शब्दानित्यत्वप्रकरणम्


आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च ॥ २ । २ । १३ ॥


तदेवं शब्दपरीक्षां प्रस्तुत्य तस्य प्रामाण्यं परीक्ष्य विभागोद्देशः परीक्षितः ।
संप्रति शब्दपरीक्षाशेषं1641 वर्तयिष्यन्नाह—


आप्तोपदेशः शब्द इति ।

संशयकारणं विप्रतिपत्तीः दर्शयन् जरन्मीमांसकानां मतमाह—आकाशगुणः
शब्द
इति । अभिघातप्रेरितेन हि वायुना यावद्वेगमभिप्रतिष्ठमानेन कर्णशष्कुल्य
वच्छिन्ननभोभागसमवेतः शब्दो नित्यो व्यज्यत इति । तदेतद् वार्त्तिककारो
व्याचष्टे—एके तावदिति । अविनश्यदाधारमपि संयोगाद्यनित्यमित्यत आह—
एकद्रव्यमिति । तथापि पार्थिवानुगतै रूपादिभिरनैकान्तिकम् । अत आह—
आकाशगुणश्चेति । एकद्रव्यत्वे सत्याकाशगुणत्वादित्येतावतैवाभिमत
सिद्धेरविनश्यदाधारत्वं तत्प्रपञ्चार्थं वेदितव्यम् । संयोगविभागनादा इति । भेरीदण्ड
संयोगप्रेरितो वायुः कर्णशष्कुलीमन्तमाकाशं प्राप्तः शब्दस्य व्यञ्जकः । एवं
वंशदलविभागप्रेरितो वायुः शब्दस्य व्यञ्जक इति द्रष्टव्यम् । संयोगविभागौ पारम्पर्येण,
396 नादस्तु साक्षादिति ।


सांख्यीयमतमाह—गन्धादिसहवृत्तिरिति । पञ्चतन्मात्रोत्पन्नभूतसूक्ष्म
समुदायारब्धपृथिव्यादिविकारो गोघटादिवृत्तिः1642 शब्दो योग्यदेशस्थः आहङ्कारिकतया
व्यापकं विषयदेशस्थं श्रोत्रेन्द्रियं विकुर्वन्नवस्थित एव गृह्यते । तदेतदाह—अपरे
पुनरिति । भूतविशेषाभिघाता
इति । भेरीदण्डाभिघाता इत्यर्थः ।


वैशेषिकमतमाह—आकाशगुण इति ।


बौद्धराद्धान्तमाह—महाभूतसंक्षोभज इति ।


नासंबन्धादिति । यदा भावोऽस्ति तदा प्राक्प्रध्वंसाभावाभावान्नानित्यत्वम् ।
अनुत्पन्नविनष्टयोश्च प्रसङ्गादिति । न तावत् प्राक्प्रध्वंसाभावयोः सहभावोऽस्ति ।
तस्मात् प्रत्येकमेतावनित्यत्वम्1643 । तथा चानुत्पन्ने वस्तुनि विनष्टे वानित्यत्व
प्रसङ्गः । न चेदं दृष्टमिष्टं वा भावधर्मत्वेनानित्यत्वस्य प्रतीतेरनित्यो घट इति । न
केवलमनित्यस्य भाव इत्येतस्मिन्1644 पक्षे न युज्यते । षष्ठ्यर्थश्च नास्तीति । कस्माद
भावस्याभावो धर्मो न भवतीत्यत आह—न च धर्मकाल इति । चो हेत्वर्थे ।
शङ्कते—अथेति । भवन्नेव हि यस्मात् 1645प्राग् न भवति पश्चाच्च, तस्मात् तस्याभाव
इति षष्ठ्युपपत्तिरित्यर्थः । उत्तरम्, एवमपीति । सत्यं भवन्नेव न भवतीति । न
चैतावतास्याभावसंबन्धो भिन्नकालत्वात् । तस्मात् नास्मदुक्तं किञ्चित् प्रतिषिद्ध
मित्यर्थः । लोकविरुद्धमुद्भावयति—घटस्य प्रागभाव इति । असंबन्धेऽपि सति
षष्ठीप्रयोगोऽयं भाक्तः । भावाधीननिरूपणत्वं च भक्तिरित्यर्थः । अपि च वर्तमानं
वस्तु 1646नित्यमित्युच्यते तस्य भावो 1647नित्यता भवतु किमेतावतापीत्यत आह—
वर्तमाने चेति ।


विनाशोऽस्यावश्यन्तया भविष्यतीति अवश्यंभाविनो विनाशस्य सन्निधा
नेन संबन्धमुपचर्य मतुपः प्रयोग इत्यर्थः ।


397

उपलब्धिलक्षणप्राप्तस्येति । न हि सतो विनाशोऽस्ति येनासंबन्धो भावस्य
देश्येत, किन्तु यथा सत आविर्भावो जन्म एवं सत एवात्यन्ततिरोभावो विनाश इति
च अनित्यतेति चाख्यायते । तिरोभावस्य च सता सह समानकालतया संबन्ध
उपपद्यते इति भावः । तिरोभावश्च पटादिनापि संभवतीत्युपलब्धिलक्षण
प्राप्तस्येत्युक्तम् । तदेतत् सांख्यीयं मतं दूषयति—एतत्तु शून्यमभिधानमिति ।
प्रधानविकारत्वाद् विश्वस्य विकारस्य च प्रकृतेरनन्यत्वात् प्राधानिकस्य कस्यचिदु
पलम्भान्नास्त्येव तद् वस्तु यदत्यन्तं नोपलभ्यत इति सांख्यसिद्धान्तस्तं बाधते
इत्यर्थः । अपि च यथा सतो न विनाशः एवमसतोऽपि जन्म नास्ति । तथा चानुपजात
विशेषस्य वस्तुनस्तिरोभावो न युक्तः । विशेषोपजनने च कथं सत उत्पत्तिर्विशेषस्यैव
प्रागसत्त्वात् ? सत्त्वे वा प्रागप्युपलब्धिप्रसङ्ग इति ।


ये पुनरिति । अनित्य एवानित्यता स्वार्थिकस्तल्प्रत्यय इत्यर्थः । दूषयति—एतत्तु
न युक्तम् । पाणिने
रपि स्मृतिः प्रमाणाविरोधिनी तत्त्वव्यवस्थाहेतुः । न तद्विरोधिन्यपि ।
अस्ति च ठगादीनां स्वार्थिकत्वे प्रमाणविरोधः । तथा हि प्रकृतिप्रत्यययोः समभिव्याहारो
न स्यात् । न खल्वेकार्थयोः समभिव्याहारो दृष्टः । न हि भवति वृक्षः शिंशपा इतिवद्
वृक्षस्तरुरिति प्रयोगः । कथं तर्ह्येको द्वौ बहव इति चेत्—न, लिङ्गविशेषव्यक्त्यर्थत्वाद्
विभक्तिप्रयोगस्य । एवं यावकादिष्वपि विरुद्धजात्यन्तरव्यवच्छेदः प्रत्ययार्थो
वेदितव्यः । यथा च व्याचक्षते शाब्दाः याव एव यावक इति । तदिदमुक्तम्—
अनुपलभ्यमानभेदानामप्यनुमानतो भेद इति । किमनुमानम् ? षष्ठ्या
भेदविषयत्वमिति त्वतलभिप्रायम्, नित्यत्वानित्यत्वयोः प्रकृतत्वात् ।
तस्य भावस्त्वतलौ
इति त्वतलोः षष्ठीसमर्थादुत्पत्तेः । सर्वविषयं त्वनुमानमुक्तमिति1648


अवध्यपेक्षानपेक्षेति सत्तैवोभयान्तावध्यपेक्षा भवत्यनित्यता, सैव च तदनपेक्षा
नित्यता । अवधिश्चोपलक्षणं न विशेषणम् । तच्च भिन्नकालमपि भवत्येव । यथा
398 मृतायां मातरि देवदत्तायां देवदत्तापुत्रो यज्ञदत्त इति भूतपूर्वगत्या देवदत्ता
स्वपूत्रमुपलक्षयति । यदा च कार्यत्वं समवायस्तदोभयान्तावच्छिन्ना सत्ता नित्यता ।
यदा तु पूर्वान्तावच्छिन्ना सत्तैवोत्पत्तिस्तदापरान्तावच्छिन्ना सत्ता अनित्यतेति न
हेतुलक्षणव्याख्यानावसरोक्तेन1649 विरोध इति । कारणमित्यभिधीयत इति
समवायिकारणाभिप्रायम् । समस्तकारणव्यापकं तु लक्षणं कार्योत्पादस्य पुर
स्तान्नियमेन सद्भाव इति द्रष्टव्यम् । कार्यात्मलाभहेतुः समवाय इति । कार्यात्मलाभः
स्वकारणसमवेतत्वं1650 तस्य हेतुः समवायः । समवायाद्धि समवेतत्वं भवति । समवायः
कारणविशिष्टः कार्यत्वमिति ।


