शब्दसामान्यपरीक्षाप्रकरणम्


शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् ॥ २ । १ । ४९ ॥


अत्र हि सूत्रकारेण प्रथममनुमानान्तर्गतिः परीक्षिता । न चापरीक्षितप्रमाण
भावस्य सा युक्तेति वार्त्तिककारः प्रथममस्य प्रमाणभावमेव परीक्ष्यते । तस्या
क्षेपः, न शब्दः प्रमाणमिति ।
यस्मिन् सति प्रमा भवत्येव न न भवति1552, तत्प्रमाणं
साधकतमस्य करणत्वात् । सत्यपि शब्दे प्रमा न भवतीति तस्य साधकतमत्वं
विघटयति—विषयाभावाच्चेति । प्रामाण्यं हि विषयवत्तया व्याप्तम् । सा
शब्दान्निवर्तमाना प्रामाण्यमपि निवर्तयति, वृक्षतेव निवर्तमाना स्वव्याप्यं शिंशपात्वम् ।
द्विविधश्च विषयः प्रत्यक्षः परोक्षश्च । तत्र पूर्वः प्रत्यक्षस्य प्रमाणस्य विषयः ।
अप्रत्यक्षश्चाविनाभूताल्लिङ्गादवगन्तव्यः । तदनपेक्षणेऽसंबन्धाविशेषात् सर्वे सर्वस्माद्
गम्येत । तथा च सर्वः परोक्षार्थप्रत्ययोऽनुमानव्याप्तः । न च प्रत्यक्षपरोक्षाभ्यामन्यो
राशिरस्ति । तस्माद् विषयाभावदपि न शब्दः प्रमाणमिति ।


यत् तावत् सत्यप्यप्रमितेरिति, तन्न असिद्धत्वादिति । न शब्दमात्रं प्रमाणमपि
365 तु गृहीतः स्मर्यमाणसंबन्धश्च । न चेदृशे शब्दे सति प्रमा न भवति । यादृशे तु सति
प्रमा न भवति, नासौ प्रमाणमित्यर्थः । तन्महत्प्रत्ययकर्तृत्वादिति । महत्त्वपरिमाणं
हि महतो विशेषणम् । तज्ज्ञानं विशेष्ये1553 महति प्रमाणम् ।


तदेवं सिद्धप्रमाणभावस्य शब्दस्यानुमानादभेदं परीक्षमाणः पूर्वपक्षयति
अनुमानं शब्द इति ।


शब्दो…त्वात् । यज्ज्ञानं प्रत्यक्षेणानुपलभ्यमानार्थविषयं प्रत्यक्षस्य पश्चादुप
जायते तदनु—मावम्, यथाग्निमद्धूमज्ञानम्, तथा च शब्दज्ञानं तस्मादनुमान
मित्यर्थः ॥ ४९ ॥


उपलब्धेरद्विप्रवृत्तित्वात् ॥ २ । १ । ५० ॥


अद्विप्रवृत्तिकत्वं प्रकारभेदरहितत्वं प्रत्यक्षानुमाने तु परोक्षापरोक्षावगाहि
तया प्रकारभेदवती इत्यर्थः ॥ ५० ॥


संबन्धाच्च1554 ॥ २ । १ । ५१ ॥


आप्तोपदेशसामर्थ्यात् शब्दादर्थसंप्रत्ययः ॥ २ । १ । ५२ ॥


सिद्धान्तस्वरूपमुपक्रमते—यत् तावदिति । एतेन संशयादिषु व्यभिचारेण ।
तेऽपि हि त्रिकालविषया इति । अन्वयव्यतिरेकोपपत्तिमात्रं प्रत्यक्षेऽप्यस्ते ।
प्रत्यायनाङ्गान्वयव्यतिरेकज्ञानं तु अन्यादृशं शब्दे, अन्यादृशं चानुमाने । तद्धि पक्ष
धर्मताद्यपेक्षमनुमाने, शब्दे तु तदनपेक्षमित्यत्र सूत्रं भवति—आप्तो…यः ।


