८. भावस्वभावचिन्ता

अथ परमार्थतो व्यवच्छेदसाधनादनुपलब्धिरेवेति मतं । तथा सति प्रत्यक्षमेव
स्वसम्वेदमिति किन्नोक्तं ।

तस्मादसदेतत् । ततः प्रयोगभेदादेव भेदो विरुद्धव्याप्तोपलब्धेः । सापेक्षत्वाद्
विनाशस्य न ध्रुवभावः । यतः ।

हेत्वन्तरसमुत्थस्य सन्निधौ नियमः कुतः ।

तस्यापि हेत्वन्तरस्य स्वहेतुसापेक्षत्वादनियमः । पुनरपरस्यापीति न फलभा
(ि)वनियमः ।

अथ भावस्य यो हेतुः कुलालादिः स एव तद्विनाशस्यापीति नियमः । अत्रोच्यते ।

भावहेतुभवत्वे किं पारम्पर्यपरिश्रमैः ।। २८० ।।

तथा हि ।

नाशनं जनयित्वान्यं स हेतुस्तस्य नाशनः ।
तमेव नश्वरं भावं जनयेद् यदि किम्भवेत् ।। २८१ ।।

यदि विनाशं जनयित्वा स(स्व) हेतुरेव तस्य नाशनः । नश्वरमेव जनयतु किमनेन
पारम्पर्येण अत्र वस्तुस्वभावैरुत्तरं वाच्यमिति चेत् । अन्यथा वस्तुस्वभावत्वान्नैतदिति । तथा हि ।

आत्मोपकारकः कः स्यात् तस्य सिद्धात्मनः सतः ।
नात्मोपकारकः कः स्यात् तेन यः समपेक्ष्यते ।। २८२ ।।

यद्यात्मोपकारको विनाशहेतुर्न्न सम्भवति सिद्धस्वभावस्य स(त) इति सिद्धेतरस्वभावेन
(तेन) भाव्यं1721तस्वभावेन तेन भाव्यं(।) तथा च न स तस्य विनाशहेतुः ।

अथ सिद्धस्यापि विशेषस्य कर्त्ता । तथा सति स विशेषः सिद्धस्तदन्यो वा भवेत् ।
यदि स सिद्धः पूर्ववत् प्रसङ्गः । अथ सिद्धे तस्मिंस्तदात्मा न शक्यः कर्त्तुमिति तदात्मव्यतिरेकी
विधेस्तथा सति तस्य नोपकारक एवासाविति कस्तस्यासौ भवेत् (।) न कश्चिदित्यर्थः ।
स्या द्वा द भङ्गस्तु विहित एव न स विधेयः पुनः ।

अपि च स पदार्थः स्वकारणात् कालान्तरव्यापी तदन्यथा वा (।) यदि पूर्व्वपक्षस्तदा(।)

सर्वकालकलाव्यापी सर्वकार्यस्य साधकः । प्रतिपन्नो यदि तदा नाशकः किङ् करिष्यति ।। ५९१ ।।
642

गतोदके कः खलु सेतुबन्धः पयोनिरोधाय हि सेतुबन्धः ।

पयोऽविरोधी नहि सेतुबन्धः प्रयासमात्रं हि स सेतुबन्धः ।। ५९२ ।।

अथ न तथास्य सम्प्रतिपत्तिस्तथा सत्यनिरूपितस्वविषयः कथम्विनाशहेतुः प्रवर्त्तेत ।
निरूप्य भाविनं भावम्प्रवर्त्तत इति चेत् । न । नरूपिते सिद्धिस्वभावे क इव विनाशहेतो
रुपयोगः । विरोधिस्वभावे कपाले उपयोग इति चेत् । नन्वसावपि विरोधी निवर्त्तक एव ।
तत्रापि स एव पूर्व्वकः प्रसङ्गः । परस्परपरिहारमात्रेण तु निवर्त्तक एव न स्यात् ।

अथ सिद्धस्य कालान्तरस्थायितयाऽभावं करोति शून्यतालक्षणम्विनाशहेतुः । काला
न्तरस्थायिनः शून्यता क्रियमाणा तदविरोधिनी न तस्य निवर्त्तिका जलमिवाधारस्य । जल
मप्यासक्तकुम्भस्तस्य निवर्त्तकमेवेति चेत् । न । तत्र कालान्तरस्थानस्याप्रसिद्धत्वात् ।

नन्वनुमानेन कालान्तरसिद्धमेव निवर्त्यते । तदसत् ।

अनुमानाप्रसिद्धस्य न तस्यैव निवर्त्तनं । अन्यस्याभाव एवेति न तस्यापि निवर्त्तनं ।। ५९३ ।।

