तस्मान्न तन्निवृत्त्यापि भावाभावः प्रसिध्यति ।
तेनासन्निश्चयफलाऽनुपलब्धिर्न सिध्यति ॥ ३३९ ॥

यस्मात् प्रवर्त्तमानादागमान्नास्त्यर्थसिद्धिस्त्स्मात् तस्यागमस्य निवृत्त्यापि
भावस्याभावो न सिध्यति । तेन
प्रमा
णत्रयनिवृत्तिलक्षणाप्यनुपलब्धिरर्थाना
मसन्निश्चयफला न सिध्यति । ततो युक्तमुक्तं सदसन्निश्चय2127फला नेति स्याद् वा
ऽप्रमाणतेति
 । सद्व्यवहारसाधने चाधिकृते व्यवस्थितेत्यवस्थितं ॥ (३३९)

  1. सर्व्वविषयत्वादागमस्य सति वस्तुन्यविसम्वादेनावृत्तेस्तन्निवृत्तिलक्षणानुपलब्धिरभावसाधनमित्ययुक्तमेव परस्य । विनापि वस्त्वागमप्रवृत्तेः सर्व्वविषयत्वञ्च निरस्तमप्रस्तुतावचनात् ।