469

अत्रोच्यते ।

प्रत्यक्षमनुमानञ्च वचनञ्च विना न किं । व्यवहारोस्ति लोकस्य किन्तस्यास्ति प्रमाणता ।। ११ ।।

परिदृष्टपूर्व्वमर्थ स्मृत्वापि प्रत्यक्षादिकमन्तरेण किन्न प्रवर्तते । किमिदानीं स्मरणमपि
प्रमाणं । अथ तदप्रमाणमेव । वचनमपि तथार्थं न प्रमाणमिति समानं । यत्र तु प्रमाण
न्तत्रानुमानकारणत्वेनैव नान्यथा । एतावन्मात्रमत्र विवक्षितं न तु सर्व्व वचनं सर्व्वानुमान
कारणं वचनस्यानुमानत्वमेव न स्वातन्त्र्येण प्रमाणत्वं । सर्व्वानुमानत्वप्रदिपादनन्तु नोप
योगि । तस्मात् त्रिरूपलिङ्गाख्यानमेव वचनं ।

वेदवचनस्य तर्हि कथं प्रमाणता । तत्रापि प्रत्यक्षानुमानार्थकथनादेव प्रमाणता ।
द्वादश मासा इत्यादौ । अन्यत्राप्रमाणतैव यथा पुरुषवचसि । अपौरुषेयत्वादेव प्रमाणतेति
चेत् । न(।) अप्रत्ययत्वात् । न हि वचनमात्रात्कस्यचित् संप्रत्ययः । यदि प्रत्यक्षवद्वेदः
किं न सर्व्वः प्रत्येति । क्षणिकत्वाद्यनुमानादपि न सर्व्वः प्रत्येति । भ्रान्त्या चेत् । अत्रापि
भ्रान्तिः । तज्जातीयानुमानेन सप्रत्ययस्थानेन निवर्त्त्यतेऽनुमाने । वेदे तु न तज्जातीयवचन
त्वेनेत्यसमानमेतत्

अन्वयप्रतिबद्धत्वेऽनुमानस्य प्रमाणता । वेदे तु नान्वयो दृष्ट इति पूर्व्वं विचारितं ।। १२ ।।

अथवा । अयमर्थः । वचनं त्रिरूपलिङ्गाख्यानरूपमेव परार्थानुमानं । न वेदवचनं ।
तस्य त्रैरूप्याभावात् । तस्य हि सत्त्यत्वान्वयो न दृष्टो न पक्षधर्मत्वं । तथा हि ।
अपौरुषेयत्वेनासत्त्यत्वाद् व्याख्या (?) तं1116 सत्तयन्वेन तु नास्त्यन्वयः । अथ द्वादश मासा इत्य
न्वयः । अत्रोच्यते ।

अग्निहोत्रादिवाक्यस्य न वेदत्वं विनिश्चितं । पौरुषेयत्वमप्यस्य सम्भवेत्केनचित् कृतेः ।। १३ ।।

कदाचिदपौरुषेयमध्ये केनचिदेतत् पातितं भवेत् । श्रूयते च क्वचिच्छाखान्तरे
कृतत्वं । स्मरणे सति तथा व्यवहार इति चेत् । न(।) अप्रत्ययत्वात् । अन्यत्रापि
प्रसङ्गात् । एतच्च सकलं प्रतिपादितमेव प्रागिति न प्रपञ्चितमिहेत्यास्तां ।

यदि त्रिरूपं लिङ्गमेव स्वदृष्टशब्देनोच्यते । त्रिरूपलिङ्गाख्यानं परार्थमनुमानमिति
वक्तव्यं । किं स्वदृष्टार्थग्रहणेन । नान्यार्थत्वात् । तथा हि ।

परस्य प्रतिपाद्यत्वाददृष्टोपि स्वयं परैः ।
दृष्टः साधनमित्येके तत् क्षेपायात्मदृग्वचः ।। १ ।।

नहि परार्थानुमाने स्वप्रतिपत्यधिकारः (।) परस्यैव प्रतिपाद्यत्वात् । परस्य चेत्तत्प्रसिद्धं
लिङ्गं परः प्रतिपद्यत एव । वादिप्रतिपत्त्या विना कथं परः प्रतिपत्तिमानिति न वाच्यं ।

न वादिप्रतिपत्तावप्यपरः प्रतिपद्यते । स्वप्रतीतिम्विना सा चेत् सैवास्त्वत्रपरेण किं ।। १४ ।।

न तावदसौ वादिनोऽत्र प्रतिपत्तिरिति संप्रत्येति । अपि तु मया एवमेव प्रतिपन्नमिति
स्वप्रत्ययात् । अनेन तु ज्ञात्वा प्रकाशितमन्यथा वेति किमनेन विचारेणातिरिच्यमानप्रपञ्चेन ।
अतोभिप्रायात् स्वयमप्रतीतमपि परैः प्रतीतमिष्यते लिङगम् । तस्याभिप्रायस्य प्रतिक्षेपार्थ

  1. १ B. व्यावृत्तं