393 सर्वोपाख्यारहितं प्रमाणज्ञानविषयभावमनुभवति, केवलं काल्पनिकोऽयमभाव—
व्यवहारो लौकिकानामिति पूर्वपक्षः ।


सिद्धान्तमाह—अभावस्य भूयसीति । सर्वजनीनौ तावदभावप्रत्ययव्यवहारौ
न काल्पनिकौ भवितुमर्हतः । न च कल्पनापि सर्वोपाख्यारहितं गोचरयितुमर्हतीत्युक्तं
विपरीतख्यातिसाधनावसरे1635 । क्षणभङ्गभङ्गावसरे च तस्योपाख्येयत्वमुपपादयिष्यते ।
तस्मादस्य प्रामाण्याद् युक्तः प्रमाणान्तर्भावः ।


तदेतत् सर्वं वार्त्तिककारो व्याचष्टे—नाभावः प्रमाणमिति । यथोक्तं
दूषयति—कश्चैवमाहेति । अभावो हि प्रमेयमुच्यते । न तत् स्वरूपेण प्रमाणम्,
अपि तु तद्विषया प्रतिपत्तिः । सा च प्रत्यक्षफलमप्युपादानादिबुद्धौ प्रमाणं यथा अग्रे
तथा वक्ष्यते । वर्षाभावप्रत्ययस्तु वाय्वभ्रसंयोगेऽनुमानमुक्तम्1636 ॥ ७ ॥


लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ॥
२ । २ । ८ ॥


प्रतिपद्य चानयतीति लक्षणाभावेन विशेषणेनावच्छिन्नान्यानेतव्यत्वेन
प्रतिपद्यानयति । एतदुक्तं भवति, लक्षणाभावज्ञानं विशिष्टे वाससि प्रत्ययं जनयत्
साधकतमत्वाद् भवति प्रमाणमिति ॥ ८ ॥


असत्यर्थे नाभाव इति चेन्नान्यलक्षणोपपत्तेः ॥ २ । २ । ९ ॥


भावाधीननिरूपणत्वात् प्राप्तिपूर्वकत्वाच्च प्रध्वंस एवाभावः । तस्य
भावपूर्वकत्वात् नान्योऽस्त्यभाव इति मन्वानस्य पूर्वपक्षः । नापरिज्ञानादिति ।
प्रत्यक्षं हि प्रमाणं 1637प्रमेयाभावं व्यवस्थापयति । तच्च प्रध्वंस इव प्रागभावेऽपि तुल्यम् ।

  1. ता. टी. १. १. २

  2. ता. टी. २. २. १

  3. अभावप्रमेयमवस्था°J