आदि…च्च । निमित्तकारणभेदानुविधानमुत्पत्तिधर्मकत्वं गम्यगमकयोर
भेदविवक्षया । निमित्तकारणनि च भेरीदण्डसंयोगादयः । तद्भेदात् खलु शब्दो भिन्नो
भवति । शङ्कते—संयोगविभागेति । यथा हि कारणभेदेन भेदो दृश्यत एवं
व्यञ्जकभेदेनापि मणिकृपाणदर्पणादिव्यज्यमानस्य मुखस्य भेदो दृष्टः । तस्मात्
संशय इति ।


श्रोत्रं तावन्न शब्ददेशं गच्छत्यमूर्तत्वादिति । कर्णशष्कुल्यवच्छिन्नं हि नभः
श्रोत्रम् । न च कर्णशष्कुली मूर्तापि सती वक्तृवक्त्रमुपसर्पति । प्रत्यक्षं हि कर्णशष्कुली
श्रोत्रस्था गृह्यते, न तु वक्तृस्था । तस्माद्गच्छदपि कर्णशष्कुल्युपधानविरहान्न नभो
मात्रं श्रोत्रम् । तस्मान्मा कर्णशष्कुली यासीत्, तदुपकृतं तु नभो गच्छतीति यो मन्यते
तं प्रत्येतदुक्तमिति द्रष्टव्यम् । क्रियाकारणगुणसमवायादिति नोदनाभिघात
समवायादित्यर्थः । नायं निरपेक्षार्थ इति । यद्यपि समवायिकारणं पतने कर्तव्ये
1651गुरुत्वमपेक्षते, तथापि चरमभाविनिमित्तान्तरं नापेक्षत इति निरपेक्षशब्दस्यार्थः ।
यद्यपि प्रतिबन्धकापगमो भवति चरमभावी, तथापि न निमित्तान्तरम् । प्रतिबन्धे हि
सति गुरुत्वं न करोति कार्यमौत्सर्गिकम् । न पुनः प्रतिबन्धकापगमस्यापि तत्र
निमित्तभावकल्पना युक्ता, 1652तदन्वयव्यतिरेकस्यान्यथासिद्धेरिति । भावरूपं वा
399 चरमभाविनिमित्तान्तरं नापेक्षत इत्यनपेक्षार्थः । विषयाभावाच्चेति । क्रियोत्पादं
प्रति योग्यता क्रियाविषयः । तामाश्रित्य क्रिया भवति । सा च मूर्तिः । न
चासावसर्वगतद्रव्यपरिमाणलक्षणा आत्माकाशादौ सर्वगते समस्ति । तस्मान्नैते
क्रियावन्त इत्यर्थः । ततोऽन्त्यस्यातिमान्द्यादिति । नान्त्यः शब्दान्तरमारभते । न
केवलमसौ स्वकारणं शब्दं नाशयति, किन्तु सोऽपि स्वकारणेन शब्देन नाश्यते ।
तदिदमनयोः कार्यकारणविरोधित्वम् । आद्यस्तु कार्येणैव नाश्यते, मध्यमानां
त्वनियम इति ।


जरन्मीमांसकमतमुत्थापयति—एक एवेति चेदिति । एक एव तेषां शब्दो
नभोगुणो नभो वितत्यावस्थितः परिमाणवदित्यर्थः । शब्दसंस्कारपक्षं कक्षीकृत्य
दूषणमाह—न सर्वैरुपलब्धिप्रसङ्गादिति । न किम इति प्रश्नस्येत्यर्थः । शब्दस्या
काशवृत्तित्वादिति ।
आकाशस्य सर्वगतत्वेन तत्र व्यक्तः सर्वत्रैव व्यक्त इति सर्वत्र
सर्वेषामुपलम्भस्तदवस्थ एवेत्यर्थः । अभ्युपेत्यैकदेशमाह—एकदेशाभिव्यक्तौ
चार्थप्रत्ययो न स्यात्,
वर्णसाध्यस्य कार्यस्यैकदेशेनाकरणात् । यथा नानावर्णे पदे
एकवर्णाभिव्यक्तौ नार्थप्रत्यय इति ।


स्यादेतत् । एकदेश एव वर्णः । तथा च वर्णसाध्यं कार्यमेकदेशः शक्त एव
कर्तुमित्यत आह—सर्व एव व्यापका भवन्तीति एतस्मिन् पक्षे वर्णैकदेशव्यक्तिः
अभ्युपगम्यते । तस्माद् व्यापकाद् वर्णादव्यापक एकदेशोऽन्य इत्यर्थः । न न्वस्त्वेक
देश एवार्थप्रत्यायक इत्यत आह—न च वर्णैकदेशः शक्यो निरूपयितुम् ।
अल्पीयसापि हि प्रयत्नेन वर्णमुच्चरितं मतिर्न गृह्णाति गृह्णती वा वर्णमेव गृह्णाति,
न तु तदेकदेशं कदाचिदपीत्यर्थः । निरूपणमभ्युपेत्याह—न च निरूपितादिति ।


बहवस्तर्हि वर्णा व्यज्यन्तां तन्निरूपणाच्चार्थो गम्यते इत्यत आह—एतेनेति ।
यस्तु मन्यते न वस्तुतोऽस्त्येकदेशः शब्दस्य, किंतु संस्कारस्याव्याप्यवृत्तित्वमेवैकदेशो
भवत्पक्षे शब्दस्याव्याप्यवृत्तित्वमिव नभस एकदेश इति तं प्रति दोषान्तरमाह—
कोलाहलं च स्यादिति । यद्युच्येत कश्चिदेव ध्वनिः कञ्चिदेव शब्दं व्यनक्ति ।
400 ततश्च न कोलाहलमिति, तत्राह—नियमश्च न स्यादिति । समानदेशानामपि
रूपरसादीनां व्यञ्जकनियम इत्यत उक्तम्—समानेन्द्रियग्राह्याणामिति । तथापि
भिन्नदेशानां समानेन्द्रियग्राह्याणामपि न सहसा सर्वेषां व्यक्तिरित्यत उक्तम्—
समानदेशानामिति । शङ्कते—यद् यस्य व्यञ्जकमिति । न हि व्यञ्जकानां व्यञ्जकत्वं
व्यक्तेरन्यतः प्रतीयते सा च नियतेति व्यञ्जकानामपि नियमसिद्धिरित्यर्थः । परिहरति—
तन्नादृष्टत्वात् । अन्येषामेवंभूताना व्यञ्जकानां व्यङ्ग्यानां चानियमो दृष्ट इहापि
नियमं विघटयति । कार्याणां तु समानदेशानामपि समानेन्द्रियग्राह्याणामपि रूपादीनां
संख्यादीनां च दृष्टः कारणनियम इति शब्दानामपि नियतकारणतयोत्पत्तिनियम
उपपद्यत इति भावः । समस्तवस्त्वव्यवधानेन सामान्यानां सर्वसामान्यसङ्गतं समस्तं
वस्त्विति मन्वानः शङ्कते—सामान्यवदिति । सर्वार्थाव्यवधानेऽपि किञ्चिदेव वस्तु
केनचिदेव सामान्येन संबद्धं न सर्वं सर्वेणेत्याशयवान् निराकरोति—नानभ्यु
पगमादिति ।
यद्यप्येकदेशस्थानां समानेन्द्रियग्राह्याणां सत्त्वनरत्वब्राह्मणत्वानां
स्वरूपभेदसंस्थानयोनिव्यङ्ग्यानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वे1653 तथापि समानदेश
त्वाभावान्न व्यभिचारः । सत्त्वस्य पदार्थत्रयसमवायादधिकदेशतया नरत्वस्य ब्राह्मण
वत् क्षत्रियादिष्वपि सद्भावात् । ब्राह्मणत्वस्य तु क्षत्रियादिपरिहाण्या1654 कठादिष्वेव
भावाद् न्यूनाधिकदेशतया न समानदेशत्वमिति । एतेन श्रोत्रसंस्कारेऽप्यनियमो
बोद्धव्यः । यथोन्मीलनसंस्कृतमिन्द्रियं समानदेशान् स्वग्राह्यान् सकृदेव दर्शयति, न
तु किञ्चिदेवेति सर्वमवदातम् ।


अपि च सर्वस्य शब्दस्य ताल्वादिसंयोगव्यङ्ग्यत्वे तदुपरमे विदूरे
शब्देनोपलब्धव्यं न चोपलभ्यते1655 । वायुसन्तानव्यङ्ग्यत्वे तु प्रागुक्तो नियमाभाव एव
दोष इति आशङ्कोत्तराभ्यां दर्शयति—यदि चेति । अपि चायं नित्यः शब्दः प्रादेशिको
वा स्याद् व्यापको वा ? उभयथापि दोष इति शङ्कोत्तराभ्यामादर्शयति—
निमित्तसन्निधाने चेति ।


