395 असत्यर्थे नाभावः1640
तत्सिद्धेरलक्षितेष्वहेतुः
इति चोभे अप्येते छलसूत्रे
इति । यो योऽभावः स सर्वः सत्यर्थे भवति यथा
प्रध्वंसः । न च तथा लक्षणाभाव इति सामान्यच्छलम् । तत्सिद्धेरिति तु वाक्छलम् ।
यानि लक्षणानि भवन्ति कथं तान्येव न भवन्तीति हि तस्यार्थः ॥ १२ ॥


इति प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्

शब्दानित्यत्वप्रकरणम्


आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च ॥ २ । २ । १३ ॥


तदेवं शब्दपरीक्षां प्रस्तुत्य तस्य प्रामाण्यं परीक्ष्य विभागोद्देशः परीक्षितः ।
संप्रति शब्दपरीक्षाशेषं1641 वर्तयिष्यन्नाह—


आप्तोपदेशः शब्द इति ।

संशयकारणं विप्रतिपत्तीः दर्शयन् जरन्मीमांसकानां मतमाह—आकाशगुणः
शब्द
इति । अभिघातप्रेरितेन हि वायुना यावद्वेगमभिप्रतिष्ठमानेन कर्णशष्कुल्य
वच्छिन्ननभोभागसमवेतः शब्दो नित्यो व्यज्यत इति । तदेतद् वार्त्तिककारो
व्याचष्टे—एके तावदिति । अविनश्यदाधारमपि संयोगाद्यनित्यमित्यत आह—
एकद्रव्यमिति । तथापि पार्थिवानुगतै रूपादिभिरनैकान्तिकम् । अत आह—
आकाशगुणश्चेति । एकद्रव्यत्वे सत्याकाशगुणत्वादित्येतावतैवाभिमत
सिद्धेरविनश्यदाधारत्वं तत्प्रपञ्चार्थं वेदितव्यम् । संयोगविभागनादा इति । भेरीदण्ड
संयोगप्रेरितो वायुः कर्णशष्कुलीमन्तमाकाशं प्राप्तः शब्दस्य व्यञ्जकः । एवं
वंशदलविभागप्रेरितो वायुः शब्दस्य व्यञ्जक इति द्रष्टव्यम् । संयोगविभागौ पारम्पर्येण,

  1. वर्तयन्ना°C

  2. वर्तयन्ना°C