शब्दविशेषपरीक्षाप्रकरणम्


तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः ॥ २ । १ । ५७ ॥


अनुमानान्तर्भावे कदाचिदर्थाविनाभावात् भवेत् शब्दस्य प्रामाण्यम् । तद्बहिर्भावे
तु सुलभमस्याप्रामाण्यमिति मत्वा अनुमानभेदाभिधानानन्तरमप्रामाण्यमाह पूर्वपक्षी—
तद…भ्यः ।


तस्य इत्यादिभाष्यम् । तद् वार्त्तिककारो व्याचष्टे—तदित्यधिकृत
शब्दाभिधानादिति ।
शास्त्रे ह्यस्मिन् निःश्रेयसाधिगमपरे तन्नान्तरीयकतया वेद
प्रामाण्यव्युत्पादनमधिकृतमित्यधिकृतः शब्दो वेद इत्यर्थः ।


स्यादेतत् । अनृतत्वमप्रामाण्यमिति पर्यायः । तथा च प्रतिज्ञार्थ एव हेतुरित्यत
आह—अप्रामाण्यमर्थस्याप्रत्यायकत्वम् । अर्थस्येत्यविपरीतस्येत्यर्थः । पुत्रकामेष्टि
कारीर्यादयो हि ऐहिकफला नामुष्मिकफलाः, ऐहिकत्वेनैव तत्फलस्य चेतनेन
काम्यमानत्वात् एतच्छरीरोपभोगयोग्यत्वाच्चेति । विरुद्धार्थोपस्थापकत्वेन सहासंभवो
वाक्ययोर्वा पदयोर्वेति । अत्र भाष्यकारेणोदितहोमादिविधिवाक्यानां निन्दा
भिर्व्याघात इत्युक्तम् । अधिकविवक्षया वार्त्तिककार आह—अग्निहोत्रमिति ।
374 होमकालानामुदितादीनां निन्दया प्रतिषेधात् । ननु मध्याह्नापराह्णसायाह्नाः भविष्यन्ति
होमस्य काला इत्यत आह—न चान्य इति । तेषामपि सर्वेषामुदितकाल
त्वादित्यर्थः । यस्तु उदयानन्तर एव काल उदितकाल इत्युच्यते, तथा चान्योऽस्ति
काल इत्युक्ते व्याघाते न तुष्यति, तं प्रत्यन्यथा व्याघातमाह—उदितानुदितेति ।
अग्निहोत्रं जुहोतीत्युत्पत्तिवाक्येन विहितेऽग्निहोत्रनाम्नि होमे तदनुवादेनैकं वाक्यमुदितं
कालं विधत्ते । अन्यच्चानुदितकालमपरं च समयाध्युषितकालम् । न चैक एव
होमस्तदा तदा शक्यः कर्तुम् । न च कालगुणानुरोधेन प्रधानहोमस्यावृत्तिर्युक्ता1576 । न
चोदिततादिवाक्येषु होमस्याभ्यासः श्रूयते । तस्मात् परस्परव्याघातादप्रामाण्यमेव
साधीय इति । नन्वेतेऽनृतत्वादयः सर्ववेदवाक्याव्यापिन इति भागासिद्धतया
हेत्वाभासता इत्यत आह—दृष्टान्तत्वेनेति । अयमत्र प्रयोगः । पुत्रकामेष्टिहवनाभ्या
सवाक्यानि अप्रमाणम् अनृतत्वादिभ्यः क्षणिकादिवाक्यवदिति । एवं शेषाणि
वेदवाक्यानि अप्रमाणं वेदवाक्यत्वात् पुत्रकामेष्ट्यादिवाक्यवदिति । पर्युदासं
साध्यमुक्त्वा तेनैव हेतुना प्रसज्यप्रतिषेधं साध्यमाह—अग्निहोत्रादिवाक्यानां
वेति ।
तदन्यद् वाक्यं पुत्रकामेष्ट्यादि ॥ ५७ ॥


