५. अनुपलब्धिचिन्ता

१. अनुपलब्धिः पृथग् हेतुः

उदाहरणं कस्मान्नोपात्तं । उपात्तमेव यतः ।

हेतुस्वभावव्यावृत्त्यैवार्थव्यावृत्तिवणर्णनात् ।
सिद्धोदाहरणेत्युक्तानुपलब्धिः पृथग् न तु ।। २६० ।।
632

उपात्तमेवानुपलब्धेरुदाहरणं न तु पृथक् । किं कारणं । हेतुस्वभावव्यावृत्यैवा
र्थस्य (कार्यस्य) स्वभावस्य च व्यावृत्तिकथनात् ।

निवेदितमेतत् ।

आत्मत्वे1698 हेतुभावे वा सिद्धे हि व्यतिरेकिता ।

सिध्यतीत्यादिस्वभावानुपलब्धिरपि निर्द्दिष्टैव । हेतुस्वभावयोरनुपलब्धयोरेव भावस्य
निवर्त्तनात् । तथा चोक्तं । सिद्धं प्रमाणैर्व्वदता मित्यादि । उपलब्धिलक्षणप्राप्तत्वं
विशेषणमिति कथं सिध्यति ।

अत्रोच्यते ।

तत्राप्यदृश्यात् पुरुषात् प्राणादेरनिवर्त्तनात् ।
सन्देहहेतुताख्यात्या दृश्यार्थे सेति सूचितं ।। २६१ ।।

परेणोक्तं घटादौ प्राणादिनिवृत्तिरात्मनिवृत्तेर्यदि च जीवच्छरीरादप्यात्मा व्यावृत्तः
प्राणादयोपि व्यावर्त्तेरन् ।

अत्राचार्येण प्रतिपादितं । घटादावात्मा सत्त्वमेव दृश्यत्वमेवादृश्यत्वादात्मनो न
सिद्धमनुपलव्धिमात्रात् संहेदा (? देहा) दिति । अतो दृश्येर्थेऽनुपलब्धिर्गमिकेति सूचितमेव ।

ननु व्यवच्छेदसाधनत्वे सर्व्व एव हेतुरनुपलम्भ एव तत्कथं हेतुत्रितयं ।

नैष दोषः । यतः ।

अनङ्गीकृतवस्त्वंशो1699 निषेधः साध्यते नया ।
वस्तुन्यपि तु पूर्व्वाभ्यां पर्युदासो विधानतः ।। २६२ ।।

वस्तुन्यपि प्रदेशे न पर्युदासः साध्यतेऽपि त्वनङ्गीकृतवस्त्वभावे1700 निषेधः साध्यते ।
पूर्व्वाभ्या तु स्वभावकार्यहेतुभ्यां पर्युदासद्वारेण । तेन विषयभेदाद् भेद एव प्रतिबन्धसमान
तायामपि ।

ननु कः स्वभावानुपलब्धौ प्रतिबन्धः तादात्म्यमित्याह ।

तत्रोपलम्भेष्वस्तित्वमुपलब्धेर्न्न चापरं ।

न ह्यनुपलब्धेरन्यैवासत्ताऽपि त्वनुपलब्धिरेव ।

ननु ज्ञानव्यतिरेकोऽनुपलब्धिः । सत्ताव्यतिरेकोनुपलब्धिः (?) सत्ताव्यतिरेक
स्त्वभावस्तत्कथमनयोस्तादात्म्यं । यथा च ज्ञानज्ञेययोर्भेदस्तथा तदभावयोरपि (।) न खलु
ज्ञानमेव पदार्थस्य सत्ताज्ञानव्यतिरेकेणापि तस्याभावात् । तथा हि ।

सत्ता परोक्षाप्यर्थानामनुमानेन गृह्यते । पावकस्य न किम्भावो धूमदृष्ट्यानुमीयते ।। ५६८ ।।

