॥ अथ द्वितीयमाह्निकम् ॥
33इहोद्दिष्टे प्रत्यक्षपरोक्षलक्षणे प्रमाणद्वये लक्षितं प्रत्यक्षम् । इदानीं परोक्ष
लक्षणमाह--
अविशदः परोक्षम्291 ॥ १ ॥
सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् सम्यगर्थनिर्णयः इत्यनुवर्तते ।
तेनाविशदः सम्यगर्थनिर्णयः परोक्षप्रमाणमिति ॥ १ ॥
विभागमाह--
स्मृतिप्रत्यभिज्ञा292नोहानुमानागमास्तद्विधयः ॥ २ ॥
तद् इति परोक्षस्य परामर्शस्तेन परोक्षस्यैते प्रकारा न तु स्वतन्त्राणि प्रमा
णान्तराणि प्रक्रान्तप्रमाणसङ्ख्याविघातप्रसङ्गात् ।
ननु स्वतन्त्राण्येव स्मृत्यादीनि प्रमाणानि किं नोच्यन्ते ?, किमनेन द्रविड
मण्डकभक्षणन्यायेन ? । मैवं वोचः, परोक्षलक्षणसङ्गृहीतानि परोक्षप्रमाणान्न विभे
दवर्तीनि; यथैव हि प्रत्यक्षलक्षणसङ्गृहीतानीन्द्रियज्ञान-मानस-स्वसंवेदन-योगिज्ञानानि
सौगतानां न प्रत्यक्षादतिरिच्यन्ते, तथैव हि परोक्षलक्षणाक्षिप्तानि स्मृत्यादीनि न
मूलप्रमाणसङ्ख्यापरिपन्थीनीति । स्मृत्यादीनां पञ्चानां द्वन्द्वः ॥ २ ॥
तत्र स्मृतिं लक्षयति--
वासनोद्बोधहेतुका तदित्याकारा स्मृतिः ॥ ३ ॥
वासना293 संस्कारस्तस्याः उद्बोधः294 प्रबोधस्तद्धेतुका तन्निबन्धना,
इति वचनाच्चिरकालस्थायिन्यपि वासनाऽनुद्बुद्धा न स्मृतिहेतुः, आवरणक्षयोपशम
सदृशदर्शनादिसामग्रीलब्धप्रबोधा295 तु स्मृतिं जनयतीति वासनोद्बोधहेतुका इत्युक्तम् ।
अस्या उल्लेखमाह त296दित्याकारा सामान्योक्तौ नपुंसकनिर्देशस्तेन स घटः, सा पटी, तत्
कुण्डल297मित्युल्लेखव298ती मतिः स्मृतिः ।
सा च प्रमाणम् अविसंवादित्वात् स्व299यं निहितप्रत्युन्मार्गणादिव्यवहाराणां
दर्शनात् । नन्वनुभूयमानस्य विषयस्याभावान्निरालम्बना स्मृतिः कथं प्रमाणम् ? । नैवम्,
अनुभूतेनार्थेन सालम्बनत्वोपपत्तेः, अन्यथा प्र300त्यक्षस्याप्यनुभूतार्थविषयत्वादप्रामाण्यं
प्रसज्येत । स्वविष301यावभासनं स्मृतेरप्यविशिष्टम् । विनष्टो विषयः कथं स्मृतेर्जनकः ?, तथा
34
चार्थाजन्यत्वान्न प्रामाण्यमस्या इति चेत्; तत् किं प्रमाणान्तरेऽप्यर्थजन्य302त्वमविसंवाद
हेतुरिति विप्रलब्धोऽसि ? । मैवं मुहः, यथैव हि प्रदीपः स्वसामग्रीबललब्धजन्मा घटादि
भिरजनितोऽपि तान् प्रकाशयति तथैवावरणक्षयोपशमसव्यपेक्षेन्द्रियानिन्द्रियबललब्ध
जन्म संवेदनं विषयमवभासयति । नाननुकृतान्वयव्यतिरेकं कारणम् नाकारणं
विषयः इति तु प्रलापमात्रम्, योगिज्ञानस्यातीतानागतार्थगोचरस्य तदजन्यस्यापि
प्रामाण्यं प्रति विप्रतिपत्तेरभावात् । किंच, स्मृतेरप्रामाण्येऽनुमानाय दत्तो जलाञ्जलिः,
तया व्याप्तेरविष305यीकरणे तदुत्थानायोगात्; लिङ्गग्रहण-सम्बन्धस्मरणपूर्वकमनुमानमिति
हि सर्ववादिसिद्धम् । ततश्च स्मृतिः प्रमाणम्, अनुमानप्रामाण्यान्यथानुपपत्तेरिति306
सिद्धम् ॥ ३ ॥
अथ प्रत्यभिज्ञानं लक्षयति--
दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रति
योगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥ ४ ॥
दर्शनम् प्रत्यक्षम्, स्मरणम् स्मृतिस्ताभ्यां307 सम्भवो यस्य तत्तथा दर्शन
स्मर308णकारणकं सङ्क309लनाज्ञानं प्रत्यभिज्ञानम् । तस्योल्लेखमाह--तदेवेदम्, सामान्यनिर्दे
शेन नपुंसकत्वम्, स एवायं घटः, सैवेयं पटी, तदेवेदं कुण्डमिति । तत्सदृशः गोस
दृशो गवयः, तद्विलक्षणः गोविलक्षणो महिषः, तत्प्रतियोगि इदमस्मादल्पं महत्
दूरमासन्नं वेत्यादि । आदिग्रहणात्-
इत्येवमादिशब्दश्रवणात्तथाविधानेव चैत्रहंसादीनवलोक्य तथा311 सत्यापयति यदा, तदा
तदपि संकल312नाज्ञानमुक्तम्, दर्शनस्मरणसम्भवत्वाविशेषात् । यथा वा औदीच्येन313 क्रमेलकं
35
निन्दतोक्तम् धिक्करभमतिदीर्घवक्रग्रीवं314 प्रलम्बोष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावय
वसन्निवेशमप315श316दं पशूनामिति । तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य
नूनमयमर्थोऽस्य करभशब्दस्यैति यद317वैति तदपि दर्शनस्मरणकारणकत्वात् सङ्क
लनाज्ञानं प्रत्यभिज्ञानम् ।
येषां तु सादृश्यविषयमुपमानाख्यं प्रमाणान्तरं तेषां वैलक्षण्यादिविषयं
प्रमाणान्तरमनुषज्येत । यदाहुः318--
अथ साधर्म्यमुपलक्षणं योग324विभा325गो वा करिष्यत इति चेत्; तर्ह्यकुशलः
सूत्रकारः स्यात्, सूत्रस्य लक्षणरहितत्वात् । यदाहुः-
अस्तोभमनधिकम् ।
ननु ततिति स्मरणम् इदम् इति प्रत्यक्षमिति ज्ञानद्वयमेव, न ताभ्या
मन्यत् प्रत्यभिज्ञानाख्यं प्रमाणमुत्पश्यामः । नैतद्युक्तम्, स्मरणप्रत्यक्षाभ्यां प्रत्यभिज्ञा
विषयस्यार्थस्य ग्रहीतुमशक्यत्वात् । पू327र्वापराकारैकधुरीणं हि द्रव्यं प्रत्यभिज्ञानस्य
विषयः । न च तत् स्मरणस्य गोचरस्तस्यानुभूतविषयत्वात् । यदाहुः328-
नापि प्रत्यक्षस्य331 गोचरः, तस्य332 वर्तमानविव333र्त्तमात्रवृत्तित्वात् । न च दर्शनस्मरणाभ्या
मन्य334द् ज्ञानं नास्ति, दर्शनस्मरणोत्तरकालभाविनो ज्ञानान्तरस्यानुभूतेः । न चानु
भूयमानस्यापलापो युक्तः अतिप्रसङ्गात् ।
ननु प्रत्यक्षमेवेदं प्रत्यभिज्ञानम् इत्येके335 । नैवम्, तस्य सन्निहितवार्तमा
निकार्थविषयत्वात् ।
इति मा स्म विस्मरः । ततो नातीतवर्तमानयोरेकत्वमध्यक्षज्ञानगोचरः । अथ स्मरणस337ह
36
कृतमिन्द्रियं तदेकत्वविषयं प्रत्यक्षमुपजनयतीति प्रत्यक्षरूपतास्य गीयत इति चेत्; न,
स्वविष338यविनियमितमूर्तेरिन्द्रियस्य विषयान्त339रे सहकारिशतसमवधानेऽप्यप्रवृत्तेः । नहि
परिमलस्मरणसहायमपि चक्षुरिन्द्रियमविषये गन्धादौ प्रवर्त्तते । अविषयश्चातीतवर्तमाना
वस्थाव्याप्येकं द्रव्यमिन्द्रियाणाम् । नाप्यदृ340ष्टसहकारिसहितमिन्द्रियमेकत्वविषयमिति
वक्तुं युक्तम् उक्तादेव हेतोः341 । किंच, अदृष्टसव्यपेक्षादेवात्मनस्तद्विज्ञानं भवतीति वरं वक्तुं
युक्तम् । दृश्यते हि स्वप्नविद्या342दिसंस्कृतादात्मनो विषयान्तरेऽपि विशिष्टज्ञानोत्पत्तिः ।