न कर्मकर्तृसाधनवैगुण्यात् ॥ २ । १ । ५८ ॥


एवं पूर्वपक्षमुक्त्वा सिद्धान्तमुपक्रममाणः प्रथमं तावदनृतत्वं दूषयति—न क
…त् ।


फलादर्शनमन्यथाप्युपपद्यमानं नानृतत्वं साधयति । ततश्चासिद्धमनृतत्वं हेतु
रित्यर्थः । स्यादेतत् । इष्टेश्चोदितत्वादनपेक्षेयं पुत्रजन्मकारणमिति1577 किमस्याः
कर्मकर्तृवैगुण्यं करिष्यतीत्यत आह—इष्टेः करणसाधनत्वेनेति । दृष्टसहकार्यदृष्टं
कारणम्, न केवलम् । तद् दृष्टवैगुण्यादुपपन्नमभवनं फलस्येत्यर्थः । अपेक्षणीयं
375 कर्तारमाह—पितराविति । करणमाह—इष्ट्येति । क्रियामाह—संप्रयुज्यमानाविति ।
इष्ट्याश्रयं तावदिति भाष्यम् । समीहा
तदङ्गसमिदादिकर्मानुष्ठानम् । तस्या भ्रेषो
भ्रंशोऽननुष्ठानमिति यावत् । अविद्वान् प्रयोक्तेति, विदुषामिहाधिकारः1578 सामर्थ्यात् ।
अत+एव स्त्रीशूद्रतिरश्चामसमर्थानामनधिकारः । विद्वानपि यदि द्विजातिकर्महानिहेतुं
कर्म ब्रह्महत्यादि कृतवान्, तत्कृतमपि कर्म न फलाय कल्पते कर्तृत्वे वैगुण्यादिति
दर्शयति—कपूयेति । कपूयं निन्दितं कर्म । आचरतीत्याचरणः पुरुषः । हविरसंस्कृतम्
1579अशृतमप्रोक्षितं वा । उपहतं श्वमार्जारादिभिः । मन्त्रा न्यूनाः क्रमविशेषेण । दक्षिणा
दुरागता
1580चौर्यद्यूतोत्कोचादेर्दुष्टादुपायादागतेत्यर्थः । अन्वाहार्यमिह दक्षिणा । सा
ततो न्यूना वा दीयते यावत्या पुरूषो न तृप्यति । स च पुरुषाहारो जरत्तरत्वेनापाक्यतया
निन्दितः । मिथ्यासंप्रयोगः पुरुषायितादि । मातरि योनिव्यापदो नानाविधाः
प्रजनप्रतिबन्धहेतवः । लोहितरेतसो बीजस्योपघात उपहतत्वम् । यतः 1581प्रजनो न
भवति । मिथ्याभिमन्थनं यतो नाग्निर्जायते ।


कर्मकर्तृवैगुण्ये आह वार्त्तिककारः—तथेष्टेः साधयितुरिति । मन्त्राणा
मसामर्थादिति ।
मन्त्रादिसाधनानां पुत्रकामेष्ट्यादीनां कर्मणामित्यर्थः । ननु यदि
निरपेक्षा नेष्टिः साधनं 1582तर्ह्यनपेक्षमाणौ पितरावेव सम्यक् संप्रयुज्यमानौ पुत्रस्य
जनकौ, कृतमत्र पुत्रकामेष्ट्या ।


अत+एव म्लेच्छादीनामपि पुत्रजन्मोपपद्यत इत्यत आह—तत्सहकारित्वादिति ।
नान्वयव्यतिरेकगम्यमिष्टेः साधनत्वम्1583 अपि त्वागमगम्यम् । म्लेच्छादीनां पुत्रजन्म
जन्मान्तरीयादृष्टवशादित्यागमप्रामाण्यादनुसरणीयम् । दृश्यमानकर्मकर्तृवैगुण्ये च
फलानुत्पादोऽदृष्टमपेक्षणीयं सूचयति । तदनेन पुत्रकामेष्ट्यादीनामनियतफलत्वमपि
सूचितं भवति । तथा च कर्मान्तरप्रतिबन्धेन कर्मकर्तृसाधनावैगुण्येऽपि फलानुत्पादः
समर्थितो भवति । ऐहिकफलेषु तु कारीर्यादिषु वैगुण्यं1584 परिहारः । अनृतत्वादप्रामा
376 ण्यमिति चेदिति ।
धर्मिविशेषणत्वेनोपयुक्तानामपि पश्चात् निष्कृष्य हेतुत्वाभिधानं1585
न दोषावहमिति भावः । उत्तरम्—किमिदमिति नन्वर्थाप्रतिपादकत्वं प्रतिज्ञातम् ।
1586एतदेवानृतत्वं च हेतुरिति प्रतिज्ञाहेत्वोरर्थाभेद इत्यत आह—अनृतत्वं चेति ॥ ५८ ॥


अभ्युपेत्य कालभेदे दोषवचनात् ॥ २ । १ । ५९ ॥


यत् पुनरुक्तम् उदिते होतव्यमित्यादीनामेव परस्परं व्याघात इति, तत्राह—
उभयेति । त्रिषु कालविधिपरेषु वाक्येष्वेकैकेनैव वाक्येनोभयोभयवाक्यार्थ
प्रतिषेधानभिधानात् । नान्यथा नाप्रामाण्यमित्यर्थः । यद्यपि चैको होमः समुच्चयेन
तदा तदा1587 न शक्यः कर्तुम्, तथापि विकल्पेन करिष्यते । बहुलं हि विकल्पो
लोकेऽप्युपलभ्यते । वस्तु हि व्यवस्थितं न विकल्प्यते । अनुष्ठाने चानागतोत्पाद्ये
विधिप्रतिषेधविकल्पानामविरोधः स्वरूपानिष्पत्तेरिति । वाक्यार्थो न कर्तव्य इति
वाक्यं तन्न कर्तव्यमित्यस्यार्थः1588कामतो वा विकल्प्येत इति परस्परव्याहतार्थं
कल्प्येतेत्यर्थः । अभिहितं वेति, यदनेन वाक्येन स्वसामर्थ्येनाभिहितम्, तद् वा
परीक्षकैरवधृत्यानूद्यते इदमनेन वाक्येनाभिहितमिति । निर्धारयति—अभिहितेति ।
विहितानुवादो वेति क्वचित् पाठः । विहितो होमस्तस्यानुवादः कालविशेषवि
धानायेति । विहितानुवाद एव न्याय्यः कालविशेषविधानाय, न तु कालान्तर
प्रतिषेधोऽर्थः कल्पितोऽर्थ1589 इत्यर्थः ॥ ५९ ॥