401

स्यादेतत् । माभूद् वायुसन्तानो व्यञ्जकः सन्ति खलु वायुगुणा नादास्तेऽस्तेऽस्य
शब्दस्य व्यङ्क्तार इत्यत आह—नादोपलब्धौ चेति । न तावन्नादो नाम वायुगुणः
कश्चिदुपलभ्यते । अभ्युपेत्यापि ब्रूमः, नादोपलब्धावपि यत्र वायुस्तत्र
तद्गुणोऽङ्गीकर्तव्यः । न च विप्रकृष्टेन पुरुषेण शब्दोपलब्धौ तत्र वायुरस्ति तद्गुणो
वा नादः, वायुसन्तानगमनं चास्मिन् पक्षे नेष्यते । तस्माद् विप्रकृष्टेन पुरुषेण शब्दोप
लब्धेर्न व्यञ्जको नाद इति ।


स्यादतत् । मा भूद् वायुसन्तानो मा च भूत् तद्गुणो नादः शब्दस्य व्यञ्जकः,
वायवीयास्तु संयोगविभागा व्यञ्जका भवन्तीत्यत आह—एतेनेति ।


यस्तु मन्यते, प्रत्यभिज्ञैव भगवती शब्दस्थेमसाधिनी, तदानुगुण्याय व्यापिनः
शब्दस्य गुणस्य द्रव्यस्य वा प्रयत्नप्रेरिता वायवो यावद्वेगं प्रतिष्ठमानाः श्रोत्रं श्रोत्रा
वच्छिन्नं वा शब्दविशेषं संस्ककुर्वन्तो व्यञ्जका इति कल्प्यते । न च समानदेशानां
समानेन्द्रियग्राह्याणां नियतव्यञ्जकव्यङ्ग्यत्वं न दृष्टमितीमं प्रसङ्गं प्रत्यभिज्ञा मृषति,
सोऽयमनया बाधितविषयो विलीयत इति तं प्रत्याह—कृतकवदुपचारात् । अत्र
चोपचारेण प्रयोगेण तत्कारणं शब्दभेदप्रत्ययमुपलक्षयति । अस्ति हि शुकसारिका
मनुष्यवक्त्रप्रभवेषु गकारादिषु स्फुटतरा रूपतो भेदप्रथा1656 पुंसाम् । एवं स्त्रीपुंसप्रभवेषु
स्त्रीपुंसभेदप्रभवेषु च । न चेयमौपाधिकी न तु रूपत1657 इति वाच्यम् । तथा हि औपा
धिकत्वमानुभविकं वा स्याद् यथा कुङ्कुमारूणा तरुणीति । उपपत्तिगोचरतो वा, यथा
कृपाणधारायां जले च प्रतिबिम्बहेतौ रोचिष्णुतायां दीर्घश्यामतायां मुखस्य न ताव
दानुभविकम् । विदितोपाधेः खल्वेतद् भवति, यथा विदितकुङ्कुमस्य कुङ्कुमारुणेति ।
शुकादिभेदमविदुषोऽपि च काण्डपटाद्यावृते शुकादौ शब्दभेदप्रत्ययो भवति यत
एतदुन्नीयते1658 शुकेनोदीरिता इयं मञ्जुतमा गाथेति । नाप्यौपाधिकमुपपत्तिगोचरः । न हि
शब्दस्वरूपसमवायिनो भेदस्यौपाधिकत्वे किञ्चिदस्ति प्रमाणं मुखस्येव मणिदर्पण
कृपाणगतस्य । नो खलु विरुद्धपरिमाणेषु दर्पणादिषु विरुद्धपरिमाणानां प्रतिबिम्बा
402 नामुत्पादः संभवति । शब्दानां तु संयोगविभागशब्दयोनीनां युक्तस्तद्भेदेन रूपतो
भेदः ।


स्यादेतत् । तीव्रमन्दत्वादयो धर्माः परं भिद्यन्ते, न तु तदाश्रयः शब्दः । न
ह्यन्यस्य भेदोऽन्यद्1659 भेत्तुमर्हति, अतिप्रसङ्गात् । न हि रूपरसादीनां युगपद्भाविनां
वा क्रमभाविनां वा संयोगविभागादीनां भेदेऽपि द्रव्यं भिद्यते । कथमेकस्यैव
शब्दस्यापर्यायेण तीव्रमन्दत्वादिविरुद्धधर्मसंसर्ग इति चेत् ? अत एवौपाधिकोऽस्तु
मुख्यस्येवाभेदिनोऽपर्यायेण कृपाणादिषु दीर्घपरिमण्डलत्वादिः । अत्रोच्यते—न
वयं धर्मभेदमात्रेण धर्मिणो भेदमाचक्ष्महे किं तु किमत्र धर्ममात्रभेदप्रथा उत
धर्मिभेदोऽपि प्रथत इति निपुणं निरूप्यताम् । अस्ति हि गौर्गौरिति प्रथानुगमेऽपि
कृष्णकपिलकपोतिकासु गोषु धर्मिभेदावभासिनी प्रख्या1660 । अस्ति च धर्ममात्रभेदा
वगाहिनी प्रथा धर्मिणमभिन्नमाकलयन्ती । यथा शालप्रांशुः पृथूपलविशालवक्षाः1661
प्रलम्बभुजो नीलोत्पलपलालश्यामः सिंहास्यो नवाम्भोदध्वनिर्गम्भीरमधुरघो
षश्चकोरेक्षणः क्षत्रिययुवेति । सेयं शुकसारिकामनुष्येषु युगपद्गकारानुच्चारयत्सु
तीव्रमन्दानुनासिकादिगकारावगाहिनी प्रख्या1662 किमेकमेव क्षत्रियुवानमिव गकार
मनेकधर्मवन्तमालम्बते एको गकारो नानाधर्मेति । किं वा यथेयं कृष्णा गौरियं
शुक्ला गौरियं कपिला गौरिति तथा तीव्रोऽयं गकारो मन्दोऽयं गकारोऽनु
नासिकोऽयमिति भवन्त एव विदांकुर्वन्तु । सेयं गोत्वमिव कपिलादिषु गोविशेषेषु
गत्वं तीव्रमन्दादिगव्यक्तिभेदेष्वालम्बमाना प्रत्यभिज्ञा च भेदप्रथा चोपपत्स्यते ।
अपि च युगपत्तीव्रमन्दत्वादिलक्षणविरुद्धधर्मसंसर्गादपि गकाराणां परस्परतस्त
पनखद्योतोद्द्योतवद्भेदमनुमीमहे । न चायं विरुद्धधर्मसंसर्गो न गकारादिनिवेशी किं
त्वौपाधिकः । उपाधयश्च भिद्यन्त एव, न तु गकार इति सांप्रतम् । गकारसमवायिनः
प्रतीयमानस्यासति बाधके औपाधिकत्वकल्पनायोगात् प्रत्यभिज्ञानस्य च गत्व
सामान्यालम्बनत्वेनोपपत्तेः । अपि चौपाधिकपक्षे ताल्वादिसंयोगविभागधर्मो वा
403 तदभिघातप्रेरितध्वनिधर्मो वा तीव्रत्वानुनासिकत्वादिः शब्दे समारोप्यत इत्यास्थेयम् ।
न चारोप्यमजानतामारोपः संभवति । न च ध्वनीनां ताल्वादिसंयोगविभागानां वा
धर्माः श्रोत्रेण शक्या 1663ज्ञातुं तदन्यधर्मवत् । न चैते तदानीं प्रमाणान्तरेणोपनीयन्ते
1664स्मृत्या वा येनारोप्येरन् । न च ध्वनिभेदसंस्कारवशादेव श्रोत्रस्यैतादृशः सामर्थ्यभेद
आविरस्ति, यत आरोप्याग्रहेऽपि भ्रमो भवति । न च1665 मण्डूकवसाक्ताक्षाणामिवा
नवगतास्मृतोरगाणामपि प्रथमाक्षिसन्निपाताद् वंशेषूरगारोप इति साम्प्रतं सर्वासामेव
भ्रान्तीनां प्रमाणगृहीतारोप्यारोपविषय—ग्रहणपुरःसरत्वनियमात् । तदनुसारेण च
मण्डूकवसाक्ताक्षाणामपि वंशेषूरगभ्रमो व्याख्येयः । वंशानां तावदस्ति भूयः
सारूप्यमुरगेण, तेन ते तत्साधारणेन1666 रूपेण गृहीताः शक्नुवन्ति स्मारयितुमुरगम् ।
एवमपि यदन्येषां भ्रमो न भवति तत्र सर्पाकारव्यावृत्तवंशाकारग्रहो हेतुः । मण्डूक
वसाञ्जनं तु वंशाकारपिधानमात्रहेतुः । न च प्रथमाक्षसन्निपातादेव सर्पभ्रम इति
प्रामाणिकं क्षणभेदस्य दुर्ज्ञानत्वात् । न चागृहीतसर्पस्य भवतीति शक्यम्1667, तस्मिन्
जन्मनि जन्मान्तरे वा सर्पग्रहसंभवात् । ध्वनिधर्मस्त्वनुनासिकत्वादिः अस्मिन्निव
जन्मनि जन्मान्तरेऽप्यशक्यग्रह एव । तस्माद् वर्णसमवेतोऽनुनासिकत्वादिः प्रतीयमानो
वर्णधर्म एव नौपाधिकः । तथा च युगपद्विरुद्धधर्मयोगात् परस्परमन्यत्वं
गकारादीनामिति सिद्धम्1668


