372 संबन्धः कल्पित इत्यर्थः । तथा च स्वाभाविकसंबन्धाभावादनुमानाभेदायाविना
भावसिद्ध्यर्थं स्वाभाविकसंबन्धाभिधानमयुक्तमिति सिद्धम् ।


वार्त्तिकम्—स पुनः समयः कुत इति । यदि केचनापि शब्दा न प्रसिद्ध
संबन्धास्ततोऽशक्यप्रतीतिः समय इति भावः । उत्तरम्—पदज्ञानात् । पदं ज्ञायते
व्युत्पाद्यते अनेनेति व्युत्पत्या व्याकरणादित्यर्थः । ननु सर्वेषां शब्दानामविदिसङ्गतिः
कथं व्याकरणादपि शब्दमयात्1571 समयं प्रतिपद्यते1572 इत्यत आह—लोकतश्चेति ।
वृद्धव्यवहारावधृतसमयो व्याकरणात् साध्वसाधुविभागं च प्रतिपद्यत1573 इत्यर्थः ।
तदेतद् विभजते—तद्धि शास्त्रमिति ।


एवं तावद् दृष्टेनैव समयेनोभयसिद्धेन शब्दार्थव्यवस्थापनस्योपपत्तेर्नात्यन्ता
परिदृश्यमानस्वाभाविकसंबन्धकल्पना युक्तेत्युक्तत् ॥ ५५ ॥


जातिविशेषे चानियमात् ॥ २ । १ । ५६ ॥


संप्रत्यनुपपन्नोऽप्ययं स्वाभाविकः संबन्ध इत्याह—जाति…मात् ॥ स्वाभाविको
हि संबन्धः कस्यचिच्छब्दस्य केनचिदर्थेनास्ति, न तु सर्वस्य सर्वेण । तथा सति
शब्दार्थव्यवस्था न स्यात् । एवं चेत्1574 न कृष्यार्यम्लेच्छानां नियमः स्यात् । तथा हि
यवशब्द आर्यैर्दीर्घशूके पदार्थे प्रयुज्यते । ते हि यवशब्दाद् दीर्घशूकं पदार्थं
प्रतिपद्यन्ते । म्लेच्छास्तु प्रियङ्गौ प्रयुञ्जते । ते हि ततः प्रियङ्गुं प्रतिपद्यन्ते । एवं
त्रिवृतशब्दमृषयः स्तोत्रीयानवके प्रयुञ्जते आर्यास्तु लताविशेषे । सोऽयमनियमो न
स्वाभाविके संबन्धे । न हि स्वाभाविकसंबद्ध आलोको रूपेण सहस्रेणापि शिल्पिभी
रसादिसंबद्धः शक्यः कर्तुं यतस्ततो रसादयो गम्येरन् । नापि तत्र संकेतेन स्वा
भाविकः संबन्धो व्यज्यते । सदेव हि व्यज्यते नासत् । नो खलु यत्र घटो नास्ति तत्र
तं प्रदीपः शक्तो व्यङ्क्तुम् । सोऽयमनियमः सामयिकत्वे उपपद्यते पुरुषेच्छाधीनत्वात्

  1. मात्रात्C

  2. बुध्यतेJ

  3. गृह्णातिJ

  4. °वं च तर्हिC