अनुवादोपपत्तश्च ॥ २ । १ । ६० ॥


एकादश सामिधेन्य उत्पत्तौ पठिताः । तासां प्रथमोत्तमयोस्त्रिर्वचनं पञ्चदशा
वरत्वं1590 मन्त्रस्य प्रयोजनवतः साधयत्सप्रयोजनमिति ।


377

तदेवं वेदाप्रामाण्यहेतूनुद्धृत्य प्रामाण्यसंभवहेतुः सूत्रकारेण वक्तव्य इति पूर्वं
वार्त्तिककारः स्वत एव तावत् प्रामाण्यसंभवहेतूनाह—पुत्रकामेष्टीति ॥ ६० ॥


वाक्यविभागस्य चार्थग्रहणात् ॥ २ । १ । ६१ ॥


सौत्रं हेतुमवतारयति—समस्तानीति ॥ ६१ ॥


विध्यर्थवादानुवादवचनविनियोगात् ॥ २ । १ । ६२ ॥


विध्य…गात् ॥ ६२ ॥


विधिर्विधायकः ॥ २ । १ । ६३ ॥


विधिर्विधायकः ॥ तस्य व्याख्यानं यद् वाक्यमिति । चोदकं प्रवर्तकम् । अत्र
चारोग्यकामः पथ्यमश्नीयादित्याद्युपदेशश्रवणसमनन्तरं पथ्याशने प्रवर्तमानं
प्रयोज्यवृद्धमुपलभ्य बालस्तस्य प्रवृत्तिहेतुं प्रत्ययमनुमिमीते, अस्य प्रवृत्तिः
प्रवर्तकप्रत्ययपूर्विका स्वतन्त्रप्रवृत्तित्वात्, मत्प्रवृत्तिवत् । स चायमनुमाता व्युत्पित्सुः
स्वात्मसिद्धमेव प्रवर्तकज्ञानमनुमिनोति, नादृष्टपूर्वम् । न हि स्वात्मसिद्धे1591 प्रवृत्तिहेतौ
दृष्टे संभवत्यदृष्टकल्पना न्याय्या । न चैष शब्दतद्व्यापारपुरुषाशयनिरुपाधिप्रवर्तक
मात्रापूर्वप्रत्ययानात्मनि प्रवर्तकानवगतवान्, येन तेषु प्रवर्तकत्वशङ्काप्यवतरेत् ।
स्तन्यपानादिविषयककार्यप्रत्ययोऽस्य प्रवर्तक इति चेत् ? किं पुनरेतत् कार्यमिति ।
पुरुषप्रयत्नः कृतिः, 1592तद्व्याप्यमिति चेत् ? ननु कृतिरिति मानसी प्रवृत्तिः, तदुपहितं
कार्यं प्रवृत्तिविषयः प्रवृत्तिफलं वा फलोद्देशेन पुरुषप्रवृत्तेः । तदवगमश्च
378 प्रवृत्तिहेतुः । प्रवृत्त्यवगतिस्तर्हि प्रवृत्तिहेतुरित्युक्तं भवति । 1593न चाननुविधेय
नियोगेष्वस्माकं व्युत्पन्नानां नास्ति प्रवृत्त्यवगमः । न चास्मात् प्रवर्तेमहि । अपि चेयं
प्रवृत्तिः प्रयत्नापरनामा इच्छाद्वेषयोनिरसति कारणे न स्वज्ञानमात्रादुदेतुमर्हति । न
चेच्छाद्वेषावेव प्रवृत्तिहेतू लिङादिगोचराविति साम्प्रतम् । स खलु लिङादिगोचरोऽ
भ्युपेयो यः स्वज्ञानेन प्रवर्तयति न तु स्वसत्तया, शब्दस्य ज्ञापकत्वादनुत्पादकत्वाच्च ।
न चेच्छाद्वेषौ स्वज्ञानेन प्रवर्तयतो यतः प्रवृत्तिं प्रति स्वज्ञानाय शब्दमपेक्षेयाताम्,
अपि तु सत्तया । तस्मात् तदेव लिङादेर्ज्ञाप्यम् । यज् ज्ञातं यदिच्छाद्वेषै1594 प्रसूते, तत्र फलं
निसर्गसुन्दरतया ज्ञातमात्मनीच्छां प्रसूते, एवं तदुपायोऽपि, तत् तया ज्ञातः
फलसंबन्धादात्मनीच्छाम् । तस्माद् द्वयमवशिष्यते फलं तदुपायो वा । तत्र फलस्य
यद्यपि स्वत+एवेच्छादिविषयत्वम्, तथापि तद्विषयेच्छां न तत्र प्रवर्तयितुमर्हति,
तस्यायोग्यत्वेन प्रवृत्तिविषयत्वानुपपत्तेः । न च फलगोचरेच्छा अन्यत्र तदुपाये
स्वकार्यं प्रयत्नं जनयितुमर्हति 1595इषिप्रयत्नयोरेकविषयतया कार्यकारणयोः
संप्रतिपत्तेः । न च तत्संबन्धात् तदुपायो नेष्यते येन फलेच्छाया एवोपायविषयप्रयत्नः
प्रसवहेतुत्वं प्रकल्प्येत । यथाहुः


