२.३. सामान्यनिरासः

658

न चैवम्, यतो न परोक्षवस्तुविषयं ज्ञानमर्थग्रहणरूपमतो नानुमानेन प्रतीतस्य कारण
भावः । तस्मान्न कार्यकारणभावः । अतएवाह ।

अशक्तं सवमिति चेत्;

अत्राह ।

बीजादेरङ्कुरादिषु ।

दृष्टा शक्तिः;

इति ।

183

तथा हि ।

पश्यामि बीजादुत्पत्तिमङ्कुरस्येति लौकिकी । प्रतीतिरविभागेन तत्र एवास्तु दर्शनं ।। १४४ ।।

यत्र हि पश्याम्येतदिति प्रतीतिस्तदेव प्रतीतं । अस्ति च कार्यकारणभावे दृष्टो
यम्ममेत्यधिमुक्तिरतोऽबाधिताधिमुक्तिसम्भवान्नान्यथाभावः शङ्कनीयः । तथाहि ।

स्मराम्येतदहम्वस्तु नाधिमुक्तेः परागतिः । वस्तुना नहि सम्बन्धः स्मरणस्य प्रतीयते ।। १४५ ।।

न तावत्प्रत्यक्षेण स्मरणस्याप्रत्यक्षत्वात् । स्वसम्वेदनन्तु स्वरूपमेव स्मरणस्य साक्षा
त्करोति न वस्तुसम्बन्धं । नापि पूर्वकं प्रत्यक्षं स्मरणे प्रवर्तते कुतः सम्बन्धवेदनं ।
अस्ति चानन्यथाभावी स्मराम्येतदिति प्रत्ययः । तस्मादधिमुक्तिरेव सर्वत्र साधिका सर्वव्यव
स्थानां । अत्रोच्यते ।

मता सा चेत्सम्वृत्याऽस्तु यथा तथा ।। ४ ।।

अभिप्रायः । प्रमाणवस्तुतत्त्वव्यवस्थितिमन्तरेण यदधिमुक्तिमात्रमनादिव्यवहारभा
वनातस्तत्सम्वृतिमात्रमेव । अपि च । न प्रतीत्यर्थोहि सम्वृत्यर्थः । यथैव हि क्वचि
द्देवदत्तादावदृष्टेपि दृष्टाभिमानः । स परामर्शान्निवर्तते । तथाचासौ न परमार्थतः । तथा
सकलोपि लोकव्यवहार एवमेवेति । सम्वृतिमात्रकं सकलं । प्रमाणमन्तरेण हि प्रतीत्य
भिमानमात्रं सम्वृतिः । तथाहि ।

अन्वयव्यतिरेकाभ्याङ्कार्यंकारणतां गतिः । प्रमाणञ्च न तत्रास्ति प्रप्यक्षमनुमा तथा ।। १४६ ।।
प्रत्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकयोः । गतिर्यद्यनुमानात्स्यादितरेतरसंश्रयः ।। १४७ ।।

अन्वयव्यतिरेकयोः प्रत्यक्षेण केवलेनाग्रहणात् । प्रत्यक्षानुपलम्भसाधनः कार्यकारण
भाव उच्यते । तदेतदसङ्गतं । इतरेतराश्रयदोष प्रसङ्गात् । प्रत्यक्षेणान्वयो न गृह्यते ।
एतत्सद्भावे भवत्येतदिति नैवम्प्रकारव्यापारः प्रत्यक्षं । द्वयग्रहणमात्रव्यापारात् । एतद
नन्तरमेतद् दृष्टमतस्तु भवतीति नैतदस्ति । यतोऽत एव भवत्यतो भवत्येवातोपि भवतीती
यदेवात्र विकल्प्य त्रयमपरस्यार्थंस्यासम्भवात्659 । यद्यत एव भवति अन्यतो न भवतीति साम
र्थ्यदयमर्थः स्यात् । तत्रापि विकल्पद्वयमिदानीमन्यदा वेति । यदीदानीमत एवेति मतिः ।
अन्यदा तर्हि भवत्यन्यत इति स्यात् । इदानीमपि देशान्तरेण भवत्यन्यत इति कुतः । न
चैवङ्कार्यकारणभावो नियमाभावात् । नाप्यतो भवत्येवेत्यवधारणं । कालान्तरे कदा
चिन्न भवत्येवेत्यतोनान्वयव्यतिरेकगतिरध्यक्षात् । अतोपि भवत्यन्यतोपीत्यत्रपक्षे स्वयमेव
व्यभिचाराभ्युपगमान्न कार्यकारणभाव इति प्रतिपादितं, अतो नायमपि पक्षः ।

