८. भावस्वभावचिन्ता

(१) हेत्वन्तरसापेक्षो न ध्रुवभावः

हेत्वन्तरसमुत्थस्य सन्निधौ नियतः कुतः ।

उत्पादकाद्धेतोर्हेत्वन्तर
समुत्थस्य
धर्मस्य सन्निधौ सन्निधाने नियतः कुतः । यथा कारणान्तरसापेक्षस्य वाससि नावश्यंभावनियमो रागस्य ।

(२) न भावनश्वरस्वभावनियतो भावः

स्यादेतत् । भावहेतुरेवानित्यत्वाख्यं धर्मं भावनाशकं जनयति तेन नश्वर- स्वभावनियतो भाव इत्याह ।

भावहेतुभवत्वे किं पारम्पर्यपरिश्रमैः ॥ २८० ॥

भावहेतुभवत्वेऽनित्यत्वाख्यस्य धर्मस्य भावनाशकस्येष्यमाणे पारम्पर्ये परिश्रमैरेभिः स्वीकृतैः किं प्रयोजनं । (२८०)