अन्यदिच्छत्यन्यत्करोतीति विप्रतिषिद्धमिति ।

तस्मादिष्यमाणमपि फलं प्रवृत्तिविषयत्वाभावान्नात्मनि स्वज्ञानेन प्रवर्तकम् ।
तदुपायस्तु प्रवृत्तिविषयत्वादिष्यमाणत्वाच्च स्वज्ञानेन प्रवर्तक इति युक्तमुत्प
श्यामः । बालानां च स्तन्यादावपेक्षितोपायताज्ञानं प्राग्भवीयव्याप्तिग्रहणजनित
संस्कारानुवृत्तिवशादुत्पन्नव्याप्तिस्मरणानां तज्जातीयत्वलिङ्गज्ञानजमनुमानमेव । एतच्च
पूर्वाभ्यस्तस्मृत्यनुबन्धात्1596
इत्यत्रोपपादयिष्यते । अत एव प्रयोजनलक्षणं व्याचक्षाणेनोक्तं वार्त्तिककृता


इदं सुखसाधनमिति बुद्ध्वा सुखावाप्तये प्रयतते । इदं दुःखसाधनमिति
चावगम्य दुःखहानायेति1597


379

तस्मादपेक्षितोपायता प्रवर्तना स्वात्मनि सिद्धा वृद्धस्यापि प्रवृत्तिहेतु
रित्यवगच्छति व्युत्पित्सुर्बालः । सा च लिङादिश्रवणसमनन्तरमुपजायमाना लिङाद्यर्थ
इति निश्चिनोति । न चापेक्षितोपायतामात्रं प्रवृत्तिहेतुः । भवति हि यजमाननिर्वर्तिता
कारीरी कृषीबलानामपेक्षितोपायः । न चैतेऽस्यां प्रवर्तन्ते तस्याः सिद्धत्वात् । तस्मात्
कर्तुरपेक्षितोपायता प्रवृत्तिहेतुरित्यास्थेयम्1598


न च सिद्धे कर्तृतास्ति । यथाह भगवान् जैमिनिः

शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्1599 इति ।

लोके च क्रियैवापेक्षितोपायः शब्दार्थ इति तदनुसारेण
अग्निहोत्रं जुहुयात् स्वर्गकामः
इत्यादयोऽपि वैदिका उपदेशा क्रियामेवापेक्षितोपायमभिदधति । सा चेयमा
शुतरविनाशिन्यप्यवान्तरापूर्वव्यापारा सती चिरभाविनेऽपि फलाय कल्पते कृषिरिव
निदाघसमयजन्मा हेमन्तसमयभाविने शस्यायेति नापूर्वस्यात्रापेक्षितोपायत्वं
कल्पयितव्यम् । भवतु वा तदेवापेक्षितोपायप्रवृत्तिहेतुः, तथापि कर्तुरपेक्षितोपायता
लक्षणसमानोपाधिप्रवृत्तिर्विधिशब्दस्तदेकोपाधिसंबन्धात् क्वचित् क्रियायां क्वचिदपूर्वे
प्रवर्त्स्यति न नः1600 काचिद् दर्शनक्षतिः । तदेवमुपदेशे नियोज्यप्रयोजनकर्मणि
व्युत्पन्नः तानेव शब्दान् 1601नियोक्तृप्रयोजनकर्मण्याज्ञादौ प्रयुज्यमानानुपलभ्या
ध्येषणानुज्ञावाचकत्वमप्यवगच्छति । अग्निहोत्रादिवाक्यानां तु प्रयोज्यप्रयोजन
कर्मवाचिनामुपदेशत्वमेव । तस्माद् यद्यप्याज्ञाध्येषणामन्त्रणोपदेशाः सर्वे विधयः,
तथापि इह उपदेशो विधिरभिमतः । तस्मात् सुष्ठूक्तम्—यद्वाक्यं विधायकमिति
कर्त्रपेक्षितोपायताज्ञापकमित्यर्थः ।


विधिस्तु नियोगोऽनुज्ञा वेति भाष्यमनुभाष्य व्याचष्टे—विधिस्त्विति ।
यदेतत्,
380 अग्निहोत्रं जुहुयात् स्वर्गकामः


इति वाक्यमप्रवृत्तप्रवर्तकलक्षणं कर्त्रपेक्षितोपायतामज्ञातां1602 ज्ञापयद्विधिः, तदेव
तत्साधनद्रव्याद्यवाप्तिप्रवृत्तिमनुजानाति ।


एतदुक्तं भवति—1603सन्ति हि द्रव्यार्जननियमविधयः
ब्राह्मणस्य प्रतिग्रहादिना
इत्यादयः । ते च रागतो धनार्जने प्रवृत्तानां ब्राह्मणानां लौकिकानेकोपायप्रसक्तौ1604
सत्यां नियमपराः पुरुषार्थाः न क्रत्वर्थाः । क्रतुविधयस्तु धनसाधनास्तेन विना
अपर्यवस्यन्तोऽपि1605 न धनार्जनं तन्नियमं वा प्रयुञ्जते, पुरुषार्थत्वेनैव1606 तस्य प्रयुक्त
त्वात् केवलमनुजानन्ति । तस्मात् तदेवाग्निहोत्रादिवाक्यमप्राप्तेऽग्निहोत्रादौ
विधिरन्यतः प्राप्ते तु तत्साधनेऽनुज्ञेति सिद्धम् । समुच्चये वाशब्दः ॥ ६३ ॥