तदनेनाभिसन्धिनोक्तम्—कृतकवदुपचारादिति ।


तदेतद् वार्त्तिककारो व्याचष्टे—तीव्रं मन्दमिति चेति । कृतकमुपचर्यत
इति । शब्दविषयत्वेन विरुद्धधर्ममुपलक्षयति । अपरानपि शब्दानित्यत्वहेतूनाह—
कृतकवदुपचारादित्यनेनेति । सामान्यवत इत्येतावतैव जात्यादिनिराकरणे सिद्धे
विशेषग्रहणं साधर्म्यं सामान्यमिति भ्रमनिरासार्थम्1669 । तद्धि प्रमेयत्वस्वरूपसत्त्वादिकं1670
गुण इव जात्यादावस्तीति । विशेषपदेन तु जातिग्रहणान्निवर्तितं भवति । उपलभ्यस्येति
404 तूपरिष्टात् स्पष्टीभविष्यति । शङ्कते—तीव्रशब्दस्येति । तीव्रत्वधर्मान्वय
व्यतिरेकानुविधायिप्रवृत्तिस्तीव्रशब्दो न शब्दं धर्मिणमभिधातुमर्हतीति यथोक्तमात्र
स्याक्षेप इत्यर्थः । निराकरोति—न शब्दशब्दसमानाधिकरणस्येति । एतच्च
व्यक्त्याकृतिजातयश्च पदार्थ1671
इत्यत्र प्रतिपादयिष्यते ।


शङ्कते—व्यञ्जकस्येति । स्वकारणात् खलु व्यञ्जकाच्छब्दज्ञानमुत्पन्नं तीव्रं
मन्दं चेति । तेन तीव्रज्ञानज्ञेयः शब्दोऽपि तीव्र इव मन्दज्ञानज्ञेयः शब्दोऽपि मन्द इव
भासते । न त्वाजानतोऽस्य तीव्रत्वं मन्दत्वं वा येन भिद्येतेत्यर्थः । निराकरोति—
नाभिभवेति । अन्यत् खल्वन्येन समानजातीयेनाभिभूयते, न तु तदेव तेन । न हि
मध्यन्दिने मन्दोल्काप्रकाशसंबन्धी घटः पटुना सावित्रेण प्रकाशेन प्रकाशमानमात्मान
मात्मनाभिभवति1672 । एवं गकारोऽपि तीव्रध्वनिप्रकाश्यो न मन्दध्वनिप्रकाश्यं गकार
मात्मानमभिभवेत्, यदि त्वयं मन्दध्वनिप्रकाश्यो गकारस्तीव्रध्वनिप्रकाश्याद्
गकारदन्यो भवति । ततो मध्यन्दिनोल्काप्रकाशः सवितृप्रकाशेन 1673चाल्पत्वादभिभूयत
इति युज्यते । तदिदं शेषं भाष्ये उक्तमिति ।


सत्यम्, अन्यदन्येनाभिभूयते । तथापि न गकारस्य नानात्वमपि तु तद्ग्रहणानाम् ।
तेषां चाभिभाव्याभिभावकभावो न गकारस्येत्यनेनाभिप्रायेण शङ्कते—ग्रहणमिति ।
निराकरोति—न ग्रहणभेदस्येति । अर्थभेदाधीननिरूपणो ग्रहणभेदो नार्थभेदमन्तरेण
शक्यो निरूपयितुम् । न च भेदेनानिरूपितः शक्योऽभिभाव्याभिभावकभावेन
प्रत्येतुमित्यर्थः । नित्यं ग्रहणभेदः स्यात् इति, ग्रहणभेददर्शनाभ्युपगमे नियतम
र्थभेदोऽभ्युपगन्तव्यः । तथा च सर्वमेव भिद्यत इति नाभिन्नं किञ्चिद् भवेत् । भेदोऽपि
न स्यादभेदाश्रयत्वाद् भेदस्येत्यर्थः । अभिभवानुपपत्तिश्चेति, यस्मिन्नेव क्षणे पूर्वं
ज्ञानमुत्तरेणोत्पद्याभिभवनीयं तदैव तेन विनाश्यते, न चासतोऽभिभव इत्यर्थः ।


सांख्यमतेऽपि नाभिभवसंभव इत्याह—अभिभवेति । पराजितं सांख्यं दृष्ट्वा
405 नास्माकमयमस्त्यनुयोग इति मन्वानो मीमांसकः पुनः शङ्कते—सर्वत्रेति ।
निराकरोति—नेति ।


सांख्यश्चोदयति—यदि सन्तानवृत्तिरिति । परिहरति—शब्दसन्तानस्य
निमित्तभेदाभिमुख्येनादौ प्राप्तेरिति ।
निमित्तभेदो भेरी शङ्खताल्वादिश्च,
तदाभिमुख्येन यः कर्णशष्कुल्यवरुद्धस्य नभसः श्रोत्रस्य भागः स्थितस्तस्मिन्नादौ
य उत्पन्नः शब्दः तस्य तत्र प्राप्तेः पूर्वादिदिगवस्थितशङ्खादिजन्मायं शब्द इत्यनुमीयते ।
एतदुक्तं भवति, विशिष्टदिग्देशावस्थितशङ्खादिप्रभवशब्दसन्तानजन्यस्य तस्य
शब्दस्य स कोऽपि धर्मभेदः श्रोत्रगोचरः, यस्मात् तस्य शब्दस्य विशिष्ट
दिग्देशावस्थितशङ्खादिप्रभवत्वमनुमीयते । न चासौ सामान्यविशेषोऽव्यपदेशान्नास्ति ।
न हीक्षुक्षीरगुडादीनां मधुरत्वावान्तरसामान्यभेदाः प्रत्यक्षवेदनीयाः शक्या
अव्यपदेश्यतया प्रत्याख्यातुम्1674 । अनुभवश्च समानः । तस्मादानुमानिकः शब्दे
दिग्देशप्रत्यय इति । यः शब्दसन्तान इति । संतनोतीति सन्तानः । आद्यः शब्दो यो
जायते स संतनोतीति संबन्धः । यस्मात् तन्निमित्तात् तदभिमुखेन भागेनेति योजना ।
आद्यशब्देति । तदभिमुखभागयुक्तः शब्द इति ।


तदेवं स्वमतमुक्त्वा परमतमाह—एके त्विति । परोक्षे वक्तरीति शेषः । यद्यपि
जात्यन्धानामपि कथंचिदभिमुखपृष्ठपार्श्वागतः शब्दविवेकः संभवति, तथापि
पूर्वापरादिदिग्विभागो नास्तीत्यत उक्तम्—जात्यन्धानामिति ॥ १३ ॥