ननु यथाञ्जनादिसंस्कृतं चक्षुः सातिशयं भवति तथा स्मरणसहकृतमेकत्वविषयं भवि
ष्यति । नैवम्, इन्द्रियस्य स्वविषयानतिलङ्घनेनैवातिशयोपलब्धेः, न विषया343न्तरग्रहण
रूपेण । यदाह भट्टः-
इति । तत् स्थितमेतत् विष347यभेदात्प्रत्यक्षादन्यत्परोक्षान्तर्गतं प्रत्यभिज्ञानमिति ।
न चैतदप्रमाणम् विसंवादाभावात् । क्वचिद्विसंवादादप्रामा348ण्ये प्रत्यक्षस्यापि
तथा प्रसङ्गो दुर्निवारः । प्रत्यभिज्ञानपरिच्छि350न्नस्य चात्मादीनामेकत्वस्याभावे बन्धमो
क्षव्यवस्था नोपपद्यते । एकस्यैव हि बद्धत्वे मुक्त351त्वे च बद्धो दुःखितमात्मानं जानन्
मुक्तिसुखार्थी प्रयतेत । भेदे त्वन्य एव दुःख्यन्य एव सुखीति कः किमर्थं वा प्रयतेत ? ।
तस्मात्सकलस्य352 दृष्टादृष्टव्यवहारस्यैकत्वमूलत्वादेकत्वस्य च प्रत्यभिज्ञायत्तजीवितत्वाद्भ
वति प्रत्यभिज्ञा प्रमाणमिति ॥ ४ ॥
अथोहस्य लक्षणमाह--
उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानम् ऊहः ॥ ५ ॥
उपलम्भः प्रमाणमात्रमत्र गृह्यते न प्रत्यक्षमेव अनुमेयस्यापि सा353ध
नस्य सम्भवात्, प्रत्य354क्षवदनुमेयेष्वपि व्याप्तेरविरोधात् । व्याप्तिः वक्ष्यमाणा तस्या
ज्ञानम् तद्ग्राही निर्णयविशेष ऊहः ।
न चायं व्याप्तिग्रहः प्रत्यक्षादेवेति वक्तव्यम् । नहि प्रत्यक्षं यावान् कश्चिद्
धूमः स देशान्तरे कालान्तरे वा पावकस्यैव कार्यं नार्थान्तरस्येतीयतो व्यापारान् कर्तुं
समर्थं सन्निहितविषयबलोत्पत्तेरविचारकत्वाच्च ।
नाप्यनुमानात्, तस्यापि व्याप्तिग्रहणकाले योगीव प्रमाता सम्पद्यत इत्ये
37
वंभूतभारासमर्थत्वात् । सामर्थ्येऽपि प्रकृतमेवानुमानं व्याप्तिग्राहकम्, अनुमानान्तरं वा ? ।
तत्र प्रकृतानुमानात् व्याप्तिप्रतिपत्तावितरेतराश्रयः355 । व्याप्तौ हि प्रतिपन्नायामनुमानमात्मा
नमासादयति, तदात्मलाभे च व्याप्तिप्रतिपत्तिरिति । अनुमानान्तरात्तु व्याप्तिप्रतिपत्ता
वनवस्था तस्यापि गृहीतव्याप्तिकस्यैव प्रकृतानुमानव्याप्तिग्राहकत्वात् । तद्व्याप्तिग्रहश्च
यदि स्वत एव, तदा पूर्वेण किमपराद्धं येनानुमानान्तरं मृग्यते । अनुमानान्तरेण चेत्;
तर्हि युगसहस्रेष्वपि व्याप्तिग्रहणासम्भवः ।
ननु यदि निर्विकल्पकं प्रत्यक्षमविचारकम् तर्हि तत्पृष्ठभावी विकल्पो
व्याप्तिं ग्रहीष्यतीति चेत्; नैतत्, निर्विकल्पकेन व्याप्तेरग्रहणे विकल्पेन ग्रहीतुमशक्यत्वात्
निर्विकल्पकगृहीतार्थविषयत्वाद्विकल्पस्य । अथ निर्विकल्पकविषयनिरपेक्षोऽर्थान्तरगोचरो
विकल्पः; स तर्हि प्रमाणमप्रमाणं वा ? । प्रमाण356त्वे प्रत्यक्षानुमानातिरिक्तं प्रमाणान्तरं
तितिक्षितव्यम् । अप्रामाण्ये तु ततो व्याप्तिग्रहणश्रद्धा षण्ढात्तनयदोहदः । एतेन357--अनु358 प360ल
म्भात् कारणव्यापकानुपलम्भाच्च कार्यकारणव्या362प्यव्यापकभावावगमः इति
प्रत्यु364क्तम्, अनुपलम्भस्य प्रत्यक्षविशेषत्वेन कारणव्यापकानुपलम्भयोश्च लिङ्ग365त्वेन तज्ज366
नितस्य तस्यानुमानत्वात्, प्रत्यक्षानुमानाभ्यां च व्याप्तिग्रहणे दोषस्याभिहितत्वात् ।
वैशेषिकास्तु प्रत्यक्षफलेनोहापोहविकल्पज्ञानेन व्याप्तिप्रतिपत्तिरित्याहुः ।
तेषामप्यध्यक्षफलस्य प्रत्यक्षा367नुमानयोरन्यतरत्वे व्या368प्तेरविषयीकरणम्, तदन्यत्वे च
प्रमाणान्तरत्वप्रसक्तिः । अथ व्याप्तिविकल्पस्य फल369त्वान्न प्रमाणत्वमनुयोक्तुं युक्तम्;
न, एतत्फलस्या370नुमानलक्षणफलहेतुतया प्रमाणत्वाविरोधात् सन्निकर्षफलस्य विशेषणज्ञा371न
स्येव विशेष्य373ज्ञानापेक्षयेति ।
यौगास्तु त375र्कसहितात् प्रत्यक्षादेव व्या376प्तिग्रह इत्याहुः । तेषामपि यदि
न केवलात् प्रत्यक्षाद्व्याप्तिग्रहः किन्तु तर्कसहकृतात् तर्हि तर्कादेव व्याप्तिग्रहोऽस्तु । किमस्य
तपस्विनो यशोमार्जनेन, प्रत्यक्षस्य वा तर्कप्रसादलब्धव्याप्तिग्रहापलापकृतघ्नत्वारोपेणेति ? ।
अथ तर्कः प्रमाणं न भवतीति न ततो व्याप्तिग्रहणमिष्यते । कुतः पुनरस्य न प्रमाणत्वम्,
अव्यभिचारस्तावदिहापि प्रमाणान्तरसाधारणोऽस्त्येव377 ? । व्याप्तिलक्षणेन विषयेण विष378
38
यवत्त्वमपि न नास्ति । तस्मात् प्रमाणान्तरागृहीतव्याप्तिग्रहणप्रवणः प्रमाणान्तरमूहः ॥ ५ ॥
व्याप्तिं लक्षयति--
व्याप्तिर्व्यापकस्य व्याप्ये सति भाव एव व्याप्यस्य
वा तत्रैव भावः ॥ ६ ॥
व्याप्तिः इति यो379 व्याप्नोति य380श्च व्याप्यते तयोरुभयोर्धर्मः381 । तत्र यदा व्यापक
ध383र्मतया विवक्ष्यते तदा व्यापकस्य384 गम्यस्य व्याप्ये385 धर्म्मे सति, यत्र धर्मिणि386 व्याप्य387
मस्ति तत्र सर्वत्र भाव एव व्यापकस्य स्वगतो धर्मो व्याप्तिः । त388तश्च व्याप्यभावापेक्षा389
व्या390प्यस्यैव391 व्याप्तताप्र392तीतिः । नत्वेवमवधार्यते--व्यापकस्यैव व्याप्ये सति भाव इति, हेत्व
भावप्रसङ्गा394त् अव्यापकस्यापि मूर्तत्वा396देस्तत्र भावात् । नापि--व्याप्ये सत्येवेत्यवधार्यते,
प्रयत्नानन्तरीय397कत्वादेरहेतुत्वापत्तेः, साधा399रणश्च हेतुः स्यान्नित्यत्वस्य प्रमेयेष्वेव भावात् ।
यदा तु व्याप्यधर्मतया व्याप्तिर्विवक्ष्यते तदा व्याप्यस्य वा गमकस्य तत्रैव
व्यापके गम्ये सति यत्र ध400र्मिणि व्यापकोऽस्ति तत्रैव भावः न तदभावेऽपि व्याप्तिरिति ।
अत्रापि नैवमवधार्यते--व्याप्यस्यैव तत्र भाव इति, हेत्व401भावप्रसङ्गादव्याप्यस्यापि त402त्र
भावात् । नापि--व्याप्यस्य त403त्र भाव एवेति, सपक्षैकदेशवृत्तेरहेतुत्वप्राप्तेः साधारणस्य च
हेतुत्वं स्यात्, प्रमेयत्वस्य नित्येष्ववश्यंभावादिति ।
व्याप्यव्यापकधर्मतासङ्कीर्तनं तु व्याप्तेरुभय404त्र तुल्यधर्मतयैकाकारा प्रती
तिर्मा भूदिति प्रदर्शनार्थम् । तथाहि--पूर्वत्रा405योगव्यवच्छेदेनावधारणम् उत्तर406त्रान्ययोग
व्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्तेः ? । तदुक्तम्--
अथ क्रमप्राप्तमनुमानं लक्षयति--