न च तत्राप्यनुमानोपलम्भ एव सत्ता । अनुमानाभावेपि सत्तायां व्यभिचारात् ।
नानुमाननिवृत्तिरभावं गमयति । अतीतानागतयोरप्यनुमानवृत्तेः ।

नेदं साधीयः ।

633
न ह्यन्यानुपलभ्येषु नास्तितानुपलम्भनात् ।

उपलब्धिलक्षणप्राप्तस्य (हि) तदनुपलब्ध्याऽभावव्यवहारः साध्यते न च तेषामुपलम्भा
दन्यैव सत्ता । तथा हि विप्रतिषिद्धमेतत् । उपलब्धियोग्यो न चोपलभ्यत इति । तस्मा
दुपलब्धिलक्षणप्राप्तपदार्थसत्तोपलभ्भ एव । तथा हि । यद्युपलभ्यमानतोपलब्धिस्सा
पदार्थस्वभावैव । अथोपलम्भनमुपलब्धिः कर्तृस्थतयो1701 च्यते । तदाप्युपलब्धिलक्षणप्राप्तसत्ता
तया प्राप्तैव1702 । तदव्यतिरेके च न भेदप्रतिपत्तिर्व्यतिरेकस्य गम्यत्वाद् भेदस्य ।
तदव्यभिचारादुपलम्भः सत्तोच्यते । न च व्यतिरिक्तसमानकालोपलम्भादुपलम्भः पदार्थानां ।
अपि तु तदनुप्रविष्टोपलभ्यमानतालक्षणोपलम्भादेव । तस्मादुपलम्भ एव सत्ता । ततस्तद
नुपलम्भ एवासत्तेति वक्ष्यति । न हि परस्परमभावानां परमार्थतः कश्चिद् भेदः । भाव
विशेषणभेदे तु भेदः । पटस्याभावः शकटस्येति च । न च निर्व्विशेषणो भावः तत्त्वं प्रति
लभते । अथ भावाभावयोर्भावभूतम्विशेषणमेकमेव । अतस्तदभावयोरप्येकत्वमेव । न च
परमार्थतोऽभावस्य ततः1703 प्रतिषेध्यभेदेपि ।

ननु यद्यभाव एवानुपलब्धिस्तदाऽविप्रतिपत्तिरेव । सत्त्यमेतत् । यतः ।

इत्यज्ञज्ञापनायैकानुपाख्योदाहृतिर्मता ।। २६३ ।।

एका स्वभावानुपलब्धिलक्षणा इति । परिज्ञानरहितस्य यो हि ज्ञानज्ञेयाभावयोरभेदं
नावगच्छति । यो वा सांख्योत्यन्तविमूढः सर्व्वं सर्व्वत्र विद्यत इत्याग्रहवात् । तस्याज्ञस्य
प्रती यर्थमेका स्वभावानुपलब्धिः । किन्तर्हि तत्र प्रसाध्यते ।

विषयासत्त्वतस्तत्र विषयि प्रतिषिध्यते ।
ज्ञानाभिधाने सन्देहं यथाऽदाहादपावकः ।। २६४ ।।

विषयो हि ज्ञानाभिधानयोः सत्त्वं । तत्संदेहश्च तयोः सन्देहस्य । तस्य विषयस्याभावे
नियमेन ज्ञानमभिधानं सन्देहश्च निवर्त्तते । विषयस्य विपर्ययस्य सत्त्वात् । यथा न पावको
दाहाभावात् । दहनभावे हि पक्षान्तरे पावकसंदेहः तदभावे तु विपर्ययस्य भावात् । कुतस्तस्य
सम्भवः । यतोऽदाहादपरा नास्त्यपावकता । यथा च नादाहादपराऽपावकता ।

तथान्यानोपलभ्येषु नास्तितानुपलम्भनात् ।
तज्झानशब्दाः साध्यन्ते तद्भावात् तन्निबन्धनाः ।। २६५ ।।

