373 तस्याश्चानियमात् । न तु स्वाभाविकेन1575 इति । न च वाच्यम् सर्व एव शब्दाः
सर्वैरेवार्थैः स्वभावतः संबद्धाः सङ्केतेन तु नियम्यन्त इति प्रमाणाभावात् । जातिभेदेन
चार्थभेदप्रत्यस्य सङ्केतभेदादप्युपपत्तिरिति ।


नन्वार्यदेशवर्त्तिनां म्लेच्छानामार्यव्यवहारनिश्चिसङ्केतानां नानियम इत्यत आह
वार्त्तिककारः—जातिविशेषशब्देनेति ॥ ५६ ॥


॥ शब्दसामान्यपरीक्षाप्रकरणम् ॥

शब्दविशेषपरीक्षाप्रकरणम्


तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः ॥ २ । १ । ५७ ॥


अनुमानान्तर्भावे कदाचिदर्थाविनाभावात् भवेत् शब्दस्य प्रामाण्यम् । तद्बहिर्भावे
तु सुलभमस्याप्रामाण्यमिति मत्वा अनुमानभेदाभिधानानन्तरमप्रामाण्यमाह पूर्वपक्षी—
तद…भ्यः ।


तस्य इत्यादिभाष्यम् । तद् वार्त्तिककारो व्याचष्टे—तदित्यधिकृत
शब्दाभिधानादिति ।
शास्त्रे ह्यस्मिन् निःश्रेयसाधिगमपरे तन्नान्तरीयकतया वेद
प्रामाण्यव्युत्पादनमधिकृतमित्यधिकृतः शब्दो वेद इत्यर्थः ।


स्यादेतत् । अनृतत्वमप्रामाण्यमिति पर्यायः । तथा च प्रतिज्ञार्थ एव हेतुरित्यत
आह—अप्रामाण्यमर्थस्याप्रत्यायकत्वम् । अर्थस्येत्यविपरीतस्येत्यर्थः । पुत्रकामेष्टि
कारीर्यादयो हि ऐहिकफला नामुष्मिकफलाः, ऐहिकत्वेनैव तत्फलस्य चेतनेन
काम्यमानत्वात् एतच्छरीरोपभोगयोग्यत्वाच्चेति । विरुद्धार्थोपस्थापकत्वेन सहासंभवो
वाक्ययोर्वा पदयोर्वेति । अत्र भाष्यकारेणोदितहोमादिविधिवाक्यानां निन्दा
भिर्व्याघात इत्युक्तम् । अधिकविवक्षया वार्त्तिककार आह—अग्निहोत्रमिति ।

  1. °विकत्वेनJ