अथैतदभावे न भवतीत्यनुपलम्भतः प्रतीयते । तथा सति पुनरितरेतराश्रयदोषः ।
तथा हि ।

प्रत्यक्षादयः परः किम्वाऽनुपलम्भः परस्तथाः । प्रत्यक्षादपरत्वेहि नाममात्रमसाधनम् ।। १४८ ।।
अवतारो भवेन्नेवानुमानत्वप्रकल्पने । अन्वयव्यतिरेकाभ्याम्प्रतिबन्धेऽनुमा यतः ।। १४९ ।।

यदि प्रत्यक्षमेवानुपलम्भः स एव प्रत्यक्षे उदितो दोषः । अथानुमानं । तदन्वय
184 व्यतिरेकप्रवर्त्तितप्रतिबन्ध इतीत्यनुमानाभावे नान्वयव्यतिरेकग्रहणं । तदभावे च नानुमाना
वतारः । अनवस्था चानुमानानाम्भवेत् ।

अथाभावेन प्रमाणेन तदभावे भावपरिग्रहः । तदप्ययुक्तं । सन्निहितस्यैव देशका
लयोस्ततोप्यभावप्रतीतेः । अपरः प्राह । तर्कप्रमाणगम्यः कार्यकारणभावः । अदृष्ट
सम्बन्धात्परोक्षप्रतीतिस्तर्क इति लक्षणं । तथाहि तद्भावभाव उपलभ्यते न कार्यकारणभावो
नियमलक्षणोऽग्निधूमयोः । न च तेन सम्बन्धस्तद्भावभावेन कार्यकारणभावस्योपलभ्यते ।
प्रतियन्ति च लौकिकाः यस्मादतो भवति तस्मादेतत्कार्यमेतत् । तस्मादेतत्कार्यप्रतीतिस्तर्कतः ।
अथवाऽर्थापत्त्या तत्कार्यप्रतीतिः । यद्येतत्कार्यन्न स्यादतो भवनमेवास्य न घटते इत्यदृष्टा660 र्थं
परिकल्पनादर्थापत्तिः । तदयुक्तं ।

कार्यकारणभावस्य प्रतीतिर्दृश्यते यदि । अर्थापत्तेस्तर्क्कतो वा प्रतीतिरिति दृश्यतां ।। १५० ।।
ततो भावात्परा नैव कार्यकारणतेक्ष्यते । दोषः प्रागुदितस्तत्र नियमस्यापरिग्रहात् ।। १५१ ।।

यदि हि कार्य्यकारणभावः प्रतीतिविषयमवतरेत्तस्य प्रतीतिस्तर्कतोऽन्यतो वा स्यात् ।
न चायन्ततो भावादपरेण रूपेण निरूप्यते प्रयत्नवतापि । न च नियमेन ततो भाव इति कुत
श्चित्प्रतीतिः । तावत्कालस्यैव तद्भावस्य ग्रहणात् । न चासौ कार्यकारणभावः ।

अथ तर्कादर्थापत्तेर्वा प्रतीयते नियमः । यत इदानीमेतदनन्तरमुपलभ्यते । ततोऽ
न्यदाप्यत एवैतदित्यन्यथैव तदेव न भवेत् । तदप्ययुक्तं ।

यदि नामेदानीमत उपलभ्यते । अन्यदपीति कुतः । प्रतीतिरेवमेवेति चेत् ।
घटोपि तर्हि पटानन्तरमुपलभ्यते(।) तत्राप्येवम्भवेत् । दृश्यतेऽत्र व्यभिचार इति चेत् ।
अनेनैव तर्हि तत्राप्यनाश्वासः । अनाश्वासप्रतीतेर्नास्त्येवेति चेत् । अदीर्घदर्शिनाम्भूयो
दर्शनादेतत् । लोकव्यवहार एवमेवेति चेत् ।