न खल्वन्यैव नास्तिता नामोपलब्धिलक्षणप्राप्तेष्वनुपलम्भनस्वरूपाद् बहिः । ततस्तत्सि
द्धौसिद्ध एव तदात्मीभावः1704 ।

नन्वभावोऽनु(प) लम्भेन साध्यते । तत्कथं साध्यसाधनयोरेकता ।

तदप्यसत् ।

न सिद्धमेतदेवात्र न चासिद्धमसिद्धतः । सिद्धिमृच्छति नैवात्र प्रतिबन्धस्ततो न तत् ।। ५६९ ।।

यदुच्यते साध्यसाधनयोर्भेदेन भवितव्यं (।) स एवात्र साध्यसाधनभावो न सिद्धः ।
तत्कथै तथा भेदस्य सिद्धिः । न खल्वसिद्धमसिद्धतः सिद्धिमता यावत् साध्यसाधनभावो न 634 सिद्धः परं प्रति न तावद् भेदसिद्धिः । यावच्च न भेदसिद्धिर्न्न तावत् साध्यसाधनभावः ।
प्रतिबन्धे हि सति साध्यसाधनभावः न तादात्म्यं प्रतिक्षिपतोऽनुपलम्भाभावयोरपरः प्रतिबन्धः ।
नहि कार्यकारणभावस्तयोः ।

नन्वभावेनानुपलम्भः क्रियते । यदैव घटादेरपनयनं करोति कश्चित् तदैवानुपलम्भः ।

सत्यमेतद् यद्यभावः परेणानुपलम्भतः प्रमाणेन ज्ञायते ततो न सहानुपलम्भवदस्य
प्रतिबन्धः प्रसिध्येत् । अन्यथेतरेतराश्रयदोषप्रसरः केन निवार्यः ।

प्रतिबन्धे प्रमासिद्धेनुपलम्भप्रमाणता । प्रमात्वेनुपलम्भस्य प्रतिबन्धः प्रसिध्यति ।। ५७० ।।
अन्योन्याश्रयतो नैवमेकस्यापि प्रसिद्धता । इतरेतरकृतकार्यमत एव न सिध्यति ।। ५७१ ।।

तस्मादनुपलम्भान्नाभावः प्रसिध्यति । प्रतिबन्धाभावात् । तादात्म्यप्रतिबन्धे तु
स एवानुपलम्भोऽभाव इति व्यवहार एव साध्यते ।

सिद्धो हि व्यवहारोयं दृश्यादृष्टावसन्निति ।
तस्याः सिद्धावसन्दिग्धौ तत्कार्यत्वेपि धीध्वनी ।। २६६ ।।

ननु व्यवहारसाधनेपि नास्त्येव दृष्टान्तः । अनुपलब्ध्यैव सकलो व्यवहारः साधनीयः ।
तदा च दृष्टान्तान्तरस धनेऽनवस्थैव । व्यवहारश्च कार्यभूत एवानुपलब्धेः । ततः कारणात्
कार्यसाधनमयुक्तं । नावश्यं कारणानि तद्वन्तीति(।)

तदसत् यतः ।

सिद्ध एवायं व्यवहारो दृश्यादृष्टिनिबन्धनः । तावन्मात्रनिबन्धनतया अभाव
व्यवहारयोग्यताऽनुपलब्धिस्वभावैव योग्यतायाऽ(?अ) नर्थान्तरत्वात् । व्यवहारस्त्ववश्यमेव
तद्दर्शनात् सचेतनः प्रवर्त्तयेत् । तावन्मात्रनिबन्धनमभावव्यवहारं स्मरन्नवश्यमेव तच्चेतना
वान् भवति । कायवाग्व्यवहारन्तु यदि नाम न प्रवर्त्तयति । मा स्म प्रवर्त्तयत् । प्रमाणस्य
प्रमाणताप्रतीतिसाधनतया न कायादिव्यवहारसाधनात् । तस्मात्(।)