साधनात्साध्यविज्ञानम् अनुमानम् ॥ ७ ॥
साधनं साध्यं च वक्ष्यमाणलक्षणम् । दृ408ष्टादुपदिष्टाद्वा409 साधनात् यत् सा
ध्यस्य विज्ञानम् सम्यगर्थनिर्णयात्मकं तदनुमीयतेऽनेनेति अनुमानम् लिङ्गग्रहण
सम्बन्धस्मरणयोः पश्चा410त् परिच्छेदनम् ॥ ७ ॥
तत् द्विधा स्वार्थं परार्थं च ॥ ८ ॥
तत् अनुमानं द्विप्रकारं स्वार्थ-परार्थभेदात् । स्वव्यामोहनिवर्तनक्षमम्
स्वा411र्थम् । परव्यामोहनिवर्तनक्षमम् परा412र्थम् ॥ ८ ॥
तत्र स्वार्थं लक्षयति--
स्वार्थं स्वनिश्चितसाध्याविनाभावैकलक्षणात् साध
नात् साध्यज्ञानम् ॥ ९ ॥
साध्यं विनाऽभवनं साध्याविनाभावः स्वेनात्मना निश्चितः413 साध्याविना
भाव414 एवैकं लक्षणं यस्य तत् स्वनिश्चितसाध्याविनाभावैकलक्षणम् तस्मात्तथाविधात्
साधनात् लिङ्गात् साध्यस्य लिङ्गिनो ज्ञानम स्वार्थम् अनुमानम् । इह च न योग्यतया
लिङ्गं परोक्षार्थप्रतिपत्तेरङ्गम्, यथा बीजमङ्कुरस्य, अ415दृष्टाद् धूमादग्नेरप्रतिपत्तेः नापि स्व
निश्च416यज्ञानापेक्षं यथा प्रदीपो घटादेः, दृष्टादप्यनिश्चिताविनाभावादप्रतिपत्तेः ।
तस्मात्परोक्षार्थनान्तरीयकतया निश्चयनमेव लिङ्गस्य व्यापार इति निश्चितग्र417हणम् ।
ननु चासिद्धविरुद्धानैकान्तिकहेत्वाभासनिराकरणार्थं हेतोः पक्षधर्मत्वम्,
सपक्षे सत्त्वम्, विपक्षाद् व्यावृत्तिरिति त्रैलक्षण्यमाचक्षते भिक्षवः । तथाहि--अनुमेये धर्मिणि
लिङ्गस्य सत्त्वमेव निश्चितमित्येकं रूपम् । अत्र सत्त्ववचनेनासिद्धं चाक्षु418षत्वादि निरस्तम् ।
एवकारेण पक्षैकदेशासिद्धो निरस्तो यथा अनित्यानि पृथिव्यादीनि भूतानि गन्धवत्त्वात् ।
अत्र पक्षीकृतेषु पृथिव्यादिषु चतुर्षु भूतेषु पृथिव्यामेव गन्धवत्त्वम् । सत्त्ववचनस्य पश्चा
त्कृ419तेनैवकारेणासाधारणो धर्मो निरस्तः । यदि ह्यनुमेय एव सत्त्वमित्युच्येत श्रावण420त्वमेव
हेतुः421 स्यात् । निश्चितग्रहणेन सन्दिग्धा422सिद्धः सर्वो निरस्तः । सपक्षे एव सत्त्वं निश्चित
मिति द्वितीयं रूपम् । इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः423 । स हि नास्ति सपक्षे । एवका
रेण साधारणानैकान्तिकः424, स हि न सपक्षे एव वर्तते किं तु विपक्षेऽपि । सत्त्वग्रहणात्
पूर्वमवधारणकरणेन सपक्षाव्यापिनोऽपि प्रयत्नान425न्तरीयकत्वादेर्हेतुत्वमुक्तम्, पश्चादवधारणे
40
हि अयमर्थः स्यात्--सपक्षे सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् ।
निश्चितवचनेन सन्दिग्धान्व426योऽनैकान्तिको निरस्तः यथा सर्वज्ञः427 कश्चिद्वक्तृत्वात्, वक्तृत्वं
हि सप428क्षे सर्वज्ञे सन्दिग्धम् । विपक्षे त्वस429त्त्वमेव निश्चितमिति तृतीयं रूपम् । तत्रासत्त्व
ग्रहणेन विरुद्धस्य निरासः । विरुद्धो हि विपक्षेऽस्ति । एवकारेण साधारणस्य विपक्षैक
देशवृत्तेर्निरासः, प्रयत्नानन्तरीयक430त्वे हि साध्येऽनित्यत्वं विपक्षैकदेशे विद्युदादावस्ति,
आकाशादौ नास्ति । ततो नियमेनास्य निरासोऽसत्त्वशब्दात् । पूर्वस्मिन्नवधारणे हि अयमर्थः
स्यात्--विपक्ष431 एव यो नास्ति स हेतुः, तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि नास्ति
ततो न हेतुः स्यात्ततः पूर्वं न कृतम् । निश्चितग्रहणेन सन्दिग्धविपक्षव्यावृ432त्तिकोऽनैका
न्तिको निरस्तः । तदेवं त्रैरूप्यमेव हेतोरसिद्धादिदोषपरिहारक्षममिति तदेवाभ्युपगन्तुं
युक्तमिति किमेकलक्षणकत्वेनेति ? ।
तदयुक्तम्, अविनाभावनियमनिश्चयादेव दोषत्रयपरिहारोपपत्तेः । अवि
नाभावो ह्यन्यथानुपपन्नत्वम् । तच्चासिद्धस्य विरुद्धस्य व्यभिचा433रिणो वा न सम्भवति ।
त्रैरूप्ये तु सत्यप्यविनाभावाभावे हेतोरगमकत्वदर्शनात्, यथा स श्यामो मैत्रतनयत्वात्
इतरमैत्रपुत्रवदित्यत्र । अथ विपक्षान्नियमवती व्यावृत्तिस्त434त्र न दृश्यते ततो न गम
कत्वम्; तर्हि तस्या एवाविनाभावरूपत्वादितररू435पसद्भावेऽपि तद436भावे हेतोः स्वसाध्य
सिद्धिं प्रति गमकत्वानिष्टौ सैव प्रधानं लक्षणमस्तु । तत्स437द्भावेऽपररूपद्वयनिरपेक्षतया
गमकत्वोपपत्तेश्च, यथा सन्त्यद्वैतवा438दिनोऽपि प्रमाणानि इष्टानिष्टसाध439नदूषणान्यथानुप
पपत्तेः । न चात्र पक्षधर्मत्वं सपक्षे सत्त्वं चास्ति, केवलमविनाभावमात्रेण गमकत्वोप
प440त्तिः । ननु पक्षधर्मताऽभावे श्वेतः प्रासादः काकस्य कार्ष्ण्यादित्यादयोऽपि हेतवः
प्रसज्येरन्; नैवम्, अविनाभावबलेनैवापक्षधर्माणामपि गमकत्वाभ्युपगमात् । न चेह
सोऽस्ति । ततोऽविनाभाव एव हेतोः प्रधानं लक्षणमभ्युपगन्तव्यम्, सति तस्मिन्नसत्यपि
त्रैलक्षण्ये हेतोर्गमकत्वदर्शनात् । न तु त्रैरूप्यं हेतुलक्षणम् अव्याप441कत्वात् । तथा च सर्वं
क्षणिकं सत्त्वादित्यत्र मूर्द्धाभिषिक्ते साधने सौगतैः सपक्षेऽसतोऽपि हेतोः सत्त्वस्य गम
कत्वमिष्यत एव । तदुक्तम्--
एतेन पञ्चलक्षणकत्वमपि नैयायिकोक्तं प्रत्युक्तम्, तस्याप्यविनाभावप्रपञ्च
त्वात् । तथाहि--त्रैरूप्यं पूर्वोक्तम्, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति पञ्च रूपाणि ।
तत्र प्रत्यक्षागमबाधित442क443र्मनिर्देशानन्तरप्रयुक्तत्वं बाधितविषयत्वं यथाऽनुष्णस्तेजोवयवी
कृतकत्वात् घटवत् । ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वा444त् क्षीरवत् इति । तन्निषेधादबाधित
विषयत्वम् । प्रतिपक्षहेतुबाधितत्वं सत्प्रतिपक्षत्वं यथाऽनित्यः शब्दो नित्यधर्मानुपलब्धेः ।
अत्र प्रतिपक्षहेतुः--नित्यः शब्दोऽनित्यधर्मानुपलब्धेरिति । तन्निषेधादसत्प्रतिपक्षत्वम् । तत्र
बाधितविषयस्य445 सत्प्रतिपक्षस्य चाविनाभावाभावादविनाभावेनैव रूपद्वयमपि सङ्गृ
हीतम् । यदाह446--बाधाविनाभावयोर्विरोधात् हेतु॰ परि॰ ४ इति । अपि च,
स्वलक्षणलक्षितपक्षविषयत्वाभावात् त447द्दोषेणैव दोषद्वयमिदं चरितार्थं किं पुनर्वचनेन ? ।
तत् स्थितमेतत् साध्याविनाभौवकलक्षणादिति ॥ ९ ॥
तत्राविनाभावं लक्षयति--