प्रत्यक्षवदनुमानमपि प्रमाणमेव तत्सिद्धमपि सत्त्यमेव कथमभावः (।) तस्याभावे हि
तस्य तत्प्रतीतिरसत्त्या भवेदिति न प्रत्यक्षानुमाने स्तः । तदभावान्न भावसिद्धिरिति कस्य
विभागः । संभाव्यमानस्य विभाग इति चेत् । अन्वयादभ्यास एवैष न च वस्तुनो निर्ण्णय
इति यत्किञ्चिदेतत् ।

अथ तस्यैवान्यथात्वङ् करोति कपालादिलक्षणम्विनाशहेतुः (।) अत्राप्युच्यते ।

घटादावन्यथात्वङ्किङ्किम्वा मृद्‌द्रव्य इष्यते । घटादावन्यथात्वस्य सिद्धेर्भावः कथन्न सः ।। ५९४ ।।

यदि घटरूपे सोन्यथाभावः (।) स एवाधारोन्यथात्वस्य ततो घटः स्वेन रूपेण दृष्टः
कथमन्यथा । अथ न दृश्यते घटः कस्यासावन्यथाभावः । घटपूर्वकोन्यथाभावस्तस्येति
व्यपदेश्यः ।

ननु विनाशे सति तत्पूर्वकः सोपि विनाशोन्यथाभावेत्यनवस्था अथ मृद्‌द्रव्यस्यान्यथा
भावस्तदप्यविनष्टमेव कथन्तस्यान्यथाभावलक्षणो विनाशः । तत्रापि पूर्वस्य मृद्‌द्रव्यस्य न
विनाशस्तदाऽभावान्नोत्तरस्य भावादिति । ननु भवत्पक्षेप्ययमेव दोषः । कार्यकाले हि न
कारण्ङ्कथन्तस्य तत्कार्यं । नैतदस्ति यतः ।

कारणम्पूर्व्वभाव्येव समकालन्न कारणं । विनाशः समकालस्तु भावेनेत्यसदुत्तरम् ।। ५९५ ।।

न ह्यन्यदा भावोन्यदा विनाश इति उपपत्तिमदेतत् । यदैव भावस्तदैव विनाशे
विनष्ट इति युक्तं । न त्वभावेऽभावो युक्तो मृतस्य मरणाभावात् । कार्यन्ते मृतेपि युक्तमेव
तस्य भावान्तरत्वात् । अभावस्तु तस्यैव शून्यता । नास्ति तदिति सामानाधिकरण्येन
प्रतीतेः । असामानाधिकरण्यन्तु पदार्थस्य विनाश इति व्यपदेशिवद्भावाच्छिलापुत्रकस्य
शरीरमिति यद्वत् । न त्वेवमग्निर्धूम इति सामानाधिकरण्यं ।

नन्वत्रापि न सामानाधिकरण्यम्परमार्थतः । स्मर्यमाणं हि पूर्वकं रूपम्विनष्टमिति
प्रतीयते (।) तदुत्तरकालभाविना विनाशेन न च तथा सामानाधिकरण्यं ।

तदप्यसत् (।) एवं हि सति महान्विरोधः । तथा हि ।

643
स्मर्यमाणस्य रूपस्य न विनाशोस्ति तत्त्वतः । तदा दृश्यस्य रूपस्य विनाश इति साहसं ।। ५९६ ।।

विनाश इति हि नास्तित्वमुच्यते । न च विद्यमानावस्थाया नास्तिता । अविद्य
मानावस्थायान्तु स एव नास्तीति कथन्नास्तिता । तस्मान्नास्तीति व्यतिरिक्ताभाववादिनः
सामानाधिकरण्याभावः । तस्मान्नान्योऽभावो भावात् । ततः सामानाधिकरण्यं । उत्तरकाल
भाविनो हि स एवाभावो यस्तद्व्यावृत्तिमतः पूर्व्वस्य भावः । तस्य चोपलब्धिरूप(ा)न्तर
स्यानुपलब्धिः (।) सा च वर्त्तमानरूपग्राह्यग्राहिप्रत्यक्षस्वभावोत्तरेण सह संघटितस्य ग्रहणे
कारणावधिग्रहणप्रसङ्ग इति प्रतिपादितम् (।) अतः परासंघटितस्यैव प्रतीतिरुदयमात्रादेवेति
परानपेक्षो विनाशः ।

ननु (।) स्वभावो हि स तस्येत्थं येनापेक्ष्य विनश्यति । तत्कथमनपेक्ष्यः । अत्रोच्यते ।

