396 नादस्तु साक्षादिति ।


सांख्यीयमतमाह—गन्धादिसहवृत्तिरिति । पञ्चतन्मात्रोत्पन्नभूतसूक्ष्म
समुदायारब्धपृथिव्यादिविकारो गोघटादिवृत्तिः1642 शब्दो योग्यदेशस्थः आहङ्कारिकतया
व्यापकं विषयदेशस्थं श्रोत्रेन्द्रियं विकुर्वन्नवस्थित एव गृह्यते । तदेतदाह—अपरे
पुनरिति । भूतविशेषाभिघाता
इति । भेरीदण्डाभिघाता इत्यर्थः ।


वैशेषिकमतमाह—आकाशगुण इति ।


बौद्धराद्धान्तमाह—महाभूतसंक्षोभज इति ।


नासंबन्धादिति । यदा भावोऽस्ति तदा प्राक्प्रध्वंसाभावाभावान्नानित्यत्वम् ।
अनुत्पन्नविनष्टयोश्च प्रसङ्गादिति । न तावत् प्राक्प्रध्वंसाभावयोः सहभावोऽस्ति ।
तस्मात् प्रत्येकमेतावनित्यत्वम्1643 । तथा चानुत्पन्ने वस्तुनि विनष्टे वानित्यत्व
प्रसङ्गः । न चेदं दृष्टमिष्टं वा भावधर्मत्वेनानित्यत्वस्य प्रतीतेरनित्यो घट इति । न
केवलमनित्यस्य भाव इत्येतस्मिन्1644 पक्षे न युज्यते । षष्ठ्यर्थश्च नास्तीति । कस्माद
भावस्याभावो धर्मो न भवतीत्यत आह—न च धर्मकाल इति । चो हेत्वर्थे ।
शङ्कते—अथेति । भवन्नेव हि यस्मात् 1645प्राग् न भवति पश्चाच्च, तस्मात् तस्याभाव
इति षष्ठ्युपपत्तिरित्यर्थः । उत्तरम्, एवमपीति । सत्यं भवन्नेव न भवतीति । न
चैतावतास्याभावसंबन्धो भिन्नकालत्वात् । तस्मात् नास्मदुक्तं किञ्चित् प्रतिषिद्ध
मित्यर्थः । लोकविरुद्धमुद्भावयति—घटस्य प्रागभाव इति । असंबन्धेऽपि सति
षष्ठीप्रयोगोऽयं भाक्तः । भावाधीननिरूपणत्वं च भक्तिरित्यर्थः । अपि च वर्तमानं
वस्तु 1646नित्यमित्युच्यते तस्य भावो 1647नित्यता भवतु किमेतावतापीत्यत आह—
वर्तमाने चेति ।


विनाशोऽस्यावश्यन्तया भविष्यतीति अवश्यंभाविनो विनाशस्य सन्निधा
नेन संबन्धमुपचर्य मतुपः प्रयोग इत्यर्थः ।


  1. °विकारगवादिघटा° J

  2. °मेव तावदनित्य° C °मेव तावन्नित्य° C Var

  3. इति
    परमेतस्मिन्
    C

  4. प्राग् भवति J

  5. अनित्यम् J

  6. अनित्यता J