न घटाभावसामान्यनित्यत्वान्नित्येष्वप्यनित्यवदुपचाराच्च ॥
२ । २ । १४ ॥


तत्त्वभाक्तयोर्नानात्वस्य विभागादव्यभिचारः ॥ २ । २ । १५ ॥


एतच्चाभावे नास्तीति । न सत्तासंबन्धो नोभयान्तापरिच्छिन्नत्व
मित्यर्थः ॥ १५ ॥


406

सन्तानानुमानविशेषणात् ॥ २ । २ । १६ ॥


कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् ॥ २ । २ । १७ ॥


ननु यद्यन्यद् व्यापकत्वं नास्ति कथं तर्हि भवद्भिः केषाञ्चिद् व्यापक
त्वमव्यापकत्वं च केषाञ्चिदिष्यत इत्यत आह—वयं तु व्याप्तिमङ्गुलिरूपस्येति ।
यत्र यत्राश्रयोपलब्धिस्तत्र तत्र यद्वस्तूपलब्धियोग्यं सदुपलभ्यते तद् व्यापकम् । तेन
बलाकाव्यापकमपि शौक्ल्यं मन्दमन्दालोके बलाकायामुपलभ्यमानायामपि
नोपलभ्यते योग्यताभावात् । ईदृशं तु संयोगादीनां व्यापकत्वमशक्यं गुणत्वेन
साधयितुमनुपलब्धिविरोधादित्याह—न पुनः शब्दादय इति । उपलब्धियोग्या
इति शेषः । सर्ववस्तुविषयं च स्वाभिमतं व्यापकत्वाव्यापकत्वं संक्षिप्याह—
समुदितस्थानानामिति । समुदितस्थाना हि सत्तादयो गोत्वादयश्च व्यापका
एकसमुदाय्युपलम्भेऽप्युपलब्धेः । संयोगादयस्तु समुदितस्थाना अप्यव्यापकाः ।
न ह्येते समुदायिन्येकस्मिन्निरूप्यन्ते, अपि तु समुदितेष्वेव । एकाश्रयाणां रूपा
दीनां व्यापकानामव्यापकानां च शब्दबुद्ध्यादीनामाश्रयोपलब्धावुपलब्ध्य
नुपलब्धी व्याप्त्यव्याप्ती इति योजना । एकसमुदायीत्यत्रैकग्रहणमशेषसमुदायि
ग्रहणनिवृत्त्यर्थम् । न त्वेको विवक्षितः, तद्ग्रहणं वा । तेन कतिपयावयवोपलब्ध्या
तदनुपलब्ध्या चोपलभ्यमानोऽवयवी व्यापकत्वेनोक्तो भवति । मूर्तिमत्त्वादिभ्य
इत्यादिशब्देन1675 स्पर्शवत्त्वाव्यापित्वादीनि गृह्यन्ते । कार्याकाशसंयोगो विप्रति
पत्तिविषय
इति । यदि कार्याकाशसंयोगमात्रं पक्षीक्रियते ततो विनश्यदाधारद्रव्यवर्तिनः
संयोगस्येष्यत1676 एव यावद्द्रव्यभावित्वमित्यपसिद्धान्तः स्यादित्यत उक्तम्—
विप्रतिपत्तिविषय इति । तेनैवानैकान्तिकं स्यादित्यत उक्तम्—अविनश्यदाधारत्व
इति । तथापि पटस्य नीलीद्रव्यसंयोगेन यावद्द्रव्यभाविनानैकान्तिकं स्यादित्यत
407 उक्तम्—क्रियावद्द्रव्यवृत्तित्वे चेति । विवक्षितपरस्परविभागहेतुः क्रियावत्त्वमिह
ग्राह्यम् । क्वचित् पठ्यते—विप्रतिपत्तिविषया विभागिन आकाशादयः
क्रियावद्द्रव्यसंयोगित्वात् परमाणुवदिति ।
अत्र यद्याकाशादयो विभागिन इति
साध्येत तत आत्मादिभिरपि विभागिनः स्युरित्यपसिद्धान्तः स्यादित्यत
उक्तम्—विप्रतिपत्तिविषया इति । ततो मूर्तेन विभागिन1677 इत्यभिमतं लभ्यत इति ।
संयोगस्य चाव्याप्यवृत्तित्वमिति । प्रदेशवतोः खल्वामलकयोः संयोगोऽ
व्याप्यवृत्तिरिति अव्याप्यवृत्तिता संयोगस्याकाशादावपि प्रदेशवद्द्रव्यसामान्यम् ।
तेनाकाशादौ प्रदेशोपचार इत्युक्तम् । संप्रति सामान्यान्तरमुपचारबीजमाह—एकस्य
चेति ।
यथा घट एकोऽनेकमूर्तद्रव्यसंयोगी प्रदेशवानेवमाकाशमित्यर्थः ।


कतमस्मिन्नर्थ इति प्रश्नः । तस्यार्थः

तत्त्वभाक्तयोर्नानात्वस्य विभागादव्यभिचारः1678

सन्तानानुमानविशेषणात्1679

कारणद्रव्यस्य प्रदेशशब्देनाभिधानात्1680

इति सूत्रैरेवानैकान्तिकत्वपरिहारादस्मिन्नर्थे सूत्रं न श्रूयते इति न युक्तमिति ।
उत्तरम्—निष्प्रदेशमाकाशमिति । न हि
कारणद्रव्यस्य प्रदेशशब्देनाभिधानात्
इति सूत्रमाकाशादीनामप्रदेशवत्त्वं साक्षाद् ब्रूत इत्यर्थः । एवं स्थिते भाष्यकारीये
प्रश्ने वार्त्तिककारः स्वमुत्तरमाह—अर्थतोऽधिगतेरिति । विषयान्तरं
प्रश्नोत्तरयोराह—शब्दसन्तानेति ।


भाष्यकारीयमुत्तरमाह—शास्त्रेति । द्वौ पक्षौ न व्यवस्थापयतीति1681
भाष्य
स्यायमर्थः, निष्प्रदेशत्वमात्मादीनां शब्दसन्तानं च साक्षादाचक्षाणः सूत्रकारः
पक्षं व्यवस्थापयेन्न तु तेनैतदभिहितमिति । अनुमानतरोः पञ्चानां रूपाणां चतुर्णां वा
408 संपदः शाखा बहव इत्यर्थः ॥ १७ ॥


प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च ॥ २ । २ । १८ ॥


सतोऽनुपलब्धिकारणाभाव इति । प्राक्प्रध्वंसाभावाभ्यां व्यभिचारो मा
भूदिति सत इत्युक्तम् ॥ १८ ॥


तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः ॥ २ । २ । १९ ॥


अथ जातिवादिनः सूत्रद्वयम्—तद…पत्ति ।


आवरणानुपलब्धेस्तावदुपलब्धिर्न संभवति, अनुपलब्धिस्वरूपविरोधात् ।
तस्मादावरणानुपलब्धिरेव वक्तव्या । तथा चावरणानुपलब्धेरभावे सत्यावरणोपलब्धिः
तया त्वावरणसद्भावः ज्ञानस्य निरालम्बनत्वायोगात् ॥ १९ ॥


अनुपलम्भादप्यनुपलब्धिसद्भावान्नावरणानुपत्तिरनुपल
म्भात् ॥ २ । २ । २० ॥


द्वितीयं सूत्रम्—अनु…म्भात् ।


यदि पूर्वोक्तदोषभयादनुपलभ्यमानाप्यावरणानुपलब्धिरस्ति तथा सत्यनु
पलब्धेरनैकान्तिकत्वान्नावरणाभावोऽनुपलम्भादिति । तदिह द्वाभ्यां सूत्राभ्यामनै
कान्तिकत्वं देशितम् । अस्यावतारभाष्यम्—एवं च सति तत्त्वमिति ।


तदेतद् वार्त्तिककारो व्याचष्टे—एवं चेति । सूत्रयोस्तात्पर्यं प्रश्नपूर्वकमेकत्र
दर्शयति—कोऽस्य वाक्यस्येति । अत्र सिद्धान्ती पृच्छति—कथं पुनरिति ।
जातिवाद्याह—किमत्र ज्ञेयं प्रत्यात्मवेदनीयत्वादिति । सिद्धान्त्याह—एवं सतीति ।
409 यद्यावरणानुपलब्धिरुपलभ्यते मानसेन प्रत्यक्षेण, नानैकान्तिकत्वं न चावरण
सद्भावः । उत्तरवाक्यमिति । जात्युत्तरवाक्यमित्यर्थः । नास्योत्थानमस्तीति ।
सूत्रद्वयस्याप्युत्थानमस्तीत्यर्थः ।


ननु पूर्वेणैव सूत्रेणावरणोपपत्तौ दर्शितायां कृतमनुपलम्भादपीत्यनेन सूत्रेणेत्यत
आह—अभ्यनुज्ञावादेनेति ।


पूर्वसूत्रेण अनुपलब्धेरनुपलम्भादभाव उक्तः । इह त्वनुपलम्भादपि
यद्यनुपलब्धेर्नाभाव इत्यभ्यनुज्ञाय1682 अनैकान्तिकत्वमुच्यते इति नापार्थकमेतत्
सूत्रमित्यर्थः । सूत्रगतोऽपिरभ्युपगमांशमवद्योतयति । एतदेवाह भाष्यकारः
यद्यनुजानाति भवान्
इति । तदनेन सूत्रद्वयेनानैकान्तिकत्वमुच्यत इति स्थितम् ॥ २० ॥


अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ २ । २ । २१ ॥


अस्योत्तरसूत्रम्—अनु…हेतुः ।


जातिवादी अनुपलब्धेरनुपलब्धिर्नास्ति विरोधादिति मन्यते । तत्र
विधिविषयप्रमाणगोचरतानुपलब्धौ विरुध्यते । न तु निषेधगोचरप्रमाणविषयतापि ।
ततश्चोपलब्धिं निषेधता प्रमाणेन मनसानुपलब्धिग्रहणं न विरोधमावहति । तदयं
सूत्रार्थः । अनुपलब्धेः आवरणानुपलब्धेः अनुपलम्भात्मकत्वाद् आवरणोपलब्धि
निषेधात्मकत्वात् तदनुपलब्धेरनुपलम्भादित्ययमावरणोपपत्तौ न हेतुः, असिद्धत्वात् ।
निषेधविषयेण प्रमाणेनैवानुपलब्धेरनुपलम्भादिति1683