सहक्रमभाविनोः सहक्रमभावनियमोऽविनाभावः ॥ १० ॥
सहभाविनोःएकसामग्र्यधीनयोः फलादिगतयो रूपरसयोः व्या448प्यव्यापक
योश्च शिंशपात्ववृक्षत्वयोः, क्रमभाविनोः कृत्तिकोदयशकटोदययोः, कार्यकारणयोश्च धूम
धूमध्वजयोर्यथासङ्ख्यं यः सहक्रमभावनियमः--सहभाविनोः सहभावनियमः क्रमभा
विनोः क्रमभावनियमः, साध्यसाधनयोरिति प्रकरणाल्लभ्यते सः अविनाभावः ॥ १० ॥
अथैवंविधोऽविनाभावो निश्चितः449 साध्यप्रतिपत्त्यङ्गमित्युक्तम् । तन्निश्च
यश्च कुतः प्रमाणात् ? । न तावत् प्रत्यक्षात्, तस्यैन्द्रियकस्य सन्निहितविषयविनियमित
व्यापारत्वात् । मनस्तु यद्यपि सर्वविषयं तथा450पीन्द्रियगृहीतार्थगोचरत्वेनैव तस्य प्रवृत्तिः ।
अन्यथान्ध-बधिराद्य451भावप्रसङ्गः । सर्वविषयता तु सकलेन्द्रियगोचरार्थविषयत्वेनैवोच्यते
न स्वातन्त्र्येण । योगिप्रत्यक्षेण त्वविनाभावग्रहणेऽनु452मेयार्थप्रतिप453त्तिरेव ततोऽस्तु, किं
तपस्विनाऽनुमानेन ? । अनुमानात्त्वविनाभावनिश्चयेऽन454वस्थेतरेतराश्रयदोषप्रसङ्ग उक्त
एव । न च प्रमाणान्तरमेवंविधविषयग्रहणप्रवणमस्तीत्याह--
ऊहात् तन्निश्चयः ॥ ११ ॥
ऊहात्तर्कादुक्तलक्षणात्तस्याविनाभावस्य निश्चयः ॥ ११ ॥
लक्षितं परीक्षितं च साधनम् । इदानीं तत् विभजति--
42स्वभावः कारणं कार्यमेकार्थसमवायि विरोधि
चेति पञ्चधा साधनम् ॥ १२ ॥
स्वभावादीनि चत्वारि विधेः साधनानि, विरोधि तु निषेधस्येति पञ्च
विधम् साधनम् । स्वभावः यथा शब्दानित्यत्वे साध्ये कृतकत्वं श्रावणत्वं वा ।
ननु श्रावणत्वस्यासाधारणत्वात् कथं व्याप्तिसिद्धिः ? । विप456र्यये बाधक
प्रमाणबलात् सत्त्वस्येवेति ब्रूमः । न चैवं सत्त्व457मेव हेतुः तद्विशेषस्योत्पत्तिमत्त्व-कृतकत्व
प्रयत्नानन्तरीयकत्व-प्रत्ययभेदभेदित्वादेरहेतु458त्वापत्तेः । किंच, किमिदमसाधारणत्वं
नाम ? । यदि पक्ष एव वर्तमानत्वम्; तत् सर्वस्मिन् क्षणिके साध्ये सत्त्वस्यापि समानम् ।
साध्यधर्मवतः पक्षस्यापि सपक्षता चेत्; इह कः प्रद्वेषः ? । पक्षादन्यस्यैव सपक्षत्वे लोह
लेख्यं वज्रं पार्थिवत्वात् काष्ठवदित्यत्र पार्थिवत्वमपि लोहलेख्यतां वज्रे गमयेत् । अन्यथा
नुपपत्तेरभावान्नेति चेत्; इदमेव तर्हि हेतुलक्षणमस्तु । अपक्षधर्मस्यापि साधनत्वापत्ति
रिति चेत्; अस्तु यद्यविनाभावोऽस्ति, शक459टोदये कृत्तिकोदयस्य, सर्वज्ञसद्भावे संवादिन
उपदेशस्य461 गमकत्वदर्शनात् । काकस्य कार्ष्ण्यं न प्रासादे धावल्यं विनानुपपद्यमान
मित्यनेकान्तादगमकम् । तथा, घटे चाक्षुषत्वं462 शब्देऽनित्यतां विनाप्युपपद्यमानमिति ।
तन्न श्रावणत्वादिरसाधारणोऽप्यनित्यतां व्यभिचरति । ननु कृतकत्वाच्छब्दस्यानित्यत्वे
साध्ये पर्यायवद् द्रव्येऽप्यनित्यता प्राप्नोति । नैवम्, पर्यायाणामेवानित्यतायाः साध्य
त्वात्, अनुक्तमपीच्छाविषयीकृतं साध्यं भवतीति किं स्म463 प्रस्मरति भवान् ? । ननु
कृतकत्वानित्यत्वयोस्तादात्म्ये साधनवत् साध्यस्य सिद्धत्वम्, साध्यवच्च साधनस्य
साध्यत्वं प्रसजति । सत्यमेतत्, किं तु मोहनिवर्तनार्थः प्रयोगः । यदाह--
का465रणं यथा बाष्पभावेन मश466कवर्तिरूपतया वा सन्दिह्य467माने धूमेऽग्निः,
विशिष्टमेघोन्न468तिर्वा वृष्टौ469 । क470थमयमाबालगोपालाविपालाङ्गनादिप्रसिद्धोऽपि नोपलब्धः
सूक्ष्मदर्शिनापि न्यायवादिना ? । कार471णविशेषदर्शनाद्धि सर्वः कार्यार्थी प्रवर्तते । स तु
विशेषो ज्ञातव्यो योऽव्यभिचारी । कारणत्वनिश्चयादेव प्रवृत्तिरिति चेत्; अस्त्वसौ
43
लिङ्गविशेषनिश्चयः प्रत्यक्षकृतः472, फले तु भाविनि नानुमानादन्यन्निबन्धनमुत्पश्यामः ।
क्वचिद् व्यभि473चारात् सर्वस्य हेतोरहेतुत्वे कार्यस्यापि तथा प्रसङ्गः । बाष्पादेरकार्यत्वा
न्नेति चेत्; अत्रापि यत् यतो न भवति न तत् तस्य कारणमित्यदोषः । यथैव हि किञ्चित्
कारणमुद्दिश्य किञ्चि474त्कार्यम्, तथैव किञ्चित् कार्यमुद्दिश्य किञ्चित् कारणम् । यद्वदेवाजनकं
प्रति न कार्यत्वम्, तद्वदेवाजन्यं प्रति न कारणत्वमिति नानयोः कश्चिद्विशेषः । अपि
च रसादेकसामग्र्यनुमानेन रूपानुमानमिच्छता न्यायवादिनेष्टमेव कारणस्य हेतुत्वम् ।
यदाह475--
न च वयमपि यस्य कस्यचित् कारणस्य हेतुत्वं ब्रूमः । अपि तु यस्य
न मन्त्रादिना शक्तिप्रतिबन्धो न वा कारणान्त481रवैकल्यम् । तत्482 कुतो विज्ञायत इति चेत्;
अस्ति तावद्विगुणादितरस्य विशेषः । तत्परिज्ञानं तु प्रायः पांशु483रपादानामप्यस्ति ।
यदाहुः--
कार्यम् यथा वृष्टौ विशिष्टनदीपूरः, कृशानौ धूमः, चैतन्ये प्रा484णादिः ।
पूरस्य वैशिष्ट्यं क485थं विज्ञायत इति चेत्; उक्तमत्र नैयायिकैः । यदाहुः486-
इति धूमप्राणादीनामपि कार्यत्वनिश्चयो न दुष्करः । यदाहुः490--
कारणाभावेऽपि कार्यस्य भावे अहेतु492त्वमन्य493हेतुत्वं वा भवेत् । अहेतुत्वे सदा
सत्त्वमसत्त्वं वा494 भवेत् । अन्यहेतुत्वे दृष्टादन्यतोऽपि भवतो न दृष्टजन्यता अन्याभावेऽपि
दृष्टाद्भवतो नान्यहेतुकत्वमित्यहेतुकतैव स्यात् । तत्र चोक्तम्--यस्त्वन्यतोऽपि
भवन्नुपलब्धो न तस्य धूमत्वं हेतुभेदात् । कारणं च बहिर्धूमस्य इत्युक्तम् ।
अपि च--
तथा चेतनां विनानुपपद्यमानः कार्यं प्राणादिरनुमापयति तां श्रावणत्व
मिवानित्यताम्, विपर्यये बाधकवशात्सत्त्वस्येवास्यापि व्याप्तिसिद्धेरित्युक्तप्रायम् । तन्न
प्राणादिरसाधारणोऽपि चेतनां व्यभिचरति ।
किंच, नान्वयो हेतो रूपं तदभावे हेत्वाभासाभावात् । विपक्ष एव सन्
विरुद्धः, विप496क्षेऽपि--अनैकान्तिकः, सर्वज्ञत्वे साध्ये वक्तृत्वस्यापि व्यतिरेकाभाव एव
हेत्वाभासत्वे निमित्तम्, नान्वयसन्देह इति न्यायवादिनापि व्यतिरेकाभावादेव हेत्वा
भासावुक्तौ । असाधारणोऽपि यदि साध्याभावेऽसन्निति निश्चीयेत तदा प्रकारान्तरा
भावात्साध्यमुपस्थापयन्नानैकान्तिकः स्यात् । अपि च यद्यन्वयो रूपं स्यात् तदा यथा
