बोधार्थत्वाद् गमेः;

अपुनरावृ
त्त्या च स्थिरं निःशेषं विशेषज्ञानं त्रिगुणं सुगतत्वं बोधार्थत्वाद् गमेर्गतशब्दः प्रकृतिः । न हि सम्वादिनोऽसाक्षात्कृतस्यार्थस्य उपदेशः शक्यक्रियः (।)
न चानुमानेन ज्ञातस्योपदेश इति युक्तमुक्तं । क्षणिकत्वनैरात्म्यादिविषयस्यानु
मानस्य भगवदुपदेशमन्तरेणोत्पत्तिबीजाभावात् अगृहीतोपदेशानामभावात् ।
न च नित्यपरोक्षस्यार्थस्य स्थैर्यादिविपर्ययाध्यवसायिनः कश्चिन्निश्चयोऽस्ति ।
107 तस्मात्प्रमाणसम्वादि
नः परोक्षार्थस्योपदेशस्तत्साक्षात्कारपूर्व्वक एवेति युक्तं
तायित्वात् सुगतत्वानुमानं भगवतः । स च भगवान् तायः सुगतत्वात् त्रिगुणात्
गुणानुक्रमेण ।

बाह्यशैक्षाशैक्षाधिकस्ततः ॥

बाह्यशैक्षाशैक्षेभ्योऽधिकः ये लौकिकभावनामार्गेण वीतरागा बाह्या अतत्व
दर्शिनस्तेभ्यः तत्त्वदर्शित्वादधिकः । ये शैक्षा अबाह्याः परिहाणिधर्माणस्तेभ्यो
ऽपुनरावृत्त्या । ये चाशैक्षाः श्रावका अप्रहीणक्लेशवासना असाक्षात्कृतसर्व्वाकार
वस्तवस्तेभ्यो निःशेषप्र
तीत्या । तस्मात् सुगतत्वात् शासनं शास्तृत्वमनुमीयते ।

कि पुनः शासनमित्याह (।)

परार्थज्ञानघटनं तस्मात् तच्छासनं ततः ॥ २८३ ॥
दयापरार्थतंत्रत्वं ;

तच्छासनं कारणे कार्योपचारात् परार्थं यज्ज्ञानं सुगतत्वं तदर्थं घटनं व्यायामः ।
बुद्धत्वसाधनमार्गाभ्यास इत्यर्थः । न ह्युपायमन्तरेणोपेयसम्भवः । ततः शासनाद्
(२८३) दयापरार्थतन्त्रत्वं परार्थप्रधानत्वं जगद्धितैषित्वमनुमीयते इत्यर्थः ।

ननु नावश्यं कारुणिकस्य मोक्षमार्गाभ्यासः । स्वार्थबुद्ध्यापि बाह्यानामिव सम्भवात् तत्कथमुपायाभ्यासाद्दयानुमानमित्याह (।)

सिद्धार्थस्याऽविरामतः ॥

सिद्धार्थस्य निष्पन्नमोक्षलक्षणात्मसम्वादस्यापि सुगतस्य खड्गादिवत् परा
र्थक्रियातोऽविरामतोऽनिवृत्तेः फलावस्थायान्दयासद्भावाद्धेत्ववस्थायामपि तस्या
स्तित्वमनुमानञ्च ।

जगद्धितैषित्वस्य सुगतत्वशास्तृत्वतायित्वसहितस्य प्रामाण्यसाधनत्वमाह (।)

दयया श्रेय आचष्टे;

यतो दयया जगद्धितैषित्वेन श्रेय आचष्टे । निर्दयस्तु विसम्वादनाभिप्रायोपि
ब्रूयात् ।

सदयोप्यभूतमज्ञो वक्तीत्याह (।)

ज्ञानात् सत्यं ससाधनम् ॥ २८४ ॥

ज्ञानात् सुगतत्वात् भूतमाचष्टे । तच्च ज्ञानं ससाधनं विद्यमानोपायाभ्यासं विद्य
मानशास्तृत्वमित्यर्थः । (२८४)