यो ह्मत्यन्तादृष्टपूर्वः स्वर्गापूर्वदेवतादिः स वाक्यार्थरूपः । तथा हि


366
यन्न दुःखेन1555 संभिन्नं न च ग्रस्तमनन्तरम् ।

अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्1556

इति स्वर्गो वाक्यार्थः । एवमपूर्वमपि । तत् खलु स्वर्गनरकादिभोगहेतुः
पुरुषविशेषगुणः कालान्तरावस्थायी 1557स्वफलविरोधीति वाक्यार्थ एव । एवं देवताऽपि ।
सा हि सूक्तहविर्भागिनी सहस्राक्षाद्युपेतदेहादिमती वाक्यार्थ एव । न चैष1558
शब्दादृतेऽस्मदादिप्रत्यक्षादिगोचरः । न चागृहीतसंबन्धं लिङ्गमस्मिन् प्रवर्तितुमर्हति ।
न चागृहीते संबन्धिनि शक्यग्रहः संबन्धः । पदं तु यद्यपि पदार्थसंगतिसंविदमपेक्षते
यद्यपि च पदार्थ एव पदार्थान्तरविशिष्टो वाक्यार्थः, तथापि वाक्यार्थे स्वर्गादौ
पदार्थस्मरणद्वारेण प्रवर्तमानं संगतिग्रहानपेक्षमेव स्वर्गरूपवाक्यार्थं प्रतिपादकानि
च पदानि कुर्वन्ति, लोकसिद्धं सुखजातीयमुद्दिश्य लोके सिद्धैरेव दुःखाद्यसंभेदैर्विशिष्टं
स्वर्गपदवाच्यं प्रतिपादयन्ति, नापदार्थं वाक्यार्थीकुर्वन्ति । वाक्यार्थे च पदवचनं
स्वर्ग इति यथा । श्रोत्रियश्छन्दोऽधीत1559 इति । यथा च चक्षुरादयो रूपादिष्वगृहीतसङ्गतयः
प्रवर्तन्ते, एवं पदार्थसंगतिग्रहापेक्षाण्यपि पदानि वाक्यार्थावबोधने न संगति
ग्रहमपेक्षन्ते, कार्यव्यङ्ग्यत्वात् प्रमाणभावस्य, संगतिग्रहापेक्षेभ्योऽपि च 1560पदेभ्यो
वाक्यार्थावबोधकार्यदर्शनात् । तस्मान्न पदं तदर्थो वा वाक्यार्थावबोधे लिङ्गं तत्र
संबन्धग्रहानपेक्षत्वाद् रूपादिबोधे चक्षुरादिवत् ।


स्यादेतत् । माभूत् प्रत्यक्षतोदृष्टमनुमानं वाक्यार्थे, सामान्यतोदृष्टं भविष्यति ।
यद्यपि च वाक्यार्थे साध्ये पदानामपक्षधर्मत्वं, यद्यपि च पदस्मारिताः पदार्था व्यभि
चारिणः तथाप्याकाङ्क्षायोग्यतासत्तिविशेषणाः पदार्थाः स्वसंसर्गे लिङ्गं भविष्यन्ति ।
तथा हि यन्न दुःखेनेत्यादिभिः पदैः स्मारिताः पदार्था गुणप्रधानभावेनावस्थिताः
संसर्गवन्तः आकाङ्क्षायोग्यतासत्तिमत्त्वे सति पदैः स्मारितत्वात् गामभ्याजेत्यादिपद
स्मारितपदार्थवत् । संसर्गस्य च संसृज्यमाना एव विशेषो न पुनराजानतोऽस्ति
367 कश्चिद् भेदः1561 । संसृज्यमानाश्च पदैरेव स्मारिता इति संसर्गविशेषप्रतिलम्भः1562 । स
एव च वाक्यार्थ इति सिद्धमानुमानिको वाक्यार्थ इति । गामभ्याजेत्यत्र पदार्थानां
संसर्गवत्त्वं च वाक्यश्रवणसमनन्तरप्रयोज्यवृद्धप्रवृत्त्यनुमितपदार्थसंसर्ग
प्रत्ययादवगतम् । तदेतदचतुरस्रम् । पदानामेव पदार्थस्मारणावान्तरव्यापाराणां
वाक्यार्थप्रमां प्रति करणतया प्रमाणत्वात् तेषां चापक्षधर्मतया लिङ्गत्वानुपपत्तेः1563