विद्यमाने हि विषये मोहादत्राननुब्रुवन् ।
केवलं सिद्धसाधर्म्यात् स्मार्यते समयं परः ।। २६७ ।।

—इति संग्रहः ।

कार्यकारणता यद्वत् साध्यते दृष्ट्यदृष्टितः ।
कार्यादिशब्दा हि तयोर्व्यवहाराय कल्पिताः ।। २६८ ।।

न खलुं दर्शनादर्शनविशेषव्यतिरेकेणापर (ा) कार्यकारणता । कार्यमस्येत्ययमेवार्थ
एतदन्तरेण न भवतीति । यदि तु व्यतिरिक्त एतस्मात्तदैतदभावेपि भवेदेव (।) तथा सति
व्यर्थकः प्रतिबन्धः परः ।

अथ तदभावे न भवेत्तथा सति स एव सम्बन्ध इति व्यर्थकः परः ।

ननु सम्बन्धे सति तदभावे न भवति । तद्भावे भवतीति सिध्यति ।

सम्बन्धे सति तद्भावे भवतीति यदीष्यते । तदभावेपि सम्बन्धः पूर्व्वकस्येति चिन्त्यतां ।। ५७२ ।।
द्विष्ठ एव हि सम्बन्धः एकभावे कथम्भवेत् । योग्यता यदि सम्बन्धः कारणस्य फलोदये ।। ५७३ ।।
635
कारणादेव कार्यस्य भाव इत्येव युक्तिमत् । तथा हि कारणं तादृक् निजकारणसम्भवि ।। ५७४ ।।

न चान्वयव्यतिरेकाभ्यामपरः कार्यकारणभावः प्रतिभात्यतीन्द्रियदृशोपि । तस्मादन्वय
व्यतिरेकाभ्यां कार्यकारणभावव्यवहारस्य साध्यता ।

कथन्तर्हि शब्दान्यत्त्वमर्थान्यत्त्वमन्तरेण न तयोरेव दृष्ट्यदृष्ट्योर्व्यवहारार्थं लाघवेन
कार्यादिशब्दनिवेशः । तेन ।

कारणात् कार्यसंसिद्धिः स्वभावान्तर्गमादियं ।
हेतुप्रभेदाख्यानेन दर्शितोदाहृतिः पृथक ।। २६९ ।।

कारणं (हि)1705 समर्थं कार्यस्वभाव एव वस्तुतः । ततोनुपलब्धिः स्वभावहेतुरेव ।
ततो नास्याः पृथगुपन्यासः ।

ननु कथं स्वभावानुपलम्भः स्वभावहेतावन्तर्भवति तादात्म्यप्रतिबन्धमन्तरेण ।
यथा च भावयोर्न परस्परं भेदः तथाऽभेदोपि । न खलु निरात्मनः तादात्म्यसम्भवः । न हि
शशविषाणं खरविषाणात्मकं ।

अत्र हि प्रतिविधीयते । प्रतिषेघ्यविपरीतस्वभावात्मिकैवानुपलब्धिः । तथा हि ।

एकोपलम्भानुभवादिदं नोपलभे इति ।
बुद्धेरुपलभे वेति कल्पिकायाः समुद्भवः ।। २७० ।।

न खलु रिक्तात्माऽभावः प्रमाणगोचरविचारवत्तरः । न च तेन सिद्धेनापि स्वरूप
मात्रतः किञ्चित प्रसिद्धिमत् । वस्तुसांकर्यपर्यालोचनलोचनैरेव स तथेष्यते । तत्र यदि
वस्तुदेशकालावस्थान्तरभावाद् व्यावृत्तं स्वरूपतः किमपराभावकल्पनया । अथ न व्यावृत्तं
स्वरूपतः तथापि व्यर्थकः परोऽभावः । एकत्र व्यर्थः परत्रासमर्थ इति प्रत्यपादीदं प्रागेव ।
तस्माद् अन्यभावरिक्ततयैवं स्वभावभूत (ो) धर्मभेदेन तथा व्यपदिश्यते घटादेरभाव इति ।
यतः । एकस्य पदार्थस्य विवक्षितपदार्थस्वरूपविविक्तात्मनो य उपलम्भः तस्य योऽनुभवः
स्वसम्वेदनतया तस्मादेवेदं नोपलभे इति स्मरणविपरिवर्त्तमानमतिः कल्पनारूपोपजायते ।
तत्र प्रदेशानुभव1706 एवापरस्यानुपलम्भः । यत एतदन्येन स्वरूपेण नोपलभे इत्ययमेवात्रार्थः ।
तेन स्वरूपेणानुपलब्धिरस्य । तेन रूपेणेदं नास्तीति ।

