५---पक्षदोषाः

(१) हेतुनिरपेक्षः पक्षदोषः

तथाऽपरेपि पक्षाभासाः सन्ति ते कस्मान्नोच्यन्ते । तथा ह्यप्रसिद्धविशेष्यः
कश्चित् पक्षो यथा2296 विभुरात्मा । 2297 आत्मन एव बौद्ध स्यासिद्धत्वात् । कश्चिद्
464 -प्रसिद्धविशेषणः । यथा विनाशी शब्दः ॥ सां ख्यं प्रमाणं2298 प्रति तस्य विनाशासिद्धेः ।
कश्चिदप्रसिद्धोभयः (।) यथा समवायिकारणमात्मा । बौद्धस्योभयासिद्धेरिति
 ॥

नन्वसिद्धोप्यात्मा पक्षी भविष्यति तल्लक्षणयोगात् (।) नह्यसिद्धस्य पक्षता
निरस्ता । आश्रयासिद्धत्वाद्धेतोर्न पक्ष इति चेत् । न ।2299

साधनदोषोयं न पक्षदोषः । तथा शब्देऽनित्यत्वं विषेशणमसिद्धमिति गुण
एवायं न पक्षदोषः । असिद्धस्यैव साध्यत्वात् । अथ विपर्ययसिद्ध्याऽसिद्धमुच्यते ।
तथापि मूढस्य विपर्ययसिद्धावपि नायं पक्षदोषः । विरोधो नाम हेतुदोष ए-

वायं । प्रमाणेन च विपर्ययसिद्धौ प्रमाणबाधितत्वमेव पक्षदोषोस्तु । अलमप्रसिद्ध
विशेषणत्वाभिधानेन । अप्रसिद्धोभयस्य तूभयदोषाच्च सर्व्वेऽमी हेतुदोषा एवेति
किं पक्षदोषा वक्तव्याः । अथ (।)

सर्वसाधनदोषेण पक्ष एवोपरुध्यते ।
तथापि पक्षदोषत्वं प्रतिज्ञामात्रभाविनः ॥ १४९ ॥

सर्व्वेण साधनस्य दोषेणासिद्धत्वादिना पक्ष एवोपरुध्यते तेन पक्षदोषा
असिद्धविशेष्यादयोऽभिधीयन्ते । यद्यपि पक्षोपरोधफलाः सर्व्वे दोषास्तथापि
प्र
तिज्ञामा
त्रेण 2300 भवनशीलस्य दोषस्य पक्षवोषत्वमुक्तमिष्टं । (१४९)

  1. वैशेषिकस्य ।

  2. सिद्धान्ती सति धर्मिणि धर्माश्चिन्त्यन्ते ।

  3. बौद्धस्य ।

  4. अत्राह सिद्धान्ती ।

  5. नोत्तरत्वेत्यादिदोषेण ।