यदि तु पदानि पदार्थमात्रपर्यवसितवृत्तीनि न वाक्यार्थप्रत्यायनपराणि1564
स्युः, ततो न पदार्थानामाकाङ्क्षा अस्तीति वाक्यार्थप्रत्ययो न भवेत् । न खल्वाकाङ्क्षां
विना सन्निधियोग्यताभ्यामेव पदार्थाः संसृज्यन्ते, यथा अयमेति पुत्रो राज्ञः
पुरुषोऽपसार्यतामित्यत्र पुत्रसंबन्धेन निराकाङ्क्षो राजा न पुरुषेण संबध्यते । न च
पदानां वाक्यार्थप्रत्ययपरत्वमन्तरेण तत्स्मारितानां पदार्थानामाकाङ्क्षास्ति । न हि
यद् येन विना न भवति तत् तदाकाङ्क्षति, येन कारकं क्रियामपेक्षेत द्रव्यं वा गुणम् ।
तथा सति पटो भवतीति वाक्यं न निराकाङ्क्षं स्यात्, पटस्य गुणाकाङ्क्षित्वात् ।
तस्माद् रक्तः पटो भवतीत्यस्यैकदेशः पटो भवतीति साकाङ्क्षत्वादप्रमाणम् । एवं
केवलं पटो भवतीत्यपि वाक्यं साकाङ्क्षं स्यात्, न चैवमस्ति । पटो भवतीति हि
वाक्यं यं कञ्चिद् गुणं गृहीत्वा अनाकाङ्क्षं प्रमाणमेव । 1565यदा पुना रक्तः पटो
भवतीत्यस्यैकदेशो, यं कञ्चिद् गुणमाक्षिप्य निराकाङ्क्षः, एवं हि विभागे सति
निराकाङ्क्षत्वेन वाक्यभेदः स्यात् । रक्त इत्यपि हि वाक्यं यं कञ्चिद् गुणिनं क्रियां
च यां काञ्चिदाक्षिप्य निर्वृणुयात् । न च विशेषदर्शने सति नाक्षेप इति युक्तम् ।
एकवाक्यतायां सत्यां विशेषदर्शनेऽनाक्षेपः । विशेषदर्शनेऽनाक्षेपे च सत्येक
वाक्यतेत्यन्योन्याश्रयापत्तेः । तस्माद् वाक्यार्थप्रतिपादनपरसमभिव्याहृतपदकदम्ब
स्मारितत्वेनापर्यवसानमेव पदार्थानामाकाङ्क्षेति युक्तमुत्पश्यामः । तथा च पटो
भवतीत्येतावन्मात्रं निराकाङ्क्षं यं कञ्चिद् गुणमाक्षिप्य निर्वृणेति । रक्तः पटो
368 भवतीत्यत्र तु रक्तपदस्यापि समभिव्याहारात् पटादिसंसर्गपरत्वमिति पटादि
संसर्गमन्तरेण रक्तत्वमपर्यवस्यत् पटादयश्च रक्तत्वसंसर्गं विनापर्यवस्यन्तः
परस्परसंबद्धा भवन्तीति सिध्यत्येकवाक्यता । तस्मात् पदान्येव पदार्थस्मारणेन
तत्संसर्गं लक्षयन्ति वाक्यार्थे प्रमाणम् । तेषां चापक्षधर्मतया न लिङ्गत्वम् ।


