12
उपमापि प्रमा कैश्चिदिष्यते व्यक्त94बुद्धिभिः ।

सादृश्येन परिच्छेदः परोक्षेऽर्थे न तां विना ॥

सादृश्यस्य च वस्तुत्वं न शक्यमप95बाधितुम् ।

भूयोऽवयवसामान्ये योगो जात्यन्तरस्य तत् ॥

उपमापि हि सादृश्ये परोक्षे वित्तिरीक्ष्यते ।

नानुमालक्षणं तत्र प्रथमं सदृशग्रहात् ॥

तस्माद् यत् स्मर्यते तत् स्यात्96 सादृश्येन विशेषितम् ।

प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥

प्रत्यक्षेणावबुद्धेऽपि सादृश्येन गवि स्मृते ।

विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता ॥

प्रत्यक्षेऽपि यथा देशे स्मर्यमाणे च 97पावके ।

विशिष्ट-विषयत्वेन नानुमानाप्रमाणता ॥

नवै तस्यानुमानत्वं पक्षधर्माद्यसंभवात् ।

प्राक् प्रमेयं च सादृश्यं न धर्मत्वेन मीयते ॥

गवये गृह्यमाणं च न गवामनुमा98पकम् ।

प्रतिज्ञार्थैकदेशत्वाद् गोगतस्य99 न लिङ्गता ॥

गवयस्याप्यसंबन्धात् न गोर्लिङ्गत्वमृच्छति100

सादृश्यं न101च सर्वेण पूर्वं दृष्टं तदन्वयि102

एकस्मिन्नपि दृष्टेऽर्थे द्वितीयं पश्यतो वने103

सादृश्येन सहैवास्मिंस्तदैवोत्पद्यते मतिः ॥

इति मीमांसकोपमानम्मीमांसकोपमानम् ॥ छ ॥


नैयायिका स्त्वन्यथैव104 वर्णयन्त्यस्य लक्षणम् ।

प्रसिद्धेन हि साधर्म्यादुपमा साध्यसाधनम् ॥

  1. Ms. व्यक्ष ।

  2. Ms. मवबाधितुम् ।

  3. Ms. तस्योत्सादृश्येन विशेषतम् ।

  4. Ms. यावके ।

  5. Ms. मायकम् ।

  6. Ms. योगतस्य ।

  7. Ms. गीलिङ्गत्वमर्च्छति । नैयायिकोपमानप्रसङ्गे मिच्छति इति पाठो दृश्यते ।

  8. Ms. सादृश्यन्त ।

  9. Ms. तदन्वपि ।

  10. Ms. वनो ।

  11. Ms. थैवोपवर्णयंति अस्य लक्षणं ।