ननु च तदुपघातकमिह नास्तीति1707 तस्याभावोऽनेन रूपेणेति साध्यं तत्कथं विपर्ययस्य
वचनं । सत्त्यमेतद् यदि परोप्यत्रार्थो नान्तर्भवेत् (।) स त्वन्तर्भवत्येव । तथा हि ।

विविक्तस्तेन रूपेण प्रदेशोनेन वा घटः । न भेदोत्र विदग्धानां प्रतिभाति कथञ्चन ।। ५७५ ।।

यदि सोनेन रूपेण विविक्तो न स्यादयमपि न तेनेति परिस्फुटार्थे कः परस्य व्यामोहः ।
तस्मात् तद्विविक्ततैवास्यात्राभावः । यतश्च तद्विविक्तप्रदेशदर्शनादेव नोपलभे तदिति मतिः ।
तदन्यरूपेण चोपलभे इति ततोनुपलम्भस्योपलम्भस्य च तादात्म्यादुपलम्भ एवानुपलम्भः ।


636

ननु भवत्वयमनुपलम्भो ज्ञानान्तरस्य ज्ञेयान्तरन्तु1708 कथं । ज्ञानज्ञेययोरभेद इति
प्रतिपादनाददोषः । अथवा वा शब्द इवार्थे । यथा उपलभे इति विकल्पविषयत्वात्तथाध्य
वसीयमान उपलम्भस्तथा नोपलभे इति व्यवसायादनुपलम्भोपि ।

इति चेत् । न (।) अविविक्तस्य वेदनेऽभाववेदनस्य सामर्थ्य (।) प्रमाणेन गृहीत
स्यान्यथा कर्त्तुमशक्यत्वात् । प्रतिपादितञ्चैतदिति नोच्यते । तथा हि ।

नहि स्मृतिं विना(ऽ) भावप्रमाणस्यास्ति सम्भवः ।

विना विशिष्टानुभवं प्रतियोगिस्मृतिर्न यत् ।। ५७६ ।।

नन्वभावसाधिता भावसंभवादेव विशेषसिद्धिर्भावानां तत्कथमभावमन्तरेणासाकर्य ।

नैतदस्ति । यतः1709 ।

विशेषो गम्यतेर्थानां विशिष्टादेव वेदनात् ।
तथाभूतात्मसंवित्तिर्भेदधीहेतुरस्य च ।। २७१ ।।

यदि न विशिष्टं वेदनं वेदनान्तरविविक्तं भवेत् । न वेद्यविशेषगतिः । यदि च स्वस
म्बेदनेन तद्रूपसम्वेदनस्याननुभवः तदा तस्यापि विशिष्टता न गम्यते । अभावसम्वेदनेन
गम्येत

नहि प्रतियोगिस्मरणमन्तरेणाभावप्रमाणोदयः । न च विशिष्टसम्वेदनाभावे प्रति
योगिनः स्मरणं । अथ पूर्व्वन्तस्य विशिष्टानुभवः । तथा सत्यस्यापीति व्यर्थक एवाभावः ।
अथाभावेन स एवाभावव्यवहारः साध्यते । किमन्येन सिद्धस्यान्येन साधनेन । व्यवहार
साधने सैवानुपलब्धिः स्वभावहेतुस्वभावा । तस्मादन्यविविक्तस्वसम्वेदनभावादेव भेद
विकल्पः (।) स एव च भेदस्तदन्याभावः ।