विपक्षैकदेशवृत्तेः कथञ्चिदव्यतिरेकादगमकत्वम्, एवं सपक्षैकदेशवृत्तेरपि स्यात् कथ
ञ्चिदनन्वयात् । यदाह-
सपक्ष एव सत्त्वमन्वयो न सपक्षे सत्त्वमेवेति चेत्; अस्तु, स तु व्यतिरेक एवेत्यस्मन्म
तमेवाङ्गीकृतं स्यात् । वयमपि हि प्रत्यपीपदाम अन्यथानुपपत्त्येकलक्षणो हेतुरिति ।
तथा, एकस्मिन्नर्थे दृष्टेऽदृष्टे वा समवाय्या498श्रितं साधनं साध्येन । तच्चैका499
र्थसमवायित्वम् एकफलादिग500तयो रूपरसयोः, शकटोदय-कृत्तिकोदययोः, चन्द्रोदय-समु
द्रवृद्ध्द्योः, वृष्टि-साण्डपिपीलिकाक्षोभयोः, नागवल्लीदाह-पत्रकोथयोः । तत्र एकार्थसमवायी
रसो रूपस्य, रूपं वा रसस्य; नहि समानकालभाविनोः कार्यकारणभावः सम्भवति ।
ननु समानका501लकार्यजनकं कारणमनुमास्यते इति चेत्; न तर्हि कार्य
मनुमितं स्यात् । कारणानुमाने सामर्थ्यात् कार्यमनुमितमेव, जन्याभावे जनकत्वाभावा
45
दिति चेत्; हन्तैवं कारणं कार्यस्यानुमापकमित्यनिष्टमापद्येत । शक502टोदयकृत्तिकोदया
दीनां तु यथाऽविनाभावं साध्यसाधनभावः । यदाह-
एवमन्येष्वपि साधनेषु वाच्यम् । ननु कृतकत्वानित्यत्वयोरेकार्थसमवायः कस्मान्ने
ष्यते ?; न, तयोरेकत्वात् । यदाह--
स्वभावादीनां चतुर्णां साधनानां विधिसाधनता, निषेधसाधनत्वं तु
विरोधिनः । स हि स्वसन्निधानेनेतरस्य प्रतिषेधं साधयति अन्यथा विरोधासिद्धेः ।
चशब्दो यत एते स्वभावकारणकार्यव्या503पका अन्यथानुपपन्नाः स्वसाध्य
मुपस्थापयन्ति तत504 एव तदभावे स्वयं न भवन्ति, तेषामनुपलब्धिरप्यभावसाधनीत्याह ।
तत्र स्वभावानुपलब्धिर्यथा नात्र घटः, द्रष्टुं योग्यस्यानुपलब्धेः । कारणानुपलब्धिर्यथा
नात्र धूमोऽग्न्यभावात् । कार्यानुपलब्धिर्यथा नात्राप्रतिबद्धसामर्थ्यानि धूमकारणानि
सन्ति धूमा505भावात् । व्यापकानुपलब्धिर्यथा नात्र शिंशपा वृक्षाभावात् ।
विरोधि तु प्रतिषेध्यस्य तत्कार्यकारणव्यापकानां च विरुद्धं विरुद्ध
का506र्यं च । यथा न शीतस्पर्शः, नाप्रतिबद्धसामर्थ्यानि शीतकारणानि, न रोमहर्षविशेषाः,
न तुषारस्पर्शः, अग्नेर्धूमाद्वेति प्रयोगनानात्वमिति ॥ १२ ॥
साधनं लक्षयित्वा विभज्य च साध्यस्य लक्षणमाह--
सिषाधयिषितमसिद्धमबाध्यं साध्यं पक्षः ॥ १३ ॥
साधयितुमिष्टं सिषाधयिषितम् । अनेन साधयितुमनिष्टस्य साध्यत्वव्यव
च्छेदः, यथा वैशेषिकस्य नित्यः शब्द इति । शाशब्द इति शास्त्रोक्तत्वाद्वैशेषिकेणाभ्युपगतस्याप्याका
शगुणत्वादेर्न साध्यत्वम्, तदा साधयितुमनिष्टत्वात् । इष्टः पुनरनुक्तोऽपि पक्षो भवति,
यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्छयनाशनाद्यङ्गवदित्यत्र प507रार्था इत्यात्मार्थाः । बुद्धि
मत्कारणपू508र्वकं क्षित्यादि कार्यत्वादित्यत्राऽशरीरसर्वज्ञपूर्वकत्वमिति ।
असिद्धमित्यनेनानध्यवसाय-संशय-विपर्ययविषयस्य वस्तुनः साध्यत्वम्,
न सिद्धस्य509 यथा श्रावणः शब्द इति । नानुपलब्धे न निर्णीते न्यायः प्रवर्तते
न्यायभा॰ १. १. १ इति हि सर्वपार्षदम् ।
अबाध्यम् इत्यनेन प्रत्यक्षादिबाधितस्य साध्यत्वं मा भूदित्याह । एतत्
साध्यस्य लक्षणम् । पक्षः इति साध्यस्यैव नामान्तरमेतत् ॥ १३ ॥
अबाध्यग्रहणव्यवच्छेद्यां बाधां दर्शयति--
प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो बाधाः ॥ १४ ॥
प्रत्यक्षादीनि त510द्विरुद्धार्थोपस्थापनेन बाधकत्वात् बाधाः । तत्र प्रत्यक्ष
बाधा यथा अनुष्णो511ऽग्निः, न मधु512 मधुरम्, न सुगन्धि विदलन्मालतीमुकु513लम्, अचा514क्षुषो
घटः, अश्रावणः शब्दः, नास्ति ब515हिरर्थ इत्यादि । अनुमानबाधा यथा स516रोम हस्ततलम्,
नित्यः शब्द इति वा । अत्रानुपलम्भेन कृतकत्वेन चानुमानबाधा । आगमबाधा यथा
प्रेत्याऽसुखप्रदो धर्म इति । परलोके सुखप्रदत्वं धर्मस्य सर्वागमसिद्धम् । लोकबाधा यथा
शुचि नरशिरःकपालमिति । लोके हि नरशिरःकपालादीनामशुचित्वं सुप्रसिद्धम् । स्ववच
नबाधा यथा माता मे वन्ध्ये517ति । प्रतीतिबाधा यथा अचन्द्रः518 शशीति । अत्र शशिनश्च
न्द्रशब्दवाच्यत्वं प्रतीतिसिद्धमिति प्रतीतिबाधा ॥ १४ ॥
अत्र साध्यं धर्मः, धर्मधर्मिसमुदायो वेति संशयव्यवच्छेदायाह--
साध्यं साध्यधर्मविशिष्टो धर्मी, क्वचित्तु धर्मः ॥ १५ ॥
साध्यम् साध्यशब्दवाच्यं पक्षशब्दाभिधेयमित्यर्थः । किमित्याह साध्य
धर्मेण अनित्यत्वादिना विशिष्टो धर्मी शब्दादिः । एतत् प्रयोगकाला519पेक्षं साध्यशब्दवा
च्यत्वम् । क्वचित्तु व्याप्तिग्रहणकाले धर्मः साध्यशब्देनोच्यते, अन्यथा व्याप्तेरघटनात् ।
नहि धूमदर्शनात् सर्वत्र पर्वतोऽग्निमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधादिति ॥ १५ ॥
धर्मिस्वरूपनिरूपणायाह--
धर्मी प्रमाणसिद्धः ॥ १६ ॥
प्रमाणैः प्रत्यक्षादिभिः प्रसिद्धो धर्मी भवति यथाग्निमानयं देश इति । अत्र
हि देशः प्रत्यक्षेण सिद्धः । एतेन--सर्व एवानु520मानानु521मेय522व्यबहारो बुद्ध्यारूढेन
धर्मधर्मिन्यायेन, न बहिः सदसत्त्वमपेक्षते इति सौगतं मतं प्रतिक्षिपति । नहीयं
विकल्पबुद्धिरन्तर्बहिर्वाऽनासादितालम्बना धर्मिणं व्यवस्थापयति, तद523वास्तवत्वे तदा524धा
रसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेः त525द्बुद्धेः पारम्प526र्येणापि वस्तुव्यवस्थापकत्वायो
गात् । ततो विकल्पेनान्येन527 वा व्यवस्थापितः पर्वतादिर्विष528यभावं भजन्नेव धर्मितां प्रति
पद्यते । तथा च सति प्रमाणसिद्धस्य धर्मिता युक्तैव ॥ १६ ॥
अपवादमाह--
बुद्धिसिद्धोऽपि ॥ १७ ॥
नैकान्तेन प्रमाणसिद्ध एव ध529र्मी किंतु विकल्पबुद्धिप्रसिद्धोऽपि धर्मी
भवति । अपि शब्देन प्रमाण-बुद्धिभ्यामुभाभ्यामपि सिद्धो धर्मी भवतीति दर्शयति ।
तत्र बुद्धिसिद्धे धर्मिणि साध्यधर्मः सत्त्वमसत्त्वं च प्रमाणबलेन साध्यते यथा अस्ति530
सर्वज्ञः, नास्ति षष्ठं भू531तमिति ।
ननु धर्मिणि साक्षादसति भावा532भावोभयधर्माणामसिद्धविरुद्धानैकान्तिक