तदेतद् भाष्यकृद् आह1684यदुपलभ्यत इति । यदुपलभ्यते विधिविषयेण
प्रमाणेन तदस्ति, यन्नोपलभ्यते निषेधविषयेण प्रमाणेनोपलभ्यते तन्नास्तीति ।
तस्मादनुपलम्भात्मकं निषेधविषयप्रमाणागम्यमसदिति स्थितम् । उपलब्ध्यभाव
श्चानुपलब्धिः । सेयमभावात्1685 नोपलभ्यते
विधिविषयेण प्रमाणेन । शेषं सुगमम् ।


410

अस्य वार्त्तिककारः परमतात्पर्यमाह—अतथाजातीयेनेति । अनुत्तरं
जात्युत्तरमित्यर्थः । यथाजातीयक इति । उपलभ्यस्य हि शब्दस्यासत्यनुपलम्भकारणे
प्रागूर्ध्वं चोच्चारणादनुपलभ्यमानस्यानित्यस्य सधर्मा नान्य आत्मादिर्दृष्टोऽनित्य
इति । ननु प्रागूर्ध्वं चोच्चारणात् मा भूच्छब्द इत्येतावतापि नित्यान्तरवैधर्म्येण कस्मान्न
नित्यः शब्दः । न ह्यात्माकाशादयो नित्याः सर्वथा सर्वेषां सधर्माणः । मा भूदेषामभेद
इत्यत आह—उक्तं चेति ।


अनित्यत्वसाधनमाह—अनित्य इति । प्रत्यक्षत्वादित्युच्यमाने गोत्वादिभि
र्व्यभिचारः स्यादत उक्तम्—व्यापकद्रव्यसमवायित्वे सतीति । तथाप्या
त्मसमवायिनैकत्वेन व्यभिचारः । अत उक्तम्—अव्यापकस्येति1686 अमूर्त
त्वादित्युच्यमाने घटादिभिः प्रदेशवद्भिः प्रथमे क्षणेऽनुत्पन्नपरिमाणैर्व्यभिचारः1687
अत उक्तम्—सर्वदेति । तथापि क्रियागुणादिभिर्व्यभिचारः, तेषामपि हि
समवायिकारणं प्रदेश इत्यत उक्तम्—द्रव्यस्य सत इति ॥ २१ ॥


अस्पर्शत्वात् ॥ २ । २ । २२ ॥


तदेवं स्वपक्षे साधनमुक्त्वा विप्रतिपत्तिनिमित्तं परपक्षसाधनमुपन्यस्य
निराकरोति—अथ शब्दस्येति ॥ अस्प…त्वात् ॥ २२ ॥


न कर्मानित्यत्वात् ॥ २ । २ । २३ ॥


नाणुनित्यत्वात् ॥ २ । २ । २४ ॥


अस्पर्शत्वेन कर्मणैवोभयतो व्यभिचारे लब्धे नित्येन अणुना व्यभिचारोद्भावनं
कृतकत्वानित्यत्ववत् समव्याप्तिकत्वनिराकरणार्थं द्रष्टव्यम् ॥ २४ ॥


411

संप्रदानात् ॥ २ । २ । २५ ॥


अयं तर्हि हेतुः—सं…नात् ।


इति । संप्रदीयमानत्वादित्यर्थः ॥ २५ ॥


तदन्तरालानुपलब्धेरहेतुः ॥ २ । २ । २६ ॥


अध्यापनादप्रतिषेधः ॥ २ । २ । २७ ॥


दातृप्रतिग्रहीत्रोरन्तराले शब्दोऽस्ति अध्यापनाद् गुरुणा शिष्याय दीयमानत्वाद्
धनुर्वेदविदाचार्येण शिष्याय दीयमानेष्वादिवदिति ॥ २७ ॥


उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः ॥ २ । २ । २८ ॥


अभ्यासात् ॥ २ । २ । २९ ॥


यद्यन्यन्नाम जगति किञ्चिद् भवेत् ततोऽन्यत्वेऽप्यभ्यासोपचारादित्यने
नानैकान्तिकत्वमुद्भाव्येत । तदेव तु नास्तीति वाक्छलेन प्रत्यवतिष्ठते—


नान्यत्वेऽप्यभ्यासस्योपचारात् ॥ २ । २ । ३० ॥


अन्यदन्यस्मादनन्यत्वादनन्यदित्यन्यताऽभावः ॥ २ । २ । ३१ ॥


तदभावे नास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः ॥ २ । २ । ३२ ॥


412

तस्य परिहारसूत्रम्—तद…द्धेः ।


तयोरन्यानन्ययोर्मध्येऽनन्यस्यान्यापेक्षत्वसिद्धेरित्यर्थः । न चान्यत्
स्वरूपादनन्यदिति परस्मादप्यनन्यद् भवितुमर्हति । न हि नीलमात्मनोऽनन्यदिति
पीतादप्यनन्यदिति । अन्यदेव हि पीतान्नीलमिति परमार्थः ।


अयं तावत् प्रत्ययः पुरुषान्तरे निवर्तमानो दृष्ट इति । यदा खल्वेकस्य
तत्प्रत्ययो भवति तदावश्यं न पुरुषान्तरस्य 1688तस्मात् तत्प्रत्ययाव्यावृत्तिरसिद्धैवेति ।
एवमेतदिति । सत्यं विशेषदर्शनं तत्प्रत्ययनिवृत्तिहेतुः । तदभावे तु विशेषादर्शनस्य
न शक्यं संशयहेतुत्वं निवारयितुमित्यर्थः । यत्पुनरेतद्गोशब्देन1689 गोशब्द इति ।
गोशब्दो गोशब्द इत्येकावभासः1690 प्रत्ययो नैकमन्तरेण भवितुमर्हति । अथ भ्रान्तः
कस्मान्न भवतीत्यत आह—न च गोशब्दस्येति । भ्रान्तत्वे हि ततो गोशब्दादर्थप्रत्ययो
भ्रान्तः स्यात्, यथा समारोपितधूमभावाया मशकवर्तेर्धूमध्वजानुमानम् । तस्मादभ्रान्तो
गोशब्दैकत्वप्रत्ययः स्थायितामस्य सूचयतीत्यर्थः । दूषयति—एतदपीति । युक्ता
तु कारणसामान्यात् तत्प्रत्ययस्याव्यावृत्तिरिति ।
गोशब्दबुद्धेः कारणमालम्बनं
गोशब्दस्तस्य सामान्यं गत्वमोत्वं गोशब्दत्वमिति यावत् । तस्मात् 1691प्रत्यय
स्याव्यावृत्तिर्युक्ता गोशब्दो गोशब्द इतोवंरूपा । कथमिति प्रश्नः । गोबुद्धौ
गोबुद्धिप्रत्ययो न व्यावर्तते ।
जात्यभिप्रायमेकवचनं गोबुद्धाविति । यथा हि
गोबुद्धिषु भिन्नास्वपि परस्परं गोबुद्धिर्गोबुद्धिरित्यनुगतावभासिनी प्रख्या1692 गोबुद्धित्व
सामान्योपधाना स्वकारणभूता गोबुद्धीरालम्बते, एवं गोशब्दो गोशब्द इति बुद्धिरपि
गोशब्दत्वोपधाना गोशब्दव्यक्तीः, न पुनर्गोशब्द1693व्यक्तिमेकामनेकदेशकाल
व्यापिनीम् । न चास्या गोशब्दबुद्धेरित्यत्रापि जातावेकवचनम् । गोशब्दो गोशब्द
इति बुद्ध्यनुगतिः सामान्यनिबन्धना अनुगतित्वे सति गोशब्दबुद्धिसंबन्धित्वाद्
गोशब्दबुद्धिर्गोशब्दबुद्धिरित्यनुगतबुद्धिवदिति ।


413

भिन्नमभेदेन विद्वान् 1694यश्चानुपलब्धविशेष एव निवर्तते, तं प्रति तस्य
वस्तुनः किं विशेषोऽस्ति नास्तीति भवन्त एव प्रष्टव्याः ।
उभयत्र दोषमाह—
यद्यस्तीति । द्व्यात्मकमिति भिन्नमभिन्नमित्यर्थः । अशेषपुरुषविषयतयेति
आधारतयेत्यर्थः ॥ ३२ ॥


विनाशकारणानुपलब्धेः ॥ २ । २ । ३३ ॥


कारणद्रव्यविभाग इति । विभागेनासमवायिकारणसंयोगविनाशो लक्षितः,
तत्कार्यत्वात् ॥ ३३ ॥


अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ॥ २ । २ । ३४ ॥


उपलभ्यमाने चानुपलब्धेरसत्त्वादनपदेशः ॥ २ । २ । ३५ ॥


अनपदेशोऽहेतुरित्यर्थः । उभयमितीति । यदा क्रमेलकं विषाणित्वादश्वत्वेन
साधयति, तदास्य न विषाणं नापि तत्संबन्धः । यथा विषाणित्वं क्रमेलकेऽसिद्धं तथा
अनुमानेन विनाशकारणोपलब्धौ तदनुपलब्धिरसिद्धेति । 1695अश्वविषाणसंबन्धस्या
भावादिति अश्वत्वविषाणित्वयोर्यतः कोऽपि1696 संबन्धोऽश्वेषु सिद्धो1697 नास्ति,
तस्माद् विरोधादनुमानमसदशोभनमित्यर्थः1698 । तस्माद् यथा विरुद्धाद्धेतोरनुमान
मसदेवमसिद्धादपीत्यर्थः ।


शङ्कते—कर्मत्ववदिति चेत् । निराकरोति—तच्च न आश्रयस्यानित्यत्वात् ।
कर्मत्वस्याश्रयः कर्म तस्यानित्यत्वादित्यर्थः । शब्दस्य नित्यस्याश्रवणमनुपपन्नम्
414 अश्रवणकारणानुपपत्तेरिति ब्रूमः । तन्नाश्रयानित्यत्वादिति ग्रहणकवाक्यं
विभजते—कर्मत्वस्य पुनरिति ।


प्रतिघातिद्रव्यसंयोगस्त्वन्त्यस्य शब्दस्य निरोधक इति भाष्यम् ।
तस्यार्थः । प्रतिघातिद्रव्यं कुड्यादि । तत्संयोगो नभसः । एतदुक्तं भवति, घनतम
द्रव्यसंयुक्तं नभो न शब्दस्य समवायिकारणतां प्रतिपद्यते । ततश्च सन्नप्यसमवायिकारणं
शब्दो न शब्दान्तरमारभते । तस्य च स्वकारणात् तत्कारणस्य च तस्माद् विनाशो
भवतीति द्रष्टव्यम् । एवमन्यत्रापीदृश एव शब्दविनाशहेतुरूहनीय इति ।


इतश्च शब्दो नित्य इत्याह—घण्टायामभिहन्यमानायामिति । यदि हि
घण्टास्थेन व्यञ्जकेनान्यवृत्तिना वावस्थितेन सन्तानवृत्तिना वा नित्यः शब्दो
व्यज्येत, ततः तारतारतरतारतममन्दमन्दतरमन्दतमादिश्रुतिभेदो न स्यात् । नित्यस्य
च शब्दस्य न स्वाभाविको भेदो नाप्यौपाधिक इत्युपपादितमधस्तात् । यदि तु
तारतमादयस्तावन्त एव शब्दा नित्याः, ततस्तावन्त एव युगपदवगम्येरन् अविशेषादेको1699
ह्येषां व्यञ्जकः स्थिर इति । अथ सन्तानवृत्तिः, तथापि सर्व एव तत्सन्ततिपतिताः
समर्था इत्याद्येनैव सर्वे व्यज्येरन् । न च समानदेशानां समानेन्द्रियग्राह्याणां व्यञ्जकनियमो
युक्त इत्युक्तमधस्तात्1700 । कारणत्वे तु घण्टास्थस्य सन्तानवृत्तेर्युक्तं यत्तारतमादिभेदेन
कारणभेदात् कार्यभेद इति तात्पर्यार्थः । युगपदनेकशब्दोपलब्धिप्रसङ्ग इति ।
अनेकस्य तारतमादेः शब्दस्योपलब्धिप्रसङ्ग इत्यर्थः । घण्टास्थस्य चाभिव्यक्ति
कारणं कथमन्यत्र वर्तमानम्
इति श्रोत्रे वर्तमानमित्यर्थः ।


द्वितीयं कल्पमुपन्यस्य1701 दूषयति—अथान्यगतमिति । घण्टासंबन्ध्येष शब्द
इति हि तावल्लौकिकप्रत्ययः । सोऽयमन्यगते शब्दस्य व्यञ्जके यथैकस्यां घण्टायां
भवति, एवं घण्टान्तरेष्वपि तत्प्रत्यासन्नेषु भवेदविशेषात् । तस्मादेकघण्टास्थत्वे
नियमहेतुर्वक्तव्य इति । असति च शब्दभेदे श्रुतीनामिति शब्दज्ञानानामित्यर्थः ।
415 नाद इति 1702वायुधर्मोऽभिधीयत इति । शङ्कते—व्यामोहप्रत्यय इति । यथा हि वस्तुतः
स्वच्छधवले स्फटिकमणौ लाक्षारसावसेकतिरस्कृतधवलिम्नि लोहितः स्फटिक
इति प्रत्ययः, एवमभिव्यञ्जकवृत्तिस्तारतमत्वादिर्भ्रान्त्या शब्दे प्रतीयते इत्यर्थः ।
निराकरोति—न विशेषहेत्वभावादिति । न हि समीचीनात् प्रत्ययात् तारोऽयं शब्द
इति प्रत्ययस्य कश्चिद् विशेषहेतुरस्ति बाधकप्रत्ययो येनैष मिथ्याप्रत्ययः स्यादि
त्यर्थः । न च निर्बीजा भ्रान्तिरपि भवितुमर्हति । दीर्घत्वादिभ्रमाणां तु शब्देऽस्ति बीज
मित्याह—यदि चायमिति । यानि खलु दीर्घाणि वंशप्रभृतीनि तेषामवयवो
पचयः समानजातीयोपचयः । इहाप्यविरतश्रुतौ1703 शब्दसन्ताने विवृतकरणनिष्पन्ने
समस्ति समानजातीयोपचय इति तत्साधर्म्याद् दीर्घत्वभ्रमः । एवं शब्दसन्तान एव
तारो महानित्युच्यते । तत्राप्यस्ति समानजातीयोपचयोऽस्ति च स्फुटतरत्वम् । महानपि
हि स्फुटतरोऽयमपि तथेति महानित्युच्यते ।


शङ्कते—तुल्यमिति चेत् । यथा ह्यनित्यवादिनो घण्टास्थमवस्थितं सन्तानवृत्ति
वा न युगपत् तारमन्दानुत्पादयति किं तु क्रमेणैव, एवं नित्यानपि शब्दान् क्रमेण
व्यङ्क्ष्यतीत्यर्थः । निराकरोति—न तन्निमित्तस्य कदाचिद् भावात् ।
तावन्नित्यवादिभिस्तारत्वादिधर्मभेदेन शब्दभेदोऽभ्युपेयते । तथा चैकेनावस्थितेन
घण्टास्थेन सन्तानवृत्तिना व्यज्यमान एकस्मिन् शब्दे नित्ये श्रुतिभेदः कादाचित्को
नोपपद्येत । शब्दे त्वनित्येऽन्यस्मिन्नन्यस्मिन् क्रियमाणे सन्तानवृत्तिना कारणेन
तद्भेदात् कार्यत्वात् कादाचित्कत्वाच्च श्रुतिभेदोपपत्तिरिति वैषम्यमित्यर्थः । तच्च
कारणमिति ।
निमित्तकारणमित्यर्थः । पाणिसंश्लेषमपेक्षमाणादिति । स्पर्शवद्वेगव
द्द्रव्यसंयोगाद् घण्टायां कर्म, कर्मवद्घण्टाकाशसंयोगात् तादृशाच्छब्दश्चेत्येकः
कालः । तत्कर्म पाण्यभिघातमपेक्षमाणं विभागसमकालं संस्कारं वेगाख्यं
करोति । सा घण्टा चलन्त्याध्यात्मिकं वायुमुपगृह्णाति । घण्टातदवयवसंपृक्ता1704
वायुपरमाणव एवाध्यात्मिको वायुः । तदुपग्रहो घण्टायाः स्ववेगमपेक्षमाणाया
416 वायुसंयोगाद् वायौ क्रियोत्पादकत्वम् । ततश्चानिलकर्मणो घण्टानिलसंयोगो
वायुगतवेगापेक्षः पुनर्घण्टायां कर्मारभते । तदिदमाह—सा च वायुनाभिहता पुनः
कर्म करोति ।
तदेवं वायुघण्टासंयोगो घण्टावेगापेक्षो घण्टाकाशसंयोगश्च शब्दमारभत
इति द्रष्टव्यम् । ततः कर्मणा संस्कारः संस्कारेण पुनः कर्म शब्दश्चेत्यपि
द्रष्टव्यम् । सुगममन्यत् ॥ ३५ ॥


पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः ॥ २ । २ । ३६ ॥


देशयति—अथ घण्टास्थ इति । न खलु निमित्तकारणविनाशे कार्योच्छेदः,
माभूत् कुलालादिनिवृत्तावपि घटादिनिवृत्तिरित्यर्थः । परिहरति—न ब्रूम इति ।
यद्यपि निमित्तनिवृत्तावपि कार्यं निवर्तते यथा अपेक्षाबुद्धिनाशाद् द्वित्वादि, तथापि
निमित्तनिवृत्तावपि तदनिवृत्तिमभ्युपेत्यैष परिहार इति मन्तव्यम् ॥ ३६ ॥


विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥ २ । २ ।
३७ ॥


सिंहावलोकितन्यायेन पूर्वोक्तं हेतुं दूषयति—विनाशेति ।


विना…ङ्गः । प्रत्यक्षेण शब्दविनाशकारणानुपलब्धेश्चावस्थाने शब्दस्य
शब्दोपलब्धेरपि नित्यत्वप्रसङ्गः । न हि तस्या अपि विनाशकारणं प्रत्यक्षेणोपलभ्यत
इति । तदनेन विनाशकारणानुपलब्धेरित्यस्य1705 अनैकान्तिकत्वमुद्भावितम् ॥ ३७ ॥


अस्पर्शत्वादप्रतिषेधः ॥ २ । २ । ३८ ॥


1706 417

संप्रति सांख्यं प्रत्यवतिष्ठते । कम्पसमानाश्रयस्येति । अनुवृत्तो नादः
शब्दोऽनुनाद इति । वैयधिकरण्ये हि प्रतिघातिद्रव्यप्रश्लेषेण1707 समानाधिकरणस्यैव
संस्कारस्योच्छेदः स्यात् । न व्यधिकरणस्य शब्दस्य । व्यधिकरणस्य तूच्छेदाभ्युप
गमेऽतिप्रसङ्गः स्यात् । तस्मात् कम्पसन्तानसंस्कारसमानाश्रयः शब्दोऽ
भ्युपगन्तव्यः । तदनेनाकाशाश्रयत्वं शब्दस्य प्रतिषिद्धम् । तदेतद् वार्त्तिककारो
व्यचष्टे—व्यधिकरणत्वादयुक्तमिति ।


अस्योत्तरसूत्रम्—अस्प…धः ।


प्राप्यकारित्वमिन्द्रियाणाम् उपपादितम्1708 । घण्टाद्याश्रयश्च शब्दो न श्रोत्रं
प्राप्नोति । एवं हि प्राप्नुयाद् यदि घण्टा कर्णशष्कुलीमागच्छेत् । कर्णशष्कुली वा
घण्टाम् । न चैतदुभयमस्ति । न चाहङ्कारिकमिन्द्रियं व्यापीत्युक्तम् । तस्माच्छब्दा
धारोऽस्पर्शो व्यापी चाकाशः । तदाधारः शब्दः श्रोत्रमायाति सन्तानवृत्त्येति युक्तम् ।
तथा च श्रवणमस्योपपन्नम्, नान्यथेति । तदेतद् वार्त्तिककृद् विभजते—अस्पर्शेति ।
येन केनचिदिति,
मन्दतरेण वा मन्दतमेन वा कारणशब्देनेत्यर्थः ।


अनेकः संस्कार इति एतत्1709 तत्त्वं शब्दभेदादिति । एकस्य हि संस्कारस्य
धर्मभेदकल्पनायां कल्पनागौरवप्रसङ्गः । संस्कारस्तावदेको धर्मी धर्मभेदाश्चेति ।
तदिह धर्मभेदस्थानेऽस्तु संस्कारभेदः । कृतमत्रैकेन धर्मिणा । न च संस्कारभेदेषु
धर्मभेदाः कल्पनीयाः । संस्कारभेदमात्रादेव कारणात् कार्यभेदोपपत्तौ तद्गतधर्म
भेदकल्पनावैयर्थ्यादिति भावः । यस्य च वैशेषिकस्य एकः संस्कारस्तस्येषोः
पातः प्राप्नोति ।
संस्कारस्य हीषोर्मूर्तद्रव्यसंयोगो विनाशकोऽविनाशको वा ?
विनाशकश्चेद् आद्येनैव मूर्तद्रव्यसंयोगेन तद्विनाशाद् अगत्वैव यावद् गन्तव्यभिषोः
पातप्रसङ्गः । द्वितीये तु कल्पे कृतकस्यापि संस्कारस्य विनाशकारणाभावेनाविना
शान्न कदाविदपि पातः स्यात् । प्रयोगश्च इष्वादिवेगः क्षणिको वेगत्वाद्
घटादिगतवेगवदिति ॥ ३८ ॥


418

विभक्त्यन्तरोपपत्तेश्च समासे ॥ २ । २ । ३९ ॥


सांख्यानां हि रूपरसगन्धस्पर्शशब्दसमुदायो वीणावेणुशङ्खादिद्रव्यम् । तत्र
समासे समुदाये स्थित एव शब्दो व्यज्यत इति दर्शनम् । तस्मिन् समुदाये
सांख्याभिमते विभक्त्यन्तरोपपत्तेश्च न व्यज्यते शब्दः । यदि समुदाये व्यज्येत
शब्दः, विभक्तिश्च षड्जधैवतगान्धारादिभेदेन, विभागान्तरं च षड्जजातीयस्यैव
तारमन्दादिरूपं नोपपद्येत । न हि तद्गतानां गन्धादीनामेकस्मिन्नेव द्रव्ये वीणादौ
नानाजातीयत्वम्, एकजातीयानां वा1710 प्रतिक्षणं भेदो दृश्यते । तस्माद् विभक्त्यन्तरोपपत्तेर्न
समासे व्यज्यते शब्दः । अपि त्वाकाशगुणः क्रियत इति साम्प्रतम् । सूत्रव्याख्ययैव
भाष्यवार्त्तिके व्याख्याते ॥ ३९ ॥


॥ इति शब्दानित्यत्वप्रकरणम् ॥

  1. वर्तयन्ना°C

  2. °विकारगवादिघटा° J

  3. °मेव तावदनित्य° C °मेव तावन्नित्य° C Var

  4. इति
    परमेतस्मिन्
    C

  5. प्राग् भवति J

  6. अनित्यम् J

  7. अनित्यता J

  8. द्रः १. १. ५

  9. द्रः वा, ता. टी. १. १. ३४

  10. °णसंबन्धित्वम्C

  11. गुरुत्वं द्रव्यम°J

  12. तदन्वयस्या°J

  13. °व्यङ्ग्यत्वम् J

  14. परिहारात् C

  15. °नोपलभ्यते J

  16. रूपभेदप्रत्ययाःC

  17. स्वरूपतC; रूपतः Pañjikā

  18. उन्नयतिC

  19. भेदेनान्योC

  20. °दावगाहिनी प्रथाC

  21. पृथुलवि°C

  22. प्रथाC

  23. ग्रहीतुंC

  24. स्मृताC

  25. न चेति नास्तिJ

  26. तेन चैते तन्मात्रेणC

  27. शक्यं
    वक्तुम्
    C

  28. युक्तम्C

  29. °निराकरणार्थम्C

  30. प्रमेयत्वसत्त्वा°C

  31. न्या सूः २. २. ६६

  32. प्रकाश्यमान आत्मनामात्मानमभि°J

  33. इवान्यत्वा°J

  34. निराकर्तुम्J द्र. काव्यादर्शः १, १०२

  35. °दिग्रहणेनC

  36. °गस्येत्यस्त्यतC

  37. विभागो नC

  38. न्या. सू. २. २. १५

  39. न्या. सू. २. २. १६

  40. न्या.
    सू. २. २. १७

  41. प्रतिष्ठापयतीति भाष्यपाठःJ

  42. °र्नाभावादिति । तदनेनाभ्यनुज्ञाया C

  43. °रुपलम्भा° J

  44. °कारो व्याचष्टे C

  45. °मभावत्वात् C

  46. अव्यापकस्यासमवाये सतीति, तथाप्यात्मसमवायित्वस्येति C

  47. अनुत्पन्नपरिमाणैः J

  48. तस्मात् प्रत्य° C

  49. गोशब्देनेति J

  50. °त्येकाकारः C

  51. प्रत्ययस्य
    व्यावृ°
    C

  52. प्रथा C

  53. गोव्यक्ति° Pañjikā

  54. पश्चादनुपलब्ध°J

  55. अश्वत्वविषाणत्वयोः C °षाणयोःJ

  56. कोऽपि
    OmJ

  57. सिद्धेषुJ

  58. °मेतदशो°C

  59. युगपदेव…विशेषाभावादे°C

  60. द्रः टी २. २. १३

  61. कल्पमाशङ्क्यC

  62. वायुर्वा वायुधर्मो°J

  63. °भृतौC

  64. संयुक्ताC

  65. °ब्धिरित्यस्य C

  66. हीति द्रव्यप्रश्लेषात् C

  67. एतदिति वार्त्तिकानुरोधात्J

  68. व्यवस्थापितं प्राक् C

  69. एतदिति वार्त्तिकानुरोधात्J

  70. द्रव्ये वीणादौ नानाजातीयानां चC