तस्मात् स्वतो धियोर्भेदसिद्धिस्ताभ्यां तदर्थयोः ।
अन्यथा ह्यनवस्थानाद् भेदः सिध्येन्न कस्यचित् ।। २७२ ।।

धियः स्वसम्वेदनादेवान्यव्यावृत्तताप्रसिद्धिः । ततोप्यर्थस्येति परिसमाप्तः स्व(?)
सम्वेदनव्यवहारः । यदि तु न प्रत्यक्षादेव भेदः अपि त्वभावप्रमाणतः । तथा सत्यनवस्था
नादप्रतिपत्तिः ।

तथा हि ।

अभावेन प्रमाणेन यदि भेदस्य कल्पना । सोप्यभावः परेणान्याभावे नैवावतार्यते ।। ५७७ ।।

सोप्यन्येन ततोन्येन तदन्योप्यनवस्थितिरिति न व्यवहारः1710 । अभावेन हि प्रमाणेन
यद्यनधिगतः प्रत्यक्षेण भेदः प्रतीयते । तस्याभावस्य प्रतियोगिस्मरणे सत्यवतारः । प्रति
योगितया च स्मरणं प्रत्यक्षतो भेदग्रहणे सति भवतीति व्यर्थकोऽभाव इदानीमपि पूर्व्ववत् प्रत्य
क्षेणैव भेदग्रहणमिति ।

अथ तथापि1711 नाभावमन्तरेण भेद इति नाभावस्य व्यर्थता । तथा सति तत्राप्यपरेण

637

प्रतियोगिस्मरणेनाभावावतारकृता भाव्यं (।) तदपि स्मरणमपेक्ष्यत1712 इत्यनवस्था । अभ्युप
गम्य चेदमुच्यते न तु पुनः सम्भवतीदानीं गृह्यमाणस्य तदा प्रतियोगितया स्मरणं येन तदानी
मभावावतारे तस्यास्माद् भेदग्रहणमिति न सम्भवत्यभावावतारः । तस्मादप्रतिपत्तिरेव
परदर्शने भेदस्य ।

विशिष्टरूपानुभवान्नातोन्यान्यनिराक्रिया ।
तद्विशिष्टोपलम्भोतः तस्याप्यनुपलम्भनं ।। २७३ ।।

विशिष्टरूपानुभव एव तदन्यस्याभावसाधनं । नतु विशिष्टरूपानुभवमन्तरेणान्यस्य
तत्राभावसिद्धिः ।

ननु विशिष्टरूपानुभवात् तथाभूततैव तस्य सिध्यति । कथन्तत्र तस्य (भेद)ा भावः ।
नहि देशकालान्तरभाविनस्तत्राभावस्तस्यानुपलब्धिलक्षणप्राप्तत्वात् ।

तदसद् यतः ।

विशिष्टरूपानुभवे कथमन्यानिराक्रिया । अन्यानिराक्रियायां हि स एव तु न सिध्यति ।। ५७८ ।।

विशिष्टरूपानुभवे हि पदार्थानुभव एव न स्यात् । विशिष्टश्चेदधिगम्यते रूपं घटादेः
किमपराभावप्रतिपत्त्या । न चा भावसहस्रप्रतिपत्त्यापि विशिष्टरूपानुभवः स्वरूपविशेष
प्रतिपदम्विना । स्वरूपप्रतिपत्तिस्त्ववश्यमेषितव्या । न च (ा)परो भावः स्वरूपतः प्रत्येतुं
शक्य इति प्रतिपादितं । तस्माद् विशिष्टरूपानुभव एवापरस्याभावसाधनं । अनुपलम्भ
नमपि तस्य विशिष्टोपलम्भनमेवान्यस्य ।