स्यादेतत् । अयं पदकदम्बकविशेषः स्मारितपदार्थसंसर्गवान् आकाङ्क्षादिमत्त्वे
सति पदकदम्बत्वात् गामभ्याजेतिपदावलीवदिति नापक्षधर्मता । नैवम्,
अन्योन्याश्रयापत्तेः । कर्मकारकं हि फलादन्यद् वस्तुतः सिद्धं ज्ञानलक्षणाय फलाय
कल्पते । यथा अग्निमत्ता धूमस्य पर्वतस्य वाग्निसंयोगः, न त्वग्निज्ञानजनकत्वं तद्वत्ता ।
फलव्यङ्ग्यं हि तन्नानुपजाते फले कल्पते । तथा च फलोपजनने सत्यग्निमत्ता
तद्वत्तायां च कर्मणि फलोपजननमित्यन्योन्यसंश्रयापत्तिः । न च फल कर्मणोरैक्यम् ।
न हि वृक्ष एव छिदा भवति । तदिह संसर्गवत्त्वं पदानां तज्ज्ञानजनकत्वं नानुमानसाध्यं
भवितुमर्हति । न ह्यग्निज्ञानजनकत्वं धूमस्यानुमानसाध्यमित्युक्तम् । स्मृतिजनक
त्वमप्येषां वाक्यार्थप्रत्यायनाय कल्पितं न संबन्धान्तरं व्यनक्तीति । तत् सिद्धमेतत्
न पदानि वाक्यार्थबोधे लिङ्गम् अपक्षधर्मत्वान्मनोवदिति ।


अपि च लौकिक एवार्थः परीक्षकैरनुगम्यते । न तु स्वकृतलक्षणानुरोधेना
लौकिकमास्थीयते । न च क्लेशेन कयाचित् प्रणाड्या पक्षधर्मतां कल्पयित्वा लोकः
पदेभ्यो वाक्यार्थमवगच्छति, अपि तु स्वतन्त्रेभ्य एव तेभ्य इति सिद्धः शब्दस्य
प्रमाणस्यानुमानाद् भेदः । आप्तोक्तत्वं तु स्वर्गादिप्रतिपादकस्यागमस्य प्रामाण्ये
लिङ्गमेव । न चैतावता तदर्थ आनुमानिको भवति । न हि प्रवृत्तिसामर्थ्यानुमितप्रामाण्यस्य
प्रत्यक्षस्य विषयो भवत्यानुमानिकः । अर्थविषयं हि प्रमाणं प्रामाण्यविषये च
प्रवृत्तिसामर्थ्याप्तोक्तत्वे इति । एवं व्यवस्थिते अभ्युच्चयमात्रतया
भाष्यवार्त्तिककारभ्यामाप्तोक्तत्वाश्रयत्वानाश्रयत्वे शब्दानुमानभेदहेतुतयोपन्यस्ते
इति मन्तव्यम् । एतेन प्रवृत्तिभेदकथनेन अद्विप्रवृत्तिकत्वं व्याख्यातम् निराकार्यतया ।


संबन्धात् प्रतिपत्तेरनुमानं शब्द इति यदुक्तं पूर्वपक्षिणा तदनुभाष्य दूषयति—
369 यत्पुनरेतदिति । अस्येदमिति षष्ठीविशिष्टस्येति भाष्यम् । तस्य व्याख्यानम्
वाच्यवाचकमाव इति । स्वाभाविको हि शब्दार्थयोः संबन्धस्त्रेधा1566 स्यात्
तादात्म्यलक्षणो वा प्रत्याय्यप्रत्यायकभावो वा प्राप्तिलक्षणो वा । तत्राव्यपदेश्यपदेन
प्रत्यक्षलक्षणस्थेन तादात्म्यमपाकृतम् । शब्दार्थयोः प्राप्तिनिराकरणहेतुना चोपरिष्टा
दौत्पत्तिकः प्रत्याय्यप्रत्यायकभावो निराकरिष्यते । तेन प्राप्तिं निराकरोति भाष्य
कारः—प्राप्तिलक्षणस्त्विति ।
एकेन्द्रियग्राह्ययोर्हि1567 प्राप्तिः प्रत्यक्षा यथाङ्गुल्योः
न तु शब्दार्थयोरेकेन्द्रियग्राह्यता, तस्मान्नानयोः प्राप्तिः प्रत्यक्षगम्या, वायुवनस्पत्योरिवे
त्यर्थः । ननु शब्दशब्दस्यार्थः समानेन्द्रियग्राह्य एव, तत् कथं येनेन्द्रियेण गृह्यते
शब्दस्तस्य विषयभावमतीतोऽर्थ
इति । अत आह—अस्ति चातीन्द्रिय
विषयभूतोऽपीति ।
शब्दग्राहकेन्द्रियमतिपतित इन्द्रियमात्रमतिपतितश्चातीन्द्रियः
स च विषयभूतश्चेति कर्मधारयः ।