स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः ॥ २ । १ । ६४ ॥


स्तुतेरुपयोगद्वयम्—प्रवृत्त्या, धर्मे कर्तव्ये विधिना प्रवृत्तौ कर्तव्यायां च
सहकारिता । प्रशस्तमिति ज्ञात्वा प्रवर्तमानाः पुमांसः प्रवर्तन्तेतराम् । सा च प्रवृत्तिः
श्राद्धस्य धर्मं प्रसूते, नाश्राद्धस्य । तथा च श्रूयते—


यदेव प्रज्ञया श्रद्धयोपनिषदा च करोति तदेवास्य

वीर्यवत्तरं भवतीति1607

तत्र प्रवृत्तेः कार्यसहकारितामाह—स्तूयमानमिति । विधेः कार्ये सहकारिता
माह—प्रवर्तिका चेति ।


कथं परकृतिपुराकल्पावर्थवादौ इति । चरकाध्वर्युपुरुषसंबन्धश्रवणाद्
वपाहोमपृषदाज्याभिघारणयोः क्रमभेदस्याप्राप्तस्य पुरुषविशेषधर्मतया विधायकं
परकृतिवाक्यम् । तथा बहिष्पवमानसोमस्तोममन्त्रसंबन्धस्य पूर्वकालपुरुषसंबन्धितया
381 श्रवणाद् इदानीन्तनपुरुषधर्मतया विधायकं पुराकल्पवाक्यं कस्मात् न भवतीति
भावः । उत्तरम्—स्तुतिनिन्दावाक्येन कस्यचिद् विधेः शेषभूतेनाभिसंबन्धादिति ।
न तावदेतेषु वाक्येषु सिद्धाभिधायिषु विधिश्रुतिरस्ति । तत्र किमश्रूयमाणो विधिः
कल्प्यतामाहो प्रतीतेन विधिनैकवाक्यतेति । तत्र कल्पनालाघवात् प्रतीतेन
विधिनैकवाक्यतैव ज्यायसी । पूर्वपक्षे विधिकल्पना तदेकवाक्यताकल्पनेति द्वयं
कल्पनीयम् । उत्तरस्मिंस्तु एकवाक्यतामात्रमिति भावः । स्फुटतरस्तुतिनिन्दा
प्रतीत्यभावाच्च परकृतिपुराकल्पयोः स्तुतिनिन्दाभ्यां भेदेनोपन्यास इति ॥ ६४ ॥


विधिविहितस्यानुवचनमनुवादः ॥ २ । १ । ६५ ॥


विधिमधिकृत्य स्तुतिर्वोच्यते निन्दा वेति । यथा
अश्वमेधेन यजेत
इति विधेरनुवादः
योऽश्वमेधेन यजेत
इति । किमर्थम् ? स्तोतुम् ।
तरति मृत्युं तरति पाप्मानम्
इति स्तुतिः ।
उदिते होतव्यम्
इत्यस्य विधेरनुवादो
य उदिते जुहोति
इति । किमर्थम् ? निन्दितुम् ।
श्यावो वास्याहुतिमभ्यवहरतीति निन्दा ।


प्रयोजनान्तरमाह—विधिशेषो वाभिधीयत इति । यथा
यदाग्नेयोऽष्टाकपालो भवति
382 इत्यादिभिरुत्पत्तिवाक्यैः षडाग्नेयादयो यागाः पौर्णमास्यमावास्याकालसंबद्धा
विहिताः । ते च विधय इष्टाभ्युपायतारूपाः स्ववाक्ये चेष्टमनासादयन्तः सापेक्षाः ।
एवमाघाराद्युत्पत्तिविधयोऽपि कालविशेषासंबद्धा इष्टापेक्षा एव । तत्र
य एवं विद्वान् पौर्णमासीं यजते य एवं विद्वानमावास्यां यजते
इति कालविशेषसंबन्धेनोत्पन्नानामाग्नेयादीनां षण्णामनुवादः । किमर्थम् ?
यदाग्नेयोऽष्टाकपाल
इत्याद्युत्पत्तिविध्यपेक्षितेष्टसंबन्धनियमार्थम् ।
दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत
इति षण्णामेवाग्नेयादीनां कालविशेषसंबन्धोत्पन्नानूदितानां फलसंबन्धो यथा स्यात् ।
मा भूदाघारादीनां कालासंबन्धेनोत्पन्नानामित्येवमर्थम् । अत आघारादयः
फलवत्सन्निधावफलं तदङ्गम्
इति दर्शपौर्णमासाङ्गतयावतिष्ठन्त इति सिद्धं भवति । सोऽयं फलसंबन्धनियमो
विधिशेषः । तदर्थमनुवाद इत्यर्थः । एवम्
अग्निहोत्रं जुहोति
इति विहितो होमोऽनूद्यते । किमर्थम् ? दध्यादिगुणविशेषविधानार्थम्, दध्ना जुहोति
पयसा जुहोतीत्यादिषु । सोऽयं गुणविधिर्विधिशेष1608 इति । प्रयोजनान्तर
मनुवादस्याह—विहितानन्तरार्थ इति । यथा सोमो विहितो दर्शपौर्णमासौ च ।
तयोरानन्तर्यं विधातुमुभयानुवादः
दर्शपौर्णमासाभ्यामिष्ट्वा सोमेन यजेत
इति । एवम्
अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति
इति1609विभागेऽर्थग्रहणात् 1610प्रमाणं भवितुमर्हतीति प्रामाण्यं संभाव्यत
इत्यर्थः ॥ ६५ ॥