तस्मादनुपलम्भोयं स्वयं प्रत्यक्षतो गतः ।
स्वमात्रवृत्तेर्गमकस्तदभावव्यवस्थितेः ।। २७४ ।।

तन्नियतरूपोपलम्भ एवाभाव इति सिद्धमभावानुपलम्भयोस्तादात्म्यं प्रत्यक्षसिद्धत्व
ञ्च(सिद्धमि) ति नासि (ि) द्धप्रतिबन्धाभावदोषः । स चानुपलम्भः समर्थ एव हेतुरिति ।
स्वमात्रवृत्तेरेवाभावव्यवहारस्य प्रवर्त्तकः । अन्यथा यद्यनुभवाभावो1713 ऽनुपलब्धिर्भावाभावश्चा
भावः । तदानवस्थानादसिद्धिरेवेत्याह ।

अन्यथार्थस्य नास्तित्वं गम्यतेनुपलम्भतः ।
उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थितिः ।। २७५ ।।

यथाभावाभावोऽनुपलम्भेन तथोपलम्भाभावरूपोप्यनुपलम्भः । तस्यापरेणानुपलम्भेन
तदभावोप्यपरेणेति नानवस्थानतो मुक्तिः । अथार्थस्याभाव उपलम्भसाधनत्वादुपलम्भाभावेन
साध्यते । उपलम्भस्य तु भावो नापरसाधन इति तदभावोपि नापरसाधनः ।

तदेतदसत् ।

स्वसम्वेदनसिद्धत्वमुपलम्भस्य युक्तिमत् । तदभावस्य सम्वित्तिः स्वत इत्यतिसाहसम् ।। ५७९ ।।
स्वसम्वेदनभावे हि भाव एव भवेदयं । प्रत्यक्षसिद्धो(ऽ)भावश्चेद् विज्ञानस्यान्यवित्तितः ।। ५८० ।।

अथापरप्रत्यक्षसिद्धोऽभावः सम्वेदनस्य वस्तुनोपि तर्हीति प्राप्तं ।

638

ननु वस्त्वनुपलब्धिलक्षणप्राप्तत्वात् न परप्रत्यक्षतः सिध्यति । तस्य विज्ञानादन्यद्
रूपमिति । सम्वेदनस्य सम्वेदनत्वादपररूपाभाव इति (।) तदपरप्रत्यक्षसिद्धोऽभावः । तथा
च । इदं नोपलभे इति । उपलम्भमेवोत्तमपुरुषेण निरस्यति न वस्त्विदं नास्तीति ।

तस्मादनुपलम्भोयं स्वयं प्रत्यक्षतो गतं इति । ज्ञानाभावलक्षण एव ।

तदसत् ।

अन्योपलम्भेनान्यस्य पराऽसत्ता गतिः कथं ।

तद्विविक्ततया चेत् स्यात् तत्किं नानुपलब्धिता ।। ५८१ ।।

न खलु तद्विविक्ततामन्तरेण ज्ञानान्तरस्याभावसाधनं ज्ञानान्तरसम्वेदनेन । तद्विविक्तो
पलब्धेरेव च तदनुपलब्धिः । तत्कथं प्रत्यक्षसिद्धस्तदन्यसम्वेदनाभावः । अथोपलब्धिलक्षण
प्राप्तमिति न विशेषणमव्यभिचारात् । तथा सति विशेषणं न स्यादनुपलब्धिता (तु)
नापैति । तस्माद् यावान् कश्चित् प्रतिषेधः स सर्व्वोनुपलब्धेरिति पर्युदासलक्षणो (ऽ) भावः
प्रत्यक्षसिद्धः । स एव चान्यापेक्षयानुपलम्भः । यत्तु पुनरिदं नोपलभे इत्युत्तमपुरुषप्रयोगः
स ज्ञानपर्युदासलक्षणानुपलब्धिप्रकरणतो न त्वर्थाभावनिरासाय । तदव्यतिरेकादसावेव
वस्तुनोप्यभाव इति । यदा हि सत्तोपलम्भयोरेकता तदा वस्तुव्यतिरेकस्यापि प्रत्यक्षसिद्धतैव न
खण्डशः/?/ सम्भवः ।