तदेतद् यस्माच्छब्दस्येति वार्त्तिकेनं व्याख्यातम् ॥ ५२ ॥


पूरणप्रदाहपाटनानुपलब्धेश्च संबन्धाभावः ॥ २ । १ । ५३ ॥


प्राप्तिलक्षणे चेत्यादि भाष्यं व्याचष्टे—नानुमानेनापीति । उपसंपद्यते प्राप्नोति,
गच्छतीति यावत् । पूर…वः ॥ आगच्छन्नुपलभ्येत मोदकादिः, न चोपलभ्यते,
तस्मान्नागच्छति शब्ददेशमर्थः । ततश्च अस्मिन् पक्षे शब्देन लोकव्यवहार
उच्छिद्येत । अथ शब्द
इति । न तावद् गुणस्य शब्दस्य गतिरुपपद्यते । तस्मात्
सन्तानवृत्त्या शब्दोऽर्थदेशं गच्छतीति वाच्यम्, तथा च नित्यत्वव्याहतिरित्यर्थः ।
शङ्कते—अथ नागच्छति इति । भवति विद्यत इत्यर्थः । अभूत्वा भवनं भवत्यर्थ इति
मत्वा निराकरोति—नित्यश्च भवति चेतीति । शङ्किता स्वाभिप्रायमाह—अथ न
गच्छतीति ।
निराकरोति—न सर्वार्थेति । न हि समानदेशाः समानेन्द्रियग्राह्याः प्रति
370 नियतव्यञ्जकव्यञ्जनीया दृष्टा इत्यभिप्रायः । सामान्यस्याश्रयोपलब्धिर्व्यक्ति
हेतुः । न च पुनः शब्दस्याश्रयोपलब्धिरस्ति
यतः शब्दो व्यज्येत, प्रत्युत
शब्देनैवाश्रयो व्यञ्जनीयः स्यात् । तथा चार्थाश्रितः शब्दस्ताल्वादिभिरप्राप्तैः सर्वान्
प्रति व्यक्त इत्युक्तदोषापत्तिरिति । न च शब्दस्यार्थे वृत्तिरनुभवगोचर इत्याह—
च वाच्ये वृत्तिः । आगमात् प्रतिपत्स्यत
इति, निरुक्तादिरागमः । उत्तरम्—
एवात्रेति1568
निरुक्तादीनामर्थसंबन्धे सिद्धे प्रतिपादकत्वं भवेत् । स एव तु विचार्यत
इत्यर्थः ॥ ५३ ॥


शब्दार्थव्यवस्थानादप्रतिषेधः ॥ २ । १ । ५४ ॥


पूर्वपक्षवाद्याह—शब्दा…धः ॥ ५४ ॥


न सामयिकत्वाच्छब्दार्थ संप्रत्ययस्य ॥ २ । १ । ५५ ॥


सिद्धान्तवाद्याह—न सा…स्य ।


न सामयिकत्वादिति । अभिधानाभिधेयनियमनियोग इति । अभि
धानाभिधेययोर्नियमो गोशब्दस्य सास्नादिमानेवार्थ एवमश्वशब्दस्य केशरादि
मानेवेति, तस्मिन् नियोगो बोद्धव्य इति भगवतः परमेश्वरस्य सर्गादौ, सोऽयं समय
इत्यर्थः । तस्मिन्नुपयुक्ते ज्ञाते शब्दार्थव्यवस्था भवति । संबन्धवादिनोऽपि
चायमवर्जनीय
इति । येऽपि मीमांसका वैयाकरणा वा स्वाभाविकं शब्दर्थयोः
संबन्धमास्थिषत तेषामपि नैष सत्तामात्रेण गमकोऽपि तु ज्ञातः सन् । विज्ञाने
चायमस्य वाचक इति वास्मादयं बोध्यव्य इति वा संकेत एवोपायः । वृद्धव्यवहारोऽपि
गवादिशब्दानां देवदत्तादिशब्दवत् सङ्केतपूर्व एव । तद् वरमस्तु सङ्केत एव, कृतमत्र
स्वाभाविकेन संबन्धेन तन्मात्रादेव प्रयोगप्रतिपत्तिव्यवहाराणामुपपत्तेरित्यर्थः ।