383

नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः ॥ २ । १ । ६६ ॥


भाष्योक्तमनुवादस्य प्रयोजनमविदुषः पूर्वः पक्षः ॥ ६६ ॥


शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ॥ २ । १ । ६७ ॥


वार्त्तिकम् यथेति । यथा शीघ्रं गम्यतामित्युक्ते शीघ्रतरं गम्यतामिति न
पुनरुक्तम्, तरपः क्रियातिशयप्रतीतेः, एवं शीघ्रं शीघ्रं गम्यतामित्यभ्यासात्
क्रियातिशयप्रतीतेः सकृदुच्चरिताच्चानवगतेः क्रियातिशयस्य प्रयोजनवानभ्यासः ।
क्रियाविशेषणातिशयोऽपि क्रियातिशय एवेत्यर्थः । अवगतं तावत् शीघ्रं शीघ्रं
गम्यतामित्यत्राभ्यासातिशयप्रतीतेरनुवादस्य1611 विशेषः, पचति पचतीत्यादौ तु को
विशेष इत्याह—कः पुनरसौ विशेषः ? यः पचति पचतीत्यादौ भवतीति । न च
वक्तुरन्यथाप्रत्ययः श्रोतुश्चान्यथा, येन विप्रतिपत्तेः श्रोतुः प्रत्ययो भ्रान्त इति
कल्प्येत इत्याह—यथा च श्रोतुरिति । एवमन्योऽपीति । यथा ग्रामो ग्रामो रमणीय
इत्यादिरिति ॥ ६७ ॥


मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् ॥ २ । १ । ६८ ॥


अनन्तरसूत्रावतारणपरं भाष्यं किं पुनः प्रतिषेधेति । तदनुभाष्य व्याचष्ट—किं
पुनरिति ।
उत्तरं नेति । पृच्छति—किं कारणम् ? उत्तरं न साधनमन्तरेणेति । पुनः
पृच्छति—कुतस्तर्हीति । उत्तरं प्रमाणतः । पृच्छति—तत् किं प्रमाणम् । तत्र तावद्
वेदप्रामाण्यसंभावनायां प्रमाणमाह—अर्थविभागवत्त्वात् । न त्वेतद् वेदप्रामाण्ये
प्रमाणम्, बुद्धादिप्रणीतेनागमेनार्थविभागवता अनैकान्तिकत्वात् ।
वेदप्रामाण्यप्रमाणं तु सूत्रोक्तम्—मन्त्रा…ण्यात् ।


384

चशब्दः पूर्वहेत्वनुकर्षणार्थ इति । पूर्वस्य प्रामाण्यसंभावनाहेतोरर्थ
विभागवत्त्वस्यानुकर्षणार्थः । संभावितो हि पक्षो हेतुना साध्यते न त्वसंभावितः ।
यथाहुः


संभावितप्रतिज्ञायां पक्षः साध्येत हेतुना ।


न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः ॥

इति । सूत्रं व्याचष्टे—यथा मन्त्रायुर्वेदवाक्यानीति । पुरुषस्य भगवतो वेदकारस्य
विशेषः प्रत्यक्षीकृतहेयोपादेयतत्त्वता च 1612भूतदया च यथार्थचिख्यापयिषा च
करणपाटवं चेति । विशेष्यते ह्यनेवैव पुरुषः पुरुषान्तरेभ्योऽनाप्तेभ्य इति । त्रिविधेन
विशेषणेनेत्युपलक्षणम्,
करणपाटवमपि द्रष्टव्यम् ।


