२. दृश्यानुपलब्धिः सद्भावबाधिका

नन्वेवमपि व्यापकानुपलब्धिरसम्भविनी (।) सत्त्यं स्वभावानुपलब्धावेव सर्व्वासामन्त
र्भाव इतीष्टमेव संगृहीतं न काचिन्नः क्षतिः । कथन्तर्हि भेदः ।

व्याप्यव्यापकयोर्भेदात् प्रचयापचयाप्तितः । वृक्षशिंशपयोर्दूरादूरत्वेन च भिन्नता । ५८४ ।।

वृक्षता प्रचयिनी शिंशपात्वं त्वपचयवत् । दूरे व्यापकानुपलब्धिर्व्याप्यापेक्षया ।
समीपे तु स्वभावानुपलब्धिरित्यनयोर्भेदः । उपलब्धिलक्षणप्राप्तसत्तोपलम्भयोस्तु परस्परं
व्याप्यव्यापकभावान्न भेदः शक्यकल्पनः । तेन स्वभावानुपलब्धिरेवेति स्थितमनुपलब्धिः स्वभा
वहेतावन्तर्भवतीति । अत एव ।

अदृश्ये निश्चयायोगात् स्थितिरन्यत्र वार्यते ।
यथाऽलिङ्गोन्यसत्त्वेषु विकल्पादिर्न सिध्यति ।। २७६ ।।

अतः (।)

अनिश्चयफला ह्येषा नालं व्यावृत्तिसाधने ।
आद्याधिक्रियते हेतोर्निश्चयेनैव साधने ।। २७७ ।।

एषा स्वभावानुपलब्धिर्हेतोर्न्नाभावं विपक्षे निश्चाययति । दूरदेशादौ निश्चयायोगात् ।
अदृश्यापेक्षया हि नेयमुपलब्धिलक्षणप्राप्तानुपलब्धिः । आद्या तु हेतोर्व्विपक्षात् सर्व्वतोव्यावृत्ति
निश्चये व्याप्रियते । या कारणव्यापकानुपलब्धिर्हेतुस्वभावव्यावृत्त्यैवेत्यादिवर्ण्णिता । तत्रापि
प्रसङ्गसाधनतामङ्गीकृत्य साधिका ।

ननु विरोधी नाम लिङ्गान्तरं । नास्त्यत्र शीतस्पर्शोऽग्नेरिति । स कथं प्रभेदलक्षणे
नोक्तः । अनुपलब्धावेव तस्याप्यन्तर्भावात् (।) यतः ।

तस्याः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते ।
अर्थबाधनरूपम्वा भावे भावादभावतः ।। २७८ ।।

विरोधी हि हेतुस्तस्या एवानुपलब्धेः प्रभेदस्तदन्यप्रभेदवत् । अन्यथा विरोधि
विरोधिकार्यविरोधिव्यापकादीना1715 मपि परः पृथग् निर्द्देशकृद् भवेत् । यदा तु तस्या एवाय
मनेकप्रकारो भेदस्तदायमदोषः । तथा हि । स्वरूपं वा प्रयुज्यते । स्वभावकारण
व्यापककार्यानुपलब्धिरिति । अथाप्रतिषेधस्य1716 बाधनरूपं वा । नास्त्यत्र शीतस्पर्शोग्ने
रिति (।) यथैवानुपलब्धिरभावसाधिका तथा साक्षात् परम्परया वा विरोधिन उपलब्धिरपि(।)
कस्माद् (।) विरोधस्य निवर्त्तकत्वात् । कथम्विरोधप्रसिद्धिः । एकस्याग्नेर्भावे ऽविकल
कारणस्य शीतादेरभावाद् विरोघगतिः । उपलम्भानुपलम्भलक्षणो हि विरोधः । ततो
विरोधिदर्शनादनुपलम्भ उपलब्धिलक्षणप्राप्तस्य साध्यते । तत्र दूरदेशवर्त्तिनो वह्ने रूपलब्धि
लक्षणप्राप्तानुपलब्धिरनुमानसिद्धा सा ऽभावं साधयतीति न विरोधोपलब्धिः स्वभावा
नुपलब्धेरन्या स एव चोष्णस्पर्शः शीतस्प (र्श) भावः तद्विविक्तत्वादनुष्णाशीतस्पर्शश्च ।
ततः त योपलब्धेः1717 एव तदन्यानुपलब्धिः1718 । एवं विरुद्धकार्योपलब्धिरपि कार्यहेत्वनुमान
सिद्धस्वभावानुपलब्धिः । पूर्व्वत्र विरुद्धोपलब्धौ एकसामग्र्‌यधीनतयानुमानं ।

640
अन्योन्यभेदसिद्धेर्व्वा ध्रुवभावविनाशवत् ।

परस्परपरिहारस्थितिलक्षणतया विरोधः । शाश्वतेतरवत् । तादात्म्यप्रतिषेधो हि
परस्परपरिहारस्थितिलक्षणविरोधतः साध्यते । तद्यथा न सघटोयं प्रदेशः तत्परिहारेणो
पलब्धेः । सर्व्वत्र साक्षादभावसाधनी विपर्ययोपलब्धिरेव ।