तदेव पुनरायातं सम्वृत्या शक्तता गतिः । अनिरूपिततत्त्वा हि प्रतीतिस्सम्वृतिर्मता ।। १५२ ।।

अथ कालान्तरे तदेवेदन्तत्कार्यमिति प्रत्यभिज्ञानात् पूर्वमेव कार्यताप्रतीतिः । अन्यथा
प्रत्यभिज्ञैव न स्यात् ।

तदयुक्तं ।

प्रत्यभिज्ञा क्वं दृष्टेयम्पूर्वदर्शनसङ्गता । अर्थापत्तेस्तर्कतो वेत्येतत् प्रागेव दूषितं ।। १५३ ।।

अथ स्मरणतः । तथाहि ।

स्मरामि661 दृष्टमेवैतन्मयेत्येवम्प्रतीतितः । स्मरणस्यापि सम्बन्धोऽनुभवेन मतो नहि ।। १५४ ।।

न च स्मरणम्प्रमाणं । स्मरणेन च सिद्धं सम्वृतिसिद्धमेव । एतदाशङ्क्याह । मता सा चेत् सम्वृत्याऽस्तु यथा तथेति । एवमेवलोकव्यवहारोऽनान्कुलो लोकव्यवहारे
परमार्थ उपयुज्यते लोकव्यवहारप्रलोपप्रसङ्गात् अधिमुक्तिविभागमात्रेण सिद्धिः । स्वप्न्
नियतव्यवहारवत् । अनादिवासनानियम एवावशिष्यते लोकव्यवहारहेतुयोनिरन्यथा सालम्बन
निरालम्बनञ्चानादिविभाग एव न सिध्येत् । यः पुनराह अथ केयं सम्वृतिः । किञ्च
सम्वृतिसत्यं ।

185
सत्यञ्चेत् सम्वृतिः केयं मिथ्या चेत् सत्यता कुतः । सत्यत्वन्नहि सामान्यम्मृषार्थपरमार्थयोः ।। १५५ ।।

सत्यञ्च सम्वृतिरिति व्याहतं । अत्रोच्यते । सम्वृतिर्नाम विकल्पविज्ञानमधिमुक्ति
माह(।)अनादिवासनातः । ततोऽयमर्थः । अनादिवासनाबलायातः प्रतिभास एव केवलः ।
नीलादयोहि स्वप्नप्रतिभासवदसत्त्या न च तद्वयतिरेकेण विज्ञानन्ततो न तत्त्वं । न च लोक
व्यवहारोच्छेद इत्युपयोगतः सत्यं । एवञ्च सम्वृत्तिसत्त्यमिति न विरोधः । ततः परमार्थेन
सर्वात्मविवेकः । नहि बाह्येन पदार्थेन सहान्वयव्यतिरेकावनुगम्येते । वासनायास्तु कारणत्वं
स्वप्नप्रतिभासे प्रतीयते । तज्जातीयत्वेन परत्रापि तत्स्यात् । अथवा । उत्पादादिस्वभाव
एव सम्वृत्तिः प्रमाणेनापरिच्छेदात् । तदा सम्वृत्योत्पाद इति प्रमाणेनापरिच्छिद्यमान
तयैवोत्पादापिः ।

अथ सम्वृत्तिरित्यसामर्थ्यं सर्वात्मविवेकत्वादुत्त्पाद इति सामर्थ्यं । तदेतद्विरूद्धम् ।

तदप्यसत् । सम्वृतिरिति परमार्थेनासामर्थ्यन्तेन चोत्पादो नास्त्येवोत्पाद इति
सामर्थ्यंप्रतीतिमात्रेण प्रमाणरहितत्वात् तेन चोत्पादोऽस्त्येव । न चोत्पादेन उत्पाद इति
दोषः । येन रूपेणोत्पादस्तेनैव सामर्थ्यं । केन रूपेणोत्पादः(।) सम्वृत्या न परमार्थत इत्यर्थः ।
तथा च सम्वृत्तिरिति न नामकरणमात्रं । प्रमाणाप्रतिपन्नत्वस्य662 तथाभिधानात् ।

यदपि समानकालता कार्यकारणयोरित्यत्र दूषणं । कारणात् कार्यस्य द्वितीये क्षणे
उत्पत्तिरिति ।

