवदिति । अत्र हि पृथिव्यादिगतेनोत्पतिमत्तेन उपलब्धि
मत्पूर्वकत्वं तद्गतं साध्यमानं स्वसिद्ध्यन्तर्गतानुषङ्गिसर्वज्ञत्वाद्युपेतमेव सिध्यति
नान्यथेहोपलब्धिमत्पूर्वकत्वस्य सिद्धिरिति । भाष्ये हेतुः प्रतिसन्धानं सिध्यत्
अनुषङ्ग्यर्थान्तरान्वितं सिध्यतीत्युदाहृतम् । तदेतत्सर्वावरोधार्थं वार्त्तिककृद्
आह—वाक्यार्थेति । हेतुरीदृशः पक्षश्च वाक्यार्थ इत्यर्थः । पूर्वोऽर्थो यः साक्षादधिकृतः
तस्य सिद्धावन्तर्गत इति भाष्यार्थः ॥ ३० ॥


अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ॥
१ । १ । ३१ ॥


अथाभ्युपगमसिद्धान्तलक्षणसूत्रम्—अप—न्तः ॥ तद् वार्त्तिककारो व्याचष्टे—
अपरीक्षितोऽसूत्रित इति, सूत्रितस्य प्रायेण परीक्षासंबन्धात्, मनसो हीन्द्रियत्वेना
सूत्रितस्यापि इन्द्रियत्वाभ्युपगमः प्रमाणाधिकरणो यतः, तस्मादयमभ्युपगम
सिद्धान्तः । सूत्रं चैवं योजनीयम्, असूत्रिताभ्युपगमात् हेतोर्यतस्तद्विशेषपरीक्षणं
क्रियते1028, तस्माद् विशेषपरीक्षणात् ज्ञायते असूत्रितमप्यभ्युपगतं सूत्रकारेण ।
सोऽयमस्याभ्युपगमोऽभ्युपगमसिद्धान्त इति ॥


एवं स्वमतेन सूत्रं व्याख्याय भाष्यकारव्याख्यानं दूषयति—शास्त्रानभ्युपगत
इति । प्रमाणीकृतेन शास्त्रेणाननुज्ञातः प्रमाणानधीन इत्यर्थः । प्रमाणतन्त्राभ्यु
पगमसंस्थितिरिति हि सिद्धान्तसामान्यलक्षणम्, न च प्रमाणानधीनाभ्युपगमस्त
दन्वेतीति नायमीदृशोऽभ्युपगमसिद्धान्तो भवितुमर्हतीति हृदि निधायायुक्तापि
दर्शिता । अज्ञं प्रत्यसदाचारत्वात् प्रामाणिंक च पुरुषं प्रत्यशक्यत्वात् बुद्धि
मतोऽवज्ञानस्यायुक्तत्वात्
अशक्यत्वादित्यर्थः । सर्व एवायं पक्ष इति ।
224 सर्वतन्त्रप्रतिततन्त्रसिद्धान्तौ तावत् साक्षादभ्युपगम्यमानौ स्वमुखेनैव पक्षतयाभिधीयेते ।
अधिकरणाभ्युपगमौ 1029च साक्षादनभ्युपगम्यमानावप्यर्थादभ्युपगन्तव्याविति अर्था
पत्त्या पक्षावित्यर्थः । ननु यद्युपपन्नः प्रमाणतया अभ्युपगमः सिद्धान्तः, तर्हि
सिद्धान्तभेदिनामर्थानां प्रामाणिकत्वेन विरुद्धधर्मसमालिङ्गिता भावाः प्रसज्येर
न्नित्यत आह—तत्प्रत्ययात् । तस्य प्रमाणोपपन्नकर्मत्वस्य प्रत्ययादभिमाना
दित्यर्थः । पक्ष इति पचि व्यक्तीकरणेत्यस्माद् व्युत्पन्नम् । कर्मतया व्यज्यमानतया
वा उपादानं स्वार्थस्य पक्ष इति पदम् । उपादीयतेऽनेनेति व्युत्पत्त्या क्रियासाधन इति
प्रधानक्रियासाधने । क्रियाविशेषयुक्त इति अवान्तरव्यापारयुक्ते । तेन हि
प्रधानाक्रियायां कारकाणां वैचित्र्यं भवतीति, यश्चासौ न्यायस्याभ्युपगम इति ।
यावदभ्युपगतं न्यायस्य साधनं न्याय इति, तावदभ्युपगतं भवति प्रमेयसाधनं
प्रमाणमिति । न च धर्मिणि अनभ्युपगते तदाश्रयोऽभ्युपगतो भवति । तस्मादुभयथापि
सर्वतन्त्रसिद्धान्तानपह्नव इत्यर्थः । अथ संग्रहः पक्षशब्देनेति, यथा दण्डिशब्देन
दण्डसंबन्धोपहितसीमानः समानासमानजातीयाः सर्वे संगृह्यन्ते, तथा
पक्षशब्देनापीत्यर्थः । अयं तु कल्पः सर्वतन्त्रसिद्धान्ताव्यापकत्वकथनेनैवार्थादपा
कृत इति न पृथक् निराकृतः । पक्षशब्दो हि व्यज्यमानत्वोपाधिनिबन्धनप्रवृत्तिः, न
च व्यज्यमानत्वमस्ति निसर्गव्यक्ते सर्वतन्त्रसिद्धान्त इति भावः । वाक्यार्थप्रति
पत्ताविति ।
पीनो देवदत्तो दिवा न भुङ्क्ते इति वाक्यस्य1030 दिवाभोजन
निषेधोऽर्थः । तस्मात् तद्विपरीतरात्रिभोजनविधिरर्थापत्तिर्लोकसिद्धा । सा च न यथा
प्रमाणान्तरफलं तथा द्वितीये निवेदयिष्यते1031 । तदनेन प्रबन्धेन भदन्तदिग्नागोदितानि
दूषणानि निराकृतानि ॥ ३१ ॥


॥ इति न्यायाश्रयसिद्धान्तलक्षणप्रकरणम् ॥

  1. अपठित्वावतार्य J

  2. तु C

  3. तेन सामा° J

  4. तयोरपि C

  5. °त्वादौC

  6. देहादिषुOmC

  7. °त्वायोगात्C

  8. °भावेन
    ज्ञायन्ते
    C

  9. तेनC

  10. यथाOmC

  11. भवतिJ

  12. तु C

  13. इत्यस्य C

  14. २॑२॑६