यत्किञ्चिदुदयात्मकं (२८६) तत्सर्वं निरोधधर्मकमित्यादावागमवाक्येऽनेकधा स्वभावादिलिङ्गजमनेकप्रकारमनुमानं दुश्यते ।
b. कथं पुनरनेनानुमानमुक्तमित्याह (।)
अनुमानस्याश्रयः कारणं लिङ्गम्वक्तव्यम
नुमाननिर्देशार्थमन्यथाऽशक्यत्वात् ।
किं लक्षणमित्याह (।) अविनाभावः साध्याव्यभिचारित्वं तल्लक्षणं यस्य
तत्तथा । (२८७) स चाविनाभावो लिङ्गं लक्षणं हेतोरुदयधर्मकत्वस्य साध्येन निरोधधर्मकत्वेन व्याप्तेः प्रदर्शनात्
यत्किञ्चिदुदयधर्मकं तत्सर्व्वं निरोधधर्म- कमि
537त्यादिना स्फुटः प्रव्यक्तो दर्शित (:।)
इत्यनुमानप्रामाण्यनिर्देशोपि भगवदुपज्ञमेव (।) तदेवं भगवानेव प्रमाणभूत
स्तायी मुमुक्षुभिरुपास्यो नेतर इति
दर्शनार्थमा चा र्ये ण तस्य स्तुतिरुक्तेति युक्तं ॥