तदप्यसत् । अत्तत्वस्य चिरातीतादविशेषात् । चिरातीतस्योत्पत्तिकालेऽसत्त्वात् ।
अनन्तरातीतस्य विपर्ययादिति चेत् । कोयमुत्पत्तिकालः । यदि भवनकालस्तदा भवनम्भवितु
र(ि/?/)भन्नमिति सैव कार्येण समानकालता कारणस्य ।

अथ भावनाकाले विद्यते । सेयम्भावना भावयितुर्व्यापारस्ततश्च भावनाकाल इति
कारणकाले सत्तेति स्यात् तदा । ततश्च व्यवहितस्यापि स्यात् कारणत्वं । स्वकाले तस्यापि
भावात् । सर्वेषाञ्च भावक्षणानान्तदा भावादिति कारणताप्रसङ्गेऽतिप्रसङ्गः । भिन्नसन्तानत्वा
न्नेति चेत् । सोयमितरेतराश्रयदोषः । सत्यकारणत्वे भिन्नसन्तानत्वं सति भिन्नसन्तानत्वेऽकारण
त्वमिति । कारणञ्च भिन्नसन्तानञ्चेति विरोधः ।

यदप्युक्तम् । अविचारप्रतीत्यर्थ इति । विचारप्रमाणमुच्यते । न विकल्पकम्विज्ञानं ।
ततोऽप्रमाणप्रतीत्यर्थ इत्यर्थः । मायार्थोप्यथयमेव लोकप्रतीत्यर्थ इति । अविचारितरमणीया
लोकप्रतीतिस्ततो न दोषः । शास्त्रकारप्रतीतिस्तु न व्यावहारिकीति न सा गृह्यते । तथा
चोक्तम् । तत्र कतमत् सम्वृत्तिसत्त्यं । यावान् लोकव्यवहारः । प्रमाणाप्रमाणविभागेपि
सम्वृत्येव । तथाहि ।

प्रमाणमविसम्वादि(२।१)

अविसम्वादश्लोपदर्शितेऽर्थे प्राप्तिः । प्राप्तिरपि सम्वेद्यमानतैव । यद्यर्थः सम्विदितः
स एव पश्चादिति मिकर्थम्प्राप्त्यर्थी भवति । ततः सर्वा बुद्धिः प्रमाणं स्यात् । अथ 186 पश्चादन्यगतिः प्रदर्शितोऽसौ न तेन तत्प्राप्त्या भवतु प्रमाणम्663 । एवं सर्वस्य भवेत्
प्रमाणत्वं ।

अथोपदर्शितेपि किञ्चदनुपदर्शितमस्ति(।) ततस्तत्प्राप्त्या प्रमाणत्व ।

तदप्यसद्(।)अनुपदर्शिते प्रमाणाभावाद् । इति यत्किञ्चिदेतत् ।

तस्मान्न परमार्थतः किञ्चिदस्तीत्यस्तु यथा तथा सम्वृत्या एतावताऽपि प्रमाणाप्रमाण
व्यवस्थितिर्न काचिन्न: क्षति(।)अभिप्रेत एव भवत्पक्षोऽस्माकमिति न वस्तुतत्त्वमतिक्रम्य
वर्त्तितुं शक्यं ।

  1. Listed as the second heading on the same level as pramāṇasaṃkhyā in the table of contents, but numbered as 3 in the text, as if in continuation of satyadvayacintā. Opted for first possibility, reconsider on reading.
  2. १ T. वात्र विकल्प्यं अपरस्यार्थ॰

  3. १ T. अनुमानात् ज्ञाने भाविनः विकल्पात्—बहिः

  4. २ T. स्मरामि

  5. १ T. प्रमाणप्रतिपन्नत्वस्य

  6. १ T. नापरन्निर्भासि ज्ञानं प्रमाणं अर्थक्रियानिर्भासिज्ञानात् । तत्राह(।) साधनज्ञानात् वस्तु
    जातीति प्रत्यक्षज्ञानेन । अथाधिकं ज्ञानार्थक्रियानिर्भासेन ततः तस्य प्रामाण्यं(।)एवं
    च अन्यज्ञानेनान्यस्य प्रामाण्यं सर्वं सर्वस्मात् ज्ञानात् प्रमाणं ।