त्वेनानुमानविषयत्वायोगात् कथं सत्त्वासत्त्वयोः साध्यत्वम् ? । तदाह--
नैव537म्, मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् । न च तत्सिद्धौ
तत्सत्त्व538स्यापि प्रतिपन्नत्वाद् व्यर्थमनुमानम्, त539दभ्युपेतमपि वैयात्याद्यो न प्रति
पद्यते तं प्रत्यनुमानस्य साफल्यात् । न च मानसज्ञानात् खरविषाणादेरपि सद्भावस
म्भावनातोऽतिप्रसङ्गः, तज्ज्ञानस्य बाधकप्रत्ययविप्लावितसत्ताकवस्तु540विषयतया मानस
प्रत्यक्षाभासत्वात् । कथं तर्हि षष्ठभूतादेर्धर्मित्वमिति चेत्; धर्मिप्रयोगकाले बाधक
प्रत्ययानुदयात्सत्त्वसम्भावनोपपत्तेः । न च सर्वज्ञादौ साधकप्रमाणासत्त्वेन सत्त्व541संशीतिः,
सुनिश्चिताऽसम्भवद्बाधकप्रमाणत्वेन सुखादा542विव सत्त्वनिश्चयात्तत्र संशयायोगात् ।
उभयसिद्धो धर्मी यथा अनित्यः शब्द इति । नहि प्रत्यक्षेणार्वाग्दर्शि
भिर543निय544तदिग्देशकालावच्छिन्नाः सर्वे शब्दाः शक्या निश्चेतुमिति शब्दस्य प्रमाणबुद्ध्यु
भयसिद्धता तेना545नित्यत्वादिर्धर्मः प्रसाध्य546त इति ॥ १७ ॥
ननु दृष्टान्तोऽप्यनुमानाङ्गतया प्रतीतः । तत् कथं साध्यसाधने एवानुमा
नाङ्गमुक्ते न दृष्टान्तः ?, इत्याह--
न547 दृष्टान्तोऽनुमानाङ्गम् ॥ १८ ॥
दृष्टान्तः वक्ष्यमाणलक्षणो नानुमानस्य अङ्गम् कारणम् ॥ १८ ॥
कुत इत्याह--
साधनमात्रात् तत्सिद्धेः ॥ १९ ॥
दृष्टान्तरहितात्साध्यान्यथानुपपत्तिलक्षणात् साधनात् अनुमानस्य साध्य
प्रतिपत्तिलक्षणस्य भावान्न दृष्टान्तोऽनुमानाङ्गमिति ।
स548 हि साध्यप्रतिपत्तौ वा, अविनाभावग्रहणे वा, व्याप्तिस्मरणे वोपयुज्येत ? ।
न तावत् प्रथमः पक्षः, यथोक्तादेव हेतोः साध्यप्रतिपत्तेरुपपत्तेः । नापि द्वितीयः,
विप549क्षे बाधकादेवाविनाभावग्रहणात् । किंच, व्यक्तिरूपो दृष्टान्तः । स कथं साकल्येन
व्याप्तिं गमयेत् ? । व्यक्त्यन्तरेषु व्याप्त्यर्थं दृष्टान्तान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेन
साकल्येन व्याप्तेरवधारयितुमशक्यत्वादपरापरदृष्टान्तापेक्षायामनवस्था स्यात् । नापि
तृतीयः, गृहीतसम्ब550न्धस्य साधनदर्शनादेव व्याप्तिस्मृतेः । अगृहीतसम्बन्ध551स्य दृष्टान्ते552
ऽप्यस्मरणात् उप553लब्धिपूर्वकत्वात् स्मरणस्येति ॥ १९ ॥
दृष्टान्तस्य लक्षणमाह--
स व्याप्तिदर्शनभूमिः ॥ २० ॥
स इति दृष्टान्तो लक्ष्यं व्याप्तिःलक्षितरूपा दर्शनम् परस्मै प्रतिपादनं
तस्य भूमिःआश्रय इति लक्षणम् ।
ननु यदि दृष्टान्तोऽनुमानाङ्गं न भवति तर्हि किमर्थं लक्ष्यते ? । उच्यते ।
परार्थानुमाने बोध्या554नुरोधादापवादिकस्योदाहरणस्यानुज्ञास्यमा555नत्वात् । तस्य556 च दृष्टा
न्ताभिधानरूपत्वादुपपन्नं दृष्टान्तस्य लक्षणम् । प्रमातुरपि कस्यचित् दृष्टान्तदृष्टबहि
र्व्याप्तिबलेनान्तर्व्याप्तिप्रतिपत्तिर्भवतीति स्वार्थानुमानपर्वण्य557पि दृष्टान्तलक्षणं नानुप
पन्नम् ॥ २० ॥
तद्विभागमाह--
स558 साधर्म्यवैधर्म्याभ्यां द्वेधा ॥ २१ ॥
स दृष्टान्तः साधर्म्येण अन्वयेन वैधर्म्येण च व्यतिरेकेण भवतीति
द्विप्रकारः ॥ २१ ॥
साधर्म्यदृष्टान्तं विभजते--
साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तः ॥ २२ ॥
साध559नधर्मेण प्रयु560क्तो न तु काकतालीयो यः साध्य561धर्मस्तद्वान् साधर्म्य
दृष्टान्तः । यथा कृतकत्वेनानित्ये शब्दे साध्ये घटादिः ॥ २२ ॥
वैधर्म्यदृष्टान्तं व्याचष्टे--
साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी
वैधर्म्यदृष्टान्तः562 ॥ २३ ॥
साध्यधर्मनिवृत्त्या प्रयुक्ता न यथाकथञ्चित् या साधनधर्मनिवृत्तिः तद्वान्
वैधर्म्यदृष्टान्तः । यथा कृतकत्वेनानित्ये शब्दे साध्ये आकाशादिरिति ॥ २३ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तद्वृत्तेश्च
प्रथमस्याध्यायस्य द्वितीयमाह्निकम् ॥
-
अत्र प्रथमं द्वितीयं च सूत्रद्वयं ता--मू॰ प्रतौ भेदकचिह्नं विना सहैव लिखितं दृश्यते--सम्पा॰ ।
↩ -
--॰मिज्ञोहा॰--सं-मू॰ ।
↩ -
धारणा ।
↩ -
स्मृतिजननाभिमुख्यम् ।
↩ -
--॰धा अनुस्मृ॰-मु-पा॰ ।
↩ -
अभ्या
↩
सदशापन्नायां गुणनादौ तदित्याकाराभावात् प्रायिकमिदम् । -
कुण्डमि॰--डे॰ ।
↩ -
--॰वती स्मृ॰--डे॰ ।
↩ -
अविसंवादित्वमस्या असिद्धमिति चेदित्याह ।
↩ -
यद्यनुभूतेनार्थेन सालम्बनत्वेऽपि स्मृतेरप्रामाण्यमातिष्ठसे
↩
तदा प्रत्यक्षस्यापि किं नाप्रामाण्यं भवेदिति एकोद्देशेन तस्यापि निरालम्बनत्वात् । -
अनुभूतविषय॰ ।
↩ -
अर्थजन्यत्वात् ज्ञानस्य प्रामाण्याभ्युपगमे मरुमरीचिकादौ जलज्ञानमप्यर्थजन्यत्वात् प्रमाणं स्यात् ।
अथ प्रतिभासमानार्थजन्यं प्रमाणमिष्यते तदानुमानं न स्यात् प्रमाणम् । अनुमानं ह्यनर्थसामान्यप्रतिभासि, न च
तेन जन्यम्, भवन्मते सामान्यस्यावस्तुत्वात् । यत् प्रमाणं तदनर्थजन्य302- तदर्थज↩
मेवेति अतिव्याप्ति 303- ॰वेति
रपि दुष्टा स्वसंवेदनप्रत्यक्षेण व्यभिचारात् तद्धि स्वात्मविषयं, न च तेन जन्यम् ।↩
व्याप्ति↩ - तदर्थज↩
- ॰वेति
व्याप्ति↩ -
व्याप्तेरग्रहणेऽग्रहणं
↩
त्वप्रमाणत्वात् । -
रिति ॥ अथ मु-पा ।
↩ -
क्वचिद्व्यस्ताभ्यामपि यथेदमस्माद्भिन्नमित्यादिकं प्रत्यभिज्ञानं दर्श
↩
नादेव स्मरणरहितात् । तस्मात् भिन्नमित्यादिकं केवलादेव स्मरणात् प्रत्यभिज्ञानम् । -
मदीयेन गृहस्थितेन
↩
गवा सदृशोऽयं गवय इत्यादिकम् अत्र टिप्पणकारेण उभयकारणकत्वं उदाहृतम्--सम्पा॰ । -
एकत्वसादृ
↩
श्यवैसदृश्यादिनाऽर्थद्वयघटनं सङ्कलना । -
--॰पदै॰--मु॰ ।
↩ -
तथा वचनं सत्या॰-डे॰ ।
↩ -
संकलनमु॰-डे॰ ।
↩ -
अत्र उदीच्येन इति सुचारु ।
↩ -
--॰ग्रीवप्र॰--ता॰ ।
↩ - ↩
-
निकृष्टम् ।
↩ -
तात्पर्य॰ पृ॰ १९८ ।
↩ -
यदाह--ता॰ ।
↩ -
सादृश्यसाधनम् ।
↩ -
दीर्घम् ।
↩ -
अपेक्षका ह्यल्पमहदादिव्यापाराः ।
↩ -
अक्षनिरपेक्षं
↩
मानसं ज्ञानं विकल्पः । -
