10
अपौरुषेयमप्येवं कथं नाम प्रपञ्चवत् ।

ततः कृतक एवायमिति वेदः प्रतीयताम् ॥

पुरुषातिशयासिद्धिर्न तत्रापि प्रमाणता ॥ छ ॥

विषयोऽन्यादृशस्तत्र य उक्तो लिङ्गशब्दयोः ।

तेनाप्रमाणता शब्दे सर्वथैव प्रसिध्यति ॥

विकल्पविषयत्वं हि शब्दस्येति प्रसाधितम् ।

धर्मी धर्मविशिष्टस्तु साध्य उक्तोऽनुमानतः ॥

शब्दस्यापक्षधर्मत्वे न बाह्येऽर्थेस्ति हेतुता ।

नहि धर्मिण्यसिद्धत्वे धूमादर्थः प्रसिध्यति ॥

धर्मिसंबन्धितायां हि प्रत्यक्षेऽपि प्रमाणता ।

न चा73धिष्ठानता नैव प्रत्यक्ष स्या प्रसाधनम्74

प्रत्यक्षेऽप्यनुमानत्वं कया 75वा कलयेष्यते ।

त्रैरूप्यरहितत्वे च न प्रत्यक्षस्य सिध्यति ॥

स्वरूप एव प्रत्यक्षमनुमानत्ववर्जितम् ।

अर्थवत्त्वेन शब्दस्य पक्षत्वपरिकल्पने ।

प्रतिज्ञार्थै76क देशत्वं न शब्दत्वे प्रस77ज्यते ॥

तथाहि शब्दः शब्दत्वात् पूर्वशब्दवदेव हि ।

समीपार्थेन संबद्धो78 धूमो धूमतया यथा ॥

गोशब्दत्वमसिद्धं चेत्79 लता-तालादि वाचिनाम् ।

विशेषार्था प्रसिद्धिः स्यात् तस्माद् युक्ता विशेषता ॥

सामान्येन हि वाक्यार्थसंबन्धः80 सिद्ध एव नः ।

विशेषेण तु नैवास्ति क्वचित् संबन्धसिद्धता ॥

वाक्यस्यैवानुमानत्वमेवं नास्तीत्यसंगतम् ।

संबन्ध81साधकः शब्दो वाक्यमित्यभिधीयते ॥

समुदायस्य धर्मित्वमेकदेशस्य हेतुता82

संबन्धस्य च साध्यत्वं कस्मान्नास्त्यनुमानता ॥

  1. Ms. निचा । नैवाधिष्ठानता इति संभाव्यते ।

  2. Ms. प्रस्नाधनम् ।

  3. Ms. विकलयिष्यते ।

  4. Ms. प्रतिज्ञार्थेक° ।

  5. Ms. प्रसिज्यते ।

  6. Ms. संबन्धो ।

  7. Ms. गोशब्दमप्रसिद्धत्वं चेत् ।

  8. Ms. संबधुः ।

  9. Ms. संबन्धः ।

  10. Ms. हेतुना ।