एतदत्राकूतम् । अनन्तान्तर्गणिकभेदाः सुखदुःखवन्तः1613 प्राणभृद्भेदा दृश्यन्ते । न
चैषां वैचित्र्यं स्वाभाविकमिति तृतीये निवेदयिष्यते । न च दृष्टकारणमात्रनिबन्धनम्,
तस्य तस्य दृष्टस्य दृष्टव्यभिचारत्वात्1614 । तस्माद् दृष्टसहायमदृष्टमस्य वैचित्र्यस्य
कारणम् । तच्चापूर्वमिति च धर्माधर्माविति चाख्यायते । तच्च कस्यचित् प्रत्यक्षं
मन्वादेरित्युपपादितम् । तनुभुवनादिलक्षणस्य कार्यस्य कर्ता तन्निर्माणसमर्थः
समस्तवस्तुतत्त्वज्ञः क्लेशकर्मविपाकाशयापरामृष्टः परमकारुणिकः तनुभुवनादेरेव
कार्यादनुमीयत इति चतुर्थे उपपादयिष्यते । सोऽयमात्मीयहिताहितप्राप्तिपरिहारोपायान्
अविदुषः प्राणिनः पश्यन् प्रत्युतानेकविधदुःखदहनदह्यमानानवलोकयन् कथं न
तप्येत, तप्यमानो वा हिताहितप्राप्तिपरिहारोपायतत्त्वं विद्वान् कथं नोपदिशेत्
अन्यथोपदिशेद् वा । तस्मादनेन परमकारुणिकेन पृथिव्यादि सृष्ट्वा तदनु
प्रजाश्चतुर्विधास्ताभ्यो हिताहितप्राप्तिपरिहारोपाय उपदेष्टव्यः । न ह्ययमनुपदिश्य
स्थातुमर्हति । प्रजानां पितृकल्पस्य चास्योपदेशो देवर्षिमनुष्यगोचरश्चातुर्वण्येन
चातुराश्रम्येण चादराद् ग्राह्यश्च धार्यश्च हिताहितप्राप्तिपरिहारोपायानुष्ठानाय । तस्माद्
यो वर्णाश्रमाचारव्यवस्थापक आगमो महाजनपरिगृहीतः स तत्प्रणीत आप्तोक्तत्वात्
385 प्रमाणम्, मन्त्रायुर्वेदवाक्यवदिति 1615संप्रधार्यते । कतमोऽसावागम आप्तोक्तः, किं
1616शाक्यभिन्नकदिगम्बरसंसारमोचकादीनामागमाः, किं वा वेदा इति ? तत्र
शाक्याद्यागमानां बुद्धर्षभादयः प्रणेतार इति स्फुटतरमस्ति स्मरणं न तूक्तलक्षण
ईश्वरस्तेषां कर्त्तेति । न चैते शौद्धोदनिप्रभृतयः तनुभुवनादीनां कर्तारो येन सर्वज्ञा
इति निश्चीयेरन् । तदुपायानुष्ठानेन तु संभाव्येतैषां सर्वज्ञता । न च संभावनामात्रेण
तत्प्रणीतेषु आगमेषु आश्वासः प्रेक्षावतां भवितुमर्हति । न चैतेषामागमा वर्णश्ररमाचार
व्यवस्थाहेतवः । नो खलु निषेकाद्याः श्मशानान्ताः क्रियाः प्रजानामेते विदधति । नहि
प्रमाणीकृतबौद्धाद्यागमा अपि लोकयात्रायां श्रुतिस्मृतीतिहासपुराणनिरपेक्षा
गममात्रेण प्रवर्तन्ते, अपि तु तेऽपि सांवृतमेतदिति ब्रुवाणा लोकयात्रायां श्रुत्यादीनेवानु
सरन्ति । तस्माद् भवतु वेदेषु जगन्निर्मातृकर्तृकत्वस्मृतिः, मा वा भूत्, एत एव
त्वीश्वरप्रणीता इति पश्यामः । न ह्येते चैत्यवन्दनादिवाक्यवदन्यकर्तृकाः स्मर्यन्ते ।
न चान्य आगमो लोकयात्रामुद्वहन् महाजनपरिगृहीत ईश्वरप्रणीततया स्मर्यमाणो
दृश्यते । न चेश्वरोऽनुपदिशन्नवस्थातुमर्हतीत्युक्तम् । तत् पारिशेष्याद् वेदा एव
सकललोकयात्रामुद्वहन्तो हिताहितप्राप्तिपरिहारोपायमुपदिशन्त ईश्वरप्रणीता
इत्यवगच्छामः । तथा ह्येत एव त्रैवर्णिकैरद्ययावत् प्रयत्नेन गृह्यन्ते धार्यन्ते च ।
तदनुपालनाय च महर्षिपरम्पराभिरङ्गोपाङ्गेतिहासपुराणधर्मशास्त्राणि प्रणीताणि ।
बुद्धादिवाक्यानि तु न लोकयात्रामुद्वहन्ति । न च तत्र लौकिकानामविगानम् । न च
विगायतां सांवृतमित्युक्त्वापि तदर्थानुष्ठानम् । तस्माद् विगानात् कैश्चिदेव म्लेच्छा
दिभिर्मनुष्यापसदैः पशुप्रायैः परिग्रहान्नैतेषामाप्तोक्तत्वसंभवः । न चैतेषां मन्वादि
वाक्यवद् वेदमूलकतया प्रामाण्यमिति सांप्रतम्, अध्येत्रध्यापयित्रनुष्ठातृकर्तृसामान्यस्य
वेदमूलकत्वानुमानलिङ्गस्य स्मृतिवेदयोरिव बुद्धादिवाक्येष्वभावात् । ततः
सर्वज्ञत्वसंशयेन1617 चानुभवमूलकत्वानिश्चयात् । मन्त्रायुर्वेदेषु च प्रवृत्तिसामर्थ्यानुमित
प्रामाण्येषु वैदिकशान्तिकपौष्टिकादिकर्माभ्यनुज्ञानात् रसायनादिक्रियारम्भे च
386 वेदविहितचान्द्रायणादिप्रायश्चित्तोपदेशाद् आयुर्वेदेनाप्याप्तप्रणीतेन वेदानां
प्रामाण्यम् अभ्युपेयते । तत् सिद्धमाप्तप्रणीता वेदाः प्रमाणमिति । अभ्युच्चयमात्रं तु
कारीर्यादिषु संवाद इति ।


