512

(३) अनपेक्ष्य एव भावो नश्वरत्वे

अथ नाशहेत्वयोगात् । अनपेक्ष्य एव भावो नश्वरतायां, तदा (।)

अनपेक्षश्च किम्भावोऽतथाभूतः कदाचन ।
यथा न क्षेपभागिष्टः स एवोद्भूतनाशकः ॥ २८३ ॥

105b अनपेक्षश्च नाशे भावः किं कस्मात् कदाचनातथाभूतो
अनश्वरस्वभावः । सर्वदैव नश्वरस्वभावताऽस्य युक्ता । यथा त्वन्मते स एव कृतको भाव उद्भूत- नाशक उन्मुखनाशकानित्यत्वस्वभावो नाशकालेऽक्षेपभागचिरविनाशी इष्टः । तथोत्पादानन्तरं नश्वरस्वभावतया विनश्येदिति । (२८३)

क्षणमप्यनपेक्षत्वे भावो भावस्य नेति चेत् ।
भावो हि स तथा भूतोऽभावे भावस्तथा कथम् ॥ २८४ ॥

क्षणक्षयिस्वभावा भावाः स्वहेतोरेव जायन्ते । विनाशं प्रत्यनपेक्षत्वे भावस्य यथा द्वितीये क्षणे भावो नास्ति तथा प्रथमे
पि क्षणे न स्यादिति । क्षणमपि भावस्य भावो न स्यादिति चेत् । अयुक्तमेतत् हि यस्मात् स भावस्तथा नश्वरस्वभाव इष्यते । यदा तु भाव एव नास्ति तदाऽभावे भावस्य भावस्तथा नश्वरः कथमुच्यते (।) ततो लब्धजन्मतो भावस्य क्षणान्तरा- ननुवृत्तेर्नश्वरता ॥ (२८३) ।

तस्मात् ।

येऽपरापेक्षतद्भावास्तद्भावनियता हि ते ।
असम्भवद्विबन्धा च सामग्री कार्यकर्मणि ॥ २८५ ॥

ये भावा अनपेक्षतद्भावाः परापेक्षां विना सम्भवद्धर्मविशेषसंभवाः । ते तस्य भावे धर्मस्य नियताः
 । कारणसामग्रीव असम्भवद्विबन्धा विबन्धकारण
रहिता2410 कार्यस्य कर्मणि क्रियायां नियता2411 । परनिरपेक्षाश्च भावाः स्वनाश इति । क्षणिकाः सर्व्वसंस्कारा इत्यकम्प्यः सौ ग तः सिंहनादः ॥

न यदिह तन्न न्याय्यं तेनोदितेन च किं फलं । यदिं बहुशस्तस्या वृत्तौ गुणः कथं कस्य कः ।

  1. अन्त्या सामग्री

  2. दृष्टान्तः