व्यापी यदि भवेद् भावः कस्मै परमपेक्ष्यते । अथाव्यापी स्वयम्भावस्तदपेक्षा वृथा भवेद् ।। ५९७ ।।

इत्युक्तम् । अत एवाह ।

अनपेक्षश्च किम्भावोऽतथाभूतः कदाचन ।
यथा न क्षेपभागिष्टः स एवोद्भूतनाशनः ।। २८३ ।।

प्रथमतरमेव प्रत्यक्षदृष्टस्त्रुट्यत्तया कथमतथाभूतः कदाचित् । यथा स एव नित्त्य
वादिनो नश्यदवस्थायां ।

क्षणमप्यनपेक्षत्वे भावो भावस्य नेति चेत् ।

यद्यनपेक्षो भावो विनाशे क्षणमप्येकेन्नापेक्षत इति न भावो भावस्य भवेत् क्षणमपि ।
तथा हि (।)

नित्त्यं सत्त्वमसत्त्वम्वाऽहेतोरन्यानपेक्षणाद् (।)

इत्युक्तं । तथा भावक्षणानन्तरम्भवन्विनाशः कथन्तदात्मा भवेत् ।

अतदात्मतायाञ्च न सामानाधिकरण्यं । तदेतदपि काशकुशावलम्बनं ।

भावो हि स तथाभूतोऽभावे भावस्तथा कथं ।। २८४ ।।

भाव एवोत्तरभावासंघटितो विनाशः स कथं भावाभावे भवेत् । न हि तदात्मा च
स्यात् तदभावे च भवति चेति युक्तं । एवन्तर्हि विनाशोस्तीति कथम्विनाशभावे विनष्टः ।
व्यतिरिक्तविनाशभावेपि स्वरूपस्याप्रच्युतेः कथम्विनाशः । सैव व्यतिरिक्तविनाशभावेपि
स्वरूपस्याप्रच्युतेः कथम्विनाशः । सैव व्यतिरिक्तविनाशासिका प्रच्युतिरिति चेत् । भवतु
तथाप्यसौ व्यतिरिक्ततयैव प्रत्ययविषय इति भावस्तदवस्थ उपलभ्यतां । एतदेव व्यतिरि
क्तस्य व्यतिरिक्तत्वं यत्पररूपाविहन्तृत्वं नाम । विरोधाद् विघातः प्रत्युक्त एव । विनाश
मन्तरेण विरोधाप्रसिद्धेः । तस्मात् ।

येऽपरापेक्ष्य तद्भावास्तद्भावनियता हि ते ।
असम्भवाद् विबंधे च सामग्री कार्यकर्म्मणि ।। २८५ ।।

तद्यथान्त्या कारणसामग्री विबन्धसम्भावनावहिता स्वप्रसवजनने न किञ्चिदपेक्षत
इति तन्नियता । तथा विनाशेपि भाव इत्यनपेक्षत्वाद् विनाशे क्षणिको भाव इति सापेक्षताया-

644

न्नावश्यम्भावविभावि नाशस्य । उत्पत्तिमत्त्वाद् विनाशितैवेति चेत् । न । प्रतिबन्धा
भावात । नहि प्रतिबन्धमन्तरेण हेतुः साध्यस्य साधकः ।

अहेतुत्वेपि नाशस्य तादात्म्ये साध्यसाधनं ।

कारणत्वन्तु साध्यस्य पश्चाद्भावान्न युक्तिमत् ।। ५९८ ।।

नहि पश्चाद्भाविना विनाशेन कारणेन भवितुं युक्तं प्राग्भाविन उत्पत्तिमत्वस्य । कार्यन्तु
नावश्यम्भावि कारणाद् (।) अतस्तत्कारणत्वेन न हेतुः ।

ननु तादात्म्यमहेतुकत्वे भवतीति कुत एतत् । कथं वा हेतुकत्वन्नाशस्य मुद्गरादन्वय
व्यतिरेकानुविधानात् । स एव हि कार्यधर्म्मः । अत्रोच्यते ।

भावाभावो विनाशश्चेदुत्तराघटनात्मकः । स पूर्वमपि दृष्टत्वात् कथन्नाशकहेतुकः ।। ५९९ ।।

यो हि यमन्तरेणापि दृश्यते स कथन्तद्धेतुकः । नान्वयमात्रेण हेतुरिति प्रतिपादितमेतत् ।
यथा च विनाशकसन्निधौ कपालादिभावे परासंघटितस्य घटस्य प्रतीतिस्तथोदयानन्तरमपि ।
नहि पूर्वमपि पररूपसंघटना प्रतीयते मरणावधिप्रतीतिप्रसङ्गादिति प्रतिपादनात् । परासंघ
टनमेव च यदत्रापि विनाशः । विनाशेनैवासंघटना क्रियत इति चेत् । तदसद् यतः ।