ननु व्यापकानुपलब्ध्या (ऽ) भावः सिध्यति । तथा हि । उपलब्धिलक्षण (प्राप्तस्य)
भाव उपलम्भेन व्याप्तः तदभावतस्तत्सरूपाद्1714 वस्त्वभावप्रसिद्धिः ।

सत्त्यमेतत् ।

स्वभावानुपलम्भोयमभावस्याप्रसाधकः । सर्वत्रैव भवेदेवं प्रत्यक्षात् तदभाववित् ।। ५८२ ।।

यदि व्यापकानुपलब्धिरूपलब्धिलक्षण (प्राप्त)स्य प्रत्यक्षप्रसिद्धोऽभावः(।) सर्व्वत्र
तर्हि तदभावः प्रत्यक्षसिद्ध एव न स्वभावानुपलब्धिर्न्नाम । व्यापकानुपलब्धिश्चामूढस्य
यद्यभावसाधनी (।) मूढस्यापि सैव स्मरणेन विषयीक्रियता किमनुपलब्ध्यन्तरकल्पनया ।
स्वभावानुपलब्धिर्व्वा यदि मूढस्य सैव पुनरमूढस्यापि भविष्यत्यकस्माद् धूमप्रतिपत्तिवन्न
खलु तत्र त्रित्वमपैति । किञ्च ।

व्याप्यव्यापकयोरत्र भेदो न परमार्थतः । उपलम्भ एव सत्तेति पूर्व्वं संप्रतिपादनात् ।। ५८३ ।।

दृश्यस्य हि सत्तोपलम्भेन व्याप्तेत्ययमवष्टम्भो व्यापकानुपलब्धिवादिनः । अयञ्च
स्वभावानुपलब्धिवादेपि समान एव । न हि तादात्म्ये सति न व्याप्यव्यापकभावः । तथा
चोपलम्भः (एव) सत्तेति प्रतिपादितं । तत्कार्यहेतुव्याप्त्यव्यतिरेकात् तत्स्वभावाविशिष्ट
मिति तदनपलम्भः स्वभावानुपलम्भ एवोक्त इति कार्यानुपलब्धिं स्वभावानुपलम्भ एवान्तर्भा
वितां यो व्याचष्टे व्यामूढः स कथं संवेदनानुपलम्भं स्वभावानुपलम्भनं न व्याख्यास्यति ।
तस्मादन्यभाव एवापरस्याभावोऽन्योपलब्धिरेव चान्यस्यानुपलब्धिः(।) सा च स्वभावानुप
लब्धिरेव ।

639
  1. १ B स्वात्मत्वे

  2. २ T. द्ङोस्-पोिऽ-छोस् (=वस्तुधर्मः)

  3. ३ B वस्तुभावो

  4. १ B ॰स्थक्रियो

  5. २ B व्याप्तैव

  6. ३ B ॰स्य भेदः

  7. ४ B. तदात्मोऽभावः

  8. १ T. इतोऽग्रे यावत् २७० कारिकां (॰समुद्भवः) भाषान्तरं न दृश्यते

  9. २ T. प्रदेशानुपलम्भः

  10. ३ T. ननु च स घट इह नास्तीति तस्य स्वभावो नेति साध्यं कथं विपर्ययस्य वचनम् ।

  11. १ B ॰न्तरस्य तु

  12. २ T. भोटभाषान्तरेऽत्र २७० कारिका

  13. ३ T. पंचदशमाह्निकं (समाप्तम्)

  14. ४ B तदा

  15. १ B पेक्षत

  16. २ B यद्यनुपलम्भाभावो

  17. १ B. ॰ वतस्तुच्छरूपाद्