371

नन्वयं समयः केषाञ्चित् शब्दानामसति स्वाभाविकेऽर्थैः संबन्धे न कर्तुं
शक्यः । निर्दिश्य ह्यर्थं ब्रूयादयमस्माद् बोद्धव्य इति । न च निर्देशोऽसति स्वाभाविके
संबन्धे केषाञ्चित् शब्दानां सिध्यति । सङ्केताधीने तु वाचकत्वे सर्वेषां
शब्दानामकृतसमयत्वात् किं केन निर्दिशेत्1569 ? तस्मात् सङ्केतकरणमेव
स्वाभाविकसंबन्धं प्रतिपादयति शब्दानामित्यत आह—प्रयुज्यमानग्रहणाच्चेति ।
परमेश्वरेण हि यः सृष्ट्यादौ गवादिशब्दानामर्थे सङ्केतः कृतः, सोऽधुना वृद्धव्यवहारे
प्रयुज्यमानानां शब्दानामविदिसंगतिभिरपि बालैः शक्यो ग्रहीतुम् । तथा हि वृद्ध
वचनानन्तरं तच्छ्राविणो वृद्धान्तरस्य प्रवृत्तिनिवृत्तिभयशोकहर्षादिप्रतिपत्तेस्तद्धेतुं
प्रत्ययमनुमिमीते बालः । तस्य च सत्स्वप्यन्येष्वप्यर्थेषु भूतस्याभूतस्य वा
श्रवणसमनन्तरं च भवतो वाक्यश्रवणहेतुतामवगच्छति तदवयवानां च
पदानामावापोद्वापभेदेन तत्तदर्थप्रत्ययोपजनापायदर्शनात् तेषु तेष्वर्थेषु तेषां तेषां
पदानां वाचकत्वं कल्पयति । एवं पदावयवेषु 1570प्रकृत्यादिष्वपि द्रष्टव्यम् । सोऽयं
वृद्धव्यवहारः साम्प्रतिकानां सङ्केतग्रहोपायः, सर्गादिभुवां तु महर्षिदेवादीनां
परमेश्वरानुग्रहाद् धर्मज्ञानवैराग्यैश्वर्यातिशयसंपन्नानां परमेश्वरेण सुकर एव सङ्केतः
कर्तुम् । तद्व्यवहाराच्चास्मदादीनामपि सुग्रहः सङ्केतः । तद्व्यवहारपरम्परागतश्चा
स्मदादीनामपि सङ्केतग्रहो न संबन्धस्मृतिमपेक्षते, आप्तपरम्परात एव ततो
निःशङ्कव्यवहारोपपत्तेः । अत एवाह भाष्यकारः—लौकिकानामिति ।


स्यादेतत् । यदि शब्दानां साङ्केतिकसंबन्धो न स्वाभाविकः कृतं तर्हि साध्व
साधुविभागपरेण व्याकरणेन । स्वाभाविकं हि यस्य वाचकत्वं स साधुरसाधु
श्चेतरः । सामयिकत्वे तु सर्व एव साधवोऽसाधवो वेत्यत आह—समयपरिपालनार्थं
चेदमिति
पारमेश्वरसमयपरिपालनार्थमित्यर्थः, तथा च येषां पदानां येनार्थेन परमे
श्वरेण कृतः समयः, तानि तत्र साधूनि, असाधूनीतरत्रेति विभागाय व्याकरण
मर्थवदिति सिद्धम् । अर्थरूपस्तुषो लेशोऽर्थतुषः, स नास्ति । केवलं परैः प्राप्तिलक्षणः
372 संबन्धः कल्पित इत्यर्थः । तथा च स्वाभाविकसंबन्धाभावादनुमानाभेदायाविना
भावसिद्ध्यर्थं स्वाभाविकसंबन्धाभिधानमयुक्तमिति सिद्धम् ।