असामर्थ्यादपार्थत्वान्नाशेनैव न तत्क्रिया । न ह्यसंघटिते नाशः समर्थो घटितेपि हि ।। ६०० ।।

यद्यसौ हेतोः संघटित एवोत्पन्न इति तथैव प्रत्यक्षगृहीत इति कस्तत्र नाशस्योपयो
गो ऽसामर्थ्ये हि तदा तस्य भवेत् । अथासंघटित एवासौ स्वहेतुतः (।) तथा सति व्यर्थको
नाशः । कृतस्य करणाभावात् । तस्मात् क्षणिक एव स्वभावतः प्रत्यक्षतोवगतोन्यथा प्रति
पत्तेरसभवात् । यश्चान्यथा प्रतिपत्तुमशक्यः स नोन्यथा भवति प्रत्यक्षतोन्यथात्वस्य बाधा
(? ध) नात् । तस्मादनपेक्ष एव तन्नियतो नापरः । यथान्त्या कारणमामग्री ।

ननु सापेक्ष्योप्यादित्यस्यास्तमय उदयश्चावश्यम्भावी निरपेक्षतायामुदयास्तमयानन्तरमेव
भवेदस्तमयोदयं । सामाग्री चाभेदेन नियताऽपि तु पदार्थान्तरेंकुरादिके (।) ततस्तद्दृष्टान्ततो
विपर्यय एव भवेत् न तु प्रकृतसाध्यसिद्धिः । अत्रोच्यते ।

नोदयास्तमयव्याप्तिरादित्यास्तमयोदये । कदाचिदन्यथापि स्यात् प्रमा नास्ति विपर्यये ।। ६०१ ।।

यदि नाम भूयो दर्शनन्तथापि प्रमाणाभावन्न व्याप्तिरुदयास्तमयाभ्यामस्तमयोदयभावयोः ।
तथा हि पतिव्रतोपाख्यानं श्रूयते ।

सम्भवश्चास्ति हेमन्ते चिरादुदयभावतः । झटित्यस्तङ्गतेर्भावात् तद्वदत्यन्तसंभवः ।। ६०२ ।।

न चास्तमयादित्यस्यापि शैलादिनान्तरितत्वं । तच्चान्तरितत्वमस्मदाद्यपेक्षया परे
तु योगिनः पश्यन्त्येव । अपि च । सापेक्षाणान्ताव(दव)श्यम्भावितेति (।) यदि नाम
केषाञ्चिदवश्यम्भावो परेषान्तु न तथेति संशयः ।

यदप्युक्तं (।) व्यतिरिक्तभावनियतान्त्या सामग्री । विनाशस्तु न व्यतिरिक्तः ।
तदप्यसद् यतः ।

योन्यस्वभावे नियतः स्वहेतोस्सुतरामसौ । स्वस्वभावात्मके नाशे किमेवन्न प्रकल्प्यते ।। ६०३ ।।

नहि विनाशो नामावस्तुस्वभावोन्य एव वस्तुन एव तु तत्त्वमपरासंघटितं प्रतीयमानं

645

शिलापुत्रकस्य शरीरमिति न्यायेन (।) तथा प्रतिपादनविषयो भावस्य विनाश इति
यथान्त्या कारणसामग्री तदंकुरोत्पादनस्वभावनियता तथा भावोपि तदुत्तरस्वभावासंघटित
व्यवहारनियत इति किन्नामानिष्टं । अपि चानपेक्ष्यतया तन्नियतत्वं सामान्येन साध्यते (।)
वस्त्ववस्थाभेदकल्पनन्तु जात्युत्तरमेव घटशब्दमूर्त्तामूर्त्तविकल्पनावत । तस्मादनुपलब्धि
प्रभेद एव विरुद्धव्याप्तोपलब्धिः (।) सा च स्वभावहेतावेव हेतुर्भवती-भूद्भावे च विपर्ययौ ।
तेन यः सन्सजातीये द्वेधा च स हेतुः । विपर्यये विरुद्धः । तदन्यस्त्वनिश्चितः पञ्चप्रकारः ।
तत्र भेद1722 सामान्ययोर्गमकत्वविवादः प्रतिक्षिप्तः । शेषस्त्रिप्रकारो व्यावृत्तिद्वारेण गमकत्व
प्रतिपादनार्थः । तथा हि ।