प्रमाणान्तरं प्राप्नोति ।
↩ -
उपमानमिति सूत्रावयवयोगः ।
↩ -
उपमानं द्विधा
↩
साधर्म्यतो वैधर्म्यतश्चेति विभागः । -
पूरणार्थवादिनिपातरहितमस्तोभम् ।
↩ -
तदेवेदमित्यत्रैकत्वं विषयः,
↩
गोसदृशो गवय इत्यत्र तु सादृश्यम् । -
यदाह--ता॰ ।
↩ -
पूर्वप्रवृत्तमा॰--मु--पा ।
↩ -
पूर्वप्रमितमात्रादधिका ।
↩ -
--॰स्य तस्य विव॰--डे॰ ।
↩ -
तस्येति प्रत्यक्षस्य ।
↩ -
विवर्तः परिणामः पर्यायः इति यावत् ।
↩ -
--॰मन्यज्ञा॰--डे॰ ।
↩ -
वैशेषिकादयः ।
↩ -
चक्षुरादीन्द्रियसम्बन्धि ।
↩ -
सहायम् ।
↩ -
स्वविषयवार्तमानिकरूपादौ ।
↩ -
विषयान्तरे गन्धादौ ।
↩ -
अदृष्टं भाग्यं कर्मेत्यर्थः ।
↩ -
विषयान्तरा
↩
प्रवृत्तिरूपाद्धेतोः । -
--॰द्यासं॰--डे॰ ।
↩ -
नहि संस्कृतमपि चक्षुर्गन्धादिग्रहणे शक्तम् ।
↩ -
स्वविषय॰ ।
↩ -
दूरसूक्ष्मादिदर्शनेन चक्षुषोऽतिशयो भवति, न श्रवणस्य, रूपविषयेष्वव्यापारात् ।
↩ -
नहि रूपे श्रौत्री वृत्तिः
↩
संक्रामति । -
विषयभेदादित्ययं हेतुः ।
↩ -
यथा स एव क्षिप्रो जक्ष्यते 348
- ?↩
।↩ - ?↩
-
स एवायमिति ।
↩ -
--॰त्वे
↩
सति च--डे॰ । -
--॰स्य दृष्टव्य॰--डे॰ ।
↩ -
शब्दानित्यत्वे साध्ये कृतकत्वं हि साधनम् प्रत्ययभेदभेदित्वे
↩
नानुमेयम् । -
बाष्प्ाव्एन सन्दिह्यमाने धूमेऽग्नेरनुमेयस्यापि साधनत्वं वक्ष्यते ।
↩ -
--॰श्रयम्--डे॰ ।
↩ -
--॰त्वे न प्रत्य॰--डे॰ ।
↩ -
एतेनानुपलम्भात् कार्य॰--डे॰ ।
↩ -
- ?↩
न उपलम्भात् प्रत्यक्षात् ।
नानुमानात् । नाऽत्र धूमोऽग्नेरभावादित्यनुपलम्भः ॥ १ ॥ नात्र शिंशपा वृक्षाऽभावात् ॥ २ ॥ धूमाधीः
वह्निविज्ञानं धूमज्ञानमधीस्तयोः । प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्वयः ॥↩ - ?↩
-
- ?↩
नास्त्यत्र
घटो अनुपलम्भात् स्वप्रत्यक्षानुपलम्भादित्यर्थः, स्वभावानुपलम्भो हि धूमाधीरित्युल्लेखलक्षणः कार्यकारणव्याप्य
व्यापकभावावगमे व्यापिपर्ति ततस्तस्मादपि भवति स बौद्धमते ।↩ - ?↩
-
- ?↩
कार्यकारणस्यावगमो व्यापकानुपलम्भा
द्व्याप्यव्यापकत्वस्यानुपलम्भात् तूभयस्य किन्तु सोप्यूहादेवेति ।↩ - ?↩
-
निराकृतम् ।
↩ -
अनुमानत्वेन ।
↩ -
यद्धि
↩
लिङ्गाज्जायते ज्ञानं तदनुमानमेव । -
प्रत्यक्षस्य हि फलं प्रत्यक्षमनुमानं वा । तत्र प्रत्यक्षं घटोऽयमिति
↩
अनुमानं तु अग्निरत्र धूमादिति । -
अग्रहणमित्युक्तयुक्तेः ।
↩ -
प्रत्यक्षफलत्वेनेति हि उक्तम् ।
↩ -
फलस्या
↩
प्यनु॰--मु--पा॰ । -
सामान्यज्ञानाद्विशेषज्ञानम् 371
- ?↩
।↩ - ?↩
-
विशेष्यज्ञानं विशेषणज्ञानं प्रमाणम् 373
- ?↩
।↩ - ?↩
-
व्याप्याभ्युपगमे व्यापकप्रसञ्जनं तर्कः ।
↩ -
व्यापकं तदतन्निष्ठं व्याप्यं तन्निष्ठमेव च । साध्यं
↩
व्यापकमित्याहुः साधनं व्याप्यमुच्यते ॥प्रयोगेऽन्वयवत्येवं व्यतिरेके विपर्ययः । -
--॰स्त्वेव--डे॰ ।
↩ -
प्रमेयाधीना प्रमाणव्यवस्था ।
↩ -
अग्न्यादिः ।
↩ -
धूमादिः ।
↩ -
पर्वतः 381
- ?↩
।↩ - ?↩
-
अग्नितया ।
↩ -
अग्निरूपस्य साध्यस्य ।
↩ -
धूमे ।
↩ -
पर्व
↩
तादौ । -
धूमः ।
↩ -
ननु व्याप्तेरुभयधर्माविशेषे कथं व्याप्तताप्रतीतिः हेतोरेव, न व्यापकस्यापि, हेतोरेव
↩
हि व्याप्ततां स्मरन्ति तथा चाहुः--व्याप्तो हेतुस्त्रिधैव सः हेतु॰ १ इत्याशङ्क्याह--ततश्चेति । -
--॰पेक्षया--डे॰ ।
↩ -
व्याप्यस्यैव प्रतीतिः--ता॰ ।
↩ -
--॰स्यैव व्याप्यताप्रतीतिः--मु॰ ।
↩ -
व्यापकेन
साध्ययेन कर्त्रा व्याप्यभावो व्याप्यत्वं हेतोस्तदा392- द↩
पेक्षते व्याप्तताप्रतीतिः ।↩ - द↩
-
अग्नेर्हेतुत्वं स्यात् 394
- ?↩
।↩ - ?↩
-
अव्यापकस्यापि हेतोर्मूर्तत्वादेस्तत्र पर्वते भावात् ।
↩ -
कृतकत्वादेः अत्र हि व्याप्यस्य सत्त्वमेव नास्ति
विद्युदादिना व्यभिचारात् । विद्युदादौ व्यापकत्वम397- कम↩
नित्यत्वं प्रयत्नानन्तरीयकत्वादिविनाप्यस्ति इति ।↩ - कम↩
-
साधारणहेत्वाभासोऽसम्यग् हेतुः स्यादिति ।
↩ -
पर्वतादौ ।
↩ -
व्याप्यस्य धूमस्य हेतुत्वं न स्यात् ।
↩
व्याप्तौ सत्यां हेतुभावः । व्याप्तिस्त्वीदृशी कुत्रापि नास्ति । -
व्यापकस्यापि वह्नेस्तत्र पर्वते भावात् ।
↩ -
यत्र
↩
व्यापकोऽस्ति तत्र । -
उभयत्रेति साध्ये साधने च ।
↩ -
भाव एव ।
↩ -
व्यापकधर्मत्वे ।
↩ -
लिङ्ग एव
↩
लिङ्गी लिङ्गिनि सति इतरद्भवत्येवेति विपर्यासः । -
दृष्टिपथमागतात् ।
↩ -
परार्थानुमाने कथितात् ।
↩ -
अनेन अतः पश्चादर्थता ।
↩ -
स्वस्मायिदं स्वार्थं
↩
येन स्वयं प्रतिपद्यते । -
परस्मायिदं परार्थं येन परः प्रतिपद्यते ।
↩ -
--॰श्चितं सा॰--डे॰ ।
↩ -
--॰भावैक॰
↩
--डे॰ । -
--अग्निज्ञानं प्रति धूमस्य योग्यता शक्तिविशेषोऽस्त्येव परं दृष्टो हि धूमो धूमध्वजं गमयति नादृष्ट
↩
इति । - स्वविष↩
-
एतेन धूमो धूमवत्त्वेन निश्चिताविनाभावस्य गमको नान्यथा इत्यावेदितम् ।
↩ -
यथाऽनित्यः शब्दः
↩
चाक्षुषत्वात् घटवदित्यत्र शब्दे चाक्षुषत्वमसिद्धम् । -
सत्त्वपदाऽग्रतः ।
↩ -
--॰श्रावणमेव--डे॰ ।
↩ -
यथाऽनित्यः शब्दः श्रावणात्वादित्यनित्यत्वे साध्ये श्रावणत्वमेव हेतुर्घटे व्यभिचरतीति ।
↩ -
धूमो बाष्पो वा
↩
इति सन्देहे धूमादेरग्निसाधनम् । -
अनेन सत्त्ववचनेन साधारणोऽपि निरस्यते ।
↩ -
निरस्त इति संबन्धः ।
↩ -
यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् घटवत् । घटे प्रयत्नानन्तरीयकत्वं विद्यते, न विद्युति परम्,
↩
तथापि प्रयत्नानन्तरीयकत्वस्य हेतुत्वं सपक्षैकदेशत्वात् । -
सपक्षे दर्शनमन्वयः ।
↩ -
मीमांसकं प्रति जैनो वक्ति ।
↩ -
सर्वज्ञस्य सर्वस्य सपक्षत्वात् ।
↩ -
अनित्यो
↩
घटः कृतकत्वात् शब्दवत् । कृतकत्वं शब्देऽस्ति नाकाशादौ । -
यथा प्रयत्नानन्तरीयकः शब्दो अनित्यत्वात्
↩
घटवत् । -
सपक्षे त्वस्ति एव ।
↩ -
यथा असर्वज्ञोऽयं वक्तृत्वात् ।
↩ -
अनैकान्तिकस्य ।
↩ -
पूर्वस्मिन्ननुमाने ।