प्रमाणान्तरबाधाद्वा सापेक्षध्रुवभाववत् ।। २७९ ।।

यथा परस्परबाधने विरोधः तथा प्रमाणबाधनेपि सापेक्षध्रुवभावयोरिव । तथा हि ।
सापेक्षमनपेक्षमिति परस्परविरोधः । ध्रुवभावित्वमितरदिति च सापेक्षध्रुव(भावित्व)योस्तु
परस्परपरिहाराभोवोपि प्रमाणबाधनलक्षणो विरोध इति विरोधान्तरमेतत् तथा हि ।

सापेक्षाद् विरुद्धो1719 भावः स ध्रुवाध्रुवयोरपि । अन्योन्यपरिहारेण विरोधः परमार्थतः ।। ५८५ ।।

यद्येवं प्रमाणं विरोधिनं साधयति न तु प्रमाणविरोधो नामापरः ।

सत्त्यमेतत् । तथापि विरोधिव्याप्तेन रूपेणार्थतो विरोधात् उक्तमेतत् । अस्यापि
किं प्रयोजनं (।) विरोधिव्याप्तोपलब्धिरपि प्रतिषेधस्य साधिका यथा स्यादिति दर्शनार्थं ।
तथा हि । न ध्रुवभावी भुतस्यापि भावस्य विनाशो हेत्वन्तरापेक्षणादिति दृश्यते प्रयोगः ।

अपरः पुनराह ।

विरुद्धकार्यव्याप्यस्य योपलब्धिः प्रयुज्यते । तत्र कार्यस्वभावस्य हेतोरन्तर्गमादपि ।। ५८६ ।।
सर्व्वएकतया हेतुर्न्न भिन्नोऽनुपलब्धितः । त्रिविधोपि ततो हेतुस्तस्या एव प्रभेदनम् ।। ५८७ ।।

अनुपलब्धिरेवैको हेतुः कार्यस्वभावयोः (।)

तत्प्रभेदत्वात् । न खलु तत्प्रभेदस्ततो भिद्यते । नहि शावलेयादिकस्य गोत्वाद् भेदः ।
तत्र कार्यहेतुर्व्विरुद्धकार्योपलब्धिः (।) स्वभावहेतुरपि विरुद्धव्याप्तोपलब्धिः । अनग्निनित्य
त्वाभाव1720 साधनात् ।

तदेतदसत् ।

प्रतिबन्धानुरूप्येण यदि हेतुः प्रकल्प्यते । तादात्म्येन तदुत्पत्त्या स्वभावः कार्यमेव च ।। ५८८ ।।

अनित्यत्वेन सह वह्निना च प्रतिबन्धे व्यापकविरुद्धेन विरुध्यते हेतुरिति तदनुपलब्धि
भावकल्पनं । तत्र च साक्षाद्धेतुकल्पनं परित्यज्य पारंपर्याश्रयणमसम्भवि । कार्येण वह्निगतौ
तद्विरु(द्ध)शीतनिवृत्तिर्न्न तु शीतनिवृत्तावेव साक्षाद् व्यापारो धूमस्य । ततः पारम्पर्येण
हेतुताकल्पनमनुमितानुमानं । न च द्वयोरेकेन शब्देन प्रतिपादने त्रयाणां वा नान्य एवासौ हेतुः ।

नहि शब्दवशादर्थः सम्भवत्यन्यथा क्वचित् ।

भेदः प्रयोगमात्रस्य कल्पितः स्यात् तथा सति ।। ५८९ ।।

नास्त्यत्र शीतस्पर्शो धूमादिति । धूमादग्न्यनुमानं कार्यहेतुः । अग्निना शीतस्पर्शा
भावसाधनं विरुद्धोपलब्धिः । शीतानुपलब्ध्या शीताभावव्यवहारसाधनं स्वभावानपलब्धि
रिति पारम्पर्यहेतूनामतोऽनुमितानुमानमपरमेवानुमानं । न च त्रयाणामेकशब्दप्रतिपादने

641

भवत्येकत्वं हेत्वन्तरत्वञ्च । प्रयोगसमास एषः न रूपसमास इति न्यायः । तस्मात्
सर्व्वत्र एव हेतुरनुपलब्धिरित्ययुक्तं ।

अथ व्यवच्छेदसाधने सर्व्वानुपलब्धिः । न । विषयभेदादेव हेतुभेदात् । तथाचोक्तं ।

अनङ्गीकृत वस्त्वंशो निषेधः साध्यतेनया ।

वस्तुन्यपि तु पूर्व्वाभ्यां पर्युदासो विधानत ।। ५९० ।। इति

  1. १ B व्याप्तादीना

  2. २ B अर्थस्याप्रतिषेधस्य

  3. ३ B ॰व्धिः

  4. ४ B तदनुपलब्धिः

  5. १ B ॰पेक्षादध्रुवो

  6. २ B ॰नित्याभाव