नान्वयद्वारको हेतुर्गमकत्त्वव्यवस्थितः । भावमात्रसमाधिक्ये त्रिधाप्यगमकत्वतः ।। ६०४ ।।

यद्यन्वयो गमकत्वे प्रयोजको ऽनित्यत्वादप्रयत्नानन्तरीयक इत्यपि गमकः स्यात् ।
अस्त्यभा(वा)न्वयः । अथानभावमात्रेण गमकत्वमन्वयस्य व्यतिरेकसाहित्यापेक्षया
गमकत्वात् । अयन्तर्हि गमको स्पर्शत्वान्नित्य इति । अयमपि न गमकः समत्वादन्वयस्य
अयन्तर्हि स्यादनित्यत्वात् प्रयत्नानन्तरीयक इति । अत्र हि बलवानन्वयो दुर्बलो
व्यतिरेकः । तथाहि ।

न प्रधानन्तदन्यस्य विशेषं समपेक्षते । प्रयोजकपरापेक्षन्न दृष्टं भोजनादिषु ।। ६०५ ।।

यदि प्रयोजकत्वमन्वयस्य गमकत्वे स्यान्न व्यतिरेकस्य सपूर्ण्णतामपेक्षेत तमनादृत्यैव
गमकत्वं प्रयोजयेद् भोजनप्रयोजकवत् (।) व्यतिरेकस्तु प्रयोजकः सद्भावमात्रमेवान्वयस्यापेक्षते
न समत्वादिकं । यथा प्रयत्नानन्तरीयकत्वादनित्य इति । यः प्रयत्नानन्तरीयकः सो नित्य
एव नित्यताव्यवच्छेदकत्वेन गमकः । एवमन्योपि हेतुः । तथा हि ।

नित्याद् व्यावर्त्तते येन तदभावं स साधयेत् । अनित्ये वर्त्तमानन्न तदभावस्य साधकं ।। ६०६ ।।

अनित्ये यदि नाम दृष्टन्तथापि न नित्याभावं साधयति (।) नित्यताऽभावे तु दृष्टन्तद
भावसाधने नियमेन राश्यन्तरसंक्रान्तिः । दृष्टन्तु न नियमेन1723 अन्यत्र न भवति तदन्यत्र1724 ।
यदि च दर्शनद्वारेण गमकस्तदा दृष्टमेवाग्निं गमयेत् सकलन्न तदपरव्यक्तिगतिः । ततस्तदन्य
व्यक्तिप्राप्तावप्रमाणता भवेत् । अथ सोपि क्रोडीकृत एव । न । दृष्टानुसारेण क्रोडी
करणासंभवात् ।

ननु व्यावृत्तिरपि तदन्वयद्वारेणैव निश्चिता तत्कथन्नान्वयप्राधान्यं । न । दर्शनस्य
व्यावृत्तिनिश्चये नधिकारात् । दर्शनं हि दृश्यमानतामेव निश्चाययति न तदपरं । नान्यदर्शन
मन्यनिश्चयहेतुः । संस्कारादन्यत्रापि निश्चय इति चेत् । तदसत् ।

संस्काराः खलु यद्वस्तुरुपप्रख्याप्रभाविताः । व्यवस्थाहेतवस्तत्र ततोन्यत्र न निश्चयः ।। ६०७ ।।

यदा तु स एव प्रतिबन्धो व्यतिरेकप्रधानतया गृह्यते तदा तद्‌द्वारेण हेतुरन्यापोहस्य
गमकः ।

646

ननु दर्शनद्वारेण प्रतिबन्धगतौ कथम्व्यतिरेकेण प्रतिबन्धगतिः । नैतदपि समुचितम्वचः ।

अन्वयेनापि सम्बन्धो व्यतिरेकप्रधानतः । अतिक्रम्य न साम्भाव्य इति प्रागेव वर्ण्णितं ।। ६०८ ।।

अन्वयेन हि सम्बन्धग्रहणे तद्व्यक्त्यैव भवेन्नान्यथोक्त्या । तथा हि नान्यस्योक्तेस्तदा
न्वयगतिः । अथ तयापि पश्चात् तथा सति व्यभिचारादसम्बन्ध एव प्राक्तन्या न स्यात् ।
व्यभिचारतः । व्यक्तिसामान्ये सम्बन्ध इति चेत् । किमिदं व्यक्तिसामान्यन्नाम । न
खल्वविभावितस्वरूपं सम्बन्धितयान्यथा वा प्रत्येतुं शक्यं । व्यक्तिषु समानप्रतिपत्तिनिबन्ध
नमिति चेत् । अस्ति समान इति प्रतिपत्तिर्न तु तस्यानिबन्धनमिदमिति शक्यन्निदर्शयितुं ।
यदि नाम प्रत्यक्षतो न प्रतीतिं कार्यदर्शनादनुमानात् प्रतीयतां । प्रतीयतां कारणसामान्यन्न
तु तत्सामान्यन्तस्येदंतया निरूपणात् । एककार्यकारित्वम्वा निबन्धनङ् किमपरेण । तथा हि ।