↩ -
पक्षधर्मत्वसपक्षसत्त्वलक्षणं रूपद्वयं ।
↩ -
विपक्षान्नियमवत्या व्यावृत्तेरभावे ।
↩ -
विपक्षान्नियमवत्या व्या
↩
वृत्तेः । -
शून्याद्वैतवादिनः ।
↩ -
तन्मते प्रमाणलक्षणः पक्षोऽपि नास्ति कुतः पक्षधर्मता ? ।
↩ -
--॰पपत्तेः
↩
मु--पा॰ । -
स श्यामो मैत्रातनयत्वादित्यादौ ।
↩ -
साध्यमनुमेयमिति यावत् ।
↩ -
--॰तधर्म॰--डे॰ ।
↩ -
तात्पर्य॰ पृ॰ ३४०. ।
↩ -
--॰स्य तत्प्र॰--डे॰ ।
↩ -
यदाहुः--ता॰ ।
↩ -
पक्षदोषावेवैतौ ।
↩ -
साध्यसाधनयोः ।
↩ -
स्वनिश्चित इत्यनेन निश्चितः सन् ।
↩ -
प्रत्यक्षग्राह्यबाह्यार्थापेक्षया सुखादींश्च एवमेव गृह्णाति ।
↩ -
मनसैव सर्वेन्द्रियार्थग्रहणात् ।
↩ -
अग्न्यादि ।
↩ -
--॰पत्तिरपि ततो॰--डे॰ ।
↩ -
अनुमानतो ह्यविनाभावनिश्चये तस्याप्यनुमानस्याविनाभावनिश्चये कमनुमाना
न्तरं चिन्त्यम्454- ?↩
। तस्यापि अन्यदित्याद्यनवस्था । इतरेतराश्रयस्तु अनुमानादविनाभावनिश्चयो अविनाभावे च
निश्चिते अनुमानोत्थानमिति ।↩ - ?↩
-
अनित्यत्वविपरीते नित्यत्वे अश्राव्यरूपः पूर्वं शब्दः पश्चात् कथं उच्चारणात् श्राव्यो जात इति बाधक
↩
प्रमाणं तस्मान्नित्यत्वेऽघटमानकं श्रावणत्वमनित्यत्वं व्यवस्थापयति । -
सत्त्वमर्थक्रियाकारित्वम् । तच्चा
↩
नित्यपक्ष एव घटत इति श्रावणत्वमपि सत्त्वमायातम् । -
--॰तुत्वोपपत्तेः--ता॰ ।
↩ -
गम्ये459
- य↩
शकटो
दयाभावे कृत्तिकोदयात् ।↩ - य↩
-
कश्चित् पुरुषः सर्वभावसाक्षात्कर्त्ताऽस्ति अविसंवादिज्योतिर्ज्ञानान्यथानुपपत्तेः ।
↩ -
शब्दोऽनित्यः चाक्षुषत्वादित्यस्मिन्ननुमाने शब्दानित्यतां विनाऽपि घटादौ चाक्षुषत्वमुपपद्यते इत्यन्यत्रोपपद्य
↩
मानं शब्दस्यानित्यतां न साधयति । -
स्मं विस्म॰--डे॰ ।
↩ -
अनित्यत्वम् ।
↩ -
करणम्--मु--पा॰ ।
↩ -
मशवर्ति॰--डे॰ ।
↩ -
अयं धूमोऽग्नेः ।
↩ -
वृष्टिर्भाविनी विशिष्टमेघोन्नतेः ।
↩ -
गम्यायां वृष्टौ ।
↩ -
सूरिराह ।
↩ -
अविकलकारणम् ।
↩ -
प्रत्यक्षतः--मु-पा॰ ।
↩ -
नावश्यं कारणानि कार्यवन्ति ।
↩ -
कार्यं गमकं ।
↩ -
यदाहुः--ता॰ ।
↩ -
यथा धूमादग्निर्ज्ञायते तथाग्निरिन्धन476
- ?↩
विकारकर्ता दाहकोऽपि ज्ञायते । अयं रसो विशिष्टसामग्रीवा477- मा↩
न्
वैशिष्ट्यस्यान्यथानुपपत्तेरिति कारणा478- कार्या↩
द्विशिष्टसामग्रीज्ञानं तस्माच्च रूपादिजनकत्वज्ञानम् ।↩ - ?↩
- मा↩
- कार्या↩
-
हेतुः
↩
कारणं तस्य धर्मो रूपादिजनकत्वं तस्यानुमानं तस्य लिङ्गात् परिच्छेदः । -
सहकारिकारणम् ।
↩ -
साकल्यम
↩
प्रतिबद्धस्वभावश्च । -
हलधरादीनामपि ।
↩ -
प्राणादि पू॰--ता॰ ।
↩ -
कथं ज्ञाय॰-डे॰ ।
↩ -
यदाह--ता॰ ।
↩ -
--॰स्फुटः फेन॰--डे॰ ।
↩ -
शाड्वल--डे॰ ।
↩ -
शक्यते न निवे॰--डे॰ ।
↩ -
यदाह--ता॰ ।
↩ -
कार्यधर्मः कारणे सति भवनम्, कारणाऽभावे वाऽभवनम् ।
↩ -
अहेतुकत्वम् ।
↩ -
अग्नेरन्यो हेतुरस्य ।
↩ -
वा अन्य--डे॰ । वा भावयेत् अन्य॰--मु-पा॰ ।
↩ -
वल्मीकस्य ।
↩ -
न केवलं सपक्षे किन्तु विपक्षेऽपि ।
↩ -
सपक्षे उभयं सत्त्वमसत्त्वं वा यस्य ।
↩ -
समवाया
↩
श्रितम्--ता॰ । -
इदं फलं विशिष्टरूपवत् विशिष्टरसवत्त्वात् । इदं नभःखण्डं भाविशकटोदयं कृत्तिकोदय
↩
वत्त्वात् । अयं कालः समुद्रवृद्धिमान् चन्द्रोदयवत्त्वात् । एवम् अग्रेऽपि कालो धर्मी । -
--॰गतरूप॰--डे॰ ।
↩ -
कार्यरूपाद्रूपकारणं ज्ञायते । तच्च कीदृशम् ? । समानकालं यत्कार्यं रसलक्षणं तज्जनकमनुमीयते ।
↩ -
शकटोदये प्रत्यक्षे सति कृत्तिकोदयस्यापि प्रत्यक्षत्वात् नानुमानतस्तदवगमः ।
↩ -
एकार्थसमवायिनो
↩
व्यापका इति । -
अन्यथानुपपन्नत्वादेव ।
↩ -
धूमाभावाद्वा व्या॰--ता॰ ।
↩ -
कार्यं यथा--डे॰ ।
↩ -
परार्था बुद्धि॰--डे॰ ।
↩ -
--॰पूर्वं क्षि॰--डे॰ ।
↩ -
इत्याह ।
↩ -
साध्य॰ ।
↩ -
कृतकत्वादिति हेतुः ।
↩ -
विचित्ररसप्रभवत्वात् अनेकरससंयोगवत् ।
↩ -
लतैक
↩
देशत्वात् पत्रवत् । -
रूपादत्यन्तव्यतिरिक्तत्वात् बायुवत् ।
↩ -
यथावस्थेन रूपेणाप्रतिभासमानत्वात् यदस्ति
↩
तद्यथावस्थितरूपेणाप्रतिभासमानमपि नास्ति यथा ज्ञानम् । -
शरीरावयबत्वात् बाहुवत् ।
↩ -
वन्व्यास्त्री
↩
समानाङ्गत्वात् । -
चन्द्रशब्दवाच्यः शशी न भवति आकाशोदितत्वात् सूर्यवत् ।
↩ -
--॰लापेक्ष्यं--ता॰ ।
↩ -
साधनम् ।
↩ -
साध्यम् ।
↩ -
--॰मेयस्य व्य॰--ता॰ ।
↩ -
धर्मिणः ।
↩ -
स धर्मी आधारो ययोः ।
↩ -
तद्बुद्धेर्विकल्पज्ञानस्य ।
↩ -
निर्विकल्पकं प्राप्तविषयम्, तद्विकल्पोऽपि प्राप्तविषय इति । एवंलक्षणपारम्पर्येणापि ।
↩ -
निर्विकल्पेन ।
↩ -
विकल्पस्य विषयभावम् ।
↩ -
धर्मी भवति किं--डे॰ ।
↩ -
अविसंवादिज्योतिर्ज्ञानान्यथानुपपत्तेः ।
↩ -
उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः ।
↩ -
हेतूनाम् ।
↩ -
धर्मिणि ।
↩ -
हेतुरुभयधर्मः ।
↩ - ↩
-
सत्ता सार्वज्ञी ।
↩ -
मैवम्--डे॰ ।
↩ -
धर्मिणः ।
↩ -
सत्त्वम् ।
↩ -
विषयाणाम् ।
↩ -
सन्देहः ।
↩ -
सुखादिवच्च सत्त्व॰
↩
मु--पा॰ । -
प्रमातृभिः ।
↩ -
--॰रनियतदिग्दर्शिभिर्नियतदिग्देश--डे॰ ।
↩ -
किं सिद्धम् ? ।
↩ -
प्रसाध्य
↩
इति--ता॰ । -
अष्टादशमेकोनविंशतितमं च सूत्रद्वयं ता--मू॰ प्रतौ भेदकचिह्नं विना सहैव लिखितं दृश्यते ।
↩
अत्रास्माकमपि द्वयोरेकत्वं सुचारु भाति--सम्पा॰ । -
दृष्टान्तः ।
↩ -
वर्तमानस्य हेतोः ।
↩ -
पुंसः ।
↩ -
पुंसः ।
↩ -
सति ।
↩ -
दर्शनम् ।
↩ -
शिष्य॰ ।
↩ -
अनुमंस्य
↩
मानत्वात् । -
उदाहरणस्य ।
↩ -
प्रस्तावे ।
↩ -
ता--मू॰--सं-मू॰--प्रत्योः सवृत्तिकताडपत्रीयसूत्रे च स
↩
नास्ति । -
साधनमेव धर्मः ।
↩ -
कृतः ।
↩ -
साध्यो धर्म॰--डे॰ ।
↩ -
इत्याचार्यश्रीहेमचन्द्रविरचितायां
↩
प्रमाणमीमांसायां प्रथमस्याध्यायस्य द्वितीयमाह्निकम् । प्रथमोऽध्यायः समाप्तः--ता--मू॰ । इत्या...द्वितीया
ह्निकम् । प्रथमाध्यायः--सं-मू॰ ।