एतदेवाभिप्रेत्य वार्त्तिककारः प्रयोगमाह—अस्य प्रयोगः । प्रमाणं वेदवाक्या
नीति ।
प्रयोगान्तरमाह—एककर्तृकत्वेनेति । मन्त्रायुर्वेदवाक्यानि सर्वज्ञकर्तृकाणि
महाजनादरे सति अलौकिकार्थप्रतिपादकत्वात् । यानि तु न सर्वज्ञपूर्वकाणि तानि
नैवंरूपाणि यथा वातपुत्रीयवाक्यानीति व्यतिरेकी हेतुः । यथा च बुद्धादिवाक्यान्य
लौकिकान्यपि न महाजनपरिगृहीतानि तथोक्तमनन्तरमेव । मन्त्रायुर्वेदवाक्यानां च
सत्यपि प्रवृत्तिसामर्थ्ये तासां तासामौषधीनां तत्तत्संयोगभेदानां च तत्तदक्षरा
वापोद्धारभेदस्य च नासर्वज्ञः सहस्रेणापि पुरुषायुषैः शक्तः कर्तुं प्रथममन्वयव्यतिरेकौ ।
न चानिदंप्रथमतात्र परिहारः, सर्गादौ तदसंभवात् । सृष्टिमहाप्रलयौ चानु
मानागमाभ्यामुपपादयिष्याम इति सर्वं रमणीयम् । तदेवं सर्वज्ञपूर्वकत्वे सति
सिद्धमाप्तोक्तत्वेन मन्त्रायुर्वेदप्रामाण्यमोदनार्थो पचेदिति लौकिकवाक्यवदिति ।
यदि न नित्यानि कथं प्रमाणमिति । अनित्यत्वे हि पुरुषाणां विचित्राभिसन्धित्वेन
भ्रमविप्रलम्भादिसंभवेऽप्रामाण्यशङ्का न शक्यापाकर्तुम्1618 । तस्मादपौरुषेयत्वमेव
पुरुषाश्रयान् दोषान् अपाकुर्वद् वेदप्रामाण्यव्यवस्थापकमिति भावः । उत्तरम्
प्रतिपादकत्वादिति । आप्तोक्तत्वेनानित्यस्यापि निश्चायकत्वादित्यर्थः ।


केचित् त्विति । प्रमालक्षणामर्थक्रियां कुर्वत् प्रमाणम् । न च नित्यस्यार्थ
क्रियास्ति तस्मान्न प्रमाणमित्यर्थः । निराकरोति—तत्तु न सम्यगिति पश्याम इति ।
यथा च नित्यस्याप्यर्थक्रियासंभवस्तथा तृतीये वक्ष्याम इति भावः । आत्मा चेति
प्रमाहेतुतामात्रविवक्षया, न तु करणत्वाभिप्रायम् । प्रमाणशब्दस्येति अत्रापि न
करणत्वविवक्षा, किं तु प्रमाहेतुमात्रविवक्षेति द्रष्टव्यम् । इतरवस्तुसाधकत्वेनेति
इतरस्य परमाणुगतस्यैव मूर्तत्वादेः साधकतमत्वेनेत्यर्थः ।


387

तदेवमेकदेशिमतमपाकृत्य स्वमतमाह—तस्मादिति । स च संसारा
नादित्वादिति ।
यद्यपि वर्णपदवाक्यानि प्रत्युच्चारणमन्यानि तथापि
गत्वादिसामान्यावच्छिन्नानां गकारादीनां तत्समूहानां च पदानां पदसमूहानां च
वाक्यानां शक्यो गोत्वादिसामान्यावच्छिन्नाभिः शाबलेयादिव्यक्तिभिरेव सङ्केतो
ग्रहीतुमिति भावः । मन्वन्तरेति । महाप्रलये त्वीश्वरेण वेदान् प्रणीय सृष्ट्यादौ
संप्रदायः प्रवर्त्यत एवेति । शेषं भाष्यं वार्त्तिकं चातिरोहितार्थमिति ॥ ६८ ॥


॥ शब्दविशेषपरीक्षाप्रकरणम् ॥
  1. °वृत्तिरिति युक्तम्C

  2. °क्षेयं साधयति पुत्रकारणंC

  3. विदुषो ह्यधि°C

  4. अपूतंC

  5. °दौत्य°C

  6. पुत्रजन्मC

  7. तास्तर्हिC

  8. सहकारित्वम्C

  9. साधनवैगुण्यम्C

  10. निष्कृष्याभि° C

  11. अनृतत्वं C

  12. तदा C

  13. वाक्यं न कर्तव्यमित्युक्तम् C

  14. कल्प्यते C

  15. °दशावरत्व° C

  16. स्वात्मनि पूर्वसिद्धेC

  17. °व्याप्यत्वमितिC

  18. न चाननुविधेयोऽश्रद्धेय इत्यधिकम् C

  19. सत्यम् ज्ञानमिच्छा° C

  20. इतिप्रयत्नयोरिति
    मातृके; इच्छाप्रयत्नयोरिति शोधनम्
    C

  21. न्या. सू. ३. १. १८

  22. १. १. २४ सुत्रस्य वार्त्तिकं द्रष्टव्यम्

  23. हेतुरास्थेयम्C

  24. जै. सू. ३. ७. १८

  25. समानोपाधिर्विधि…प्रवर्तत इति नC

  26. नियोक्तुं प्र°C

  27. पायतां ज्ञाप°C

  28. ये for सन्तिC

  29. °प्रयुक्तौC

  30. °स्तेऽनूदिताः
    पर्य°
    C

  31. °र्थेनैवJ

  32. विद्या forप्रज्ञयाCकरोति श्रद्धया च तदेवJ

  33. °विधिविधि° J

  34. इत्यादिः J

  35. प्रामाण्यं C

  36. गम्यतामित्यत्रानु° J

  37. तद्धेतुभूता भूत°C

  38. °र्गणिकसुखदुःखभेदवन्तःC

  39. तस्य दृष्टव्य°C

  40. संप्रसाध्यतेC

  41. °क्यभिक्षुकंC

  42. तत्सर्वज्ञत्वसंदेहेनC

  43. भ्रमशङ्का न शक्यापाकर्तुम् C