394 प्रतियन्ति हि लौकिका दध्नि क्षीराभावमिव क्षीरे दध्यभावम् । ननु सूत्रं अन्येषु वा
सः सु लक्षणानां
भावरूपाम् उपपत्तिं सद्भावमाह 1638त्वं त्वभावोपलब्धिं ब्रूषे । तत्
कुतो न विरोध इत्यत आह—अत उक्तार्थं सूत्रमिति । व्यतिरेकमुखेणास्य
सूत्रस्योक्तोऽर्थः । अत एवाह भाष्यकारः—नैवमलक्षितेष्विति । लक्षणादर्शनेन हि
लक्षणाभावदर्शनमुपलक्षितम् ॥ ९ ॥


तत्सिद्धेरलक्षितेष्वहेतुः ॥ २ । २ । १० ॥


यानि तानि लक्षितेष्विति । न कस्यचित् लक्षितस्य न सन्ति । 1639सन्ति
चेत्—तेषामभावो व्याहतः । एतदुक्तं भवति, यत्र लक्षणानि सन्ति तत्र तेषामभावो
व्याहतः । यत्र च न सन्ति तत्राप्यभावोऽनुपपन्नः, तस्य भावाधीननिरूपणस्य
तदभावेऽशक्यनिरूपणत्वादिति । परिहरति—नापरिज्ञानादिति । भावज्ञानाधीन
निरूपणो भवत्यभावो न तु भावाधीननिरूपणः । प्रागभावोऽपि च शक्यो
भविष्यद्भावज्ञानेनान्यत्रावस्थितभावज्ञानेन वा निरूपयितुमिति न प्रागभावाभाव
इत्यर्थः ॥ १० ॥


न लक्षणावस्थितापेक्षसिद्धेः ॥ २ । २ । ११ ॥


प्रागुत्पत्तेरभावोपपत्तेश्च ॥ २ । २ । १२ ॥


अभावद्वैतमिति प्रकृतापेक्षम् । प्रकृतं प्रध्वंसमात्रवादिनं प्रति प्रागभाव
प्रतिपादनम् । परमार्थतस्तु प्रथममभावे द्वैतम्, तादात्म्याभावः संसर्गाभावश्चेति ।
संसर्गाभावोऽपि प्राक्प्रध्वंसात्यन्ताभावभेदेन त्रिविध इति चतस्त्रो विधा अभावस्येति ॥

  1. न त्वभावोपलब्धिं ब्रूतेC

  2. यानि च सन्ति तेषा°C