नास्माकमस्मिन् कर्त्तव्ये भेदः कश्चन विद्यते ।

इति लोकः समस्तोयमेकवाक्यतया स्थितः ।। ६०९ ।।

तस्मादयं धूम एषाम्पावकभेदानामेकेन केनचिद विना न भवतीत्येतदभावाद् व्यावृत्तो
धूम इत्यन्यापोहसम्बन्धेनैव सम्बन्धग्रहणन्नान्येनेति व्यावृत्तिरेव साध्यते हेतुना शब्देन वा ।
ततो व्यावृत्तिरेव प्राधान्येन गम्यते । सामर्थ्यात्तु व्यक्तिसत्तानान्तरीयकतया प्रतीयते ।
अनग्नेरभावे नियतं काचिदग्निव्यक्तिराक्षिप्यते । अन्यथा नग्निव्यावृत्तिरेव न स्यात् ।

नन्वन्यस्त्वनिश्चित इति पञ्चप्रकारो ऽनैकान्तिक उक्तः । न चेदं युक्तं तोषवतो
विरुद्धाव्यभिचारिणश्चापरस्याप्यनेकान्तिकत्वात् । नाभिप्रायपरिज्ञानात् । न ह्ययमर्थः ।
अन्यः पञ्चप्रकारो निश्चितः । अपि तु तत्र यः सत्सजातीये द्वेधा चासँस्तदत्यये निश्चितः स
हेतुः । विपरीततया निश्चितः स विरुद्धः । स च सर्व्वस्तादात्म्यतदुत्पत्तिभ्याम्प्रतिबद्ध एव ।
अन्यस्तु न निश्चित एव । स एव स प्रतिबद्धो ऽनैकान्तिक इति वाक्यार्थः । शेषवद्विरुद्धा
व्यभिचारिणोरपीदमेव लक्षणमिति तयोरप्यनैकान्तिकत्वं न निवार्यं । तस्मात् सकलमनवद्यं ।
तथा हि (।) विरुद्धाव्यभिचारिणोन्येनापहृतविषयस्य साध्याप्रतिबद्धविषयत्वं । कथन्तर्ह्य
व्यभिचारी । अप्रतिबद्धोऽव्यभिचारी चेति व्याहतं । एवन्तर्ह्यव्यभिचारी संशयहेतुरित्यपि
व्याहतमेव । अस्मत्पक्षे त्वप्रतिबन्धादेव संशयहेतुः । अव्यभिचारित्वङ् कथमिति चेत् ।
अभ्युपग (म) द्वारेणेति न दोषः । तथा चाह (।) यदा तर्हि शब्दत्वं नित्यमभ्युपैति तदायं
हेतुरेव स्यात् । यतः ।

न क्वचिच्छ्रावणत्वस्य नाशित्वे दृष्टिसम्भवः ।

नित्य एव हि दृष्टत्वाद् गमकत्वस्य सम्भवः ।। ६१० ।।

गमकत्वलक्षणाभ्युपगमाद् गमकः । दर्शनादर्शनमात्रेण च वैशेषिकस्य गमकहेतुता ।
सा चात्रास्तीति गमक एव प्राप्तः । आचार्यः प्राह । स्याद् गमको यद्यत्र कृतकत्वमपि
कश्चिदनित्यत्वे हेतुन्न ब्रूयात् । उभयन्तु गमकमुपलभमानस्य स्वाभ्युपगमादेव संशयः ।
तस्माद् वैशेषिकस्यैवमभ्युपगच्छतोतिसङ्कटप्रवेशः । तथा हि ।

शब्दस्यानित्यतेष्टा चेद् योज्या शब्दत्वनित्यता । तद्‌द्वारेण हि नित्यत्वे परोपि गमको भवेत् ।। ६११ ।।

न खलु समानन्याययोगी न तथा भवति । न्याय एवासौ तथा न स्यात् । तथा च

647

सकलव्यवहारोच्छेद एव । समानश्च कृतकत्वेन हेतुत्वन्यायः श्रावणत्वस्यापीत्यसावपि कृत1725कत्वसाध्यविपर्ययाव्यभिचारी न गमकः कथं तस्मात् पराभ्युपगमेन विरुद्धाव्यभिचारी नान्यथे
त्याचार्यस्याभिप्रायोऽवगन्तव्यः ।

