411 त्रैरूप्येणानुमानेन
च विरुद्धमग्निहोत्रस्नानादेः पापशमनं वदत् । 2118 न हि
रागादिप्रभवो धर्मस्तदपनयनमन्तरेण स्नानादेर्निवृत्तिमर्हति । एवम्विधविस
म्वादभाजमर्थं वदत् शास्त्रं विरोधं 2119 प्रामाणिकमसमाधाय अपरिह्यत्य प्रवृत्ति
कामोचितं शास्त्रार्थमनु2120गुणोपायं पुरुषार्थलक्षणञ्चाप्रदर्श्य स जर न्मी मां स क
एकदेशसम्वाददर्शनात् सत्यार्थं प्रतिजानानो धा
र्ष्ट्येन बन्धकीं
साक्षाद्दृष्टव्यलीकां
स्वपतिं स्वशीलप्रामाण्योद्भावनेन भ्रान्तमावेदयन्तीं जयेत् । (३३२-३३४)

किञ्च (।)

सिध्येत् प्रमाणं यद्येवमप्रमाणमथेह किम् ।
न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि ॥ ३३५ ॥

यद्येवं2121 दृष्टैकदेशसम्वादस्यावयवत्वादन्यदपि प्रमाणं सिध्येत् । अथेह न्याये
किमप्रमाणं शास्त्रं भविष्यति । न हि बहुभाषिणि पुरुषे सत्यार्थमेकं वचे नास्ति किन्त्वस्त्येव । तेनैव दृष्टान्तेन तद्वचनं प्रमाणं स्यात् । (३३५)

नायं स्वभावः कार्यं वा वस्तूनां वक्तरि ध्वनिः ।
न च तद्व्यतिरिक्तस्य विद्यतेव्यभिचारिता ॥ ३३६ ॥

नायं ध्वनिर्व्वस्तूनां स्वभावः । कार्यम्वा
2122
यस्माद् वक्तरि ध्वनिर्भवति । न हि
वस्तुनः स्वभावोन्यत्र धर्मिणि वर्त्तते । कार्यम्वाऽन्यतो भवितुमर्हति । न च तद्व्यति
रिक्तस्य
कार्यस्वभावाभ्यामपरस्याव्यभिचारिता विद्यत इति निवेदितं । (३३६)

स्यादेतद् (।)

प्रवृत्तिर्वाचकानाञ्च वाच्यदृष्टिकृतेति चेत् ।
परस्परविरुद्धार्था कथमेकत्र सा भवेत् ॥ ३३७ ॥

वाचकानां शब्दानां प्रवृत्तिर्व्वाच्यदृष्टिकृता अभिधेयदर्शनागता ततः परंपरया2123

  1. आगमाश्रयानुमानबाधितमेतदित्याह ।

  2. शक्यविचारे वस्तुनि ।

  3. पुरुषप्रवृत्तिनिमित्तं ।

  4. सर्व्वः पुरुषः सर्व्वत्रार्थे प्रमाणं स्यादित्याह ।

  5. विना वाच्यं न शब्दवृत्तिश्चेत् ।

  6. पदानां सङ्गतिः सम्बन्धः । शक्यसाधन उपायोनुगुणः । अभ्युदयादिः पुरुषार्थ इति शास्त्रधर्मा प्रदर्श्य विरोधमसमाधाय चात्यन्तप्रसिद्धसत्यार्थतामात्रेण प्रज्ञाप्रकर्षेणापि दुरवगाहेपि सत्यार्थतां साधयन् दुश्चारिणीं जयेत् । सा स्वामिना परेण सङ्गता त्वमित्युपालब्धाऽह । पश्यत पुंसो वैपरीत्यं धर्मपत्न्या प्रत्ययमकृत्वा स्वनेत्रबुद्बुदयोः प्रत्येति । जरत्काणग्राम्यकाष्टहारेण प्रार्थिताऽसङ्गता । रूपगुणानुरागेण किल मन्त्रिमुख्यदारकं कामयेहमिति तुल्यं दृष्टविरोधस्यातिपरोक्षेऽविसम्वादानुमानेन (स्ववृत्तौ) ।