वार्त्तिकम्—स पुनः समयः कुत इति । यदि केचनापि शब्दा न प्रसिद्ध
संबन्धास्ततोऽशक्यप्रतीतिः समय इति भावः । उत्तरम्—पदज्ञानात् । पदं ज्ञायते
व्युत्पाद्यते अनेनेति व्युत्पत्या व्याकरणादित्यर्थः । ननु सर्वेषां शब्दानामविदिसङ्गतिः
कथं व्याकरणादपि शब्दमयात्1571 समयं प्रतिपद्यते1572 इत्यत आह—लोकतश्चेति ।
वृद्धव्यवहारावधृतसमयो व्याकरणात् साध्वसाधुविभागं च प्रतिपद्यत1573 इत्यर्थः ।
तदेतद् विभजते—तद्धि शास्त्रमिति ।


एवं तावद् दृष्टेनैव समयेनोभयसिद्धेन शब्दार्थव्यवस्थापनस्योपपत्तेर्नात्यन्ता
परिदृश्यमानस्वाभाविकसंबन्धकल्पना युक्तेत्युक्तत् ॥ ५५ ॥


जातिविशेषे चानियमात् ॥ २ । १ । ५६ ॥


संप्रत्यनुपपन्नोऽप्ययं स्वाभाविकः संबन्ध इत्याह—जाति…मात् ॥ स्वाभाविको
हि संबन्धः कस्यचिच्छब्दस्य केनचिदर्थेनास्ति, न तु सर्वस्य सर्वेण । तथा सति
शब्दार्थव्यवस्था न स्यात् । एवं चेत्1574 न कृष्यार्यम्लेच्छानां नियमः स्यात् । तथा हि
यवशब्द आर्यैर्दीर्घशूके पदार्थे प्रयुज्यते । ते हि यवशब्दाद् दीर्घशूकं पदार्थं
प्रतिपद्यन्ते । म्लेच्छास्तु प्रियङ्गौ प्रयुञ्जते । ते हि ततः प्रियङ्गुं प्रतिपद्यन्ते । एवं
त्रिवृतशब्दमृषयः स्तोत्रीयानवके प्रयुञ्जते आर्यास्तु लताविशेषे । सोऽयमनियमो न
स्वाभाविके संबन्धे । न हि स्वाभाविकसंबद्ध आलोको रूपेण सहस्रेणापि शिल्पिभी
रसादिसंबद्धः शक्यः कर्तुं यतस्ततो रसादयो गम्येरन् । नापि तत्र संकेतेन स्वा
भाविकः संबन्धो व्यज्यते । सदेव हि व्यज्यते नासत् । नो खलु यत्र घटो नास्ति तत्र
तं प्रदीपः शक्तो व्यङ्क्तुम् । सोऽयमनियमः सामयिकत्वे उपपद्यते पुरुषेच्छाधीनत्वात्
373 तस्याश्चानियमात् । न तु स्वाभाविकेन1575 इति । न च वाच्यम् सर्व एव शब्दाः
सर्वैरेवार्थैः स्वभावतः संबद्धाः सङ्केतेन तु नियम्यन्त इति प्रमाणाभावात् । जातिभेदेन
चार्थभेदप्रत्यस्य सङ्केतभेदादप्युपपत्तिरिति ।


नन्वार्यदेशवर्त्तिनां म्लेच्छानामार्यव्यवहारनिश्चिसङ्केतानां नानियम इत्यत आह
वार्त्तिककारः—जातिविशेषशब्देनेति ॥ ५६ ॥


॥ शब्दसामान्यपरीक्षाप्रकरणम् ॥

  1. न तु भवतिJ

  2. तन्न ज्ञातं C; ज्ञानं विशेषे J

  3. अत्र टीका नास्ति

  4. दुःखेन यन्न संJ

  5. सुखं स्वर्गपदा°J

  6. स्वकार्यवि°C

  7. नैवैषःC

  8. पा. सू. ५. २. २८

  9. पदभेदेभ्यःC

  10. कश्चिद् विशेषःC

  11. विशेषःC

  12. न लिङ्गत्वम् Alankāraḥ

  13. प्रत्ययपराणिC

  14. न पुनाJ

  15. °स्तथाC

  16. °ग्राह्मेभ्यो हिC

  17. एवायमिति J

  18. निर्दिश्येतC

  19. प्रकृतादि°C

  20. मात्रात्C

  21. बुध्यतेJ

  22. गृह्णातिJ

  23. °वं च तर्हिC

  24. °विकत्वेनJ