यदा तर्हि शब्दत्वं नित्यमभ्युपैतीति वचनात् । तस्मादप्रतिबद्ध एव संशयहेतुरिति
व्याप्तिहेत्वादिलक्षणं । तत्र पक्षधर्मो हेतुरिति (।) सामर्थ्यादपक्षधर्मो न हेतुः । विपरीतः
पक्षधर्माविरुद्ध इत्यपक्षधर्मो न विरुद्धः ।

अन्यस्त्वनैकान्तिकाः पक्षधर्म इत्यपक्षधर्मो नानैकान्तिकः (।) ततः स्वनाम्नैव व्यप
देष्टव्यः । सिद्धमिति1726 । धर्म्यसिद्धावप्यसिद्ध एव । अन्यतराद्यसिद्धावपि । तथा चाचार्यः ।

द्वयोः सिद्धेन धर्मेण व्यवहाराद् विपर्यये । द्वयोरेकस्य चासिद्धौ धर्म्म्यसिद्धौ च नेष्यते
 ।। ६१२ ।।

यदि तर्हि पक्षधर्मो हेतुः । कथमनित्यः शब्दः नित्यस्याकृतकत्वात् । अनित्यस्य
कृतकत्वादिति । तथा ।

(अ)सदकरणादुपादानग्रहणात् सर्व्वसम्भवाभावात् ।

शक्यस्य शक्यकरणात् कारणभावाच्च सत्कार्यमिति1727 ।। ६१३ ।।

अत्रोच्यते ।

हेतोः साध्यान्वयो यत्राभावे ऽभावश्च कथ्यते । पञ्चम्यां तत्र दृष्टान्तो हेतुस्तूपनयान्मतः ।। ६१४ ।।

तद्यथा नित्यः शब्दः अनित्यस्य कृतकत्वात् । तथा च कृतकः शब्द इति । तथा ऽ
नित्यः शब्दः नित्यस्याकृतकत्वात् । तथा च कृतकः शब्द इति पञ्चम्यन्तेन1728 ।

ननु दृष्टान्तः साधर्म्यवैधर्म्याभ्यामित्यर्थसतत्वं । तथाऽसदकरणादिकमपि द्रष्टव्यं ।
एते च यथा न हेतवः तथा प्रतिपादितं । अपि च ।

असिद्धप्रतिबन्धस्य न हेतोः साध्यसाधने । सामर्थ्यमत्र नास्त्येतदत एव न हेतवः ।। ६१५ ।।

असदकरणादिति कथमयं हेतुः । असतः शशविषाणादेर्न करणं दृष्टमिति । न
चैतावता व्यतिरेकेण विपर्ययसाधनं (।) यदि कस्यचिदसतः क्रिया नोपलभ्यते (।) सर्व्वस्य
तथा नेति कुत इयं व्याप्तिः । नहि विपर्यये प्रतिबन्धमन्तरेण व्यतिरेकव्याप्तिप्रसिद्धिः ।

धूमाभावेऽग्न्यभावस्य कथं व्याप्तिः प्रसिध्यति ।

पावकेन यदि व्याप्तो धूमः सिध्यति मानतः ।। ६१६ ।।

न खलु सकलं जगद् बंभ्रम्यमाणेनापि तत्रान्यत्रात्र च नास्तीति व्यापी व्यतिरेकः
प्रत्येतुं शक्यः । कालदेशव्याप्तिकस्य भ्रमणस्यैवासम्भवात् ।

अन्वयेन तु प्रतिबन्धग्रहणे तत्सामर्थ्यादेव व्यापिव्यतिरेकप्रसिद्धिः । एतच्च प्रागेव
प्रतिपादितं ।

तस्मादेते न हेतवः । पक्षधर्म एव हेतुर्व्विरुद्धोनैकान्तिकश्च ।

अनेन च परार्थानुमानमेव सदसत्त्वप्रख्यापनप्रक्रमेण प्रकटितं (।) शेषः प्रपञ्चः प्रमाण
समुच्चय
एवावगन्तव्यः । परिशिष्ट1729 रूपनिरूपणायेति व्युदासितं मनोस्य वार्तिककृतः ।


648

हे वादिनो न खलु संततपक्षपातद्वेषं मनः स्वपरपक्षकृतान्धकारं ।

तत्त्वप्रबोधन1730 विधायि मनस्विवृत्तं मध्यस्थभाव इति तत्र मतिर्व्विधेया ।। ६१७ ।।

तीर्थ्याः श्रीधर्मकीर्त्तेर्म्मतमिदममलं तादृशामेव गम्यं ।

मादृग् व्याख्यातुमीशः कथमिति सुचिरं चिन्त्यतामत्र हेतुः ।। ६१८ ।।

अस्मिंस्त्वभ्यासमात्राद् यदि भवति परः तत्र तत्वार्थसिद्ध्यै ।

युक्तोस्मिन् पक्षपातः स्वपरमतिरियं युक्त्ययुक्त्योः कृतार्था ।। ६१९ ।।
संक्षेपतः कृतमिदं परबोधसिद्ध्यै वक्तुं पुनः सुबहु साधु च शक्यमत्र ।। ६२० ।।
रत्नाकरादधिगतस्य हि रत्नराशेः प्रौढः प्रतिग्रहकृतस्ति न तेन भाष्यम् ।। ६२१ ।।

शरीरशोमां रागाय ग्राम्या वाञ्छंत्यलंकृतिम् ।

वार्त्तिकस्याप्यलङ्कारो मयाकारि न गर्व्वतः ।। ६२२ ।।

इत्यु(न्)मुक्तपरार्थसाधनधियामेवं मतिः श्रेयसे ।

तत्ताथागतधर्मनीतिनिपुणं चेतो विधेयं सदा ।। ६२३ ।।

क्षीरोदादपरोपि किं जलनिधिर्दृष्टो विधाता क्वचित् ।

लक्ष्मीचन्द्रमसोः समस्तजगतामानन्ददात्रो1731 र्जनैः ।। ६२४ ।।

इत्यनिन्द्यमिदमारचय्य यत् प्राप्तमर्थकुशलम्मयामलं1732 ।

तेन सर्व्वजगदर्थसाधनी सिद्धरस्तु जगतोस्य सर्व्वदा1733 ।। ६२५ ।।

इति वार्त्तिकालङ्कारप्रमाणमहाभाष्ये तृतीयः परिच्छेदः ।

समाप्तश्चायं प्रमाणमहाभाष्यवार्त्तिकालंकारः ।

कृतिरियं1734 कुतीर्थ्यतमस्तोमविघनपटोराचार्यप्रज्ञाकरगुप्तसहस्राङ्शुमालिनः ।। ॰ ।।1735

प्रमाणवार्तिकलंकार तालपत्र (७०० पे॰)


  1. १ A. ग्रंथः खंडितोऽत्र

  2. १ तत्रैव—केवल व्यतिरेकी केवलान्वयी ।

  3. २ तत्रैव—अनित्यत्वं ।

  4. ३ तत्रैव—नित्यत्वे भवतीति न ।

  5. १ B. कृत्वकत्व

  6. २ B असिद्ध इति

  7. ३ B सांख्यकारिका

  8. ४ B. पञ्चभ्यन्तेनात्र दृष्टान्तः

  9. ५ B. ॰रूपत्रैरूप्य॰त्युदासित॰

  10. १ B. प्रकाशन॰ ।

  11. २ B. यित्रो॰ ।

  12. ३ B. मयोज्ज्वल॰

  13. ४ B. इति प्रमाणवार्त्तिकालङ्कारे भाष्ये परार्थानुमान परिच्छेदश्चतुथः । समाप्तञ्चेदं
    प्रमाणवार्त्तिकाल ङ्कारभाष्यमिति ।

  14. ५ T. प्रमाणमहाभाष्यं वार्त्तिकालंकारः महापंडितप्रज्ञाकरगुप्तपादेन कृतः । षष्ठ्यधिक
    माह्निकं (बम्-पो) । (१) कम्मीरपंडितभाव्यराजेन लोकचक्षुषा धीमत्‌प्रज्ञेन
    (ब्लो-ल्दन्-शेस्-रब्) भाषान्तरीकृतः (२) पुनरव कश्मीरपंडित (म्‌खन्-पो)
    कुमारश्रिया शु-छेन् (वास्तव्येन) लोकचक्षुषा मिक्षुणाऽऽर्यप्रज्ञेन (ऽफग्‌स्-पऽि/?/शेस्-रब्)
    निर्णीतः (भाषान्तरपाठः) ।

  15. ६ A. लिखिता भूतिचन्द्रेण भिक्षुणा ज्ञानकांक्षिणा । यदस्पष्टमशुद्धम्वा तज्जनाः क्षन्तु
    मर्हथ (।) लिखिता लंकृतिरुत्तरस्याम्(।)